SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ विधिप्रकरणे लुग्विधानप्रकरणम् । २९३ नात् ज्यणस्तद्राजत्वेऽपि 'पाण्ड्ये साधवः पाण्ड्याः' इति यत्प्रत्ययाः न्तत्वेन साधुत्वनिवांहात् । __ यस्कादिभ्यो गोत्र (पासू०२-४-६३) । एभ्यः परस्य गोत्रप्रत्यय.' स्य लुक् स्यात् । बहुषु तेनैधास्त्रियामित्यनुवर्तते । "गोत्रे कुजआदिभ्यः इच्फञ्"(पा०सू०४-१-९८) इतिगोत्रप्रत्ययप्रकरणं, ततोऽन्यत्र लौकिक स्य गोत्रस्य ग्रहणम् । अपत्याधिकारे तु गोत्रग्रहणलामादेव पा. रिभाषिकस्य ग्रहणम् । यद्यपि कृत्रिमस्यवाऽन्यत्र ग्रहणं प्राप्तं तथापि लौकिकस्य शापकं वक्ष्यते । तेनानन्तरापत्येऽपि लुक् । यस्काः। लह्याः। बहाम्वति किम् ? यास्कः । लाह्यः । स्त्रियां तु यास्का:स्त्रियः । गोत्रे इति किम् । यास्काः छात्राः । यस्क, ला, द्रुह्य, अधःस्थूण, तृणकर्ण, एते पञ्च शिवादिषु पठ्यन्ते । ततः परेभ्यः षड्भ्य इश् । सदामत्त, कम्बल(१)मार, अ(२)हियोग, कर्णाटक, पिण्डोजङ्घ, बकसक्य । ततः परभ्यश्चतुभ्यः "शुभ्रादिभ्यश्च" (पासू०४-१-२२३) इति ढक् । (३)बि. स्ति,कुद्रि, अजवस्ति, मित्रयु । ततः परेभ्यो द्वादशभ्य इञ् । रक्षोमुख, जङ्घारथ, म(४)न्थक, उत्कास, कटुक, पुष्करसत् , (६)विषपत् , उप. रिमेखल, क्रोष्टुमान, क्रोष्टुपाद, क्रोष्टुमाय, शीर्ष माय । नन्विह पु. स्करसदः पाठो व्यर्थः । स हि बाम्हादित्वादिअन्तः । "बम्हच अःप्रा. च्यभरतेषु' (पासू०२-४-६६) इत्येव सिद्धम् । न चायं प्राच्यो नेति भ्रमितव्यम् , तौल्वल्यादिवतत्पाठस्य वैयापत्तेः । तस्य हि "इञः प्राचाम् (पासू०२-४-६०) इति प्राप्तस्य लुकः प्रतिषेधः फलम् । ___ अत्राहुः, "न गोपवनादिभ्यः'' (पा०सु०२-४-६७) इति प्रतिषेध बाधितुमिहास्य पाठः । गोपवनादिगणे हि तौल्बल्यादय इति कैश्चि. त्पठ्यत एव । यैर्न पठ्यते तैरप्यत एव ज्ञापनात् तौल्बल्यादिप्रकृतिभा. गानां तुल्बलादीनां गोपवनाद्यन्तर्भावोनुमेय इति । (६)वरपद, अस्य नडादित्वात्फक्। पदका क्रमक । आभ्यामतहञ् । भलन्दन । अस्माच्छि. घायण । भडिल। भडिक । भडिव । भण्डित । एभ्यश्चतुर्यः "अश्वादि. भ्यः फर" (पा००४-१-११०)। (१) 'हार' इति कौमुद्याम् । (२) 'बहियोग' 'कर्णाढक' इति कौमुद्याम् । (३) 'विधि' इति कौमुद्याम् । (४).'मथक' इति कौमुद्याम् । (५) 'विषपुट' इति कौमुद्याम् । (६) 'स्वरप यदक वर्षुक भलन्दन भडिल भण्डिल भडित भण्डित' इति कौमद्याम् ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy