SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ प्रात्यधिकारे कृत्प्रकरणम्। ४७३ रिप्रायुक_प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयाऽदुरयाचितमगनाः(६-८)इति । कथन्तर्हि "समुग्धकान्तास्तनसङ्गभङ्गुरैः” (१-४७) इति माघ इति वेत ? न हि क्यं कर्मकर्तरि नेति ब्रूमः, तस्यापि कर्तृतया तत्र प्रत्ययः स्थाप्रत्यूहत्वात् । किन्तु शुद्धेऽपि कर्तरि यथासम्भवं भवत्येवेति । __ स्यादेतत् । प्रकृतस्यैव घुरचो ङित्वमतिीदश्यतां विदिभिदिछि. देङिदिति, किं प्रत्ययान्तरेणेति चेत् ? अत्र के चिदाहुः, आतिदेशिकं ङित्वमनित्यमिति झापनायेदम् । तेन 'धवित्र' सिद्धम् । धू विधूनने (तु०प०११८) कुटादिः । इत्रस्य हिषाभाषाद् गुण इति । अन्ये तु 'धुवित्रम्' इत्येवेच्छन्ति । इनशजिसतिभ्यः क्वरए (पा०सू०३-२-१६३)॥ इत्वरः । नश्वरः । जित्वरः । सत्वरः । "टिड्ढा'(पा०४०४-१-१५) इति छीप् । इत्वरी। गत्वरश्च (पासू०३-२-१६४) ॥ गमेरनुनासिकलोपोऽपिनिपात्यते । जागुरूकः (पासु०३-२-१६५) ॥ जागुरिति पञ्चम्यन्तम् । 'जा. गरूकः इत्येव तु न निपातितम् उत्तरसुत्रे 'ऊक' इत्यस्यानुवृत्तये । यजजपवणं यः (पा०स०३-२-१६६) ॥ दंशे विना नलोपेन निर्देशो लाघवार्थः । यायजूकः । जनपकः । दन्दशूकः।। नमिकम्पिरम्यजसकहिंसदापोर(पा०स०३-२-१६७) ॥ नमः। कम्मः । स्मेरः । जसु मोक्षणे (दि०प०१०५) नअपूर्वः क्रियासातत्ये धर्तते । ततो निपातनात्समासे कृते सः । अजस्रम् । 'कथमजना अग्नयः' इति, अजनधारणावजनाः। सनाशंसभिक्ष उः (पा०स०३-२-१६८)॥ सन् प्रत्ययो.गृह्यते न तु 'षणु दाने (१००२) 'षण सम्भकौ' (भ्वा०स० ४६५) इति धातू, गर्गादिषु जिगीषुशब्दस्य पाठात । 'आङ: शंसु इच्छायाम्' (भ्वा० मा०६३०). इत्ययं गृह्यते न तु 'शंसु स्तुतौ' (भ्वा०प०७२९) इति, माका.सह निर्देशात् । चिकीर्षुः । आशंसुः । भिक्षुः। विन्दुरिच्छुः (पा०स०३-२-१६९) ॥ विद माने (अ०प०५४) इष पच्छायाम् (तु०प०७१) । आभ्यामुप्रत्ययः विदेर्नुम् इषेश्छत्वश्च नि. पात्यते । बिन्दुशब्दस्तु पवर्गीयादिः। विदि अवयवे (भ्वा०प०६४) अस्मान्मृगय्वादित्वात्कुप्रत्ययो बोध्यः । क्याच्छन्दसि (पा०सू०३-२-१७०) ॥ उः स्यात् । अदेवयुं विदः थे देवयुभिः । 'कित: क्यः' इति व्याख्यानात्कण्ड्वादियगन्तादपि भव. ति । यमस्य योनी शकुनं भुरण्युम् । तुरण्यवोऽङ्गिरसो नक्षन्त ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy