________________
१४४ शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे चतुर्यान्हिकेइति पठित्वा प्र आङ् दुस् इत्युपसर्गत्रिकपूर्वस्य स्यतेः "उपसर्गात्सुनो. ति" (अष्टा०स०८-३-६५) इत्यादिना षत्वमिति व्याचक्षाणाः परास्ताः, दुर उपसर्गतायाःषत्वविधौ निषेधात्, स्यतेरर्थस्य प्रकृतासम्बन्धाच्च । णत्वम् । दुर्नीतम् । दुर्नयः। एतेन "दुरः परस्य णत्वं न" इति कोचिदिति पठित्वा सिद्धान्ते णत्वमिति भ्राम्यन्तः परास्ताः।
गतिसंज्ञायां कारिकाशब्दस्योपसङ्ख्यानम् ॥ कारिकाकृत्य । कारि• काकृतम् । यत्कारिकाकरोति । “तिङि चोदात्तवति (अष्टा सू०८-१-७१) इति गतेनिघातः। निपातत्वादव्ययत्वे सति विभक्तेलुक् । कारिका क्रिया । मर्यादास्थितिरित्यर्थः । यत्न इत्यपरे । “धात्वर्थनिर्देशे" इति ण्वुल् । यस्तु कर्तरि ण्वुलन्तः कारिका दासीति, यश्च श्लोकवाची, त. योर्नेह ग्रहणम् , क्रियायोगइति कारिकाशब्दस्य विशेषणात् । क्रिया वृत्तेरेव ग्रहणात् ।
पुनश्चनसौ छन्दसि गतिसंज्ञाविति वक्तव्यम् ॥ पुनराधेयम् । गति. त्वात्समासः । कृदुत्तरपदप्रकृतिस्वरेण “यतोऽनावः" (अष्टा सू०६-१२१३) इति धेशब्द उदात्तः । पुनरुत्स्यूतं वासः । इहापि गतित्वात्स मासः । स्वरस्तु प्रवृद्धादेराकृतिगणत्वादन्तोदात्तत्वम् । काठके. हान्तोदात्तः पठ्यते । शेषनिघातेन पुनःशब्दोऽनुदात्तः । “गति. र्गतौ" (अष्टा०सू०८-१-७०) इति निघावं वदन् वृत्तिकार स्तु परत्वात्तस्य न्याय्यतां मन्यते । चनाहितः ॥ "चायरने हस्वश्च" (उ०सु०६३९) इत्यसुन्नन्तत्वान्निपातत्वाद्वाऽऽद्युदात्तस्य चनःशब्द. स्य "गतिरनन्तरः" (अष्टा०स०६-२-४९) इति प्रकृतिस्वरः।
ऊर्यादिविडाचश्च(अष्टा०सू०१-४-६१) । एते गतिसंज्ञाः स्युः क्रि. यायोगे । कृभ्वस्तियोगे विडाचौ विहितौ। तत्साहचर्याद्रपादयोऽपि तद्योगे एवं प्रयुज्यन्ते नान्यत्र, अनभिधानाच । तत्राप्याविःप्रादुःशब्दो मुक्त्वाऽन्येषां करोतिनैव योग इति माधवादयः । यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति तथापीह सामर्थ्यात् विडाजन्तग्रह. णम् । न हि प्रत्ययमात्रस्य क्रियायोगः संभवति, स्वार्थिकत्वेनानर्थः कत्वात् च्वेरश्रावित्वाञ्च । ऊरीकृत्य । शुक्लीकृत्य । पटपटाकृत्य ।
इहेदमवधेयम् । श्रौषडादानां स्वाहान्तानां चादिवपि पाठादकि पायोगेऽपि निपातत्वम् । आविःशब्दस्य साक्षात्प्रभृतिषु पाठात्कृञो यो. गे विकल्पः । भ्वस्तियोगे त्वनेन नित्यमिति । कथं तर्हि
वारुणीमदविशंकमथाविश्वक्ष्युषोभवदसाविव । इति माघः ?