SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ विधिशेषप्रकरणे आत्मनेपदनियमप्रकरणम्। ८३ पाद्य वस्तु तदेव णौ प्रतिपाद्यञ्चदित्यर्थः इति व्याचख्युः। अत्रेदं चि. न्यम्-कर्मान्तरनिवृत्तिपरं व्याख्यानं यद्यपि कर्तुं शक्यं तथापि तस्य फलं दुर्लभम् । 'आरोहयमाणो हस्ती' 'स्थलमारोहयति मनुष्या. न्' इत्यस्य व्यावृत्तिः फलमिति चेत्र, तत्र समानक्रियत्वाभावात् । "णो चेत्" इति वाक्यं हि प्रतिपाद्यसाम्यार्थमिति वृत्तिपदमार्योः स्थितम् । न चेह तदस्ति । न चास्तु वृत्यादिमते दोषोऽयं भाष्यफैयटयोस्तु समानक्रियत्वस्यानुक्तत्वात्कर्मान्तरव्यावृत्तिफलकं वाक्यं सा. र्थकमेवेति चेत्, न, भाग्यमपि समानक्रियत्वस्य व्याख्येयत्वात् । त. स्यानुक्तत्वेष्यप्रत्याख्याततया सम्मतत्वात् । अन्यथा अध्यारोपितप्रेषणे द्वितीयकक्षायामतिप्रसङ्गात् । भाग्यवार्तिकयोः कर्मशब्दस्य क्रियापरतयैव व्याख्यातुं शक्यत्वाच्च । अभ्युपेत्यापि ब्रूमः--मास्तु भाग्यमते समानक्रियत्वं तथापि 'दर्शयते भृत्यान् राजा' इत्युदाहरणं व्याचक्षा' गेन कैयटेन अणौ ये कर्तृकर्मणी तद्भिनं कर्म व्यावयते इति तावत्स्प. टीकृतम् । तथा च 'मनुष्यान्' इत्यस्याणौ कर्तृतया गत्यर्थाद् द्रुहेरें कर्मत्वेऽपि दुर्वारमात्मनेपदम् । मनुष्यस्थलयोरणौ कर्तृकर्मणोरेवेह कर्मतया तदितरकर्माभावात् । अपि च, सकर्त्तत्यंशोऽवीह नास्ति । हस्तिन एष कर्तृत्त्वात् । स्यादेतत्-'आरोहयमाणः' इत्यत्राणौ कर्मणो हस्तिन एव कर्तृत्त्वं स एव च 'स्थलमारोहयति' इत्यत्रापि कति, सदपि न । प्रत्यासत्तिबलेनैवातिप्रसङ्गभङ्गात् । तथा हि-यन्तादात्मने। पदं स्यादणौ यत्कर्म स चेत्कतत्युक्ते प्रत्यासत्तरेतदम्यते । "येन णिचा. ण्यन्तादात्मनेपदं विधित्सितं तत्प्रकृतौ यत्कर्म स चेत्कर्ता" इति। इह तु यत्रायमुपाधिः कृतमेव तत्रात्मनेपदम् । 'आरोहयमाणः' इति यत्र तु न कृतं 'स्थलमारोहयति' इति न तत्रायमुपाधिरस्ति, येनातिव्याप्तिः स्यात् । यत्तु हरदत्तेनोक्तम्-"हस्तिपकानारोहयति हस्ती इत्यत्र मा भूत्" इति । तत्रेदं वक्तव्यम्-किमिदमध्यारोपितप्रेषणपक्षे द्वितीयक क्षायामुदाहरणं किं वा निवृत्तप्रेषणपक्ष इति ? नाद्यः, णिज्वाच्यव्यापा. रभेदेन समानक्रियत्त्वाभावात् । न द्वितीयः, तत्राद्ययोः कक्षयोरण्यन्त. वातातृतीयस्यान्तु हस्तिनः कर्तृत्वायोगात् । हस्तिपकानां कर्मस्वास. म्भवाच । तस्माच्चतुर्थी परिशिष्यते । तत्रापि न्यग्भवतीत्यर्थापर्यवसानेन कर्मणो नान्वयः स्पष्ट एव । स्वादेतत्-दर्शयते भृत्यान् राजा' इति तावद्भाग्ये स्वीकृतं तत्समर्थनाय मणौ ये कर्तृकर्मणी तदितरकर्मः व्यवच्छेदोऽभिप्रेत इत्याह कैयटः । तस्याप्ययमाशय:-अणौ यत्क. मत्यत्र "कर्तरि कर्म" ( अष्टा०स०१-३-१४) इत्यतोनुवृत्तं 'कर्तरि' इ.
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy