SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे तृतीयान्हिके मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथक् । मेषयोः स्वक्रियापेक्षं कर्तृत्वञ्च पृथक् पृथक् ॥ इति ॥ अतदावेशादिति अपायानावेशादित्यर्थः । गतिर्विना त्ववधिना नापाय इति कथ्यते । इति तत्रैवोक्तेरवधिनिरपेक्षस्य चलनस्यापायत्वाभावादिति भावः । 'पर्वतात्पततोऽश्वात्पतति' इत्यत्र तु पर्वतावधिकपतनानयो योऽश्वस्तदवधिकं देवदत्ताश्रयं पतनमर्थः । पञ्चमी त्ववधौ शक्ता । तत्राभेदेन संसर्गेण प्रकृत्यर्थो विशेषणम् । प्रत्ययार्थस्तु क्रियायां विशेषणम् । कारकाणां क्रिययैव सम्बन्धात् । अन्यथाऽसाधुत्वात् । क्रियान्वये सत्येव हि कारकसंज्ञा, तत्पूर्विका विशेषसंज्ञाश्च स्थिताः । अत एवाहु:-- ११६ नाम्नो द्विचैव सम्बन्धः सर्ववाक्येष्ववस्थितः । सामानाधिकरण्येन षष्ठया वापि कचिद्भवेत् ॥ इति । सामानाधिकरण्येनेति 'नीलो घटः' इत्याद्यभिप्रायम्। 'नीलं घटमानय' इत्यादावप्यन्तरङ्गक्रियान्वयानन्तरमेकक्रियावशीकृतानां पाणिक्यबोघाभिप्रायञ्च । षष्ठघेति अकारकविभक्तेरुपलक्षणं 'हरये नमः' इति यथा । क्वचिदिति, अकारकविभकेरपि, 'नटस्य शृणोति' इत्यादौ क्रियान्वयदर्शनादिति भावः । एतेन 'भूतले घटो न' इत्यत्र भूतलावेयत्वाभावो घटे भूतलावेयत्वं वा घटाभावे विशेषणमिति द्वेधा व्याचक्षाणा नैयायिकाः रास्ता, उभयथाऽपि क्रियानन्वये कारकविभकेर साधुत्वाव, अर्थाभा. वेऽव्ययीभावापत्तेश्च । तस्य नित्यसमासत्वात् । नन्वस्मदुक्कोऽपि बोधोऽस्मदर्शनव्युत्पन्नानामनुभवसाक्षिक इति चेत् ? सत्यम्, न हि वयं बोध एव नोतीति ब्रूमः । सर्वे सर्वार्थबोधनसमर्था इत्यभ्युपगमात् किन्तु तस्मिन्नर्थेऽसाधुताम् । तथाच "सिद्धे शब्दार्थसम्बन्धे” इति वार्तिकं व्याचक्षाणा भाष्यकारा आहु:-- “ समानायामर्थावगतौ साधु. भिश्चासाधुभिश्च गम्यागम्येतिवन्नियमः क्रियते" इति । उक्तञ्चभेदाभेदकसम्बन्धोपाधिभेदनियन्त्रितम् । साधुत्वं तदभावेऽपि बोधो नेह निवार्यते ॥ इति ॥ एवञ्च कस्माद्वाक्यात्कीडग् बोध इति प्रश्ने यो यथा म्युप्तन्नस्तस्य ता. हगेवेति स्थितिः । कीडशे बोधे साधुत्वं कुत्र नेति परं विचारविषय इति तत्त्वम् । एतेन 'घटः कर्मत्वमानयनं कृतिः' इत्यादीनां स्वरूपायोग्यतेति परास्तम्, तथा व्युत्पन्नस्य बोधानुभवात् । अन्यथा व्युत्पन्नस्य व्युत्पत्तिरूपसहकारिविरहात्कार्यानुदयेऽपि स्वरूपयोग्यतानपायात् । एतेन प्र
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy