________________
धात्वधिकारे कृत्प्रकरणम् |
४१३
स्तावदवग्रहान्तरमिति प्रातिशाख्यात् । अत्र पदकाले समासे पूर्वपदमेव गृह्णामिति हरदतः । उपलक्षणश्चतत्, 'हरिभिः' इत्या• देरपि सङ्ग्राह्यत्वात् । तस्मात् महापदसंज्ञाक्रान्ते य एकदेशः पदकाल विच्छिद्य पठ्यते, स सर्वोऽप्यवगृह्यमिति स्थितिः । स्वेनैव ईरितुं शी. लमस्व स्वैरी स्वतन्त्रः । अस्वैरी परतन्त्रः । गृह्यका इमे, 'गृहीतका इत्यर्थः । उभयत्रानुकम्पायां कन् । पञ्जरादिबन्धेन परतन्त्रीकृताः शुकादय उच्यन्ते ।
गृहासक्ताः पक्षिमृगाः छेकास्ते गृह्यकाश्च ते ।
I
( अ०को ०५ - ४६ ) इत्यमरः । बाह्यायाम - ग्रामगृह्णा, नगरगृह्या सेना । 'प्रामनगराभ्यां बहिर्भूता' इत्यर्थः। स्त्रीलिङ्ग निर्देशात्पुन्नपुंसकयोर्न भवति । पक्षे भवः - पक्ष्यः । दिगादित्वाद्यत् । वासुदेवगृह्यः । आर्यगृह्यः । तत्पक्षाश्रित इत्यर्थः ।
विभाषा कृवृषोः (पा०सु०३-१-१२० ) ॥ क्यप् स्यात् । पक्षे ण्यत् । कृत्यम् | कार्यम् । वृषु सेचने (स्वा०प०७०७) । वृष्यम् । वर्ण्यम् ।
युग्यञ्च पत्रे (पा०स्०३-१-१२१) ॥ पतन्त्यनेन पत्रं वाहनम् । "दाम्नीशस" (पा०सू०३-२-१८२) इत्यादिना करणे छून । तस्मिन्नर्थे युजेः कर्मणि क्यप् कुत्वञ्च निपात्यते । युग्यो गौः । पत्रे किम् ? 'योग्यम्' अन्यत् । ण्यति "चजो" (पा०सू०७-३-५२ ) इति कुत्वम् ।
अत्र हरदन्तः - प्राग्घितीयेन यतेवं सिद्धम् " तद्वहतिरथयुगप्रासङ्गम्” (पा०सु०४-४-७६) इति । स्वरेऽपि नास्ति भेदः । क्यपि धातुस्वरः, यत्यपि "यतोऽनाव:" (पा०सु०६-१-२१३) इत्याद्युदात्तत्वम् । 'अयुग्यम्' इत्यत्रापि न स्वरभेदः । 'ययतोवातदर्थे” (पा०सू०६-२१५६) "कृस्योष्णुर्वादयश्व" (पा०स्०६-२- १६० ) इत्युभयत्रापि अन्तोदात्तत्वविधानात् । तस्मादिदं सूत्रं शक्यमकर्तुमिति ।
अत्रेदं वक्तव्यम् । 'युग्यो गौः' इत्यादिसिद्धावपि 'युग्यो हस्ती' इति वृचाइदाहृतं तद्धितेन न सिध्यति, नहि हस्ती युगं वहतीति । कृता तु सिध्यति युज्यते सम्बध्यते हासौ कुथादिनेति । किञ्च असत्यस्मि• पूत्रे ण्यत्प्रत्ययेन 'बोग्यो गौः' इत्यपि स्यात् । अपि च स्वरभेदोऽपि पाक्षिकोऽस्त्येव । " क्रतुर्भवत्युक्थ्यः" इत्यादौ तित्म्बरदर्शनात् । "यतोSनाथः” (०सु०६-१-२१३) इति सूत्रं यदन्ते यच्के एकाच्प्रकृतिक एव प्रवर्तत इति वेदभाष्यकारप्रतिपादिते पक्षे स्वरभेदस्य दुर्वारत्वादिति दिक् ।
समावस्वदन्यतरस्याम् (पा०सू०३-१-१२२) । अमाशब्दः सहार्थे
.