SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ११४ शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे तृतीयान्हिके यद्यापारोत्तरभावित्वं क्रियाया विवक्ष्यते तत्करणम् । कर्तृकर्मणोरा. श्रयोऽधिकरणमित्यादि क्रमेणोत्तरम् । विक्लित्यनुकूलव्यापारी हि प. व्यर्थः । व्यापारश्चानेकधा । तत्र पचेरधिश्रयणतण्डुलावपनधोपक र्षणापकर्षणफूत्कारादितात्पर्यकत्वे तदाश्रयो देवदत्तः कर्ता। ज्वलन तात्पर्यकत्वे त्वेधाः कर्तारः । तण्डुलधारणादिपरत्वे स्थाली की। अवयवविभागादिपरत्वे तण्डुलाः कतारः । अत एव कर्मका करण. कर्तेत्यादिव्यवहारः । एवं 'स्थाल्या पचति' इत्यत्र तृतीयोपात्तव्यापारा. श्रयोऽपि स्थाली करणमेव, न तु तदा की; देवदत्तादिव्यापारस्यैव तत्र धातूपात्तत्वात् । तथा आदिखादिभ्यामुपात्तेर्थे बटुः कर्ता । तस्मि. नेवार्थे भक्षयतिनोपात्ते बटुः कर्म । अधिपूर्वैः शीङ्स्थाप्रभृतिभिरुपा. तेऽर्थ आधारः कर्म । तत्रैव केवलैरुपात्तेऽधिकरणमित्यादि । नन्वव. मननुगम इति चेत् ? सत्यम् , कस्य कः पिता को म्रात इत्यत्रेवाननु. गतस्यैव लक्ष्यत्वात् । अत एव प्रयोगाणां साध्वसाधुता व्यवतिष्ठते । अन्यथा कचित्कर्तुः सर्वत्र कर्तृतापची सकलप्रयोगाः सङ्कीर्येरन् । उक्तं च हरिणा वस्तुतस्तदनिश्यं न हि वस्तु व्यवस्थितम् । स्थाल्या पच्यत इत्येषा व्यवस्था दृश्यते यतः ॥ इति ॥ अत एव प्रयोजकव्यापारव्याप्यत्वाविशेषेपि पच्यादिधातुषु प्रयो. ज्यो न कर्म गम्यादिग्धेव तु कर्म तथा 'पौराणिकाच्छृणोति' 'नटस्य शृणोति' इत्यत्र पौराणिकोपादानं कारकञ्च, नटस्तु नोभयमित्यादि व क्ष्यमाणं सङ्गच्छते । नन्वेवं "लः कर्माण" (अष्टा सू०३-३-६९) इत्यादि. विधिषु किं कर्म ग्राह्यमिति चेत् ? विनिगमकाभावात्सर्वमित्यवेहि । यथा भस्येत्यत्र सर्व भम । तर्हि टिघुभादिवत्पारिभाषिकमेव कारक त्वकर्मत्वादिकं स्यादिति चेत् ? को वा ब्रूते नेति । एतावानेव परं मे. दः-टिघुमादीनां शब्दसंज्ञात्वमितरेषान्त्वर्थसंशात्वमिति । एवञ्च “क. मणि द्वितीया" (अष्टा०स०२-३-२) इत्यनेन यथायथमाधारादावपि द्वि. तीया विधीयते इति फलितम् । 'रथेन गम्यते' 'रयो गच्छति' इत्या. दावपि कर्तृविभक्तिरुत्सर्गेणैव सिद्धेति न तत्र लक्षणाऽऽश्रयणीयेत्यव. धेयम् । विभक्तीनां वाच्यांशानिष्कर्षस्तु करिष्यते । एतेन ज्ञानस्य स्वप्रकाशत्वे कर्तृकर्मविरोधमुद्भावयन्तः परास्ताः, शब्दविशेषोपाधिकस्य कर्तृत्वादेः प्रत्यक्षादावुक्तिसम्भवात् । एतेन परसमवेतक्रियाफलशा. लित्वं कर्मत्वं चेदपादानेऽतिव्याप्तिरित्याशक्य धात्वर्थतावच्छेदकफलशालित्वं तदिति परिष्कुर्वन्तोऽपि परास्ताः । 'ग्रामं गमयति देवदत्तम्'
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy