SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ विधिशेष प्रकरणे एकवद्भावप्रकरणम् । १४९ च भाष्यम् - - ' 'उभयं हीष्यते बहूनि शक्तिकिटकानि" इति । माघटिप्पणे -- "रचतुरङ्ग। श्वेभे निषीदन्ति” इति णिन्यन्तेनोपपदसमास इर्ति समाधानान्तरं सारम् । यद्यपि "चार्थे द्वन्द्वः" ( पा०सू०२-२-२९ ) इत्येवेतरेतरयोगे समाहारे च द्वन्द्वो विहितः, समाहारस्यैकत्वाश्च सिद्धमेकवचनं, तथापि नियमार्थमिदं प्रकरणम्प्राण्यङ्गादीनामेकवचने द्वन्द्व एव । समाहारद्वन्द्व एवेत्यर्थः । न च समाहारे एषामेवेति विपरीतं ग्राह्यम्, "तिष्यपुनर्वस्वोः " ( पा०स्०१२-६३) इति सूत्रे बहुवचनग्रहणात् तद्धि समाहारैकवचनव्यावृत्तये क्रियते तिष्यपुनर्वस्विदमिति । अनुवादे चरणानाम् (पा०सू०२-४-३) | चरणानां द्वन्द्व एकवत्स्यात् । चरणशब्दः कठकालापादिषु शाखाभेदेषु मुख्यः । तदध्यायिषु पुरुषेषु गौणः । उभयेषां चैषां "गोत्रञ्च चरणैः सह " (का०वा० ) इति जातिसंज्ञा । तत्र शाखाभेदवाचिनां "जातिरप्राणिनाम्" (पा०सु०२-४-६ ) इत्येकवद्भा वस्य सिद्धत्वाङ्गौणोऽपि पुरुषवृत्तिरेवेह गृह्यते । उदगात्कठकालापम् । प्रत्यष्ठात्कठकौथुमम् । इह यदा कठकालापेषूदितेषु प्रतिष्ठितेषु चाषा. भ्यां तत्र गन्तव्यमिति संवादं कृत्वा तश्च विस्मृत्य कश्चिदास्ते तत्र प्रतीदमुच्यते- ननृद्गात्कठकालापन्तरिकमास्यते इति । अतो भवत्यनुवादः । कठेन प्रोक्तमधीयते कठाः । वैशम्पायनान्तेवासित्वाणिनिः । "कठचरकाल्लुक्" (पा०सु०४-३-१०७) ' तदधीतेतद्वेद" ( पा०सु०४-२-१९) इत्यण् । " प्रोक्ताल्लुक्” ( पा०सू०४-२-६४ ) । कलापिशब्दात् "कलापिनोऽण्" (पा०सु०४-३ - १०८ ) " नान्तस्य टि. लोपे सब्रह्मचारि" (का०वा० ) इत्यादिना टिलोपः । अध्येत्रणो लुक् । एतेन कौथुमो व्याख्यातः । यदा तु उदयप्रतिष्ठे नानूद्येते, किन्तु अ. ज्ञाते शाप्येते तदा प्रत्युदाहरणम् - उदगुः कठकालापाः । स्थेणोर द्यतन्यामेवेति वाच्यम् । स्थेणोः किम् ? अनन्दिषुः कठकालापाः । अद्यतन्यां किम् ? उद्यन्ति कठकालापाः । अध्वर्युक्रतुरनपुंसकम् ( पा०सु०२-४-४) । अध्वर्युशब्दो यजुर्वेद. लक्षकः । तत्रोत्पन्नो विनियुक्तो वा यः क्रतुः तद्वाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवत्स्यात् । अर्काश्वमेधम् । साइनातिरात्रम् | अध्वर्युक्रतुः किम् ? ६षुवज्रौ । उद्भिद्वलभिदौ । सामवेद एषां विधानम् | अ नपुंसकमिति किम् ? राजस्यवाजपेये । इमौ हि शब्दावर्द्धर्चादिषु प· ठितौ । यदा नपुंसकलिङ्गौ तदा प्रत्युदाहरणम् । अध्यनतोऽविप्रकृष्टा स्थानाम् (पा०सु०२ - ४ - ५ ) । अध्ययनेन मि.
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy