________________
१७०
शब्द कौस्तुभद्वितीयाध्याय प्रथमपादे द्वितीयान्हिके
( अष्टा०सू०२-४-२९) पञ्चगवम् | "गोरतद्धितलुकि' (मष्टा०सु०५-४९२) इति टच् । प्राग्वत् स्त्रीत्वाभावः । अङ्गुलम् । “तत्पुरुषस्याङ्गुलेः . संख्याव्ययादेः " (अष्टा०सू०५-४-८६ ) इत्यच् ।
द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (अष्टा०सू०२-१-२४) । द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह समस्यते स तत्पुरुषः 1 कृष्णं श्रितः कृष्णश्रितः । दुःखमतीतो दुःखातीतः । कूपपतितः । अत एव निपातनादिट् । अन्यथा " तनिपति" (का०वा० ) इति विकल्पतेर् कत्वाद् "यस्य विभाषा" (अष्टा०सू०७-२- १५ ) इति निषेधः स्यात् । यद्वा कृतीप्रभृतीनां "सेसिचि" (अष्टा०सु०७ - २-५७) इत्यादिनेवि कल्पान्निष्ठायामनिट्कत्वे सिद्धे इदित्करणं " यस्य विभाषा" (अष्टा० सू०७-२-१५) इत्यस्यानित्यतां ज्ञापयति । अत एव 'धावितमिभराजधिया' इत्यादि सिध्यति । ग्रामगतः । तुहिनात्यस्तः । सुखप्राप्तः । सुखा पन्नः । इह श्रितादिषु गत्यर्थत्वात्कर्त्तरि कः । अत्यासो व्यतिक्रमो गतिविशेष एव । प्राप्तिरपीह गतिरेव न तु फलम् । एवमापत्तिरपि । यद्वा, श्रितइत्यादावादिकर्मणि तः ।
स्यादेतत् । कर्मणि कान्तेन सह तृतीयार्थे बहुव्रीहिणाऽपि कृष्णश्रितादिरूपसिद्धौ किमनेन सूत्रेण ? कृष्णकर्मकश्रयणकर्तेति बोधस्योभ यत्राविशेषात् । ननु " कर्मणि क्तः" इति पक्षे प्रत्ययार्थः कर्म श्रयणं प्रति विशेष्यं स्यादिति चेत् ? न, विशेषणविशेष्यभावव्यत्यासेनैव बहुव्रीहिस्थले एकार्थीभावो ऽवश्याभ्युपेय इत्यकथितसूत्र एवोकत्वात्, पतं त्सुत्रे भाष्ये तथैवोक्तत्वाच्च । न च स्वरे भेदः । तत्पुरुषेऽपि हि श्रितपतितगतेभ्यः पूर्वपदं प्रकृतिस्वरं भवति । "अहीने द्वितीया" (अष्टा०सू० ६-२-४७) इति वचनात् । अतीतादिभिस्तु स्वरसिद्धये विधीयतां तत्पुरुषः । तथाहि . तैस्तत्पुरुषे थाथादिस्वरेण भाव्यम्, न त्वहीनस्व. रेण; अतीतात्यस्तयोरहीन इति निषेधात् । प्राप्तापन्नयोस्त्वहीने द्वितीयानुपसर्ग इति वचनात् । बहुव्रीहौ तु पूर्वपदप्रकृतिस्वरेण भाव्यमिति । तस्माच्छ्रितपतितगतैः समासो न विधेयः । एवञ्च "अहीने द्वितीया " (अष्टा०सू०७-२-४७) इति सूत्रमपि मास्त्विति महदेव लाघवम् । नन्वेवं जात्यादिभ्यः परेषु श्रितादिषु स्वरे दोषः स्यादेव "जातिकाल सुखादिभ्योनाच्छादनात् कोकृतमितप्रतिपन्नाः" (अष्टा०सू०६-२-१७) इत्यः न्तोदात्तप्रसङ्गात् । तत्पुरुषारम्भपक्षे हि बहुव्रीहेरन्तोदात्तता तत्पुरुषस्य पूर्वपदप्रकृतिस्वरश्चेति द्वैस्वर्ये सिद्धति । प्रत्याख्यानपक्षे त्वन्तोदात एवेति वैषम्यादिति चेत् ? न, बहुव्रीहावेव द्वैस्वर्यस्य सुसाधत्वात् ।