________________
४५४ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमाह्निकेपाठः । तत्र वहाद् भ्रश्यतीति विग्रहः । “अन्येषामपि दृश्यते" (पा. सू०६-३-१३७) इति दीर्घ इति हरदत्तः ।
स्थः क च (पा०४०३-२-७७) ॥ तिष्ठतेः सुप्युपपदे का स्या. क्विच । सूत्रे 'क' इत्यविभक्तिको निर्देशः। शंस्थः । शंस्थाः । इह "सुपि स्थः" (पासू०३-२-४-) इति कः प्राप्तः । तिष्ठतेरन्तर्भावितण्य. र्थतया 'शम्' इत्यस्य कर्मत्वे तु "आतोऽनुपसर्गे कः" (पा०स०३-२-३ इति कः प्राप्तः "विवच" (पा०सु०३-२-७६) इति क्विबपि । न च विशेषविहितेन कप्रत्ययेन क्विपो बाधः शङ्यः, "वाऽसरूप" (पा०प० ३-१-९४) इत्युक्तेः । तदित्थम्-कक्विपोः पर्याये प्राप्ते तदुभयबाधेन "शमि धातोः संज्ञायाम्" (पा०स०३-२-१४) इति अच् प्राप्तः । स हि धातुग्रहणसामर्थ्यात्कृतो हेत्वादिषु टं यथा बाधते तथा तिष्ठतेः कक्विपावपि बाधेत । अतस्तमप्यचं बाधितुं कक्विपाविह पुनर्विधीयते।
ननु 'शंस्थाः ' इत्यत्र क्विपि लुप्ते प्रत्ययलक्षणेन घुमास्थेतीत्वं स्यादिति चेत् ? न, स्थानिवद्भावस्य "अनल्विधौ" (पासू०ए०१-१५६) इति निषेधात् "प्रत्ययलोपे" (पासू०१-१-६२) इति सूत्रन्तु नियः मार्थमिति सिद्धान्तात् । यत्विह कैरटेनोक्तम् ईत्वमवकारादाविति वचनाद् भाग्यकारवचनप्रामाण्याचा प्रत्ययलक्षणेनेत्वाभाव इति । तद. विध्यर्थ “प्रत्ययलोपे" इति सूत्रमिति पूर्वपक्षमभिप्रेत्य, तत्राप्यवकारादाविति वचनस्वीकारे 'सुधीवा' इति न सिध्यदित्यपरितोषेण द्विती. यपक्षस्वीकार इति बोध्यम् ।
स्यादेतत् “शमि धातोः” (पासु०३-२-१४) इत्यस्यानन्तरमेव "स्थः कच" इति सुन्यताश्चकारेण 'अच् समुचीयताम् । तत्र सवर्णदीघे 'शंस्था' इति भविष्यति । एवञ्चोत्सर्गापवादयोः समानदेशतया सन्दर्भशुद्धिरपि लभ्यते । ईत्वाभावार्थे च न यतनीयमिति ।
मैवम्, 'अशंस्थाः ' इत्यत्र "अच्कावशक्तौ (पा०स०६-२-१५७) इत्युत्तरपदान्तोदात्तत्वापत्तेः । “कद्रहणे गतिकारकपूर्वस्यापि(प०मा० २८) इति 'शंस्थाः' इत्यस्याजन्तत्वात् । क्विवन्तेन नसमासे तु नः पूर्वपदप्रकृतिस्थर एव सिध्यति ।
सुप्यजातौ णिनिस्वाच्छील्ये (पा०सू०३-२-७८) । अजातिवाचिनि सुबन्ते उपपदे ताब्छील्वे धोत्ये धातोः कर्तरि णिनिः स्यात् । उष्णभोजी । शीतभोजी अबाताविति किम् ? ब्राह्मणानामन्त्रयिता । ता. न्छील्यस्य विवक्षितत्वात "न लोक' (पा००२-३-६९) इति षष्ठीप्र. तिषेधः । ताच्छील्ये किम् ? उष्णं भुके कदाचित् ।