SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ श्रीकृष्णभट्टमौनिरचिता स्फोटचन्द्रिका। ranceपिवोः पादयुगं नत्वा जानकीरघुनाथयोः । मौनिश्रीकृष्णभट्टेन तन्यते स्फोटचन्द्रिका ॥ १ ॥ शाब्दिकानां वाच्यलस्यव्यङ्गयार्थप्रतिपादकानां वाचकलाक्षणिक: व्यजकानां शब्दानां तनिष्ठजातेर्वा स्फोट इति व्यवहारः । स्फुटति अर्थो यस्मादिति व्युत्पत्या पङ्कजादिपदवयोगरूढः स्फोटशब्दः । केव: लयोगस्वीकारे वाच्यलक्ष्यव्यङ्ग्यानां चेष्टायाश्च व्यङ्ग्यार्थप्रतिपादकत्वेन तत्रातिव्याप्तेः । न च वाचकादिपर्यायः स्फोटशब्दोऽप्रसिद्धः, ___अक्षराणामकारस्त्वं स्फोटस्त्वं वर्णसंश्रयः । इति हरिवंशे इष्टत्वात् । तथा च वर्णपदवाक्याखण्डपदारखण्डवा. क्येति पञ्च व्यक्तिस्फोटाः । शक्यतावच्छेदिकाया जातेर्वाच्यत्ववक्ष शकतावच्छेदिकाया जातेर्वाचकत्वमिति मते वर्णपदवाक्यभेदेन त्रि. विधो जातिस्फोटः। एवं चाष्टौ स्फोटाः। यथाऽऽनन्दवल्ल्यां शुद्ध ब्रह्मज्ञानार्थमन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयेति पञ्चसु को. शेषु अपारमार्थिकब्रह्मत्वप्रतिपादनमुपायः, यथा वाऽरुन्धतीज्ञान स्थलनक्षत्रे अपारमार्थिकारुन्धतीत्वबोधनम् , तथा पारमार्थिकाख. ण्डवाक्यबोधार्थमेते वर्णपदवाक्याखण्डपदस्फोटा उपायाः । तदुक्तम् उपायाः शिक्षमाणानां बालानामुपलालनाः। असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥ इति । सुप्तिङन्तं पदमिति, एकतिङन्तार्थमुख्यविशेष्यकं वाक्यमिति पदवाक्यलक्षणानाकान्तवर्णसमूहस्य वर्णस्य वा प्रकृतिप्रत्ययरूपस्य व्याकरणेन गृहीतशक्तिकस्य पच् तिष् इत्यादिकस्य वाचकत्वे वर्णः स्फोटः । ते च प्रयोगसमवायिनो विसर्गतिबायो न तु तत्स्थानित्वेन कल्पिता सकारलकारादयः, तेषामनियतत्वात् । ' तथाहि, विसर्गेण रोः स्मरणं, तेन सोः । एवं णला तिपः स्मरणं, तेन लकारस्य, एवञ्च गौरवं स्पष्टमेव । किश्च स्थान्यादेशज्ञानशुन्य. स्यावैयाकरणस्यादेशमात्रादबाधापत्तेश्च । एवञ्च स्थान्येव वाचको लाघवात् , न त्वादेशो गौरवादिति तार्किकोक्तमपास्तम , विपरतिगौः
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy