SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ प्रत्ययाधिकारे ज्यादेशविधानप्रकरणम् । ३७७ स्य' इत्यनुवर्तते । एवञ्च दुहादिषु यस्य सम्भवः तस्यैव पूर्वसूत्रेऽपि प्रहणमिति सुवचत्वात्। तस्मारिकत्करणसामर्थ्याद् गुणो नेतिस्थितम् । श्लिष आलिङ्गने (पासू०३-१-४६) ॥ अत्र योगा विभज्यतेश्लिषः ॥ श्लिषः परस्य अनिटश्च्लेः क्सः स्यात् । पूर्वेणेव प्राप्त. स्य क्सस्य पुषाद्यका बाधे प्राप्त इद मारभ्यते । पुषादिपाठसामर्थ्यात्पक्षे अङ् । एवञ्च अङ्लयोः सर्वत्र विकल्प प्राप्त आलिङ्गनानालिक. नयोरविशेषेण क्से च प्राप्ते नियमार्थ द्वितीयो योगः आलिङ्गने ॥ शिलषः परस्यानिटश्लेयोऽयं क्सादेशः स आलिङ्गने एव, न त्वर्थान्तरे । एवं चार्थान्तरे सावकाशोऽङ् आलिङ्गने क्सेन बाध्यते । अश्लिक्षत् कन्यां देवदत्तः । आलिङ्गन एवेति किम् ? समाश्लिषजतु काष्ठम् । इह अव । प्रत्यासत्तौ हत्र शिलषिर्वर्तते न तूपगूहनपरिष्वङ्गापरपर्याये आलिङ्गने । उपाश्लिक्षातां जतुना काष्ठ । नन्विह "शल इगुपधात्" (पासू०३-१-४५) इति क्सो दुर्वारः । आलिङ्गने एवेति नियमेन हि 'अनन्तरस्य' (पा०भा०६३) इति न्यायन श्लिष इति या प्राप्तिः अबाधनार्था सैव नियम्यते न तु ततः प्राचीनमपीति चेत् ? न, योगविभागसामर्थ्येन सर्वस्याः क्सप्राप्तेः नियमनात् । आत्मनेपदं च अडोऽप्राप्तेः सिजेव पर्यवस्यति । नन्वेवमपि आलिङ्गनएवेति आदेशनियमोऽयमिति कुतः, अर्थनियम एवायं किं न स्यात् आलिङ्गने कप्त एवेति । ततश्चालिङ्गने अङ् मा नाम भूत् । आत्मनेपदे तु अनालिङ्गनऽपि पूर्वेण सो दुर्वार एवेति चेत् ? सत्यम, उभयथेह नियमसम्भवेऽपि प्रत्ययानयम एवाश्रीयते, लक्ष्यानुरोधात् विधयवि. भक्तिनिर्देशन प्रधानत्वाद्वा भाष्यकारोक्तव्याख्यानाद्वेति न कश्चिद्दो. षः। श्लिष इति योग अनिटः किम् ? 'श्लिष आलिङ्गने' (दि०प०८०) इत्यस्यैव ग्रहणं यथा स्यात् । 'श्लिषु पृषु प्लुषु दाहे' (भ्वा०प०७०३) इत्यस्य सेटो ग्रहणं मा भूत् । सानुबन्धकत्वादेव तदग्रहणे तु 'अनि. टः' इति नावश्यकामिति दिक् । श्लिष इति योगविभागसिद्धश्च कसः "पुरस्तादपवाद" (प०भा० ६१) न्यायेन अङमेव बाधते न तु चिन्तन 'समाश्लेषि कन्या देवद. त्तन' इति चिणेव भवति । __ न दृशः (पासू०३-१-४७)। हशः च्लेः क्लोन स्यात् । अदर्शत् । अद्राक्षीत् । "इरितो वा'' (पासू०३-१-५७) इत्यपक्षे "ऋदृशोऽङि' (पा०सू०७-४-१६) इति गुणः । सिच्पक्षे "सृजिहशाझलि" (पा० सू०६-१-५८) इत्यम् ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy