SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ विधिशेषप्रकरणे कारकप्रकरणम् । १३३ येति विग्रहे बहुव्रीहिरेव न स्यात, त्रिकतः शेषस्य भाष्ये स्थितत्वात् । सत्यपि वा तस्मिन् पुंवद्भावो दुर्लभः । सिद्धान्ते तु प्रतिग्राहिते गन्धमाल्ये ययेति विग्रहः । जायानिष्ठप्रेरणविषयीभूतं गन्धमाल्यकर्मकं यत्प्रतिग्रहणं तत्कर्त्री मित्यर्थः । अन्यपदार्थान्तर्भावेणैव विशेषणविशेव्यवैपरीत्येनैवैकार्थीभावकल्पनात् । मासजातादिवत् । व्यपेक्षापक्षे तु तु अषष्ठीविभक्त्यर्थे वहुव्रीहौ सर्वत्र व्युत्पत्यन्तरकल्पनाऽस्त्येव । 'प्रा. तादेकम्' इत्यस्य हि उदककर्तृकप्राप्तिकर्मीभूतमर्थः । 'ऊढरथः' रथकर्मकवहनकर्ता । 'उपहृतपशुः' पशुकर्मकोपहारसम्प्रदानम् । 'उद्धृतौदनः' ओदनकर्मकोद्धरणापादानम् । 'वीरपुरुषकः' वीरपुरुषकर्तृकस्थि भ्यधिकरणमिति दिक् । स्यादेतत् । अपादानाद्यविवक्षायां द्विकर्मकताऽस्तु तद्विवक्षायान्तु "जायाप्रतिग्राहित" इत्यादि सेत्स्यति । मैवम्, “हरतेश्च" इति चकारेण समुच्चितानां जयत्यादीनामकथित सूत्रविषयत्वेऽपि "तथैव च " इति समुच्चितानामणौ कर्तुर्णौ कर्मताभ्युपगमात् । गत्यर्थैः साहचर्यात् । अत एव तार्यादयः पृथगेव सङ्ग्रहीताः । युक्तश्चैतत्, ग्रहणकर्तृत्वस्याविवक्षायां प्रयोजकस्य हेतुत्वाभावे णिचो दुर्लभत्वात् । न चैवं दीपि ग्रहणवैयर्थ्यामकर्मकत्वादेवाणी कर्तुर्णौ कर्मत्वसिद्धेरिति वाच्यम्, स्ताण्णिचि तत्सार्थक्यात् । शिष्याः तत्वं दीपयन्ति तानसौ प्रेरयतीत्यर्थः । नन्वेवं त्याजेः सङ्गृहीतत्वाद्यद्यपि "त्याजितैः फलमुत्खातैः” "मुक्ताहारञ्चिरपरिचितं त्याजितो दैवगत्या" इत्यादि सिद्धम् । तथापि गवा पयस्त्याजयतीत्यर्थ इति कैयटहरदत्तादिग्रन्थो विरुध्यते इति, चैत्रविशेषाविवक्षायां कर्मत्वेऽपि कर्तृत्वविवक्षायां तस्य निर्बाधत्वात् । ण्य स्यादेतत्, "कर्तुरीप्सिततमं कर्म" (अष्टा०सु०२-४-४९ ) " तथायुक्तञ्चानीप्सितम् ” (अष्टा०सू०१-४-५० ) इति सूत्राभ्यां सर्वमिदं सिद्धम् । तथाहि यथा विक्लित्युपसर्जनं विक्केदनं पचेरर्थः, न्यग्भावनं रुहेः, द्विधाभावनं भिदेः, तथा त्यजनोपसर्जनं त्याजनं दुहेः, दापनं याचेः भिक्षेश्व; अङ्गीकारणमपि याचेः, प्रवेशोपसर्जनमवस्थापनं रुधेः, आख्यापनं पृच्छेः, मोचनं चित्रः, प्रतिवादनं ब्रूञः, तद्विशेषस्तु शासे. रित्यादि । एवञ्च धातूपासव्यापारविषयाश्रयत्वं गवादेः स्पष्टमेवेति । अत एवाकडारसूत्रे “अपादानमुत्तराणि, गान्दोग्धीत्यत्र परत्वात्कर्मसं शा" इति भाष्ये सङ्गच्छते । पञ्चकं प्रातिपदिकार्थ इति पक्षेऽवधित्वफलाश्रयस्वयोर्युगपद्विवक्षायां चेदम्, अवधिभूता या गौस्तनिष्ठां यः क्षरणानुकूलव्यापारस्तद्विषयिणी गोपनिष्ठा प्रेरणेत्यर्थात् ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy