________________
२५८
शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे प्रथमाह्निके
1
कृत इति माधवः । क्रियाविशेषणानाञ्च क्रियाया असत्वरूपत्वात्तद्वि शेषणानां तद्वदलिङ्गत्वे प्राप्ते वचनमिदं वार्त्तिकानारूढमपि वृष्टिकारेण कृतमित्याहुः । मृदु पचति । प्रथमं पचति । "सामान्ये नपुंसकम्" (का० वा० ) इति वा सिद्धम् । अत एव नियतलिङ्गेषु नेदं प्रवर्त्तते । आर्दि पचति । आदिभूता या विक्लित्तिस्तां करोतीत्यर्थः । धातुपात्तभावनाप्रति कर्मत्वात्तत्सामानाधिकरण्याद्वा द्वितीया । अत एव 'सकृल्ल्वौ' इत्यादौ कारकपूर्वत्वाद्यणित्याकरः । न च सकलकारकाणां क्रियावि. शेषणत्वात क्लबितापत्तिः शख्या, कारकाणां विभक्त्यर्थत्वरूपत्वाच्च । शक्त्याधारस्तु यद्यपि द्रव्यं नामार्थश्चः तथापि नासौ क्रियां प्रति वि. शेषणं, किन्तु क्रियाविशेषणी भूतकारकविशेषणमिति बोध्यम् । अत एव नामार्थस्य भेदेन धात्वर्थान्वयो नेति सिद्धान्तः । 'स्तोकं पच्यते' इत्यादावपि धात्वर्थव्याप्यस्यैव तण्डुलादेनाभिधानं न तु धातुकोडीकृतस्यापि "भावे चाकर्मकेभ्यः" (पा०सू०३ - ४ - ६९ ) इत्यत्र विशेषणसामर्थ्याद्वाह्यकर्मग्रहणे "लः कर्मणि" (पा०सु०३-४-६९) इत्यत्रापि त यैव निर्णयात् । अतो धातुना क्रोडीकृतस्य विशेषणं द्वितीयान्तमेव, न तु अभिहितत्वप्रयुक्त प्रथमान्तम् । न वा " स्तोकमोदनस्य पक्ता” इत्यत्र स्तोकशब्दात्कृद्योगलक्षणा षष्ठी । यत्र तु भावनाम्प्रति करणत या धात्वर्थविशेषस्यान्वयस्तत्र विशेषणानां तृतीयान्ततैव "ज्योति - टोमेन यजेत" इति यथा । स्पष्टं चेदं "करणे यजः " (पा०सू०३-२८५) इति सूत्रे वृत्तिपदमञ्जर्योः । न चैवं "ज्योतिष्टोमेन समीचीनं यजेत्” इति न स्यादिति वाच्यम्, भावनाविशेषणत्वे तदुपपत्तेः । तत्र च प्रथमान्ततैव । सन्दर्शनप्रार्थनादिभिर्व्याप्यमानत्वात्क्रियाया अपि कृत्रिमकर्मत्वे तु तद्विशेषणत्वेऽपि द्वितीयैव । तदिह क्रियाविशेषणानां क्लीबतेत्युत्सर्गः, नियतलिङ्गे तदभावात् । द्वितीयेव्यप्युत्सर्गः, प्रथमातृतीययोरप्युक्तत्वात् । एकवचनमप्युत्सर्गः । 'हतशायिकाः शय्यन्ते' इत्यादी बहुवचनस्यापि "सार्वधातुके यक्" (पा०सू०३-१६७) इति सूत्रे वक्ष्यमाणत्वादिति दिक् । 'प्रातः कमनीयम्' इत्याद्यव्ययविशेषणे तु क्लीबत्वं यद्यपि तुल्यं तथापि प्रथमैकवचनमेव न तु द्वितीयैकवचनम्, कर्मताभावात् । प्रातरादिरिति तु नियतलिङ्गमेवेति दिक् । यद्यप्येतानि वार्त्तिकानि माध्ये " अपथं नपुंसकम' (पre सु०२-४-३०) इत्यत्र पठितानि तथापि "अव्ययीभावच्च" (पा०सु० ४-३-५९) इति चकारसुचितार्थकथनपराणीत्याशयेन वृत्यनुरोधादिहैव व्याख्यातानि !