SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ प्रत्ययाधिकारे सन्विधानप्रकरणम् । ३११ तुकत्वं यथा स्यात् । तेन यथायथ मिगुणौ स्तः । अन्यथा 'जुगुप्सते' इत्यादाविव न स्याताम् । कर्मणः किम् ? गमनेनेच्छतीत्थर्थे 'जिगमिषति' इति मा भूत् । समानकर्तृकात्किम् ? देवदत्तकर्तृकं भोजनमिच्छति यशदत्तः । इच्छायां किम् ? कर्तुं जानाति । वावचनाद्वाक्यमपि । न च "समानकर्तृकेषु तुमुन्" ( पा०सु०३ -३ - १५८) इति तुमुन्विधानसामर्थ्यादेव वाक्यं सिद्धमिति वाच्यम, चिकीर्षितुमिच्छतीत्यत्र चरितार्थत्वात् । नात्र सनः प्रसङ्गः, सन्नन्तान्न सन्नितिवक्ष्यमाणत्वात् । आशङ्कायामुपसंख्यानम् (का०वा० ) । कूलं पिपतिषति । या मु· मूर्षति । शङ्के पतिष्यति कूलम् । शङ्के मरिष्यति चेत्यर्थः । आशङ्का ल म्भावना तद्विशिष्टक्रियावचनात्स्वार्थे सन्निति कैयटादयः । शङ्काविशिटयोः पतनमरणयोर्लडर्थवत्तमानत्वान्वये 'स्वर्गी ध्वस्त' इत्यादावि व विशेषणीभूतशङ्कायां वर्तमानत्वपर्यवसानं बोध्यम् । प्रत्याख्यानं तु यो यदिच्छति स तस्य पूर्वरूपाणि करोति यथा-देवदत्तः कटं चि कीर्षुः पूलादीन्युपादत्ते । एवं कूलस्यापि लोष्टविशरणादीन्युपलभ्य पतनेच्छाऽध्यारोप्यते । यद्वा, सन्विधाय के सूत्रे इच्छाशब्दो गौणमुख्यसाधारणः । गौणमुख्यन्यायस्तु लक्ष्यानुरोधात्स्वरितत्वाश्च नाश्रयिते । अत्र भाष्यम्- शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः । सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते ॥ I अयं श्लोक इह सूत्रे मतुब्विधौ च भाध्ये पठितः । अस्माभिस्तु चतुर्थे" शेषे ' (पा०स्०४-२-१२) इति सूत्रे शापितोयमिति तत्रैव व्याख्यास्यते । पतव्द्यास्थानपराः प्रकृतसूत्रस्थकैयटहरदत्तादिग्रन्थाः पाश्चमिकभाष्यविरुद्धा इति तत्रैव वक्ष्यते । इह सन्प्रसङ्गादन्योऽप्यनिष्टः प्रत्ययो बारितः । प्रकृतोपयुक्तं तु "सन्नन्तान सनिष्यते” इति । सरूप इत्येव । सारूप्यं चात्र सादृश्यम् । तच्चार्थद्वारकम् । तेन चिकीर्षितुमिच्छतीतीच्छासनन्तानेच्छासन । स्वार्थसन्नन्तात्तं स्यादेव । जुगुप्सिषते । मीमांसिषते । एतच्च न्यायसिद्धम् । तथाहि, लक्ष्यवशादिह जातिः पदार्थः । तत्र च कुल्लक्षणं प्रवर्त्तते इति सन्प्रवृत्तेः प्राक् तदन्तप्रकृत्यसम्भवात्तदन्तात्प्रत्ययस्य प्रसङ्ग एव नास्तीत्याहुः । एवं तु यङ् सन् ण्यन्तात्सनि बो भूयिषयिषतीत्यादि बहूनां लेखनं विरुध्यते । तस्माद्वाचनिकः समन्तात - दभाव इत्येव सारम् । इह यो प्रामं गन्तुमिच्छति तस्य यद्यपि प्रामो न स्वरूपेणेष्टः ग्रामो मे स्यादिति, तथापि गम्यमानतारूपेणेष्ट एव । अत एव प्रामो जिगंस्यते जिगमिषितव्यः जिगमिषितः सुजिगमिष
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy