SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ८२ शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिकेषणाणिचि 'आरोहयन्ति' आरोहन्तीत्यर्थः। ततः पुनर्व्यर्थत्यागे 'आरो. हयते' भ्यग्भवतीत्यर्थः । इहापि प्राग्वत्प्रथमतृतीययोर्द्वितीयचतुर्योश्चा. र्थलाम्याच्चतुर्थी कक्षा उदाहरणम् । सोय निवृत्तप्रेषणपक्ष । आह च "न्यम्भावनं न्यग्भवनं रुही शुद्ध प्रतीयते । न्यग्भावनं न्यग्भवनं ण्यन्तेपि प्रतिपद्यते"। अवस्थां पश्चमामाह ण्यन्ततत्कर्मकर्तरि । निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते" इति ॥ इह विशिष्टवाचकयोः श्रुद्धण्यन्तयोर्वाच्यावंशी वाचकभेदात् वेधा गणयित्वा पूर्वोक्तप्रथमतृतीयकक्षायामवस्थाचतुष्टयञ्चतुर्थकक्षायान्तु पञ्चमी अवस्थेति श्लोकार्थोभिप्रेतः । यद्वा-पश्यन्ति भवं भक्ताः'। 'आ. रोहन्ति हस्तिनं हस्तिपकाः' इति प्राग्वदेव प्रथमकक्षा। ततः सौकर्यद्यो. तनार्थ कर्मणा एव प्रेषणमध्यारोप्य णिच् क्रियते । 'दर्शयति भर 'मारो. हयति हस्ती' इति पश्यत आरोहतश्च प्रेरयतीत्यर्थः। ततो णिच्प्रकृतिभ्यां णिजभ्याञ्चोपात्तयोईयोरपि प्रेषणयार्युगपत्यागे 'दर्शयते' 'आरोहयते' इत्युदाहरणम् । विषयीभवति न्यग्भवतीति च पूर्ववदेवार्थः। सोयमः ध्यारोपितप्रेषणपक्ष इहाध्यारोपितप्रेषणपक्षे 'दर्शयति भवः' 'आरोहयति हस्ती' इति द्वितीयकक्षायामतिव्याप्तिं वारयितुं समानक्रियत्वपरं द्वितीयं वाक्यम् । तेन प्रेषणाधिक्यानातिव्याप्तिः । निवृत्तप्रषेणपक्षेद यिन्ति भवम्' 'आरोहयन्ति हस्तिनम्' इत्येवंरूपं तृतीयकक्षायामति व्याप्ति वारयितुमणौ यत्कर्म स चेण्णी कर्तेत्येवंरूपं तृतीयं वाक्यम् । इह तु अणौ कर्मणो वहस्तिनोः कर्मत्वमेव न तु कर्तृतेति नातिव्याप्तिः अत्र प्राञ्चः-अणौ यत्कर्मेति वाक्यं कर्मान्तरनिवृत्तिपरम् । तथा हियत्तदोनित्यसम्बन्धादिह यच्छब्देन तच्छद आक्षिप्यते । धर्मान्तरस्य चानिर्देशादुद्देश्यतयापि श्रुतं कर्मत्वमेव विधीयते । तच विधीयमानं सामर्थ्याण्णरित्यस्य सन्निहितत्त्वाच्च ण्यन्तावस्थायामेव विधीयते । न हो तद्विधानं सम्भवति अणौ यत्कर्मेत्यनुवादसामर्थ्यादेव तत्सिद्धेः। तदेवमणी यत्कर्मत्येतावत एवाणी यत्कर्म णौ चत्तत्कमेत्यर्थः फलितः। अनेन च कर्मान्तरनिवृत्तिः क्रियते । न त्वणी कर्मणो णो कर्मत्वं प्रति. पाद्यते । स कर्मेत्युत्तरवाक्येन तस्य कर्तृत्त्वप्रतिपादनात् । एकस्य युगपदेकस्यां क्रियायां कर्मकर्तृत्त्वयोरसम्भवात्तस्मात् , __"उद्देशप्रतिनिर्देशालुब्धे यत्समहे पुनः । तद्रहो वाक्यभेदेन कर्मान्तरनिवृत्तये" ॥ ततो णौ चदिति वाक्यान्तरम। अणी यदित्येव अणौ यत्प्राते.
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy