SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभ प्रथमाध्यायद्वितीयपादे तृतीयान्हिके इत्यस्य व्याख्या पावसरे विग्रहे क्रमप्रतीतेः "प्रथमं माता घनभाक् तदभावे तु पिता" इति विज्ञानेश्वरग्रन्थश्चिन्त्यः । एकपदजन्ये बोधे क्रमाभावात् । सुत्रारम्भेऽप्येवमेव । प्रत्युत मुख्यार्थस्य प्रथमप्रतीतिरुचिता । न तु लक्ष्याया मातुः । यत्तु विग्रहे क्रमप्रतीतिरिति तन्न । वृत्तिविग्रहयोः सहाप्रयोगात् । वृत्तेरेवेह व्याख्येयश्लोके प्रयोगात् । किं च वृत्तावपि प्रयुक्तायां विग्रहोऽपि स्मर्यतां कथञ्चित् । न तु तत्रापि पूर्वापरिभावे किञ्चिन्निया मकमस्ति तस्मात्क्रमनिर्णये प्रमाणान्तरं मृग्यम् । ४८ , श्वशुरः श्वश्वा (अष्टा०सू०९-२-७१) श्वश्वा सहोक्तौ श्वशुरो वा शिष्यते । श्वशुरौ । श्वश्रूश्वशुरौ । श्वश्वेति सौत्रनिर्देशादेव प्रत्ययान्तस्याऽपि प्रातिपदिकत्वम् । अन्यथा हि "प्रकृतिवदनुकरणम्” इति ऊडन्ततृतीया न स्यात् । त्यदादीनि सर्वैर्नित्यम् ( पा०सु०१-२- ७२) । सर्वैस्त्यदादिभिरन्येश्व सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते । प्रत्यासत्तेत्यदादिभिरेव सहोक्तावित्यर्थो मा भूदिति सर्वग्रहणम् । स च देवदत्तश्च तैौ । द्वन्द्वनिवृत्त्यर्थं वचनम् । 'तौ' इति तु 'सरूप" (अष्टा०सू०१-२-६४ ) सूत्रेणैव सिद्धं देवदत्तस्यापि तच्छब्देनैव निर्देष्टुं शक्यत्वात् । त्यदादीनां मिथः सहोतौ यत्परं तच्छिष्यते शब्दपरविप्रतिषेधात् । स च यश्व यौ । “पूर्वशेषोऽपि दृश्यते" इति भाष्यम् । सचयश्च तौ । अहं च भवांश्वावाम् । त्यदादितः शेषे पुंनपुंसकनो लिङ्गवचनानि (का०वा० ) । आद्यादित्वात्तसिः । त्यदादीनां शेषे सहविवक्षितो योर्थः पुमान् यश्च नपुंसकं तद्वशेन लिङ्गवचनानि भवन्तीत्यर्थः । सा च देवदत्तश्च तौ । तश्च देवदत्ता च यज्ञदत्ता च तानि । पुंनपुंसकयोस्तु सहविवक्षायां नपुंसकवशेन व्यवस्थापर त्वात् । तश्च देवदत्तश्च ते । अद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम् [का० वा०] । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्द्ध पिप्पल्यास्तत् । अर्धपिप्पली च सा अर्धपिप्पल्यौ ते । इह "परवल्लिङ्गम्" (अष्टा० सू०२-४-२६) इति समासार्थस्य लिङ्गाऽतिदेशे कृते तद्विशेषणस्य सर्वनाम्नस्तदेव लिङ्गम् | भाष्ये तु एतत्सूत्रं प्रत्याख्यातम् । यदाह- सामान्यविशेषवाचिनोश्च द्वन्द्वाभावात्सिद्धमिति । विशेषसन्निधौ हि प्रयुक्तः सामान्यशब्दौ विशेषान्तरे वर्त्तते । ब्राह्मणा आगता वसिष्ठश्चेति य. था । तथाविधे विषये वाचनिकोऽयं द्वन्द्वनिषेधः । तेनैव तद्देवदत्तावि त्यादिनिवृत्तेः सिद्धत्वादयमेकशेषो न वक्तव्य इत्यर्थ इति कैय्यदः । कथं तर्हि 'शूद्राभीरं' 'गोबलीवर्द' 'तृणोपलम्' इति, अत्राहुः - आभीरी जात्यन्तराणि । I
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy