________________
१२८
शब्दकौस्तुभप्रथमाध्यायच तुर्थपादे तृतीयान्हिके
तु सिद्धैव । “परिक्रयणे सम्प्रदानम्" (अष्टा०सू०१-४-४४) इति सूत्रा दिहान्यतरस्यां ग्रहणमनुवर्त्तते मण्डूकप्लुतिन्यायेन । व्यवस्थितविभाषा चेयम् । " एष्वर्थेष्वभिनिविष्टानाम्” इति समर्थ सूत्रस्थभाष्यप्र योगश्चेह मानम् । तेन पापेऽभिनिवेशः' इत्यादि सिद्धम् । इह सूत्रे नेरल्पाच्तरस्य परनिपाताकरणमीदृशानुपूर्वीकसमुदायविवक्षार्थम् । तेनेह न 'निविशते यदि शूकशिखापदे' इति । कर्मत्वविवक्षायान्तु तत्रापि भवितव्यमेव द्वितीयया ।
उपान्वध्याङ्ग्वसः (अष्टा०सू०१-४-४८) । एतत्पूर्वकस्य वसतेराधारः कर्म स्यात् । उपवसति अनुवसति अधिवसत्यावसति वा ग्रामं सेना | वसेरभ्यर्थस्य प्रतिषेधो वक्तव्यः ॥ अर्थशब्दो निवृत्तिवचनः । व्यधिकरणे षष्ठ्ट्यौ । वाच्यवाचकभावः षष्ठयर्थः । भोजननिवृत्तेर्वाचको यो वसिस्तस्य नेत्यर्थः । श्रामे उपवसति । कथम 'उपोष्य रजनीमे काम्' इति ? “कालाध्वनोः " (अष्टा०सु०२ - ३ - ५ ) इति द्वितीया भवि. ष्यति । कथम् 'एकादश्यां न भुञ्जीत' इति ? उपपदविभक्तेः कारकविभक्तिर्भविष्यति ।
कर्तुरीप्सिततमं कर्म (अप्रा०सू०१-४-४९)। कर्त्रा यदाप्तुमिष्यतेतमां तत्कर्मसंज्ञं स्यात् । यद्यापाराश्रयत्वादसौ कर्ता तेनैव व्यापारेणाप्तुमिष्टमिति सन्निधानाल्लभ्यते । तेन क्रियाफलशालित्वं पर्यवस्यति । क्रिया हि फलेच्छा पूर्व केच्छा विषयः फलमेव त्विष्टतमम् । तच्च धातुनोपात्तमिति तद्विशिष्टत्वे नेच्छाविषयोऽत्र संज्ञी । स च त्रिविधः ।
उक्तश्च
तथा
निर्वर्त्यश्च विकार्यञ्च प्राप्यञ्चेति त्रिधा मतम् । तत्रेप्सिततमं कर्म चतुर्घाऽन्यत्तु कल्पितम् ॥ औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम् ॥
यदसज्जायते सद्वा जन्मना यत्प्रकाशते । तन्निर्वर्त्य विकार्यन्तु कर्म द्वेधा व्यवस्थितम् ॥ प्रकृत्युच्छेदसंभूतं किञ्चित्काष्ठादिभस्मवत् । किञ्चिद् गुणान्तरोत्पत्या सुवर्णादिविकारवत् ॥ क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते । दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥
'तत्र निर्वत्यै यथा- 'घटं करोति' इति । घटा ह्यसन्नेव जायते वैशे