SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ विधिशेषप्रकरणे गतिसज्ञाप्रकरणम् । १४७ जलमच्छं गच्छति । भदोऽनुपदेशे (अष्टा०सू०१-४-७०)। अदःशब्दस्त्यदादिः सोऽनुप. देशे गतिः स्यात्। अदाकृत्य । अदः कृतम् । यदा स्वयमेवेत्थं पर्यालोच. यति तदेदमुदाहरणम् । अनुपदेशे किम् ? परं प्रति कथने माभूत् । अदः कृत्वा गतः। तिरोन्तौ (अष्टा०सू०१-४-७१)। तिरोभूय । अन्तौ किम् ? तिरोभूत्वा स्थितः । पार्वतो भूत्वेत्यर्थः । विभाषा कृषि (अष्टा०सू०१-४-७२) । प्राप्तविभाषेयम् "तिरोन्तौं " (अष्टा०स०१-४-७१) इत्यनुवृत्तेः । तिरःकृत्य । तिरस्कृत्य । "तिरसो. ऽन्यतरस्याम्" (अष्टा०म०८-३-४२) इति वा सत्वम् । प्रत्युदाहरणे तु न सत्वम् , तद्विधौ गतिग्रहणानुवृत्तेः। तिरः कृत्वा काष्ठम् । केचि. विहापि सत्वमिच्छन्तः पराभव तिरस्कारशब्दप्रयोगं चानुरुन्धानाः सत्वविधौ गतिग्रहणं निवर्तयन्तीति माधवः । • उपाजेऽवाजे (अष्टा०सू०१-४-७३) । एतौ कृषि वा गतिसंज्ञौ स्तः। विभक्तिप्रतिरूपको निपाताविमौ दुर्बलस्य सामर्थ्याधाने वर्तते । उपा. जेकृत्य । उपाजेकृत्वा। अन्वाजेकृत्य । अन्वाजेकृत्वा । उपष्टभ्येत्यर्थः । ___ साक्षात्प्रभृतीनि च (अष्टा०सू०१-४-७४)। एतानि कृषि वा गति. संज्ञानि स्युः। व्यर्थ इति वक्तव्यम् ॥ साक्षात्कृत्य । साक्षात्कृत्वा । असाक्षाद्भूतं साक्षास्क्रियते चेत्तदाऽयं प्रयोगः, न तु साक्षाभूतस्यैब रूपान्तरापादाने । व्यन्तेषु तु पूर्वविप्रतिषेधाद् "ऊर्यादिच्चि" (अष्टा० स०१-५-६१) इति नित्यैव संज्ञा । तेन 'लवणीकृत्य' इत्यत्र मान्तत्वं न भवति । तद्विकल्पसन्नियोगेनेह गणे निपात्यते । यद्वा, लवणशब्दस्य लवणमिति मान्त आदेशः। तथाच मास्तु पूर्वविप्रतिषेधः। शब्द्यं हि नः साध्यम्-लवणंकृत्य लवणंकृत्वा लवणीकृत्येति । तत्र व्यन्ता. च्यन्तयोः पाक्षिके लवणमादेशे समं रूपम् । परेणापि विकल्पेन मुके तुच्यन्तस्य नित्या संज्ञेति न कश्चिद्दोषः । इहाग्नौ वशेप्रभृतयो विभक्तिप्रतिरूपका निपाताः। प्रादुराविःशब्दयोमर्यादित्वात्प्राप्ते विभा. षा । साक्षात् मिथ्या चिन्तति मनोव्यापारे । चिन्ताकृत्य ! भद्रा आ. लोचनाप्रशंसामङ्गलेष्वयम् ।रोचनेतीतिश्रद्धोत्पादे प्रशंसायर्या च । अमेति रहःसाहित्ययोः । आस्था श्रद्धा प्राजयोवी जो जरणक्रियायाम् । प्राज. रुहा बोजरुहेति रुहिक्रियायाम् । लवणम् । उष्णम् । शीतम् । उद. कम् । आर्द्रम् । लवणादीनां पञ्चानां गतिसंज्ञासन्नियोगेन मान्तत्वं निपात्यते मान्तादेशो वेत्युक्तम् । अग्नौ वशे विकम्पने विकसने प्रह.
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy