________________
विधिशेषप्रकरणे हस्वादिसंज्ञासूत्रम् ।
१३
नोपधग्रहणस्य व्यावयस्त्विति चेत्, मेत्रम्, अर्थित्वा, तृफित्वा, तृम्फित्वा, इति शव्द्यस्य नोपधग्रहणसत्वासत्वयोर विशिष्टत्वात् । सति हि तस्मिन् 'न क्त्वा सेद्” (अष्टा०सू०१-२-१८) इति प्रवृत्ते ऋदुपधस्य 'अर्फित्वा' इति भवति । नोपधस्य त्वस्मिन् विकल्पे तृफित्वा, तृम्फित्वः, इति । असत्यपि नोपधग्रहणे सर्वत्र प्रकृतविकल्पप्रवृत्तौ सत्यां तदेव रूपत्रयम् ।
वञ्चिलुंच्यृतश्च [अष्टा०सू०१-२-२४ ] | एभ्यः सेट् क्त्वा न कित् स्याद्वा । " वञ्चु गतौ” (स्वा०प०९८९ ) स्वादिः । ' वञ्चु प्रलम्भने ' (चु० आ०१७०४) चुरादिः सोऽपि गृह्यते चुरादीनामनित्यण्यन्तत्वात् । वचित्वा, वञ्चित्वा । "उदितोवा" (अ०सू०७ - ३-५६ ) इति वेट् । इडभावे तु कित्त्वमस्त्येव । वक्त्वा । "लुच अपनयने” (स्वा०प०१८७) । लुचित्वा, लुञ्चित्वा । "ऋतेरीयङ्" [ अष्टा०सू० - १ - २९] आर्धधातुके विकल्पितः । तदभावे ऋतित्वा अर्तित्वा । सूत्रे उच्चारणार्थ इकारो चिलुञ्चति न त्विक् नलोपप्रसङ्गात् ऋदिति धातुरेव गृह्यते । न तु ऋदन्ताः पूर्वसूत्रेन्तग्रहणेनेह प्रकरणे यत्नं विना तदन्तविधिर्नेति ज्ञापितत्वात् ।
तृषमृषिकृषेः काश्यपस्य । (अष्टा०सू०१-२-२५) एभ्यः सेट् क्त्वा किद्वा स्यात् । काश्यपग्रहणं पूजार्थ, वेतिपक्रमात् । "न क्त्वा सेट्” (अष्टा०सू०१-२-१८) इति निषेधे प्राप्ते विकल्पोयम् । " तृष पिपासायाम् " (दि००१२२९) तृषित्वा तर्षित्वा । "मृष तितिक्षायाम्" (दि०३०९१६४ ) मृ षित्वा मर्षित्वा । "कृश तनूकरणे" ( दि०प०१२२८) कृशित्वा, कशित्वा । न्यासग्रन्थे तु "कृष विलेखने" (भ्वा०प०९९०) इति क्वाचि• कः प्रमादपाठः । अनिट्त्वात् ।
n
रलो व्युपधाद्धलादेः सञ्ध (अष्टा०सू०१-२-२६) उश्च इश्व घी ते उपधे यस्य तस्माद्धलादेरलन्तात् परा क्त्वासनौ सेटौ वा कितौ स्तः । द्युतित्वा द्योतित्वा दिद्युतिषते दिद्योतिषते । "धुतिस्वाप्योः " ( अष्टा० सू०७ - ४-६७) इति सम्प्रसारणम् । रलः किम् ? देवित्वा, दिदेविषति । व्युपधात् किम् ? वर्तित्वा, विवर्त्तिषते । हलादेः किम् ? पषित्वा परिष पति । इह नित्यमपि द्वित्वं गुणेन बाध्यते ओणेर्ऋदित्करणेन सामान्यत उपधाकार्यस्य द्वित्वात्प्राबल्यशापनात् । सेट् किम् ? भुक्त्वा, बुभुक्षते । आदिग्रहणं स्पष्टार्थम् । व्युपधस्य हलन्तत्वाव्यभिचारात् ।
1
ऊकालोज्झस्वदीर्घप्लुतः । [ अष्टा०स०१-२-२७] ह्रस्वदीर्घप्लुत इति समाहारद्वन्द्वः । सौत्रं पुंस्त्वम् । ऊ इति त्रयाणां प्रश्लेषेण निर्देशः ।
1