________________
विधिप्रकरणे लुग्विधानप्रकरणम् ।
२९१
इति हरिश्लोकोऽपि व्याख्यातः । बहुषु किम् ? आङ्गः । वाङ्गः । ते नैव किम् ? आङ्गदेवदत्तयज्ञदत्ताः । यद्यपीह बहुत्वमाङ्गेऽप्यन्वेति तथापि नेदं लुग्भाजोऽर्थ एव विश्रान्तम्, देवदत्तादिगतत्वात् । नन्वेवं "भार्गवश्च वात्स्यश्च आग्रायणश्च भृगुवत्साग्रायणाः" इत्यत्र लुङ् न स्यात्, उत्तरसूत्रेष्वपि तेनैवेत्यधिकारात् । आग्रायणे च नडादिफको लुगभावात् ?
सत्यम्, तेनैवेत्यस्य तज्जातीयेनेति व्याख्यातत्वाददोषः । अपत्यतयेह साजात्यात् । यद्येवं 'गार्ग्यश्च काश्यपश्च गालवश्च' इत्यत्र गालवे ऋष्यणो लुगभावेऽपि अपत्यतया साजात्याद्यत्रो लुक्प्रसङ्गः । अत्राहुः, ठोप्यलोपिभिरपत्यप्रत्ययैः कृते बहुत्वे विकल्पः । "भृगुव. त्याग्रायणेषु' " अगार्ग्य काश्यपगालवानाम्" इत्युभयथापि सूत्रनिर्दे शात् । अस्त्रियां किम् ? आङ्ग्यः स्त्रियः ।
स्यादेतत् आङ्गस्यापत्यानि बहूनि " अणो ह्यचः " ( पा०सु०४-११५६ ) इति फिञ् । तस्य " तद्राजा श्ञ्चाणः" इति गणसूत्रेण "अब्रा ह्मणगोत्रमात्रात्" (का०वा० ) इति वार्त्तिकेन वा लुक् । अङ्गाः । वैदस्यापत्यानि बहूनि - "अत इञ् " ( पा०सु०४ - १ - ९५) । " ण्यक्षत्रिय" (पा०सु०२-४-५८) इति लुक् । बिदाः । अत्र यूनि बहुत्वान्वयेऽपि गोत्रस्य तद्राजवाच्यस्यैक्याल्लुङ् न स्यात् । किश्च विदानामपत्यं माणवकः बैद, बैदौ । अत्र युवबहुत्वाभावेऽपि गोत्र बहुत्वादतिव्याप्तिः ।
सत्यम्, “गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ ह्येकयोरलुक्" "एकवचन द्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि" इति वार्त्ति कद्वयेन सिद्धम् ।
यद्वा, अत्र्याप्त्युद्धारः सूत्रेणापि सुकरः । तथाहि, तद्राजान्तं यद्व. हुष्विति व्याख्यास्यामः । न चैव प्रतिकृतिबहुत्वेऽतिप्रसङ्गः तेनैवेत्यस्य 'लोपिप्रत्ययार्थजातीयेन' इत्यर्थात् । गोत्रयूनोरपत्यतया सजातीयस्वेऽपि प्रतिकृतेर्विजातीयत्वात् । नापि 'बैद:' 'बैदौ' इत्यत्रातिव्याप्तिः । "गोत्रेऽलुगचि” (पा०सु०४ - १ - ८९) इति सूत्रेण इञि विवक्षित एवालुक्प्रवृत्तेः । न च यूम्युपसङ्क्रमानन्तरं पुनर्युवबहुत्व इव तद्वित्वैक त्वस्थले लुकः प्राप्तिरस्ति युवबहुत्वे तु पुनर्लुक् । न च पुनरलुक् शङ्खयः, " समर्थानां प्रथमात्" (पा०सू०४-१-८२) इत्यधिकारात् । विभक्तिविपरिणामेन हि गोत्रप्रत्ययस्य प्रथमस्य अलुगित्यर्थः । प्राथस्यं च अर्धान्तरेऽनुपसङ्क्रान्तत्वम् । अत एव 'अत्रिभरद्वाजिका' इति सिद्ध्यति । अत्रेरपत्यानि "इतश्चानित्रः" (पा०सु०४-१-१२२) इति ढक् । भरद्वाज