________________
विधिशेषप्रकरणे कारकप्रकरणम् ।
एव तत्र प्रहणात् । न चोपपदत्वादेव कृदुत्तरपदप्रकृतिस्वरोऽस्त्विति, वाच्यम्, "स्तम्बकर्णयोः " (अष्टा०सू०३-२-१३ ) इति निर्देशात्प्रातिप दिकयोस्तथात्वेऽपि सप्तमीविशिष्टयोरतथात्वात् । न हि सप्तमीविशिष्टं सप्तम्या निर्दिष्टम, येनोपपदसंज्ञां लभेतेति दिक् ।
अन्वर्था चेयं संज्ञा करोतीति कारकमिति । तेन क्रियानन्वयिनो न भवति । ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीति । इह हि ब्राह्मणः पुत्रवि . शेषणं न तु क्रियान्वयी । ननु पुत्रोऽपि कथं कारकम् ? प्रश्नो हि जि. ज्ञासा । तत्र प्रष्टुः कारकत्वेऽपि यं प्रति प्रश्नस्तस्य जनकत्वायोगादिति चेत् ? सत्यम्, मास्तु जनकता । क्रियान्वयमाश्रमिह विवक्षितम् । तच्चास्त्येव । एतेन सम्प्रदानस्य कारकत्वं व्याख्यातम् । यद्वा, सम्प्रदा नादेरपि प्रथमं बुद्ध्यारोहात्कारकता । एवं ज्ञायते करोतीत्यादौ कर्तृ· कर्मणोरपि बोध्यम् । कार्याव्यवहितपूर्वक्षणवृत्तीनां कथं कारणतेति चेत् ? यथा यागस्येत्यवेहि । तत्र व्यापारोऽस्तीति चेत् ? न ताव वाऽपि यागस्य पूर्ववर्तितानुपपादनात् । अव्यवहित पूर्ववर्तिस्वस्व व्यापारान्यतरकत्वं कारणत्वमिति चेत् ? न, व्यापारत्वस्य कारणत्वगर्भतया आत्माश्रयापत्तेः, स्वयापारस्येव स्वज्ञानस्यापि प्रवेशसम्भवाच्च । भ० त एव ज्ञायमानं लिङ्गं पदञ्चानुमितिशब्दज्ञानयोः कारणमिति जरनै यायिकाः । ज्ञायमानाः पदार्थाः कारणमिति च मीमांसकाः । अत एव चरथन्तरसामादेरैन्द्रवाय्वानत्वादौ निमित्ततेत्युद्घोषो मीमांसकानाम् । अथवा उपसर्जनसंज्ञा यथा राज्ञः कुमार्या राजकुमार्या इत्यादी यथासम्भवमन्वर्थाऽपि 'अर्धपिप्पली' इत्यादौ वचनाद्भवति, तथा कारकसंज्ञापि प्रतिसूत्रं विधीयमाना वचनात्सम्प्रदानादौ भवति । प्रदेशेषु तु संज्ञाप्रकारक एव बोधः । तत्तद्रूपप्रकारको वेत्यन्यदेतत् ।
११३
स्यादेतत् । 'वृक्षस्य पर्ण पतति' इत्यादौ पर्णविशेषणस्यापि वृक्षस्य कारकतापत्तिः, 'वृक्षात्पतति, इतिप्रयोगानुरोधात् । तर्हि अस्मदीयशब्दप्रयोग वैलक्षण्यमात्रेण एकस्यैव जनकत्वाजनकत्वे व्यवतिष्ठेते इति चेत् ? अत्रेदं सिद्धान्तरहस्यम् । कारकत्वं तयाप्यकर्तृत्वादिषट्कञ्च वस्तुविशेषेऽनवस्थितम् । विशेषणविशेष्यवत् तर्हि गौः सबै प्रति गौरव न तु कञ्चित्प्रत्यगौरितिवद्विशेषणं विशेषणमेवेति सुव चम् । तथाच किं कारकं कः कर्त्ता किं कर्मेत्यादिप्रश्रे सर्वमित्युत्तरम् । वक्ष्यमाण कर्तृत्व कर्मत्वादेरचेतनेषु अनादिषु च निर्बाधत्वात् कया पचिधातुव्यक्त्या उपस्थापितेऽर्थे किं कर्त्रादिकमिति प्रश्ने तु प्रकृतपचिव्यक्त्युपाक्त्तव्यापाराश्रयः कर्ता । व्यापारव्यधिकरणफलाश्रयः कर्म ।
शब्द. द्वितीय. 8.