________________
विधिशेषप्रकरणे आत्मनेपदनियमप्रकरणम् ।
"भ (१) वादृशाश्चेदधिकुर्वते परान् " ( कि०१-४३) इति भारविप्रयोगोऽपि व्याख्यातः । क्षमन्ते इत्यर्थात् ।
वेः शब्दकर्मणः (अष्टा०सु०१-३-३४) । विपूर्वात्कृञ आत्मनेपदं स्यात् शब्दश्चेत्कर्म कारकं भवति । स्वरान्विकुरुते । उच्चारयतीत्यर्थः । शब्दकर्मणः किम् ? चित्तं विकरोति कामः ।
७३
अकर्मकाश्च (अष्टा०सू०१-३-३५) । वेः कृञो कर्मकात्प्राग्वत् ।
" हीनान्यनुपकर्तृणि प्रवृद्धानि विकुर्वते" । सम्माननोत्सञ्जनाचार्य करणज्ञानभृतिविगणनव्ययेषु नियः (अष्टा० सू० १-३-३६) । पषु बोधनीयेषु नयतेरात्मनेपदं स्यात् । तत्रोत्सञ्जनशानविगणनव्यया नयतेर्वाच्याः । इतरे प्रयोगोपाधयः । तथाहि आचार्यः शास्त्रे नयते । शास्त्रीय सिद्धान्तानुपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयतीत्यर्थः । ते च शिष्या युक्तिभिर्निश्चाय्यमानाः सम्मानिता भवन्ति तदीयाभिलाषितार्थसम्पादनात् । तथा चात्र नयतेः प्रापणमे• वार्थः । शिष्यसम्माननन्तु तदीयं फलं सत्प्रयोगोपाधिः । उत्सञ्जनेदण्डमुन्नयते । उत्क्षिपतीत्यर्थः । आचार्यकरणे - माणवकमुपनयते ! विधिना आत्मसमीपप्रापणमिह नयतेरर्थः । तत्फलं माणवक संस्कारः । । तस्य कर्तृगामित्वाभावादप्राप्तमात्मनेपदं आचार्यकरणे विधीयते उपनयनपूर्व केणाध्यापनेन हि कश्चिदतिशयोध्यापके जन्यते । स एवाचा. शब्दप्रवृत्तिनिमित्तम् ।
"उपनीय ददद्वेदमाचार्यः स उदात्हतः” (या०स्मृ०१-३४)
इत्यपि अतिशयविशेषपरिचायकपरम् । तथा चाचार्यकरणं फलीभूतं प्रयोगोपाधिः । न च तस्य कर्तृगामित्वादात्मनेपदं सिद्धमेवेति वाच्यम् । नहि तदुपनयनक्रियायाः साक्षात्फलं किन्तूपनयनपूर्विकाया अध्यापनक्रियायाः । प्रयोगोपाधित्त्वं तु परस्परया फलीभूतस्याध्यस्तीति दिक् । “विनिन्युरेनं गुरवो गुरुप्रियम्" इत्यत्र तु आचार्यक रणस्याविवक्षितत्वान्न तङ् । विवक्षा हि स्वायत्तेति "उपज्ञोपक्रमं तदा
(१) "भवादृशाश्चेदधिकुर्वते रतिं " ( कि०१-४३) इति पाठः । स च मल्लिनाथेन रतिं सन्तोषं अधिकुर्वते स्वीकुर्वतं चेत् इति व्याख्यातः । ते नैव च "अत्र प्रसहनस्यासङ्गतेरधिपूर्वात् करोतेः "अधः प्रसहने " (अष्टा०सू०१-३-३३ ) इत्यात्मनेपदं न भवति । प्रसहनं परिभवः इति का शिका | तथाऽप्यस्याः कर्त्रभिप्रायविवक्षायामेव प्रयोजकत्वात् । कर्त्रभि प्राये "स्वरितत्रितः " (अष्टा०सू०१-३-७२ ) इत्यात्मनेपदं प्रसिद्धम" इत्युक्तम ।