________________
४५८ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे द्वितीयाह्निके
भूते (पा०सू०३-२-८४) ॥ अधिकारोऽयम । “वर्तमाने लट्" (पा० सू०३-२-१२३) इति यावत् ।
करणे यजः (पा०सू०३-२-८५)॥करणे उपपदे भूतार्थवृत्तयजेणिनिः स्यात्कर्तरि । सोमेनेष्टवान्सोमयाजी ।
स्यादेतत् , 'अग्निष्टोमयाजी' इत्यादौ यागसमानाधिकरणे उपपदे कथं णिनिरिति चेत?
अत्र काशिका-अग्निष्टोमः फलभावनायां करणम् इति ।
अयमाशय:-अस्ति हि सर्वधातूनां धातुत्वेन व्यापारे भावनापर• पर्याये शक्तिः। पचियजित्वादिविशेषरूपेण तु पाकयागादिविशेषेविति. भूवादिसूत्रे एवोक्तम् । तत्र यागस्य समानप्रकृत्युपात्तभाधनां प्रति करणत्वे कटोऽपि कर्मेति न्यायेन ज्योतिष्टोमोऽपि करणमेव । अग्निः ष्टोमादिशब्दास्तु यद्यपि संस्थावचनाः तथापि तद्वति लक्षणया याग. समानाधिकरणा एवेति दिक् ।
इह प्रघट्टके हरदत्तग्रन्थे अग्निष्टोमशब्दः कर्मनामधेयम इति । दीक्षणीयादिरुदवसानीयान्तो ज्योतिष्टोमाख्यो याग एव स्वर्गमाव. नेति । द्विविधो यजमानस्य व्यापार:-सामान्यरूपो विशेषरूपश्च । तत्र सामान्यरूप आभ्यन्तर औदासीन्यप्रच्युतिरूपः कृतिप्रयत्नादिपदाधिलब्धः, बाह्यस्तु-दीक्षणीयाविरुदवसानीयान्तः प्रसिद्ध एवेत्यादि व्यवहृतम् । एतच्च यद्यपि मीमांसाविरुद्धम् , अग्निष्टोमशब्दस्य सं. स्थावाचित्वात् । न च संस्थैवह कर्मशब्दार्थो विवक्षितस्तत्कथमं. ग्निष्टोमस्य यजि प्रति करणत्वं, न हि तदेव तत्र करणं भवति इति तदुत्तरतन्थविरोधात् । दीक्षणीयादेरुदवसानीयाया ज्योतिष्टोमात्र त्वेऽपि ज्योतिष्टोमाख्ययागशरीराप्रवेशात् , दीक्षणीयादीनां बाह्यत्वो. पवर्णनविरोधाच्च । देवताद्देशेन द्रव्यत्यागरूपाणान्तेषामाभ्यन्तर. त्वात् । प्रक्षेपो हि बाह्यः न तु यागोऽपीति स्पष्टमेव । तथापि गौण्या लक्षणया वा कश्चिन्मीमांसासिद्धान्ताविरोधन हरदत्तग्रन्यो व्या. ख्येय इति दिक् ।
कर्मणि हनः (पा०स०३-२-८६) ॥ कर्मण्युपपदे भूतार्थाद्धन्तर्णिनिः स्यात् । इदं कर्म ग्रहणं "सहे च" (पा०४०३-२-७६) इति यावदनु. वर्तते । पितृव्यघाती । मातुलघाती। ___अत्र काशिका-कुत्सितग्रहणं कर्तव्यम् । इह मा भूत , 'चोरं हत. वान्' इति । यद्यपि इंदं भाष्ये नास्ति, तथापि शक्तिस्वाभाव्याल्लभ्यः ते इति भावः।