SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५८ शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे द्वितीयान्हिकेछुपपदे" (अष्टा सु०१-४-१०५) इति त्रिसूत्र्यां भाज्यवार्तिकयोरेव वच. नभेदेऽपि सामानाधिकरण्यस्य समर्थितत्वात् प्रत्येकपर्यवसन्नैकत्वप्रका. रकबोधविशेष्येष्वपि मिलितेषु संख्यान्तरान्वये बाधकानिरुक्तेश्च, अहं च त्वं च वृत्रहन्त्संयुज्यावसनिभ्य आ, समौ हि शिष्टैरानातौ वयं न्तावामयः सचेति वेदलोकयोः प्रचुरप्रयोगाच्च । एतेन "चन्द्रे कलङ्कः सुजने दरिद्रता" इत्पत्र "यशो विधातुः कथयन्ति खण्डितम्" इत्यस्यान्वयाय पते इत्यध्याहरन्तः प्रत्युक्ताः । एवञ्च सत्यध्याहृतेन एतच्छब्देनापि समं कलङ्कादेरनन्वयापत्तेः. 'गङ्गे' इत्यादौ निघाताना. पत्तश्चति दिक। नन्वेवमपि मित्रावरुणावित्यस्य कथं पराङ्गवद्भावः "आमन्त्रितं पूर्वमविद्यमानवत्" (अष्टा०सू०८-१-७२) इत्यविद्यमानव. द्भावादिति चेत् ? मैवम, परस्य हि कार्ये कर्तव्येऽसावतिदेशो न तु स्वस्य कार्यऽपि. पूर्वग्रहणवैयापत्तेः । न च पराङ्गवद्भावः परस्य कार्य किन्तु स्वस्य । अत एव 'वायो याहि' 'अग्ने नय' 'इन्द्र देह्यधिर. थम्' इत्यादौ आमन्त्रितायुदात्तत्वं भवत्येव । “ तिङतिङः" (अष्टा० सु०८-१-२८) इति निघातः परं न भवति । अभ्युपेत्यापि ब्रमः, प्रकृते मित्रावरुणावित्यामन्त्रितं सामान्यवचनं तद्विशेषणतया विशेषवचनमः तावृधाविति । अतो "नामन्त्रिते समानाधिकरणे सामान्यवचनम्" (अष्टा सू०८-१-७३) इति अविद्यमानवद्भावो निषिध्यते इति । नन्वेव. मपि मित्रावरुणपदस्य पराङ्गवद्भावात्पादादित्वेनापादादाविति पर्युदासः स्यादिति चेत् ? न, ह्ययं कार्यस्यातिदेशः किन्तु तादात्म्यस्य तस्मिश्चातिदिष्टे विशिष्टमामन्त्रितमिति बुद्ध्या यद्यत्कर्तुं शक्यं तक्रियते। किञ्च कार्यातिदेशेऽप्यशास्त्रीयस्य दौर्लभ्यं किमुत तादात्म्यातिदेशे । सुबिति किम् ? पीड्येपीड्यमाना। नन्विह एकार्थीभावविरहात् समर्थपरिभा. षानुपस्थितावपि समर्थग्रहणानुवृत्या पराङ्गवद्भावो न भविष्यति । एवञ्चादुपदेशात्परत्वेनानुदात्तस्येटा उदात्तेनैकादेशे पीड्य इत्यन्तोदात्तं सिद्धम् । मैवम् , सामर्थ्य स्वेहापि सत्त्वात् । पीड्यमानसम्बोध्यका पीडेति हि वाक्यार्थः । आह च सम्बोधनपदं यच्च तन्क्रियाया विशेषणम् । वजानि देवदत्तेति निघातोऽत्र तथा सति ॥ इति । समानवाक्ये निघातयुष्मदस्मदादेशाः । “आख्यातं सविशेषणं पाक्यम्" इति वार्तिककारवचनादिति भावः । अङ्गग्रहणं किम् ? उभ. योः पृथगाादात्तता मा भूत् । वद्रहणं किम् ? स्वाश्रयमपि यथा स्यात् । आम कुण्डेनाटन् । “आम एकान्तरमामन्त्रितमनान्तिके" (अष्टान्सू०८-१.
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy