________________
१२६
शब्द कौस्तुभ प्रथमाध्यायचतुर्थपादे तृतीयान्हिके -
जातेः कारकं पूर्वस्य कर्तृभूतं सम्प्रदानं स्यात् । अनुप्रतिभ्यां गृणाः अनुप्रतिगृणाः तस्येति विग्रहः । अनुप्रतिपूर्वश्च गृणातिः शंसितुः प्रोत्साहने वर्त्तते । तत्र पूर्वो व्यापारः शंसनम् । होत्रे अनुगृणाति प्रति गृणाति वा होता प्रथमं शंसति तमध्वर्युः 'ओथामोदेव' इत्यादिभिः शब्दैः प्रोत्साहयतीत्यर्थः ।
,
साधकतमं करणम् (अप्रा०सृ०१-४-४२) | क्रियायां प्रकृष्टोपका रकं करणसंज्ञं स्यात् । यद्यापारानन्तरं क्रियानिष्पत्तिः तत्प्रकृष्टम् । उक्तश्च
क्रियायाः परिनिष्पत्तिर्यद्वयापारादनन्तरम् ।
विवक्ष्यते यदा तत्र करणं तत्तदा स्मृतम् ॥ इति । काष्ठैः पचति । विवक्ष्यते इत्यनेन स्थाल्यादीनामपि वैवक्षिकं करणत्वमस्तीत्युक्तम् | आह च
वस्तुतस्तदनिर्देश्यं न हि वस्तुव्यवस्थितम् । स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः
ननु कारकाधिकारादेव सिद्धे साधकत्वे पुनः श्रुतिः प्रकर्षार्थाऽस्तु किं तमपा ? सत्यम, अस्मिन्प्रकरणे सामर्थ्यगम्यप्रकर्षो नाश्रीयते इति ज्ञापयितुं तमप् । तेन 'गङ्गायां घोषः' इति सिद्धम् । यदा च तीरधर्म आधारत्वं प्रवाहे उपचर्यते तदेदं प्रयोजनम् यदा तु गङ्गाशब्द एव तीरे वर्त्तते तदा न प्रयोजनम् । तत्राद्ये विभक्तिर्लाक्षणिकी । "सु· विभक्तौ न लक्षण।" इति तु "येन विधिः" (अष्टा०सु०१-१-७२ ) इति सूत्र एव निराकृतम् । द्वितीये तु प्रकृतिर्लाक्षणिकी । ननु उभयं मुख्यमस्तु | परम्परासम्बन्धस्तु संसर्गः । मैवम्, कारकविभक्त्यर्थानां प्रकृत्यर्थे साक्षात्सम्बन्धेन विशेष्यताया व्युत्पन्नत्वात् । अपादानप्रकर णोक्तानि च बहून्युदाहरणानि तमग्रहणस्य प्रयोजनानीति बोध्यम् ।
दिवः कर्म च (अष्टा०सु०१-४-४३) । दिवः साधकतमं कर्मसंनं स्यात्, चकारात्करणसंज्ञम् । करणशब्दानुवृत्त्या वक्ष्यमाणस्यान्यतरस्यांग्रहणस्याकर्षणेन वा संज्ञयोः पर्याये लब्धे समावेशार्थश्चकारः । तेन 'मनसा दीव्यतीति मनसादेवः' इत्यत्र कर्मण्यण् करणे तृतीया चेत्युभयं सिध्यति । "मनसः संज्ञायाम्" (अष्टा०सु०६-३-४१) इत्यलुक् । किञ्च 'अक्षैर्देवयते यज्ञदत्तेन' इत्यत्र सकर्मकत्वादणि कर्तुण कर्मत्वं न, "अणावकर्मकात्" (अष्टा०सु०१-३-८८) इति परस्मैपदं च नेति दिक् ।
1
स्यादेतत्, यदि समावेशः, तर्हि 'अक्षान् दीव्यति' इत्यत्र परत्वा