________________
विधिशेषप्रकरणे आत्मनेपदनियमप्रकरणम् । क्रीणीष्व, पचते, धत्ते, चिनोति, चिनुतेऽपि च ।
आप्तप्रयोगा दृश्यन्ते येषु ण्यर्थोऽभिधीयते'' ॥ इति । असती चेत्यनेन "कमलवनोद्धाटनं कुर्वते ये''इत्यादयः प्रयोगाः समर्थिताः । तत्रापि स्वार्थताविवक्षायाः सम्भवात् । ण्यर्थस्य वाचक द्योतकं वा आत्मनेपदमिति मतद्वयं सगृहीतं केषां चिदित्यादिना श्लोकेन । चिनोति चिनुत इति, चिनोति चापयति चेति क्रमेणार्थः । - अपाद्वदः (अष्टा सू०१-३-७३) । अपपूर्वाद्वदतेरात्मनेपदं स्याः स्कर्तृगामिनि फले संविधाने च । न्यायमपवदते । कभिप्राय किम् ? अपवदति । __ णिचश्च (अष्टा०सू०१-३-७४) णिजन्तादात्मनेपदं कर्तृगे फले संवि. धाने च । कटं कारयते । कथं "कृतश्मश्रुरपि श्मशूणि कारयति" इति भाष्यम् । संविधाने इति व्याख्याने भविष्यति । आद्यपक्षे तु कर्तृगामि. स्वाविवक्षायां भविष्यति । अत्र कश्चित् लक्षयतेः स्वरितेत्करणाज्ञा. पकाच्चुरादिणिजन्तादिदमात्मनेपदं न भवतीति । आह च
स्वरितेत्स्याद्रहिः क्रयादौ लक्षिश्चैकश्चुरादिषु । इति । चन्द्रस्तु-"णिजभावपक्षे स्वरितत्वस्य सार्थकत्त्वानोक्तार्थज्ञापकता अतश्चुरादेरप्ययं विधिर्भवत्येव"इत्याह । मैत्रेयस्तु स्तरितत्त्वमस्यानाकरमित्याह । तदेतद्धरदत्तोऽपि सञ्जग्राहएष(१) विधिर्नचुरादिणिजन्तात्स्यादिति कश्चन निश्चिनुते स्म । आप्तपचोऽत्र न किंचन दृष्टं लक्षयतेः स्वरितत्त्वमनार्षम्" इति ।
समुदाङ्भ्यो यमोऽग्रन्थे (अष्टा०सू०१-३-७५) । एभ्यो यमः प्रा. ग्वत्कर्तृगे फले संविधाने च न तु ग्रन्थे विषये । आपूर्वकस्य वचनं सकर्मकार्थम् । अकर्मके तु “आङो यमहनः' (अष्टा०म०१-३-२८) इत्ये. व सिद्धम्। व्रीहीन्सयच्छते भारमुद्यच्छते वस्त्रमायच्छते । अग्रन्थे किम् ? उद्यच्छति चिकित्सां वैद्यः । इहाधिगमपूर्वकमुद्यमं यमेरर्थः । चिकित्साशास्त्रमधिगन्तुमुद्यमं करोतीत्यर्थः । कमिप्राय इत्येव । संयच्छति, उद्यच्छति, आयच्छति । ___ अनुपसर्गाज्ञः (अष्टा०सू०१-३-७६) । अस्मात्प्राग्वत्कर्तृगे फले संविधाने च । “अकर्मकाच" (अष्टान्स०१-३-४५) इत्येव सिद्ध वचन. मिदं सकर्मकार्थम् । गाजानीते । अनुपसर्गात्किम् ? स्वर्ग लोकं न प्रजानाति । कथं तर्हि भट्टिः
(१) दोधकं नाम वृत्तमिदम्-"दोधकवृत्तमिदं भभभाद्गो" (वृ०र० ३-३४) इति तल्लक्षणात् ।