________________
२०० शब्द कौस्तुभद्वितीयाध्याय द्वितीयपादे प्रथमान्हिके-
६-२-२) इति पूर्वपदप्रकृतिस्वरः षष्ठीसमासे त्वन्तोदात्तत्वं स्यात् ।
1
प्रतिपदविधाना च षष्ठी न समस्यते इति वाच्यम् (का०वा० ) । सर्पिषो ज्ञानम् । “ज्ञोविदर्थस्य" (अष्टा०सू०२ - ३ - ५१ ) इति षष्ठी । सा च प्रतिपदविधाना “षष्ठी शेषे" (अष्टा०सू०२-३-५०) इति विहायान्यस्याः सर्वस्या अपि तथात्वात् । न चैवमनेनैव गतार्थत्वात् "न निर्धारणे” (अष्टा०सु०२-२-१०) इति व्यर्थमिति शङ्क्यम् । "यतश्च निर्धारणम्” (अष्टा०सु०२-३- ४१) इति सूत्रं हि षष्ठीं न विधत्ते किन्तु सप्तमीमेव । षष्ठी तु तया मा बाधीति प्रतिप्रसूयते इत्यन्यदेतत् । एवं "स्वामी' श्वर” (अष्टा०सु०२-३-३९) इत्यादिष्वपि । तेन 'गृहस्वामी' 'सर्वेश्वरः ' इत्यादि सिद्धम् । वस्तुतस्तु "शोऽविदर्थस्य" (अष्टा०सू०२-३-५१) इत्यादिचतुर्दशसूत्रीमध्ये "दिवस्तदर्थस्य" (अष्टा०स्०२-३-५८) इत्यादिषट्सूत्र विहायावशिष्टायामष्टसूत्र्यां शेष इति वर्त्तते । तथाच 'न माषाणामश्नीयात' इत्यादाविव “षष्ठी शेषे" (अष्टा०सु०२-३-५०) इत्येव सिद्धे नियमार्थे प्रकरणम् - षष्ठी भवत्येव श्रूयत एव, न तु लुप्यते । तथाच लुक्प्रयोजिका समाससंज्ञैव न भवतीति फलितोऽर्थः । तस्मात् "प्रतिपदविधाना न” इति वचनं न कर्तव्यम् । एवं स्थिते "कृद्योगा च " (का०वा० ) इत्यपि मास्तु । कर्तृकर्मणोः कृति" (अष्टा०सु०२ - ३ - ६५) इत्यत्र हि शेषे इति निवृत्तम् । तथाच षष्ठीविध्यर्थमेव (१) तदिति कुतः समासनिवृत्तिप्रसङ्गः । आह च
साधनैर्यपदिष्टे च श्रूयमाणक्रिये पुनः
प्रोका प्रतिपदं षष्ठी समासस्य निवृत्तये ॥ इति ।
कथन्तर्हि हरिस्मरणं- "विशेषस्मृतिहेतवः " " पदात् पदार्थस्म र. णम्" इत्यादीति चेत् ? कर्मणिषष्ठ्या समासस्यानिषेधादिति गृहाण | तथा चेह कारकषष्ठ्या समासात्कृदुत्तरपदप्रकृतिस्वरो भवति । शेष - षष्ठीसमासे त्वन्तोदात्तता स्यात् । एवञ्चान्तोदात्तनिवृत्तये प्रकरणं 'मातुःस्मृतम्' इत्यादौ समासाभावार्थे च । न हि तत्र कारकषष्ठी लभ्यते "न लोक" (अष्टा०सु०२-३-६९) इति प्रतिषेधादिति निष्कृष्टो ऽर्थः । आह च
निष्ठायां कर्मविषया षष्ठी च प्रतिषिध्यते ।
शेषलक्षणया षष्ठ्या समासस्तत्र नेष्यते ॥ इति ।
पूरण गुणसुहितार्थ सद्व्ययतव्यसमानाधिकरणेन (अष्टा०सु०२-२११) । पूरणाद्यर्यैस्त्रिभिः सदादिभिश्च षष्ठी न समस्यते । पूरणे - सतां
(१) "कर्तृकर्मणोः " (अष्टा०सु०२ - ३ - ६५ ) इति सूत्रम् ।