________________
विधिशेषप्रकरणे कारकप्रकरणम् ।
१२७
तृतीया स्यात् । तथाहि, करणसंज्ञाया अवकाशः - 'देवना अक्षाः । करणे ल्युट् । कर्मसंज्ञाया अवकाशः - दीव्यन्ते अक्षाः । " भावकर्मणोः" (अष्टा०सु०१-२-१३ ) इति यगात्मनेपदे | 'अक्षान्' इत्यत्र तूभयसंज्ञाप्रयुक्तकार्यप्रसङ्गे परत्वान्तृतीयैव प्राप्नोति । अत्राहुः, कार्यकालपक्षे "कर्मणि द्वितीया" (अष्टा०सु०२ - ३ - २) इत्यत्र पदस्योपस्थानं तस्यानवकाशत्वात् द्वितीयेति । ननु ' दीव्यन्ते अक्षाः' इत्यत्र कर्मण्यभिहितेऽपि करणत्वस्यानभिधानात्तृतीया स्यात् । तथा 'देवना अक्षा:' इति ल्युटा करणस्याभिधानेऽपि कर्मणोऽनभिधानात् द्वितीया स्यात् । मैवम्, एकैव ह्यत्र शक्तिः संज्ञ । द्वययोगिनी । तथाचोभयत्राप्यभिधानमेव न स्वनभिहितत्वम् ।
परिक्रयणे सम्प्रदानमन्यतरस्याम् (अष्टा०सृ०१-४-४४) । नियतकालं वेतनादिना स्वीकरणं परिक्रयणं तस्मिन् साधकतमं कारकं सः म्प्रदानसंज्ञं वा स्यात् । शताय शतेन वा परिक्रीतः । परिशब्दः सामीप्यं द्योतयति । क्रयो नामात्यन्तिकं स्वीकरणम् । नियतकालन्तु तस्य स मीपमिति भावः ।
I
आधारोऽधिकरणम् (अष्टा०सु०१-४-४५) । आध्रियन्तेऽस्मिन् क्रिया इत्याधारः । “अध्यायन्यायोद्याव' (अष्टा०सू०३-३-१२२) इत्यादिना करणे घञ् । क्रियाश्रययोः कर्तृकर्मणोर्धारणात् परम्परया क्रियां प्रति आधारः तत्कारकमधिकरणं स्यात् । कटे आस्ते, स्थाल्यां पचति । स्यादेतत् । साक्षात्क्रियाधारयोः कर्तृकर्मणोरेव कुतो नेयं संज्ञेति चेत् ? न, पराभ्यां कर्तृकर्मसंज्ञाभ्यां बाधितत्वात् । अत एवाहु:कर्तृकर्मव्यवहितमसाक्षाद्धारयत्क्रियाम् ।
उपकुर्वत्क्रियासिद्धो शास्त्रेऽधिकरणं विदुः ॥ इति ॥
अत एव 'भूतले घटः' इत्यादौ अस्तीत्यस्याध्याहारो नियतः । यथा 'पुष्पेभ्यः' इत्यत्र स्पृहयतेः । अत एव च नञा सह कारकान्वयं वदन्तः परास्ताः । त्रिविधं चैतदधिकरणमिति "संहितायाम्" (अष्टा० सु०६-१-७२ ) इति सूत्रे भाष्यम् - औपश्लेषिकं वैषयिकमभिव्यापकञ्चेति । कटे आस्ते, गुरौ वसति, तिलेषु तैलमिति ।
अधिशीस्थासां कर्म (अष्टा०सु०१-४-४६) । अधिपूर्वाणामेषां आधारः कर्म स्यात् । अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः । अभिनिविशश्च (अष्टा०सू०१ - ४-४७ ) । एतत्पूर्वस्य विशतेराधारः कर्म स्यात् । ग्राममभिनिविशते । अभिनिवेश आग्रहः, तद्वान् भवतीत्यर्थः । अकर्मकोऽयं, तत्राधिकरणस्य कर्मसंज्ञा विधीयते । प्रवेशनार्थे