________________
१३६ शब्द कौस्तुभप्रथमाध्यायचतुर्थपादे तृतीयान्हिके
भाष्यकारवचनान्तु गुणकर्मणि वैकल्पिकीति स्थितम् । नन्वकर्माणां प्राकृतकर्माभावात्कथं द्विकर्मकता ? तथाच ण्यर्थकर्मणि प्रत्ययोऽस्तु 'आस्यते माणवकः' इति । मासमिति तु प्रयोगोऽसङ्गतः । “ध्रुवचेष्टितयुक्तिषु वाप्यगुणः" इति लोके ध्रुवग्रहणञ्च व्यर्थमिति चेत् ? न, "कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणां, देशश्चाकर्मकाणाम्” इति भाष्याद्गन्तव्योऽध्वा अद्य गन्तव्यः । अस्मादेव निपातनाद् गन्तव्यशब्दस्य परनिपातः । गन्तव्यतया लोके प्रसिद्धस्य नियतपरिमाणस्य को. शयोजनादेरेव ग्रहणम् । तेन 'अध्वानं स्वपिति" इति न भवति । मा समास्ते । गोदोहमास्ते । यावता कालेन गौदुह्यते तावन्तं कालमास्ते इत्यर्थः । क्रोशमास्ते । कुरून् स्वपिति | जन्यमात्रं कालोपाधिरिति पक्षे गोदोहादेद्यपि कालत्वात्सिद्धं तथापि लोके मासादेरेव तथात्वेन प्रसिद्धत्वात्पृथग्भावग्रहणम । देशशब्देन च ग्रामसमुदायविशेषाः कु· रुपञ्चालादयो गृह्यन्ते इति कैयटः । तेन "अधिशीस्थासाम्” (अष्टा० सू०१-४-४६) इत्यादेर्वैय्यध्ये नेति ध्येयम् । " कालाध्वनोरत्यन्तसंयोगे" (अष्टा०सू०२-३-५) इति तु गुणद्रव्ययोरर्थे आरम्भणीयम् । कोशं कुटिला । मासगुडधानाः । सकर्मकार्थञ्च । मासं वेदमधीते । यद्वा, आस्यादयस्तत्पूर्वके व्यापने वर्त्तन्ते । तथाचेोत्सर्गेणैव सिद्धम्, मास. मासनेन व्याप्नोतीत्यर्थात् । तथाच द्वितीये भाष्यम् - "प्राकृतमेवेदं कर्म" इति । न चैवं सकर्मकेष्वप्यतिप्रसङ्गः, लक्ष्यानुरोधेनाकर्मकाणामेयोक्तप्रकाराभ्युपगमात् । आह च
कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः ।
सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते ॥ इति ।
1
हेलाराजस्त्वाह । सकर्मकेष्वपि मासमोदनं पचतीति भवत्येव । अत एवोकं सर्वैरिति । अकर्मकैरिति त्वविवक्षितमिति । कैयटोऽप्येवम् । अस्मिन्पक्षे 'मासमास्ते कटे' इति कटादेरपि द्वितीया प्राप्ता तथापि कालादेरेव व्यापनकर्मत्वं न तु कटादेरिति हेलाराजः । अनभि धानञ्चेह शरणम् । 'अधिशीङ्” (अष्टा०सू० १ - ४ - ४६ ) इत्यादिज्ञापकं वा बोध्यम् । इह च कर्मणि भावे च लकारे 'दवदेत्तेनास्यते मासौ मासे' वा' इति रूपद्वयमपीष्टम् ।
स्थादेतत्, भावेचाकर्मकेभ्य इति वचनान्मासादिकर्मकात्कथं भाव ल इति चेत् ? उच्यते, अकर्मकेभ्य इत्यनेनान्तरङ्गं द्रव्यकर्म व्युदस्यते न तु बहिरङ्गं कालादिकर्म । कर्मणीत्यत्र तु व्यक्तिपक्षाश्रयणादन्तरङ्गासन्निधौ बहिरङ्गे कालादिकर्मण्यपि प्रतिरविरुद्धा, जातिव्यक्ति पक्षयो