Page #1
--------------------------------------------------------------------------
________________
EARRRRRRRRRRRRRRRRRRRRRS परमप्रभावकानुयोगाचार्य(पं०)श्रीउमेदविजयगणीश्वरविजयवीरसूरीश्वरपादकमलेभ्यो नमः ॥
श्रीजयसिंहसूरिग्रथितंकुमारपालभूपालचरित्रं महाकाव्यम् । सम्पादकः संशोधकश्च-अनुयोगाचार्य(पं.)श्रीक्षान्तिविजयो गणिः।
प्रकाशिका अनुयोगाचार्य (पं०) श्रीक्षान्तिविजयगणिप्रवरोपदिष्ट
शा. भाईचंद नगीनभाई मंछुभाई अने शा. मणीलाल मोतीलाल मुलजी. मेनेजिंग ट्रस्टीओ श्रीविजयदेवसुरसङ्घसंस्था (पेढी) गोडीजी जैनउपाश्रय पायधुनि मुम्बापुरी. है मोहमय्यां निर्णयसागरमुद्रणयन्त्रे कोलभाटवीथ्या २६-२८ तमे गृहे रामचन्द्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम् ।
वारसंवत् २४५२, ईखिसन् १९२६, मूल्यं २॥ सार्धरूप्यकद्वयम् प्रतयः १०.. विक्रमसंवत् १९८२,
Page #2
--------------------------------------------------------------------------
________________
Printed by Ramchandra Yesu Shedge, at the "Nirnaya Sagar" Press, 26-28, Kolbhat Lane, Bombay.
Published by Shah Bhaichand Naginbhai Manchhubhai and Shah Manilal Motilal Mulji Managing Trustees of the Shri Vijayadevasurasanghasanstha, Godiji Jain Upashraya Paydhuni, Bombay.
Page #3
--------------------------------------------------------------------------
________________
**
C
H
RYSAURACTICA
परमप्रभावकजैनाचार्यश्रीमद्विजयवीरसूरीश्वरगुरुपादपद्मभ्यो नमः ।
. प्रस्तावना ॥ वीरो वीरमणिः सदा विजयते वीरं जिनेशं श्रये, वीरेणाभिहता भवार्णवततिवीराय तस्मै नमः। वीरात् सञ्चलितं सुतीर्थविमलं वीरस्य दासोऽस्म्यहं, वीरे मे मनसो मुदस्तु सततं श्रीवीर मुक्ति दिश ॥१॥ शार्दू०॥ प्राज्ञो हेमशशी सदैव जयति श्रीहेमचन्द्रं भजे, हेमेनाशु कृता श्रुतिद्युतटिनी हेमाय कुर्वे नमः। हेमान्नास्ति परायणं कलियुगे हेमस्य बोधो महान् , हेमे चित्तलयः सदा भवतु मे हे हेम ! मामुद्धर ॥२॥श सकलसमयवेत्ता ब्रह्मभूषाबिभर्ता, बुधजनहितकर्ता धर्मवंशावतंसः। भुवनललितलक्ष्मीकोडलीलाविधाता, जयति स विजयान्तोमेदपूर्वो गणीशः॥३॥ मालिनी ॥ श्रुतगगनविहारी विश्वलोकोपकारी, विषयविषनिवारी कल्मषध्वंसकारी । सुगणिविजयलाभो यस्य शिष्योऽग्रचारी, जयतु विजयवीरः सूरिरानन्दकारी॥४॥ मालिनी ॥ दीक्षादानविधावुमेदविजयो यस्य श्रुतज्ञो गुरु-वीराचार्यमुखाद् विशेषविधितो ज्ञानं सदा यो ललौ। भ्रान्त्वा देशमनेकदुगविषमं लब्ध्वा सुबोधोदयं, सोऽयं क्षान्तिगणिस्तनोति ललितां प्रस्तावनांभावतः ॥५॥शार्दू०॥ १ अभीष्टम्. २ भवभृतां, वा.
Page #4
--------------------------------------------------------------------------
________________
कुमारपालच०
॥२॥
इह हि खलु जम्मजरामरणशोकादिघोरतिमितिमिङ्गिलतिमिङ्गिलगिलमकरादिजलचरावगाहमानमध्यस्थले, इतस्ततो प्रस्तावना वम्भ्रम्यमाणरागद्वेषादिभयङ्कराशीविषप्रचारभीषणेऽनवरतजाज्वल्यमानसकलदोषनिदानक्रोधवडवानले परस्परविरुद्धप्ररूपकबौद्धादिनानातीर्थिकतर्कवितर्कभयानकविहङ्गमविहारभयावहे तिर्यगादिचतुर्गतिचतुर्वेलायुते स्वोपार्जितशुभाशुभकर्मजलामिपूर्णे विचित्रविषयाभिलाषप्रबलतरतरङ्गतरङ्गिते कथञ्चिल्लभ्यमानस्वर्गादिसुखानेकनीलोत्पलनिकरनिकुरम्बिते, आशाशैलसञ्चारनिरन्तरे नानामनोरथशेवालजालजटिलेऽस्मिन् संसारपारावारे निमजतां भव्यजनानां श्रुतधर्मदृढयानपात्रतीर्थकरादिकर्णधारावन्तरेण कथं निस्तरणं भवेत् । अतस्तदुत्तितीधुभिः प्रभविष्णुभिरपि शास्त्रधर्मयानपात्र|मवश्यमेवाश्रयणीयम् , यच्चावलम्ब्य भूयांसोऽपि पूर्वभवोपार्जितप्रबलतरपुण्यद्रविणसङ्गीतैहिकसुखसन्ततिसम्भारसम्मदाः क्षायिकसम्यक्त्वादिगुणधारकाः प्रतिपन्नमुक्तिवनिताग्रदूतीशिक्षाकाः सदाचरणसद्रलरोहणशिखरिणः समाचारीवरवर्णिनीसौभाग्यविभूषकाः समयमीमांसामांसलमाल्यमालिनो भारतीधर्मपुत्रा विशुद्धविज्ञानप्रचण्डमार्तण्डप्रभाप्रणाशिताशेषकुमतिध्वान्तनिकराः श्रीमजिनमतवारिधिवारिप्रसारणशीतदीधितयो बाह्याभ्यन्तरशत्रुजयोद्धतकन्धरा बद्धदेशसर्व
चारित्रधर्मपरिकराः परोपकारकमानसा महात्मानःश्रावकाः सूरिवराश्च संसाराब्धिपारमगमञ् जिगमिषन्ति गमिष्यन्ति च, मे तेषां विद्वजनचेतश्चमत्कारीणि प्रचुराणि सुन्दरतराणि पूर्वसूरिभी रचितानि शुद्धबोधदायीनि यानपात्रसमानि श्रुतरू
पाणि चरित्राणि वर्तन्ते, परन्तु प्रतिसमयं हीयमानबुद्धिबलशरीरसामर्थ्यधर्मसाधनवैभवे परमविकरालकलिकालकौणपक-16 वलितानन्तपुरुषपुङ्गवे, उदीर्णकामादिपिशाचसञ्चारदोषदृषितेऽस्मिन्नवसर्पिणीदुषमारकेऽपि जिनशासनकमलाकरवि
Page #5
--------------------------------------------------------------------------
________________
काशनदिनमणयो धर्मकृतौ निरन्तरदत्तैकचित्ता जिनमार्गानुयायिनः कृतानेकतीर्थोद्धतिका विमलमन्त्रीश्वरादयः श्रा-8 वकाः श्रीवप्पभट्टिप्रभृतिकाः सूरिप्रवराश्च सञ्जातास्तेषामपि चरित्राणि विद्यन्त इति सुविदितमेव ।
तथापि भूतपूर्वोत्तमपुरुषानन्दश्रेणिकाद्याचरितश्राद्धधर्मादपि सातिशयशुद्धसम्यक्त्वमूलद्वादशव्रतपालने दृढनिश्च-11 यस्याष्टादशदेशपरिमितभूमिभूषणस्य कलिकालसर्वज्ञश्रीमद्धेमचन्द्रसूरीश्वरेण प्रतिबोधितस्य परमाईत-परनारीसहो. दर-राजर्षि-धर्मात्म-प्रभृतिविरुदालङ्कारालङ्कृतस्य श्रीकुमारपालभूपालस्य, तथा तत्प्रतिबोधकस्य निरतिचारचारुचारित्राचाराचरणचणस्य सार्द्धत्रिकोटिश्लोकप्रमाणग्रन्थानां. निर्मातुः कलिकालसर्वज्ञविरुदधारकस्य श्रीहेमचन्द्रसूरिवरिष्ठस्य, तत्पू.15 |र्वेषाञ्च, भुवनभूषणतत्तदनेकसद्गुणवाचनश्रवणोत्पन्ननिरुपमभक्तिरससमुत्तेजित( प्रेरित )मनोभिः श्रीजयसिंहसूरिवरैः कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिसंदृब्धप्राकृतसंस्कृतद्व्याश्रयमहाकाव्य-सोमप्रभाचार्य( वि०सं० १२४१ वर्षे )रचितजिनधर्मप्रतिबोध( हेमकुमारचरित्र )-श्रीकुमारपालभ्रातृव्याजयपालमन्त्रियशःपालकृतमोहपराजयनाटक-श्रीचन्द्रप्रभाचार्यविरचित
प्रभावकचरित्रादीनि विलोक्याऽविच्छिन्नपारम्पर्यागतं सतां मुखाच्छ्रुत्वा च साम्प्रतकालीनजीवानामत्यन्तोपकार कमित्यवलधार्य स्वपरहितार्थ श्रीचौलुक्यवंशोत्पत्तिमूलभूतश्रीचुलुक्यवरपुरुषादारभ्यानेकतत्पूर्वपुरुषवर्णनवर्णनीयं प्रधानधार्मिकज
नकथोपवृंहितं चतुर्विधपुरुषार्थप्रकाशनकनैपुण्यधरं शुद्धाशुद्धदेवादिस्वरूपप्ररूपकं विशेषतोऽहिंसाख्यापकं तत्त्वबोधप्रद्योतकं पुराणादिगतकथानकाद्यविरहितं सर्वदर्शनाविरोधिधर्मप्रज्ञापकमावालगोपालोपकारकारकं महामतिदानपुष्कराव तकं वक्तश्रोतृजनोत्साहवल्लीवार्षिकमेघायमानं धार्मिक-व्यावहारिक-नैतिक-सामाजिकादिविविधमार्गदर्शकं दृढयान
KANNOCOCCALCALCOMMARACK
Page #6
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ ३ ॥
%
पात्ररूपं श्रीकुमारपालमहाकाव्यनामकं शास्त्रमपूर्व संक्षेपतो विरचितम्, तज्ज्ञापनार्थं प्रतिसर्गान्ते स्वकीयनामाङ्किता समा प्तिर्दर्शिता । अतो नानाविधच्छन्दोमयपुष्पस्तवकशोभाशोभितस्य प्रायशोऽनुष्टुप्छन्दः पर्णरचनारचितस्य सुललितवर्णविन्या सस्वादुफलफलितस्योपमोत्प्रेक्षाव्यतिरेकरूपकादिनानालङ्कारसुरभिगन्धगन्धितस्य दशसर्गदशमहाशाखाविस्तारविस्तृतस्य
नैकप्रासङ्गिककथाकथनबद्धालवालस्य जिनधर्मनिरूपणनिचितमहामूलस्य भव्यजनहृदयाह्लादकस्यास्यैतिहासिक महाकाव्यसहकारतरुवरस्य प्ररोपयितारः श्रीजयसिंहसूरयः सन्ति, ते च कीदृशाः ? कदाच भूमण्डलं पावयाञ्चक्रुरिति जिज्ञासायाम्,
सकललोकालोकावभासिकेवलज्ञानश्रीधरस्य त्रिजगदुद्धारकस्य वर्त्तमानचतुर्विंशतिकान्तर्गत चतुर्विंशतितमतीर्थ कृच्छ्रीमन्महावीरस्य प्रथमपट्टधरसुधर्मस्वामिनः परम्परायां ब्रह्मव्रतधरेषु शेखरायमाणः कोशा प्रतिबोधकस्त्रिजगत्प्रसिद्धश्चतुर्दशपूर्वधरः श्रीस्थूलभद्रसूरिः सञ्जातस्तस्य च शिष्यः सपादलक्षजिन चैत्यानां सपादकोटिजिनबिम्बादीनां च विधायकस्य श्रीसम्प्रतिभूपतेः प्रतिबोधकः श्रीसुहस्तिसूरिवरः सञ्जातः सुहस्तिसूरेश्च शिष्यो महाप्रभावकः श्रीगुप्तसूरिरभूद्, येन राशित्रयप्ररूपको रोहगुप्तनामकः स्वशिष्यः श्रीवीरनिर्वाणात् पश्ञ्चशतचतुश्चत्वारिंशत्तमे ( ५४४ ) वर्षे सङ्घान्निःसा - रितो यः षष्ठो निह्नवः सञ्जातः,
चारणलब्धिनिलयाद् यस्माद् गुप्तसूरेश्चारणगणो विख्यातस्तस्य च चारणगणस्य वज्रनागरीचतुर्थशाखा स्थितिधर्मनामकं द्वितीयं कुलं चासीत् तत्र समस्तलब्धिसमवसथाः करुणासुधासिन्धवः श्रीकृष्णर्षिमुनीश्वराः समुत्पन्ना येषां
प्रस्तावना
॥३॥
Page #7
--------------------------------------------------------------------------
________________
SAKALA
नाम्ना स्वसन्ततेः कृष्णगच्छ इति प्रसिद्धिः सञ्जाता, यैश्च मित्रव्ययदुःखाद् व्रतं गृहीत्वा घोरानभिग्रहांश्च लात्वाऽतिदुष्कर तपस्तेपे यतस्तेषां प्रतिवर्ष चतुस्त्रिंशद् (३४)दिनानि पारणवन्त्यभूवन् । ईदृक् तपसो महिना स्वपादप्रक्षालनजलेन व्यालादिविषोद्धरणरूपा अनेकलब्धयस्तेषां समुत्पन्ना ये च श्रीवीरनिर्वाणत एकोनविंशत्यधिकसप्तशततमे(७१९)वर्षेऽमोघोपदेशबलेन नागपुरे नारायणश्रेष्ठितः श्रेष्ठं जिनचैत्यं निर्माप्यान्तिमजिनप्रतिष्ठापनादिशुभकार्य कृतवन्तस्तद्वंशोत्पन्नमहाप्रभावकसूरिसमूहे श्रीविक्रमादेकोत्तरत्रयोदशशततमे ( १३०१ ) वर्षे मरुभूमौ मन्त्राकृष्टैर्जलसमूहै। सङ्घमुज्जीवयितारः श्रीमजयसिंहसूरयोऽभूवन् । ततः परं महाप्रभावकाः श्रीमन्तः प्रसन्नचन्द्रप्रभवो दिद्युतिरे, तदनु महम्मदसाहेलेब्ध. प्रतिष्ठाः श्रीमहेन्द्रसूरयः सञ्जातास्तत्पट्टपूर्वाचलमण्डनकभास्कराः श्रीकुमारपालभूभर्तृचरित्रस्य निर्मातारो द्वितीयाः श्रीमजयसिंहसूरयो जाता, ये च व्याकरणन्यायकाव्यादिरचनायां नैपुण्यधरास्तथा वादिमृगयूथवित्रासनलब्धैकलक्ष्याश्चाभूवन् । __ यदुक्तं प्रस्तुतकुमारपालचरित्रप्रथमादर्शलेखकेन सप्तनयनिगमनिष्ठेन काव्येषु पुत्रीयमाणेन तेषां प्रशिष्येण हम्मीरमहाकाव्यरम्भामञ्जरीनाटिकादिका महाकविना श्रीनयचन्द्रसूरिणा स्वकृतहम्मीरमहाकाव्यस्य चतुर्दशसर्गे (प्रशस्तौ)
"जयति जनितपृथ्वीसम्मदः कृष्णगच्छो, विकसितनवजातीगुच्छवत् स्वच्छमूर्तिः।। विविधबुधजनालीभृङ्गसङ्गीतकीर्तिः, कृतवसतिरजन मौलिषु च्छेकिलानाम् ॥ २२॥ (मालिनी)
१ कृष्णर्षिगच्छ इत्यपि, “ संवत् १५४२ वर्षे श्रावणे मासि श्रीकृष्णर्षिगच्छे श्रीजयसिंहसूरिशिष्येण नयहंसेनात्मपठनार्थ श्रीपेरोजपुरे (पजाब) हम्मीरमहाकाव्य लिलिखे कल्याणमस्तु भद्रं भूयात् सङ्घस्य ग्रन्थार्ग १५६४” इति हम्मीरमहाकाव्यपुस्तकप्रान्तस्थोल्लेखेन ज्ञायते ॥
Page #8
--------------------------------------------------------------------------
________________
*
*
कुमारपालच०
प्रस्तावना
॥४॥
*USHA
तस्मिन् विस्मयवासवेश्मचरितश्रीसूरिचक्रे क्रमा-जज्ञे श्रीजयसिंहसूरिसुगुरुः प्रज्ञालचूडामणिः । षड्भाषाकविचक्रशक्रमखिलप्रामाणिकाग्रेसरं, सारङ्गं सहसा विरङ्गमतनोद यो वादविद्याविधौ ॥२३॥ (शार्दू) श्रीन्यायसारटीका, नव्यं व्याकरणमथ च यः काव्यम् । कृत्वा कुमारनृपतेः,ख्यातस्त्रै विद्यवेदिचक्रीति ॥२४॥ (आर्या) पौत्रोऽप्ययं कविगुरोर्जयसिंहसूरेः, काव्येषु पुत्रतितमा नयचन्द्रसूरिः।।
नव्यार्थसार्थघटनापदपङ्क्तियुक्ति-विन्यासरीतिरसभावविधानयतः" ॥ २७ ॥ (वसन्ततिलका) इति अनेन ज्ञायते श्रीजयसिंहसूरिभिः षड्भाषाचक्री सारङ्गपण्डितो वादे विजितः। तथा तैरेव च श्रीन्यायसारटीका निर्ममे, कोऽसौ न्यायसारः? इत्याशङ्कायामाचार्यश्रीभासर्वज्ञप्रणीतो न्यायसारनामको न्यायग्रन्थोऽस्ति यस्मिंश्च प्रन्थे वैशेषिकाभिमते प्रत्यक्षानुमाने हे प्रमाणे तथाऽन्येषामपि नैयायिकादीनामभिमतानि प्रत्यक्षानुमानोपमानशाब्दानि चत्वारि प्रत्यक्षानुमानोपमानशाब्दार्थापत्तिनामानि पञ्च प्रभाकरभट्टमते तथा प्रत्यक्षानुमानोपमानशाब्दार्थापत्त्यनुप-1 लब्धिकानि षड् वेदान्तिनां तथा चैतिह्यचेष्टाभ्यां पूर्वोक्तानि मिलितानीत्यष्टौ पौराणिकानामित्यादिप्रमाणविवाद
१येन शार्ङ्गधरपद्धतिनामा साहित्यग्रन्थः कृतः स च डा० पी पीटर्सन्साहिबेन मुद्रितः । शाधिरनामा हम्मीरराजस्य पण्डितो दामोदरसुतो लक्ष्मी धरकृष्णयो ज्येष्ठः । तत्रैव पुस्तके, "तदा तदस्य विभाति सम्भ्रमम्” इति श्लोकः कस्यापीत्युक्तं. वी पुस्तके प्रत्यन्तरे तु गार्ग्यगोत्रसमुत्पन्नमहादेयतनूजस्य शाधिरस्वेत्युकं । तथा च सारङ्गसमुच्चयः स एव ज्योतिःसारसमुच्चयः, तत्र तु "मुकुन्दबुद्धपुत्रेण" आशासिद्धिनिवासिना । सारङ्गपाणिमा प्रोक्तः, श्रीसारशी समुच्चयः" ॥१४॥ पत्रे ११ अस्ति, एवं सति शार्ङ्गधरानयः सज्ञातास्तत्राय हम्मीरपण्डित एव । नयचन्द्रसूरिकृते हम्मीरमहाकाव्ये मुद्रिते प्रस्तावनायां कोऽपि विशेषोऽस्ति ( इति रम्भामञ्जरीनाटिकाप्रस्तावनायां टिप्पनी)
U RI
Page #9
--------------------------------------------------------------------------
________________
परिभाव्य तेन प्रत्यक्षानुमानागमानि त्रीणि प्रमाणानि विस्तरतो निरूपितानीतरेषाञ्च तत्रैवान्तर्भावात् तथा पञ्चा वयवानां हेत्वाभासानां वादजल्पवितण्डानां छलजातिनिग्रहस्थानानां तदन्येषामपि पदार्थानां निरूपणं कृतमस्ति
तस्य च ग्रन्थस्य मङ्गलवादादारभ्य महाविद्वद्वरिष्ठानां विपश्चितां चेतश्चमत्कारजनन्युक्तिप्रत्युक्तत्युदाहरणप्रत्युदाहरणसहिता प्रसङ्गोपात्तान्यमतनिरूपणनिरसन पूर्विका सर्ववादिप्रतिवादिभेदादिप्रदर्शिका, यस्या अवलोकनमात्रत एव तेषामाचार्याणामलौकिकविद्वत्ता परिज्ञायते एतादृशी न्यायतात्पर्यदीपिकानाम्नी व्याख्या तैरेवानेकग्रन्थकर्तृभिस्तथा प्रस्तुतश्रीकुमारपालचरित्रस्य निर्मातृभिः श्रीजयसिंहसूरिभिर्विहिता यया समलङ्कृतो न्यायसारो बङ्गदेशोत्पन्नेन महामहोपाध्याय सतीशचन्द्र विद्याभूषण एम् ए पी एच् डी इति प्रसिद्ध विदुषा संशोध्य "एशियाटिकसुसाइटी ओफबेङ्गाल” इति | कालिकत्ताराजधानीस्थया संस्थया सन् १९१० वर्षे प्रसिद्धिं नीतः । तथा नूतनं व्याकरणमपि तै रचितमस्ति परमदृष्टत्वात् तन्नामादिकं प्रकटयितुं न शक्यते, काव्यं चेदं तैरेव सूरिभिर्विहितमिति ज्ञातज्ञेयानां सुविदितमेवास्ति
एते च महापुरुषाः कदा भूवन् ? इत्युत्कण्ठामेतच्चरित्रप्रान्तस्थश्लोकः स्थगयति यथा
"श्रीविक्रमनृपाद् द्विद्वि-मन्वब्दे (१४२२ ) ऽयमजायत । ग्रन्थः ससप्तत्रिशती-पट्सहस्राण्यनुष्टुभाम् (६३०७ ) " ॥ २७५ ॥ इत्यनेन ज्ञायते विक्रमपञ्चदशशताब्द्यामेते पूज्या भूमण्डलमलञ्चक्रुरिति । इदं चरित्रं यद्यपि जामनगरे हीरालाल हंसरजश्रावण पूर्व मुद्रितमस्ति तदपि पुनर्मुद्रणे हेतुर्यथा ग्रहर्षिनवचन्द्र (१९७९) संवत्सरे 'मीयाग्राम' इति नाम्नि ग्रामे श्रा
Page #10
--------------------------------------------------------------------------
________________
प्रस्तावना
कुमारपालच.
वकाणामाग्रहेणैतच्चरित्रं सदसि व्याख्यातुमारब्धं तत्र चतुर्थसर्गव्याख्यासमये सम्बन्धत्रुटिआता ततो लिखितपुस्तकगवे. षणायां प्रथममेकं कियत्कालेन द्वितीयं च लब्धमुभाभ्यां सहास्य सम्मेलने केषुचिच्छोकेषु शब्दान्तराणि दृष्टानि यथा १ सर्गे २१ तमे श्लोके चतुर्थपादे मुद्रिते-'कीर्तिव्रज' लिखिते-'संवत्सरं' इत्यादि। केषुचित् पादान्तरं यथा १ सर्गे५१तमे श्लोके- मुद्रिते-'तन्मन्दिरसमीपस्थे । लिखिते-'समया मन्दिरं तस्य' इत्यादि
केषुचित् पादान्तरे यथा २ सर्गे २७७-२७८-२९१ तमेषु श्लोकेषु मुद्रिते-तासु च नरकावासाः, प्राणिनां च भयङ्कराः। दुर्गन्धाः प्रसरत्पूति-वसारक्तादिपड्किलाः॥ लिखिते-तासां मध्ये क्रमेणैवा-थ त्रिंशत्पश्चविंशतिः । पञ्चदश दश तिस्रो, लक्षा लक्षा च पञ्चमुक् ॥२७७॥
पश्चान्ये चतुरशीति-लक्षा निश्शेषसङ्ख्यया । दुर्गन्धाः प्रसरत्पूति-वसारक्तादिपङ्किलाः ॥ २७८ ॥ सामुद्रिते-तप्तायःपुत्रिकाभिश्चा-लिजयमानान मुहुर्मुहुः । लिखिते-साक्षादाग्नेयकीलाभिः, पुत्रिकाभिः सहासकृत् ॥ २९१ ॥
केषुचित्पादान्तराणि, यथा ७ सर्गे १४८ तमे श्लोकेमुद्रिते-किं बहूत्या तथाऽऽचर्य, युष्मद्भ्यां निजकर्मसु । यथाऽत्र युवयोः ख्याति-भवेल्लोकोत्तरैर्गुणैः॥ लिखिते-किं बहुक्त्या तथा वत्सौ !, वर्त्तयाथामतःपरम् । पूर्वानतिशयीयाथां, यथा लोकोत्तरैर्गुणैः॥१४८॥ अन्यच्च केषुचित्स्थलेषु श्लोका एव त्यक्ता दृष्टा यथा२ सर्गे २६ तमः श्लोकः, २७९ तमश्च । तथा ३९-४० तमौ श्लोको, ६१२-६१३ तमौ च ।
TRENCESSORROTOCOCOM
Page #11
--------------------------------------------------------------------------
________________
तथा ४ सर्गे ५८-५९-६० - तमाः श्लोकाः, ३५६- ३५७ - ३५८ - ३५९ तमाः, १५३ प्रारभ्य २५२ पर्यन्ताश्च तथा ६ सर्गे १४९ प्रारभ्य २५३ पर्यन्तान् (१०५ ) श्लोकान् त्यक्त्वा तत्स्थाने सम्बन्धमेलनायेव विंशतिः श्लोका अन्ये प्रक्षिप्ताः सन्ति, तथा ७ सर्गे ३२० प्रारभ्य ५२३ पर्यन्ताः ( २०४ ) श्लोका न विद्यन्ते,
| तथा ८ सर्गे १३६ प्रारभ्य ३३५ पर्यन्ताः श्लोका न विद्यन्ते तत्स्थाने च सम्बन्धमेलनायेव २५ श्लोका नवीनाः प्रक्षिप्ताः सन्ति, एवमन्यत्रापि बहुषु स्थानेषु शब्दविपर्यासपादविपर्यासश्लोकत्यजनमवलोकितमत्र च लेखामात्रं प्रदर्शितं सर्व तु ग्रन्थावलोकनादेव विज्ञेयं, दघिमाषभोजनतः कियन्तः क्रमयो विविच्यन्ते ? इत्येवं बहुतरं वैपरीत्यं विलोक्य मा भूदस्य विपर्यासस्याग्रतोऽपि प्रसरणमिति, तथा श्रोतॄणां तच्छ्रवणेऽतीवोत्कण्ठां सम्भाव्य मुम्बापुर्या भगवतीसूत्रवाचनानन्तरमेतदेव व्याख्यातुमारब्धं श्रोतृजनप्रेरणया च तस्य शुद्धपाठोलेखद्वारेण पुनर्मुद्रणे चिकीर्षोत्पन्नेति,
ग्रन्थस्यास्य विषयादिकं त्वनुक्रमणिकातोऽवसेयम्,
अस्य संशोधनाधारं पुस्तकत्रयं समासादितं तत्रैकं तावन् नातिशुद्धं प्रशस्तिरहितं बृहत्पत्तन (बडोदा) स्थाज् | जैनाचार्य श्रीमद्विजयमोहनसूरीणां पुस्तकागारतः, अपरं च शुद्धप्रायं बृहत्पत्तनस्थादेव प्रवर्तक श्रीमत्कान्तिविजयमुनिपुङ्गवानां ग्रन्थागारात् तृतीयं त्वशुद्धिबहुलं “वि० सं० १४९३ वर्षे पौषसु १५ रविदिने लिखितं प्रन्थानं ६३०० " इति लेखान्वितं मुम्बापुर्यामेव मणिलालसूर्यमलश्रेष्ठिनः पार्श्वादिति,
Page #12
--------------------------------------------------------------------------
________________
कुमारपाउच
SEARCA
पतत्पुसकत्रयेण संशोधने साहाय्यं लभमानोऽहं पुस्तकदातृमहाशयसको महतीं परोपकृति स्मृतिगोचरतां नयामि, प्रस्तावना एखत्युस्तकत्रयाधारण महता प्रयासेन संशोधितेऽप्यत्र ग्रन्थेऽस्मदृष्टिदोषेण बुद्धिमान्छेन वा सीसकाधरयोजकदोषेण ते वा यत्रदोषेण था यत्र कचनाशुद्धिर्जाता कृता वा भवेत् सा च कृपावद्भिर्विपश्चिन्निः पराकरणीवेति प्रार्थयते,
त्यधिकाटनबेलाब्दे (१९८२), वैष्ठ्यां च तिथौ दितीजगुरुवारे। श्रीक्षान्तिविजयगणिना, सूर्यपुरे प्रस्तावना हुन्धा ॥१॥ आर्या ॥
सूर्यपुरस्थः क्षान्तिविजयो गणिः प्रथमाऽऽयासोऽयं मे, लिखने संशोधने च संस्करणे।
यदि चापशब्दयोगो, विबुधैः संशोधनीयः सः॥२॥ आर्या ॥ यतः- गच्छतः स्खलनं क्वापि, भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र, समादधति सजनाः ॥३॥
यावद् व्योमसरःक्रोडे, रविहंसो विराजते, विबुधैर्वाच्यमानोऽयं, ग्रन्थस्तावत्पनन्दतु ॥४॥
शुभं भवतु कल्याण-मस्तु मङ्गलकारकम् । चरित्रं श्रीकुमारस्य, दयाधर्मेकजीवनम् ॥५॥ को शैलस्य सुता मयूरवचने किं वा भवेत् कारणं', को रामस्य पिता? नभो ब्रजति कैः शक्रस्य को वै सुतः । | को हंता जगतो विवेकदहना का ? का जनैर्दुःसहा?,को दण्डं कुरुते ? क्या? जगति वै कि" जीवनं? पातु सः ॥६॥ शार्दूल०॥31॥६॥
१उमा. २ मेषः. ३ दशरथः. ४ विः-पक्षी. ५ जयन्तः. ६ यमः. ७ मदिरा. ८ हानिः. ९ राजा. १० जने. ११ जीवन-जलम्. एतेषामेकादशोत्तराणामाद्याक्षरसम्मेलने उमेदविजयमहाराजजी इति प्रसिद्धनामा स गुरुयुष्मानमांश्च पातु-रक्षतु ।
AASIASSAS**9649694
N
AGA
Page #13
--------------------------------------------------------------------------
________________
..
........................................................................
. .. ........................................
பை
परमाहतश्रीकुमारपालभूपाल:
जन्म वि सं ११४९.
राज्याभिषेक वि. सं.
कलिकालसवज्ञश्री हेमचन्द्रमूरिः जन्म वि. सं. ११४५. दीक्षा वि. सं. ११५४. सूरिपदं वि. सं ११६६. निर्वाणं वि. सं. १२२९.
श्रीहेमचन्द्रसूरिकृतत्रि-: शष्ट्रीयचरित्रस्य ताडपत्रप्रत्यां 'पाटण' भाण्डागारसत्कायां वि. सं. १२९४ : वर्षे चित्रिते इमे द्वे मूर्ती
श्रीसम्यक्त्वमूल. द्वादशवतस्वीकार: वि सं १२१६. स्वर्गगमनं वि. सं.
१२३०.
-Dubagriyar
प्रकाशमां लावनार अनु. योगाचार्य (पं.) क्षान्ति::विजयजी गणि.
हेमचंद्र
कुमारपाल
Page #14
--------------------------------------------------------------------------
________________
स्वर्गस्थः बालब्रह्मचारी तीर्थोद्धारकः अनुयोगाचार्य (पं.) श्रीउमेद विजयजी गणिः
जन्म वि. सं. १९०३.
दीक्षा वि. सं. १९२६.
गणिपदं वि. सं. १९४९.
पंन्यासपदं वि. सं. १९५२.
स्वर्गगमनं वि. सं. १९६४.
अनेकदेशोमां विहारकरी उपदेशद्वारा अनेकजीवोने धर्मप्राप्ति करावनार विसमीसदीना
महात्मा.
बालब्रह्मचारी विद्वद्रत्नं अनुयोगाचार्य (पं.) श्री क्षान्तिविजयजी गणिः
जन्म वि. सं. १९४१.
दीक्षा वि. सं. १९५९. गणिपदं वि. सं. १९७९. पंन्यासपदं वि. सं. १९७९.
पं. श्री उमेदविजयजी गणिमुख्यशिष्य मुंबईमां वि. सं. १९८० तथा ८१ मां भगवती
सूत्र व्याख्याता तथा कुमारपाल
चरित्रना व्याख्याता संशोधक अने संस्कर्ता.
Page #15
--------------------------------------------------------------------------
________________
अस्य ग्रन्थस्य सविस्तरविषयानुक्रमणिका।
प्रथमः सर्गः१
विषय में
EISESSHOSASUGUASSASAS
१ मङ्गलाचरणम् ... ... ... २ चरित्रनिर्माणकारणम् ... ... ... ३ कवेः स्वाभिमानपरिहारः ४ चौलुक्यवंशस्य मूलतो निरूपणं चौलुक्यपूर्वेषां
वर्णनं च ... ... ... ... | ५ श्रीहेमचन्द्रसूरेगणादिनिरूपणम् ... ...
६ श्रीदत्तसूरेगिडदेशस्थवटपद्रपुरं प्रति विहरणम् ... ७ तत्पुरेशयशोभद्रनृपागमनं सूरिणा धर्मोपदेशदानं च
विषयः | ८ नरभवदुर्लभत्वे विष्णुशर्मण उदाहरणम् १|
९ यशोभद्रनृपस्य धर्मप्राप्तिः १०
१० दग्धपन्नगी दृष्ट्वाऽमात्यादिसहितस्य राज्ञो गुरुसमीपे
गमनम् ... ... ... ...
११ श्रीदत्तसूर्युपदेशेन प्रायश्चित्तादानं चैत्यनिर्मापणपुर१५ स्सरं राज्ञो दीक्षाऽऽदानं च ... ...
१२ श्रीयशोभद्रस्य तपस्यादिपूर्वकं सुरिपदप्राप्तिः स्वर्ग४९ गमनं च ... ५२ | १३ श्रीप्रद्युम्मसूरिप्रभृतीनां निरूपणम् ...
%AA%%%AAAAAA
कु.पा.च.2
Page #16
--------------------------------------------------------------------------
________________
कुमारपालच०
विषयानुक्रमणिका.
... १४५
विषयः श्लोकाः । विषयः
श्लोकाः |१४ श्रीदेवचन्द्रसूरीणां धन्धूकपुरे गमनम् .... १३३ । २५ श्रीदेवचन्द्रसूरेस्ततो विहृत्याणहिल्लपत्तनं प्रत्यागमनम् |१५ श्रीहेमचन्द्रसूरेवंशमातापित्रादीनां कथनम्
| २६ श्रीसोमचन्द्रस्य विविधकलादिप्राप्युद्यमस्तत्प्राप्तिश्च... १६ श्रीहेमचन्द्रसूरेर्जन्मवर्णनम्
२७ श्रीसोमचन्द्रस्य सूरिपदकथनं श्रीहेमचन्द्रसूरिरिति १७ चङ्गदेव इति नामादिनिरूपणम् ...
नामस्थापनं महोत्सववर्णनं च १८ श्रीदेवचन्द्रसूरिणा चङ्गदेवस्य याचनम् ... १५१
२८ श्रीहेमचन्द्रसिद्धराजयोः सम्मिलनम् ... १९ चङ्गदेवं गृहीत्वा श्रीदेवचन्द्रसूरेः स्तम्भतीर्थ प्रति विहरणम्
२९ सिद्धराजाय धर्मोपदेशदानम् ... ... ... ... १५५ २० चङ्गदेवस्य दीक्षावरणम् ... ... ... १५८
३० सामान्यधर्मनिरूपणे शमश्रेष्ठिकथानकम् २१ तस्य गुरुसन्निधौ शास्त्राभ्यासकरणम् ....
३१ सिद्धराजस्य धर्मविषया पुनः पृच्छा दयाधर्मवर्णनं च २२ सरस्वत्या आराधनं तस्याः प्रादुर्भावो वरदानादि च १७२ |
३२ उपकारखतवर्णनम् ... ..... २३ ततो विहृत्य नागपुरं प्रति गमनम् ... ... १८७ ३३ तस्योपर्यभयङ्करचक्रवर्त्तिकथानकम् ... .... २४ नागपुरनिवासिनो धनश्रेष्ठिनो वैभवादिनिरूपणं ३४ तदुत्पत्तिदेशादेस्तन्मातापित्रादेश्च वर्णनम् ...
श्रीसोमचन्द्रमुनेश्चमत्कारादिकथनं च ... १९० | ३५ अमरसेनायाश्चतुर्दशस्वप्नदर्शनमभयङ्करजन्मादि च
WW WW
V
Page #17
--------------------------------------------------------------------------
________________
लोकाङ्कः |
विषय
विषयः
विषयः
. . कारः |३६ अभयङ्करस्यापहारः ...
४५ अभयङ्करस्य तीर्थयात्रायै प्रयाणम् ... ... ४५७ ३७ अभयङ्करस्य वने मठस्थयोगीन्द्रदर्शनम्
३६२ | ४६ रुदितं श्रुत्वा अभयङ्करस्य गुहायां गमनं तत्र कन्या|३८ योगसामर्थ्यवर्णनम् ... ... ...
दिविलोकनं सत्पुरुषाचरणकथनं तस्या रक्षणं तथाऽ|३९ राज्यागमनवर्णनम् ... ... ... ३७७ | पराजितदेवतायाः प्रादुर्भावोऽभयङ्करस्योपरोधेन यो. |४० तस्माच योगीन्द्रादनिच्छतोऽप्यभयङ्करस्य खड्ग
गिने सिद्धिप्रदानं च - ... ...४७३-५५८ विद्याप्राप्तिः सत्सङ्गमाहात्म्यवर्णनं भाग्यसामर्थ्य- ४७ अभयङ्करस्यारिकेसरिनृपराज्यप्राप्तिः । ... ५६३
वर्णनं च ... ... ... ... ४८ सिंहपुरस्वामिनाऽऽगत्य स्खकन्यापरिणायनम् ... |४१ अभयङ्करस्य स्वस्थानप्रापणम् ... ... ३९५ ४९ नृसिंघनवाहनमणिचूडादीनां मिलनम् ... | ४२ अभयङ्करस्यानिच्छतोऽपि राज्यप्राप्तिः
३९७
५० अभयङ्करस्य चक्ररत्नप्रादुर्भावोऽन्यरत्नोत्पत्तिश्च ... ४३ अभयङ्करनृपसमीपे नृसिंहभूपतेरागमस्तस्मात् खड्ग- ५१ अभयङ्करस्य दिग्विजयो द्वादशवार्षिकाभिषेकश्व ...
सिद्धिं गृहीत्वा नृसिंहस्य घनवाहननृपतिजयनं च... ४०४ ५२ अभयङ्करस्य गुरुसमीपे देशनां श्रुत्वा दीक्षा गृहीत्वा त४४ राज्यभ्रष्टधनवाहनस्याभयङ्करसन्निधावागमस्तस्मै स्व
पस्तत्वा केवलज्ञानं समवाप्यानेकजनान् प्रतिबोध्य कीयराज्यदानं च ... ...
... ४२७ ।
मोक्षगमनम् ... ... ...
Page #18
--------------------------------------------------------------------------
________________
श्लोकाः काविषयानु
क्रमणिका.
कुमारविषयः
श्लोकाः | विषयः पालच०
५३ अभयङ्करस्य महात्मनः कथासमाप्तिः... ... ६०९ ८ चन्द्राननापुरीतजनराजादिवर्णनम् ... ॥६/५४ श्रीहेमचन्द्रसूरेर्मुखाद् देशनां श्रुत्वा कृपयाऽञ्चितस्य ९धर्मोपाध्यायगृहे पुत्रोत्पत्तिः सिद्धराजनृपतेः परोपकारव्रतस्वीकारः, सर्गसमाप्तिश्च ६११ १० पितुस्तजन्मलग्नविचारणम्
११ गङ्गया पुत्रस्य मार्गे विसर्जनम् ... द्वितीयः सर्गः २
१२ अजापालेन तस्य स्वपुत्रत्वेन स्वीकारस्तथाऽजापुत्र १कुमारपालमातापित्रोवर्णनम् ...
इति नामप्रदानं च ... ... ... २ कुमारपालस्य जन्मादिवर्णनम् ...
१३ देवीवचनानुसारिमनिवाक्यतोऽजापुत्रस्यारण्ये मो३ कुमारपालस्य भ्रातृभगिनीकथनम् ...
चनं ... ... ४ कुमारपालस्याणहिल्लपत्तने गमनं श्रीहेमाचार्यस
१४ अजापुत्रस्यारण्यमुलथ पुरीयक्षचैत्याग्निग दिदीम्मिळनं च ... ... ... ... २३ | नमनिगर्तायां पतित्वा फलानयनं च ... ... ५ कुमारपालस्य श्रीहेमाचार्य प्रति गुणविषयकप्रमः | १५ अजापुत्रस्य पुरी प्रति गच्छतो वनमध्ये तडागदर्शनम् ६ श्रीहेमाचार्यस्य कुमारपालाने सत्त्वगुणनिरूपणम् २६ | १६ अग्निग लब्धफलयुक्तवस्त्रं तटे मुक्त्वाऽजासुतस्य ७ सत्त्वोपर्यजापुत्रकथानकम्
जलपानार्थ गमनम् ... ...
AUGUSTOCOLLAGE
AAAAAAAA
Page #19
--------------------------------------------------------------------------
________________
श्लोकाङ्कः |
ARRARARARAS
विषयः
विषयः १७ तत्र वानरागमः फलापहारश्च
११८ । २५ दुर्जयनृपस्य स्खशिरश्छेदे प्रयत्नो देवीप्रादुर्भावो नृपस्य १८ वानरस्य फलवृन्ताशनेन नरवलाभोऽजासुताय फल
सर्वाङ्गसुन्दरीव्यन्तयों सह रमणं च... ... २२५ हारप्रदानं च... ... ... ... १२५ | २६ गजेन व्यन्तरावासभूमावाजेयस्य मोचनं तत्र मु१९ कपिमर्येन सहाने गमनं यक्षालये निवासच ...
तस्य तस्य व्यन्तरेन्द्रसमीपे गमनं च २० यक्षगृहे ज्योतिर्दर्शनमजासूनोस्तदनुगमनं च ... १३७ २७ सुखेन तत्र तिष्ठन्नन्यदाऽजापुत्रो व्यन्तरेन्द्रानुग्रहेण २१ ज्योतिषस्तिरोभावेऽजापुत्रस्य शिवङ्करापुरीदर्शनं तत्र
नरकभूमीनरकावासान् दुःखानुभवतो नारकांश्च द इदजलेन सिंहीभूतस्य दुर्जयनृपस्य बहिफलचूर्णेन
ददर्श निर्वेदतां च प्रापत् ... ... मनुष्यत्वसम्पादनं च ... ... ... १४२
[नारकाणां दशविधा वेदना. टिप्पन्याम्.] 8/२२ अजापुत्रस्य दुर्जयनृपेण सह वैयाघ्रकारिजलदनिरी-- २८ व्यन्तराधिपदत्तरूपपरावर्तकगुटी गृहीत्वाऽऽजेयस्य हा क्षणार्थ गमनम् ... ... ... २०४
सरस्तीरे प्रत्यागमनं नृपसैन्यैर्दुर्जयराजपरिपृच्छा च ३०७ २३ इदनिर्गतहस्तिनाऽऽजेयस्य हरणं दुर्जयनृपस्य तदनु
[संरम्भसमारम्भारम्भाणां व्याख्या, टि.] गमनं च ... ... ...
२१४ | २९ दुर्जयनृपवृत्तान्तं व्यन्तरेन्द्राज्ञातुमजासुतस्य पुनर्ज२४ हस्तिनस्तिरोधानं चण्डिकामठदर्शनं च ... २१८ ] लमध्ये झम्पादानं कटीपर्यन्तं मकरेण प्रसनं ह्रदवारि
Page #20
--------------------------------------------------------------------------
________________
कुमारपालच०
श्लोकाः
विषयानु क्रमणिका.
विषयः
श्लोकाङ्कः । विषयः प्रभावेण शेषभागस्य व्याघ्रीभवनं मकरस्याप्यर्धा
वस्त्रादि गृहीत्वा च तीर्थयात्रया पवित्रीकृतात्मनस्तशेन नरीभवनं च ... ... ... ३१५
स्येन्द्रानुचरद्वारा पुनर्वापीतीरे प्रत्यागमनम् ... ३९६ ३० सर्वाङ्गसुन्दरीदासीभिर्नरद्वीपिरूपस्य तस्य सर्वाङ्गसु
[गीत-ताल-अभिनय-कास्य-ताण्डव-स्वरूपकथनं तथा स्वर-ग्राम
मूर्च्छनास्वरूपनिरूपणं च, टिप्पन्याम् ] | न्दरीसमीप आनयनं तं दृष्ट्वा दुर्जयराजस्य देवीवाक्य
३६ अजासुतस्य जयन्ती नगरी गत्वा बहुबुद्धिवणिग्गेहे स्मृतिश्च ... ... ... ... ३२५ निवसनम् ... ... ... ... ३१ चण्डिकादत्तौषधयोगेनाजेयस्य मकरवदनान्निःसरणम् ३२८ ३७ आजेयस्य कटीतटात् पतितं वस्त्रयुग्मं नापितेन लात्वा३२ सर्वाङ्गसुन्दर्या मकरपुरुषाजेययुक्तस्य दुर्जयस्य सर
वणिजे विक्रयणं तेन च राजाई विज्ञाय राज्ञे दत्तम् स्तीरे मोचनं व्याघ्रताकारिसलिलसहितमजापुत्रं | ३८ विक्रमराजस्य वसन्तोत्सवावलोकनार्थ बाझोद्याने गम्- मकरमयं च गृहीत्वा राज्ञःस्वपुरं प्रति प्रस्थानं च ... ३४८ नमजातनयसत्कहारभूषितस्य मतिसागरस्य बहु३३ अजातनयस्य पुनस्तस्मिन् यक्षमठ आगमनं तथा कपि
बुद्धिवणिक्तनयस्य च ... ... नरमकरनरसहितस्य तस्याग्रस्थां पुरी प्रति चलनं च ३५२ | ३९ हारहारकबुद्ध्या राजभटैर्मतिसागरे ताड्यमाने ऽजा३४ आजेयस्य विद्याधरस्त्रीभिः सहाष्टापदं प्रति गमनम् ३६९ | तनयेन सह वणिजस्तत्रागमनं राज्ञोऽजातनयेन सह ३५ तत्र तुम्बहरूपेण गानं कृत्वा सुरेन्द्र प्रसाद्य दिव्य
संवादस्ततोऽजासुतस्य गमनं च ...
Page #21
--------------------------------------------------------------------------
________________
विषयः
४० वनस्थोऽजासुतो हस्तिना हियमाणं विमलवाहनं दृष्ट्वा हस्तिनो मर्त्यविधानपूर्वकं तं विमोचयामास विमल • वाहनाजासुतयोः संवादच
...
...
[ द्रोण - पत्तन-सम्बाधलक्षणानि, टि० ]
४१ देवकुले विमलवाहनस्य शुकमुखाद् युधि महासेनस्वजनक मरणश्रवणमजासुतानुमत्या कीरद्वारा स्वमत्रिणः सन्देशप्रेषणं च ... ७७४ ४२ आजेयस्य कुमारादिभिः सह विजयपुरं प्रति गमनम् ५२६ ४३ अजातनय साहाय्येन विमलवाहनस्य राज्याभिषेको
...
...
...
...
युधि शत्रुजयश्च ४४ अंजासुतस्य चन्द्रापीडनृपतेरुपरि प्रयाणम् ४५ आजेयो युधि चन्द्रापीडस्य राज्ञः शिरश्छेदं कृत्वा तद्रा
जयश्रियं लब्धवान्
...
श्लोकाः
...
...
४६४
५३१
५५७
६०९
विषयः
४६ वसन्तस्य प्रादुर्भाव आजेयस्य क्रीडार्थ बहिरुद्याने
गमनं च
....
...
४७ उद्याने लोकश्रवणानन्तरं देवीद्वाराऽऽजेयस्य स्वमातुः सम्प्राप्तिः स्वजन्मवृत्तान्तश्रवणं च ४८ वृद्धारोगनिवृत्त्यर्थमाजेयस्य स्वजिह्वाच्छेत्तुमुद्यमश्वन्द्राननापुर्यधिष्ठायिनीदेवीप्रादुर्भावश्च...
... ६५२ ४९ आजेयस्य सम्यक्त्वप्राप्तिर्दीक्षां गृहीत्वाऽन्ते स्वर्गगमनं गणधरभवनाधिकारश्च
...
...
...
...
...
श्लोकांडः
५० कुमारपालस्य दधिस्थलीं प्रति गमनं, सर्गसमाप्तिश्च तृतीयः सर्गः ३ १ सिद्धराजस्य निरपत्यतावर्णनम् २ सिद्धराजस्यापत्यार्थं विविधप्रयासाः ... ३ सिद्धराजस्य श्रीमाचार्येण सह तीर्थगमनम्
...
६१९
६२७
(.
६७२ ६८८
१
Page #22
--------------------------------------------------------------------------
________________
क
कुमारपालच.
विषयानु
क्रमणिका.
विषयः
श्लोकाः । विषयः
श्लोकाः ४ सिद्धराजस्य श्रीविमलाचलारोहणं तीर्थपतिनमनं तद
[उच्छवृत्तिवर्णनम्. टि.] नाहते द्वादशमामार्पणं च
| ९ कुमारपालं राज्याई मत्वा सिद्धराजस्य तं प्रति विद्वेष५ ततः श्रीरैवताचलं गत्वाऽनाशातनाकरणपूर्वकं श्रीने
त्रिभुवनपालमारणं च ... ... ... मिनाथवन्दनम् ... ... ... ३६
१० सिद्धराजभयेन कुमारपालस्य कृष्णदेवसमीपे गमनम्। ६ ततः सिद्धराजस्व देवपत्तने गत्वा सोमेशं नत्वा
११ जटाधरवेषेण कुमारपालस्य भ्रमणं पुनरणहिल
- पत्तनागमनं च कोटिनारपुरे पुत्रोत्पत्तिपृच्छायै चाम्बादेव्याराधनाकृते श्रीहेमाचार्य प्रति प्रार्थना
१२ नृपगृहात् कुमारपालस पलायनं बदरीपत्रेषु निलयन... ... ४२
पूर्वकं स्वरक्षणं च ... ... ७ अपत्याभावे सति कुमारपालस्तव राज्यस्य मायको
..
१३ कुमारपालस्याखुविलोकनम् ... ... भविष्यतीति देव्यादिष्टं गुरुवाक्यं श्रुत्वा सिद्धरा
१४ कुमारपालस्य देवरियो भोजनमातिदेविस्थलीजस्य हयुद्वेगः स्वराजधान्यामागमनं गणकानां
गमनं प ... पृच्छा च ... ... ... ... ४७ | १५ राजभटभयेन कुमारपालस्पेष्टकापाकमध्ये प्रवेशो ८ सिद्धराजस्य पुत्रार्थमुन्छवृत्त्या सोमेश्वरोपासना... ५७ / बोसरिमित्र मिलनं च ... ...
HASHISHISHIGARROSOSIALISASA
॥१०॥
Page #23
--------------------------------------------------------------------------
________________
विषयः
लोकाङ्कः विषयः ४|१६ सज्जनस्याम्बाजनकयोरुद्वेगः ... ... १५१ - २३ कुमारपालस्य काञ्चीपुरी गत्वा योषिन्मुखाच्छिन्न|१७ बोसरिणा सह गच्छतः कुमारपालस्य बोसर्यानीत
शीर्षकबन्धनिरुक्तिश्रवणम् ... ... भिक्षाभक्षणादि ... ... ... १६३ | २४ अमृतसरोनामनि सरसि चैत्ये जनैः पूज्यमानं शीर्ष१८ ततः स्तम्भतीर्थे हेमाचार्यमठे गत्वा कुमारपालस्य ___मवलोक्य लोकमुखात् तत्कथाश्रवणम् ...
पृच्छोदयनामात्यमिलनं राज्यप्राप्तिदिनकथनमामन- २५ कुमारपालस्य कोलम्बपुरगमनं स्वप्ने कोलम्बना
पोदाहरणकथनमुदयनगृहे स्थितिश्च ... १७७ | यकाय सोमेश्वरस्य कुमारागमनकथनं च ... १९ सिद्धराजबलाद् भयाकुलस्य शरणप्राप्तस्य कुमार- २६ कुमारपालस्योजयनी प्रति गमनं कुण्डगेश्वरप्रासादे
पालम भूमिगृहक्षिप्तस्य श्रीहेमाचार्येण रक्षणम् ... १९९ प्रशस्त्यवलोकनादि च ... ... ... २० कुमारपालस्य बटपद्रपुरे कटुकवाणिजावणकयाचनम् २७ कुमारपालस्य कुटुम्बेन सह चित्रकूटाचलगमनं तत्र | २१ भृगुकच्छपुरे कुमारपाल नैमित्तिकाय खराज्य
श्रीराममुनिसमीपे चित्रकूटदुर्गोत्पत्तिपृच्छा चिऋप्राप्तिपृच्छा ... ... ... ... २२५ | दनृपकथानकवणं च ... ... ... २२ तत उज्जयनी गत्वा कोल्लापुरे गतस्य कुमारपालस्य | २८ चित्राङ्गदस्य स्वर्णपुरुषसिद्ध्यर्थ योगिना सह श्मशाने
योगिपाश्र्वान् मनं गृहीत्वा श्मशाने तदाराधनम् ... २३० । गमो योगिनोऽग्निकुण्डे पतनेन स्वर्णपुरुषसिद्धिश्च ३७८
NROGRAक
र
Page #24
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ ११ ॥
विषयः
२९ चित्राङ्गदेन दुर्गं कृत्वा तस्य चित्रकूट इति नाम
करणम्
३० शम्भलीशस्य चित्राङ्गदोपर्यागमनम्
...
३१ चित्राङ्गदराजवेश्यां भेदयित्वा शम्भलीशस्य दुर्ग
...
***
***
प्रवेशः
....
३२ चित्राङ्गदस्य श्रीरकूपे झम्पादानम्
३३ कुमारपालस्याण हिल्लपत्तने गमनम् ३४ सिद्धराजस्य मरणम्
३५ कुमारपालस्य राज्याभिषेकः
३६ कुमारपालस्य भोपलदेव्यै पट्टराज्ञीपददानमुदयनाय
४७४
महामात्यपददानं वाग्भटायामात्यपददानं च ३७ पूर्वामात्यानां कुमारपालवधोपायरचनं तत्प्रतिकारश्च ४७८ ३८ कुमारपालेन कृष्णदेवस्यान्धीकरणम् ...
४९२-५१३
...
...
...
श्लोकाः
...
४०८
४१३
४३३
४३९
४४३
४४८
४६३
विषयः
३९ सिद्धराजधर्मपुत्रचारभटस्य, ( चाहड - मालवदेशीयराजपुत्र - रजपूत) अर्णोराजसमीपे गमनम्
४० कुमारपालस्य निजोपकर्तृभ्यः सत्कारपूर्वकं यथायोग्यं पारितोषिकदानम्
...
४१ श्रीमाचार्यस्याणहिलपत्तने प्रवेशः
४२ कुमारपालाय चमत्कारदर्शनम्
४३ श्रीहेमाचार्यस्योदयनमन्त्रिणा सह राजसभायां प्रवेशः ४४ कुमारपालद्देमाचार्ययोः परस्परं संवादो धर्मोपदेशश्च ४५ राज्यस्थितिवर्णनं, सर्गसमाप्तिश्च
...
***
चतुर्थः सर्गः ४
१ कुमारपालस्य दिग्विजयाय प्रयाणम्..... [ षाड्गुण्यवर्णनम्, टिप्पन्याम् ]
२ जावालपुरनृपेण सत्कारकरणम्
....
५२०
५३४
५३७
५४९
५५४
५७६-५७८
0000
श्लोकाः
....
५१८
३
१७
विषयानु
क्रमणिका.
॥ ११ ॥
Page #25
--------------------------------------------------------------------------
________________
२२
विषयः
लोकाङ्कः विषयः ३ अजमेरुनायकेन पूजनम् ....
१८ १५ अर्णोराजाद् विरज्य देवल्लदेव्याः कुमारपालसमीप ४ कुरुनाथेन नमनम् ....
२० आगमनं स्ववृत्तान्तकथनं च .... ५ ततो मालवान् प्रतिगमनम्
१६ कुमारपालस्यार्णोराजवृत्तान्तं ज्ञातुं शाकम्भों ६ नर्मदानदी प्रति गमः ....
खमविप्रेषणम् .... .... .... ७ आभीरदेशस्थप्रकाशानगरीश्वरजयनम्
१७ कुमारपालस्य शिवनि सया कर्णमेरी गमनम् .... ८ ततो विन्ध्याद्रावृत्त्य पल्लीपतेर्दण्डग्रहणम्
१८ तत्रार्णोराजप्रेषितव्याघ्रराजं निगृह्य परिमोचनम् ..... | ९ सुराष्ट्रपतिजयनम् ....
१९ चौलुक्यस्यार्णोराजं जेतुं प्रयाणम् .... .... १० कच्छनायकैः सह युद्धं विजयश्च ....
२० चन्द्रावतीशविक्रमसिंहस्य चौलुक्यद्रोहविचारणम् .... ११ पश्चनदाधिपेन सह सङ्घामो विजयश्च ।
| २१ चौलुक्यदहनाय वह्नियन्त्रमयं गृहं कारयित्वा चौलु|१२ ततो मूलस्थाननृपमूलराजेन सह महायुद्धं विजयश्च ५५-१०९ क्यनिमन्त्रणाय विक्रमसिंहस्य गमनम्..... ....
[परिणतगजस्य, निसृष्टार्थदूतस्य च, लक्षणम्. टि.] | २२ चौलुक्यस्य वैरिपुरीपार्श्वे गत्वाऽर्णोराज प्रति दूत| १३ दिग्विजयं कृत्वा कुमारपालस्य स्वपुरे प्रवेशः .... १२० | प्रेषणम् .... ..... .... १४ श्रीहेमाचार्येणोपश्लोकनम्.... .... ... १४१ / २३ अर्णोराजस्य युद्धाय नगर्या बहिर्गमनम्
Page #26
--------------------------------------------------------------------------
________________
+ % E
विषयः
कुमारपालच०
| विषयानुक्रमणिका.
॥१२॥
...
४८७
www
ACAREERS
श्लोकार विषयः २४ अर्णोराजचौलुक्यसैन्ययोयुद्धम्
३३० । ३५ मल्लिकार्जुनविजयायाम्रभटस्य प्रयाणम् २५ चौलुक्यसेनायाः पयजयः
३५० ३६ वदेशं प्राप्य मल्लिकार्जुनसमीपे दूतप्रेषणम् २६ चौलुक्यस्त्र युद्धाय गमनम्
३७ मल्लिकार्जुनस्य युद्धाय पुर्वा बहिर्गमनम् २७ अर्णोराजसैन्यस्य पराजयः
| ३८ मल्लिकार्जुनाम्रभटयोयुद्धम् .... ....
... ५०८ २८ उभयोराज्ञोः परस्परं हास्यसंवादः ....
३९ मल्लिकार्जुन हत्वाऽऽनभटस्य चौलुक्यसमीप आगमनं २९ यो राजहस्तिनोयुद्धं राज्ञोश्च
सहद्धिसमर्पणं च .... .... .... ५१८ ||३० चौलुक्यस्य चाहुमानं रणे जित्वा पुना राज्ये स्थापनम्
४०५
४०आम्रभटाय 'राजपितामह' विरुददानं,सर्गसमाप्तिश्च ५२९-५३१ 18||३१ मेडताऽऽक्रमणं पल्लीकोटजयश्च तथा मालवदेशे तिल___पीडक्यत्रचूर्णनम् .... .... .... ४३०
पञ्चमः सर्गः५ ३२ पुनश्चन्द्रावती प्रत्यागमनं विक्रमसिंहनिग्रहश्च .... १ सोमेश्वरजीर्णप्रासादोद्धाराय चौलुक्यस्य निजाधिका३३ चौलुक्यस्य स्वपुरमागत्य स्वने त्वत्प्रतिज्ञाऽपूरीति
रिप्रेषणम् .... .... .... ... कथनं विक्रमसिंहस्य कारागारे प्रवेशनं च .... ४४६ | चौलुक्यस्य श्रीहेमाचार्योपदेशतो मांसमद्यत्यागनता|३४ चौलुक्यसभायां मल्लिकार्जुननृपतेर्भदृस्यागमनम् ४५५ ।। दानम्
A
C
॥१२॥
%
Page #27
--------------------------------------------------------------------------
________________
- Horatore
विषयः 'कोकारः | विषयः
.. लोकारः [कर्मस्थाय म्युत्पादनम् टि.]
९ अभक्ष्यनियमं गृहीत्वा गुरुणा सह चौलुक्यस्य स्खपुर३ श्रीहेमाचार्योपदेशेन कुमारपालस्य सोमनाथयात्रायै ___ मागमनम् .... .... .... .... ९०
.... गमनम् ....
९५ .... ....
१० कुमारपालस्य जैनधर्मे मनःस्थापनम् .....
.... ४१ । १० कुमारपालस्य जनघम मनःस्थापनम् ..... .... ४ कुमारपालस्य देवपत्तनप्राप्तिस्तत्र श्रीहेमाचार्याणां ११ दीपकसकाशात् सारखतं मयं गृहीत्वा देवबोधे__मिलनम् .... ... .. .... ४२
| भृगुकच्छे नर्मदानीरे तदुपाखिकरणम् ९६=१०६ ५ श्रीहेमाचार्येण सह चौलुक्यस्य सोमेश्वरनमस्यार्थ १२ देवबोधिप्रक्षिप्तमालाया गगने स्तम्भनं देवीसंवादश्च १०७ ___ गमनम् ... ... ... ... ४६
१३ प्रकटीभूय बागदेव्या देवबोधय ईप्सितवरप्रदानम् ६ शिवस्तुतिमिहेमाचार्यस्य वीतरागस्तवनम्
१४ कुमारपालप्रतियोधनाय देवबोधेरणहिरूपचन भाग७ श्रीहेमसूरेरने सर्वदेवेषु को देवः सर्वधर्मेषु को
___ मनम् .... . .... ... धर्मश्च श्रेष्ठ ? इति राज्ञः प्रमः .... ....
१५ कुमारपालेन देवबोधेरावानम् .... .... ८ श्रीहेमाचार्येण महादेवप्रकटीकरणं तदने चौलुक्यस्य
१६ महाडम्बरेण देवबोधे राजसभायां गमनम् ... धर्मविषयक पृच्छा शिवस्योत्तरप्रदानं च
६९ । १७ नृपेण सह देवबोधेर्देवागारे गमनं हरावीचामाकर्षणं च
ACAUSTRICA
क.पा.च.3
-
Page #28
--------------------------------------------------------------------------
________________
कुमारपालच.
विषयानुक्रमणिका.
॥१३॥
oc६
....
४२५
विषयः
होकार विषयः
श्लोकाः १८ राज्ञः श्रीहेमाचार्यसमीपं गत्वा निराधारोपवेशन- २८ पञ्चदिव्यानां वीराङ्गदसुमित्रयोः समीप आगमनम् ४०१ ____ तीर्थकराधाकर्षणादिचमत्कारावलोकनम् .... १८८ २९ वीराङ्गदात् सुमित्रस्य पृथग् भवनम् ....
४११ | १९ पुण्योपदेशः [धर्मोपदेशः] ...
३. वीराङ्गदस्य राज्यामिषेकः .... २० वीराङ्गदनृपतेः कथानकम् ....
३१ सुमित्रस्य रतिसेनावेश्यागृहे गमनम् २१ वीराङ्गदस्य जन्म, मधिगृहे सुमित्रजन्म च .... ३२ कुट्टिन्या मणिं गृहीत्वा गेहात् सुमित्रस्य निस्सारणम् ४४७ २२ वीराङ्गदस्य राजपुरुषेभ्यश्चौरमोचनम्.... ... २७८ ३३ सुमित्रस्य सुभद्रपुरं प्रति गमनम् .... - २३ पितुराज्ञया सुमित्रेण सह वीराङ्गदस्य विदेशगमनम् ३४ सुमित्रेण कृष्णाजनेन करभ्योःखीकरणम् .... २४ रात्रौ न्यग्रोधस्य तलेऽरण्ये वीराङ्गदः सुप्तः ....
३५ गङ्गादित्यवेष्ठिपरिव्राजकयोः कथा .... २५ सुमित्रस्य यक्षाननीळशोणमणिद्वयप्राप्तिः ..... ३४२ ३६ मन्मथप्रभाववर्णनम् .... ... .. |२६ महाशालपुरोधानं गत्वा क्षुधिताय वीराङ्गदाय ३७ परदारप्रहाप्रहफलवर्णनम् .... .... ___सुमित्रेण नीलमणिप्रदानं द्वयोमणिपूजनं च .... ३६७
३८ दासेरीद्वन्द्वं गृहीत्वा सुमित्रस्य महाशालपुरं प्रति प्रयाणं _ [रसशब्दार्थः, टि.]
मार्गे सिद्धपुरुषदर्शनं रक्षसस्तत्रागमनादि च .... | २७ मणिप्रभावेण वीराङ्गदसुमित्रयोः स्नानादिपूर्वकं ३९ सुमित्रस्य महाशालपुरागमनं वत्र च स्त्रीद्वयेन सह भुक्तिः .... .... .... .... ३८९ ।
निवसनम् ....
AAAAAAAEE
एक-04-CC+%A4%A%AC-*
३२७
॥१२॥
६५८
Page #29
--------------------------------------------------------------------------
________________
६७५
विषयः ग्लोकाः विषयः
श्लोकारः ४० रतिसेनावश्याया अवस्थावर्णनम् ... ... | ५० तद्देशनां श्रुत्वा नृपामात्ययोर्दादशवतस्वीकारः ४१ सुमित्रस्य पुना रतिसेनागृहे गमनम् .... ... | स्वपुरमागमनं जिनमन्दिरादिसुकृतकरणं च ... ७७१ ४२ सुमित्रस्य रतिसेनां करभीकृत्य स्वगृहगमनम् .. ६९८ | ५१ श्रीमद्देवेन्द्रसूरिसमीपे दीक्षां गृहीत्वा शिवपदगमनं ४३ वृद्धया राजाने पूत्कारकरणम्
नृपामात्ययोः, सर्गसमाप्तिश्च .... ७८३-७८५ ४४ मित्रयोर्मिलनम् ....
षष्ठः सर्गः ६ ४५ रतिसेनां पुनः नियं कृत्वा स्वगृहमानयनम् ....
१ धर्मवृक्षस्य मूलवर्णनम् ... .... ४६ वीराङ्गदादमात्यपदं लब्ध्वा सुमित्रः सुभद्रपुरं बास
२ कारुण्यस्वरूपनिरूपणम् ..... .... यामास .... .... .... ....
३ कारुण्यस्यैहिकामुष्मिकफलकथनम् .... ४७ वीराङ्गदस्य किन्नरमिथुनात् पार्श्वनाथगुणगणश्रवणम् ४ अन्यतीर्थिकैर्वणितं कारुण्यम् ४८ वीराङ्गदस्याश्वसेनिजिनं नन्तुं गमनं मार्गे दवाग्नि
५ कारुण्यधर्मपालने पुण्यसारकथानकम् ___प्रादुर्भावः श्रीपार्श्वस्तोत्रतस्तदुपशमश्च
७४९ ६ धर्मक्रियातो धनश्रीधनसारयोः पुण्यसारनामकसुतो४९ वीराङ्गदस्य नागपुरे श्रीपार्श्वजिनसमीपे गमनं तत्स्तु
त्पत्ती राज्ञः समरसिंहस्य मदनवतीकन्याया जन्म च तिकरणं च ....
... ७६४ । ७ पुण्यसारस्य मदनवतीं प्रति प्रार्थना ....
Page #30
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ १४ ॥
6৬61-6
विषयः
.८ राजपुत्र्या पुण्यसारस्यापमाननम् ९ पुण्यसारस्य वाग्देव्याराधना
१० पुण्यसारस्य विटैः सह बासः
....
११ हाराविचौर्यात् पितुरपमानेन पुण्यसारस्य पश्चिम
....
....
....
दिशं प्रति गमनम्
१२ देवीसहायतया पुण्यसारस्य वलभीपुरी प्रति गमनम् १३ पुण्यसारेण कामदेवश्रेष्ठिनोऽष्टौ कन्याः परिणीताः १४ एकं लोकं लिखित्वा देहशङ्काच्छलेन कामदेवश्रेष्ठिगृहात् पुण्यसारस्य निस्सरणम्.... १५ पुण्यसारस्य बटतले पित्रा सह समागमः
....
....
....
....
....
....
१६ पित्रा सह पुण्यसारस्य स्वगृहागमनम् .... १७ गुणभियाः पत्युर्गवेषणाकृते गोपगिरिं प्रति गमनम् १८ गुणश्रिया गोपगिरीन्द्रेण समरसिंहेन सह मिलनम्
ठोकाः
३७
४४
५१
७१
१०३
११९
१३२
१५३
१६२
१९९
२०९
विषयः
१९ मदनवत्या राजपुत्र्या गुणश्रियोऽवलोकनम् २० मदनवत्याः प्रियंवदायै स्वाभिप्रायकथनम् २१ समरसिंहस्य स्वपन्या सह संवादः ..... २२ गुणश्रियमाहूय समरसिंहस्व कन्याग्रहणप्रार्थना २३ पुंवेषस्थया गुणश्रिया सह मदनवत्या विवाहः २४ पुण्यसारस्य पुनर्देष्याराधना २५ पुण्यसारगुणश्रियोमैत्रीकरणम २६ कृतधियो लक्षणम्
२७ गुणश्रियाचितासमीपे गमनम् २८ पुण्य सारस्य चितादेश आगमनम् २९ मित्रकृत्यम् ३० गुणश्रिया पुण्यसाराय स्वरहस्वप्रकाशनम्) ३१ गुणश्रिया सह पुण्यसारस्य स्वगृहं प्रति गमनम् ....
www.
....
....
....
----
....
....
....
.....
....
....
dece
.....
....
dece
....
....
....
....
लोकाः
२१९
२४३
२५५
२६२
२८७
३०६
३२९
३४६
३४९
३६७
३७२
३७४
४१२
विषयानुक्रमणिका.
॥ १४ ॥
Page #31
--------------------------------------------------------------------------
________________
विषयः
लोकाः | विषयः |३२ मदनवतीपुण्यसारयोर्लग्नम्
| ४३ पुण्यसारस्य राज्यप्राप्तिः .... |३३ पुण्यसारस्य प्रियाभ्यां सह वलभीपुरी प्रति प्रयाणम् ४३९ | ४४ पुण्यसारभूपस्यामायुद्घोषणा |३४ कामदेवश्रेष्ठिनोऽग्निप्रवेशाय पुत्रीमिः सह वलभ्या ४५ पुण्यसारनृपतेः सुकृतवर्णनम्
बहिर्गमनम् .... .... .... .... ४५१ | ४६ पुण्यसारो मुनिसमीपे दीक्षा लात्वाऽन्ते स्वर्ग जगाम |३५ पुण्यसारस्य कामदेवश्रेष्ठिना सह सम्मिलनम् .... ४६५ ततो मोक्षङ्गमी, सर्गसमाप्तिश्च .... ५४७-५५०
३६ वधूवराभ्यां सह कामदेवश्रेष्ठिनो गृहं प्रति गमनम् .... |३७ कुलवधूधर्मनिरूपणम् .... .... ....
सप्तमः सर्गः ७ |३८ पुण्यसारस्य वलभीपुरीतः स्वपुरं प्रति प्रयाणम् ..... १ हेमाचार्यस्य यतिश्रावकभेदेन द्विविधधर्मनिरूपणम् ३९ पुण्यसारस्य जातिस्मृत्या प्रियाऽने जीवदयागर्भ निज
२ यथाप्रवृत्त्यादिकरणक्रमेण सम्यक्त्वप्ररूपणम् .... प्राग्भवकथनम् .... ..... .... ४९८ ३ शुद्धाशुद्धदेवादिवर्णनम् .... ... ४० चारणमुनि प्रति पुण्यसारस्य प्राग्भवीयस्वप्रियापृच्छा ५२२ ४ सम्यक्त्वप्रभावकथनम् .... |४१ करुणावर्णनम्
..... .... .... ५२७ । ५ सम्यक्त्वलक्षणभूषणदूषणनिरूपणम् ... ४२ पुण्यसारस्य श्रावकधर्मस्वीकारः .... ५२९ । ६ विस्तरतो द्वादशव्रतप्ररूपणा
३४=१११
2000
Page #32
--------------------------------------------------------------------------
________________
कुमार
विषयानु |क्रमणिका.
पालच०
विषयः
श्लोकाः । विषयः [पुराणोक्तनक्तभोजनविचारः, पृ० १३५ टि.]
[प्रतिबन्दीशब्दार्थः. टि.] [चतुर्विधानर्थदण्डातुर्धाऽऽर्त चतुर्धारौद्रं च, पृ० १३६ टि०] १६ योगिना सह भीमस्य श्मशाने यानम् .... .... ७ सम्यक्त्वमूलद्वादशव्रतपालने भीमकुमारकथानकम् ११५ | १७ प्रेतवने योगिभीमयोयुद्धम् .... ८ हरिवाहननृपतेर्भीमकुमारस्योत्पत्तिः .... .... १२१ । [गम्भीरवेदिगम्भीरवेदितृशब्दयोर्भावार्थः. टि.] ९ विमलबोधमश्रिणो गृहे मतिसागरस्य जन्म .... १२३ ! १८ योगिनोोच्छालितं भीमं यक्षिणी खगृहं निनाय [नासत्यशब्दव्याख्या, टि.]
१९ तस्यै भीमस्योपदेशः .... १० मत्रिणो भीममतिसागराभ्यां हितोपदेशदानम्
२० भीमस्य साधूपाश्रये गमनम् ।.... .... ११ हरिवाहनभूपस्य गुरुं नन्तुमुद्याने गमनम्
| २१ भुजामालम्ब्य भीमस्य कालिकामठे गमनम् १२ अमात्यपुत्रेण सह भीमस्य गुरुसमीपे श्रावकधर्म
२२ कालिकाऽऽयतने मतिसागरशिरश्छेत्तुकामस्य योगि___ग्रहणम् .... ..... .... .... १६१ नोऽवलोकनम् .. ..... १३ भीमसन्निधौ कापालिकस्यागमनम् ....
२३ योगिभीमयोः पुनयुद्धम् ...... १४ योगिनो विद्यासिद्धौ सहायप्रार्थनं कुमारस्य
२४ कालिकायाः प्रादुर्भावः .... . च तत्स्वीकारः ....
१७५ | २५ कालिकया भीमवचनं स्वीकृत्य [धर्ममजीकृत्य ] १५ राजपुत्रमविपुत्रयोर्धार्मिकसंवादः .
कापालिकविमोचनम् ....
4%A-%AGARANASANNEL
Al॥१५॥
Page #33
--------------------------------------------------------------------------
________________
०३
विषयः
श्लोकाः | विषयः |२६ भीमस्य मतिसागरात् स्वगृहवृत्तान्तश्रवणम् .. ३०१ | ३६ क्रोधतः स्वपतिं त्यक्त्वा तस्या रात्रौ बहिर्गमनं तथा | २७ भीमोपदेशेन कापालिकस्य दयाधर्मस्वीकारः .... ३२५
चोरैस्तद्भूषणादिहरणम् ... ... ... ४३० |२८ हस्तिना भीममतिसागरयोः शून्ये हेमपुरे नयनम् ३३२
३७ तस्याश्च विजयाय पल्लीपतये समर्पणम् ... ...
३८ तस्याः सतीत्वरक्षणाय कष्टसहनम् | २९ सिंहरूपधारिणः सुराद् हेमरथनृपतिमोचनाय
३९ कम्बलवणिजो गृहात् तद्भाताऽचकारितभट्टिका खगृह ___ भीमस्य प्रयत्नः
३४०
निनाय ... ... ... ... |३० भीमस्य हेमरथनृपमोचनम्
४० अचङ्कारितभट्टिकायाः कोपप्रत्याख्यानम् ... ३१ सुरेण भीमाय हेमपुरादिवृत्तान्तकथनम्
३६७ | ४१ सुरेणाचङ्कारितभट्टिकायाः परीक्षणम् ३२ मित्ररक्षोनृपान्वितस्य भीमस्य चारणमुनिवन्दनाय ४२ अचङ्कारितभट्टिकावृत्तान्तं श्रुत्वा हेमरथे रक्षसः कोपगमनम् ... ... ... ... -३८७
परित्यजनम् ... ... ... |३३ क्रोधक्षमयोरुपरि 'अचङ्कारितभट्टिका'कथानकम् ... ३९६
४३ यक्षो हेमरथश्च सम्यक्त्वं जगृहतुः ... ...
[सभास्तारलक्षणम्. टि.] |३४ कमलश्रीधनप्रवरयोर्गृहेऽचङ्कारितभट्टिकाजन्म .... ४४ कापालिकेन सह कालिकासूर्या आगत्य भीमाय ४.३५ सुबुद्धिसचिवेन सह तस्या विवाहः ... ... ४१५ । तत्पित्रोवृत्तान्तकथनम् ... .
CARRAKAARCACAR
Page #34
--------------------------------------------------------------------------
________________
कुमार
पालच०
॥ १६ ॥
विषयः
४५ कमलायक्षिण्या आगमनम्
...
४६ यक्षाद्यैः सह विमानस्थस्य भीमस्य खपुरे गमनम् ... ४७ हरिवाहनभीमयोरुद्याने सम्मिलनम् ...
४८ राज्ये भीमं संस्थाप्य हरिवाहनो दीक्षां ललौ [ षट् सप्त वा ईतयः, टि० ]
४९ चिरं प्रजाः प्रपाल्य पुत्राय राज्यं दत्त्वा चारित्रं छात्वा मोक्षं जगाम भीमः
समीपे निन्युः ५४ यूकाविहारनिर्मापणम्
...
...
...
...
५० कुमारपालस्य सम्यक्त्वपूर्वक श्राद्धधर्मस्वीकारः ५१ कुमारपालस्य स्वराज्येऽमार्युद्घोषणम्
५७७
५२ कुमारपालेन सप्तानां व्यसनानां स्वदेशान्निरासनम् ५८४ ५३ यूकाघातकं वणिजं गृहीत्वा राजपुरुषाः कुमारपाल -
...
...
...
श्लोकाः
५२२
५२६
५३७
५४५
...
५५३ ५६०
५९१
६०३
विषयः
श्लोकाः
५५ गुरूपदेशान् नवरात्रेषु देवीमठे छागादिवघनिवारणम् ६१८ ५६ कण्टेश्वरीकोपान्नृपस्य कुष्टीभवनम्
६३९
५७ शरीरधर्मरक्षार्थं नृपमत्रिणोः संवादः
६५२
...
५८ हेमसूरिमन्त्रितजलसेचनेन चौलुक्यस्य कुष्ठनिरासः ६६९ ५९ कुमारपालाय गुरोः 'परमाईत' इति विरुददानम् ६८७ ६० काशिदेशे हिंसानिवारणार्थ चित्रपटादिसहितानां स्वमत्रिणां प्रेषणम् ६१ जयन्तचन्द्रेण कुमारपालो हिंसां निवारयामास ६२ हेमचन्द्रसूरिकृता चौलुक्यप्रशंसा ६३ चौलुक्येऽवकाशमलभमानाया हिंसायाः मोहमहीपसमीपे गमनं, सर्गसमाप्तिश्व अष्टमः सर्गः ८
१ चौलुक्यस्य करुणाकन्याऽवलोकनम् ...
...
...
...
***
स्वतात..
६९६
७१५
७२०
७२२-७३०
...
विषयानुक्रमणिका
॥ १६ ॥
Page #35
--------------------------------------------------------------------------
________________
विषयः
श्लोकाः विषयः
श्लोकाः २ अईद्धर्ममहीशतत्परिवारादिवर्णनम् ....
११ हेमाचार्यस्य चौलुक्यायाशीर्दानम् ... ३ मोहमहीपतत्परिवारादिनिरूपणम् ... ... १२ हेमाचार्यस्य चतुर्विधधर्मकथनम् ... ... ४ करुणाकन्यासमीपे सुमतिदूत्या मागमनम्
१३ चतुर्विधधर्माराधने विक्रमराजकथानकम् ५ चौलुक्यस्य धर्मकन्वया सह पाणिग्रहणम् ... १४ धनेच्छया बने भ्रमतो मुनिचन्द्रगुरुपार्श्वङ्गतस्य ६ धर्मराजेन सह चौलुक्यस्य मोहनृपतिं जेतुं प्रयाणम्
विक्रमस्य स्वनिर्धनत्वे प्रभा, गुरोरुत्तरद्वारो[निसृष्टार्थशब्दस्य भावार्थः, डि.]
पदेशश्च ... ... ... ७शानादर्शनामकस्य निसृष्टार्थस्य चौलुक्यदूतस्य
१५ विक्रमस्य वानधर्मस्वीकारः । ... ... __ मोहमहीपेन सह संवादः ... ८ मोहभूपस्य प्रधनावनावागमनम् ... ... १२३
१६ विक्रमस्य पञ्चशतस्वर्णदीनारकामः ... ... [भारभटीलक्षणम्, टि.]
१७ विक्रमस्य जिनराजाय शुद्धानदानं पञ्चदिव्यप्रादु९ चौलुक्यमोहनरेशयोः संवादो युद्धं च ... १३१ भावश्च ... |१० चौलुक्यस्य मोहमहीपं विजित्य खराज्ये धर्मनरेन्द्र १८ उद्याने क्रीडतो विक्रमस्य विद्याधरनीलकण्ठाय
स्थापयित्वा गुरुसमीपे गमनम् ... ... १४१ । विस्मृतविद्यापदप्रदानम् ... ... ."
WRESHESHAॐछ
Page #36
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ १७ ॥
विषयः
१९ विद्याधरो विक्रमायाकाशगामिनीं विद्यां तथा सर्वविषनीमूर्मिकां च तत्प्रभावकथनपूर्वकं ददौ २० राजकन्याया विषोत्तारणात् तुष्टो हरिश्चन्द्रो विक्रमायार्द्धराज्येन सह रत्नमख ददौ
२१ हरिश्चन्द्रो राज्ये विक्रमं न्यस्य स्वर्ग जगाम
...
[ मतल्लिकादयः शब्दाः, टि० ]
...
२४२
२५१
२६६
२२ नीलकण्ठेन सह विक्रमस्य वैताढ्ये गमनम् २३ नीलकण्ठस्य विक्रमाय स्वभगिनीदानम्
२६८
२४ शाश्वततीर्थानि नत्वा विक्रमस्य पुनः खपुरे गमनम् २७१ २५ गुरुसविधे विक्रमस्य शीलवतोपादानम्
२८४
२६ दिव्याश्वेन विक्रमापहरणम्
- २७ देवीविक्रमयोः संवादः ...
२८ विक्रमाय देव्याः स्ववृत्तान्तकथनम् ...
श्लोकाः
२२४
२९५
३०८
.३३०
विषयः
२९ विक्रमं शिवपुरं नीत्वा महिमानं कृत्वा च देव्याः
स्वर्गमनम् ३० गुरोरागमनं तपोधर्मोपदेशश्च
...
...
...
...
...
[ अणिमाद्यष्टसिद्धीनां स्वरूपम्. टि० ]
३१ रत्नसारपुत्रं राज्ये निवेश्य, विक्रमस्य व्रतप्रहणम् ३६२ ३२ चण्ड सेनस्य भुवि पतनम्
३६८
३ ३ विक्रममुनिलक्ष्मण भूपयोः संवादः
३७२
३४ प्रत्यक्षीभूय देवस्य भूपतये पुत्रवृत्तान्तकथनम्
३८१
३९३
३९७
....
३५ विक्रममुनेर्धर्मोपदेशः
३६ गुरोर्भावधर्मोपदेशः
३७ विक्रमस्य मोक्षगमनम्
३८ कुमारपालस्य कुबेरश्रेष्ठिगृहे गमनम्
३९ कुमारपालेन निर्वीराणां धनमोचनम् ...
...
::
श्लोकाः
३४४
३५१
४०१
४१३
४३२
विषयानु
क्रमणिका.
॥ १७ ॥
Page #37
--------------------------------------------------------------------------
________________
विषयः
४० गुरोर्नृपप्रशंसनम्
४१ कुमारपालस्याष्टादशदेशे चैत्यनिर्मार्पणम्
४२ राजाज्ञया समरसोपरि गच्छत उदयनामात्यस्य विमलाचलारोहणं तस्य तीर्थस्योद्धारार्थमभिप्रहश्च
गमनम्
४७७
...
४९१
४३ समरसोदयनसेनयोः सङ्ग्रामः ४४ अमात्यसैन्यस्य पराजयोऽमात्यस्य युद्धाय गमनम् ४९५ ४५ समरसामात्ययोर्युद्धम्
५०२
४६ रिपुं निहत्य राज्ये तत्पुत्रं निवेश्य पश्चाद्वलितस्यामा
त्यस्य मार्गे मूर्च्छा प्रापणम्
४७ मण्डलाधिपानामप्रेऽमात्यस्य जीर्णतीर्थोद्धारेच्छायाः
...
....
...
...
...
...
प्रकाशनम् ... ४८ साधुवेषधारिवण्ठसमीप आलोच्योदयनस्य स्वर्ग
...
...
...
...
लोकाः
४३८
४४१
...
५०९
५२०
५३०
विषयः
४९ वण्ठस्य रेवताद्रौ सुरालयगमनम्
५० महामात्यपदे वाग्भटस्य न्यसनम्
...
...
...
५१ नृपाज्ञामनुगम्य वाग्भटस्य तीर्थोद्धाराय शत्रुञ्जयं प्रति गमनम् ... ५२ तीर्थोद्धारं श्रुत्वा नैगमानामागमनं तथा भीमवणिग्वृत्तान्तम् ५३ तीर्थोद्धारस्य प्रारम्भः
५४ सम्पन्नस्य चैत्यस्य स्फुटनम्
...
...
...
...
...
५५ वाग्भटाज्ञया पुनर्निर्भ्रमचैत्यरचना
५६ श्रीहेमसूरिणा विक्रमसंवत् १२११ प्रथमजिनप्रति
...
...
...
श्लोकाः
५३९ ५४४
५५२
...
ष्ठापनम् ५७ तलहट्टके बाहडपुरं संस्थाप्य सारामांश्चतुर्विंशति
1
प्रामान् देवपूजायै दत्त्वा वाग्भटस्य स्वपतने गमनम् ६४८
५५६
६१०
६१८ ६३४
६४२
%%%%%*%%%%%%%ळ
Page #38
--------------------------------------------------------------------------
________________
कुमारपालच.
लोकाहा
विषयानु
क्रमणिका.
॥१८॥
विषयः 21५८ भृगुकच्छे गत्वाऽऽनभटस्य मुनिसुव्रतनाथचैत्य
प्रारम्भस्तथा गामिलनादिवृत्तान्तम् ... ... ६५३ ५९ आम्रभटनिष्पादिते चैत्ये कूर्मलाच्छनस जिनस
हेमाचार्येण प्रतिष्ठाकरणम् ... ... ६० चैत्वमूर्जिस्थितस्याम्रमटस्व स्वर्णादिवर्षणम् ... ६८२ ६६१ आम्रभटस्यारात्रिककरणम् ... ... ६८७
६२ हेमसूरिकता मुनिसुव्रतस्तुतिराम्रभटप्रशंसा च ... ६९६ P६३ गुर्वादीनां पत्तनं प्रति गमनं भृगुकच्छे चाम्रभटस्य
मरणदशापन्नस्य इव भवनम् ... ... ७०१
[चतुःषष्टियोगिनीनां द्वापशादीराणां च नामानि. टि.] d६४ आम्रभटमातुः पद्मावतीदेव्याराधनम् ६५ देवीकथनात् पद्मावती हेमाचार्यमाजुहाव
७१४ ।
६६ यशश्चन्द्रगणिना सह हेमाचार्यस्य भृगुकच्छपुरमा
कासमार्गेणागत्य सैन्धवीदेवीसदने गमनं ... ६७ हुवारण मन्त्रशत्या च स्तम्भितदेवीनां यशचन्द्रेण
सह संवादः... ... ... ... ६८ देवीनां स्वस्थानगमनमा भटस्य निरोगतालाभश्च ... ६९ हेमाचार्यस्याम्रभटेन सर्वदेवीनां भोगमारचय्य पुनः पत्चने गमनं, सर्गसमाप्तिश्च ... ७५५-७५७
नवमः सर्गः ९. १ श्रीवीरचरित्रव्याख्याने देवाधिदेवप्रतिमावृत्तान्त
व्याख्यानम्... ... ... २ श्रीमहावीरस्व राजगृहे समवसरणम् .... ३ अभयकुमारस्यान्तिमराजर्षिविषया पृच्छा
CRECENGAGANSARANG
ororm
Page #39
--------------------------------------------------------------------------
________________
लोकाहः ।
१
विषयः ४ उदायननृपवर्णनम् ... ... ५ कुमारनन्दिस्वर्णकारस्याधिकारः ... ६ कुमारनन्दिसमीपे व्यन्तरत्रियोरागमनम्
[लावण्यसम्भोगशब्दयोर्व्याख्या. टि. ] | ७ स्वर्णकारस्य पञ्चशैलगमनम् ...
८ व्यन्तरीभ्यां स्वर्णकारस्य चम्पापुरे मोचनम् ... ९ इङ्गिनीमरणेन स्वर्णकारस्य पञ्चशैलाधिपत्वेन भवनम् १० पटहस्य विद्युन्मालिगले विलग्नम् .... ११ अर्हन्मूर्तिनिर्माणफलम् ... ... १२ विद्युन्मालिनः सोयात्रिकाय वीरप्रतिमासमुद्दानम् | १३ प्रभावत्या समुद्रतः जिनप्रतिमायाः प्रादुष्करणम् ...
[करणलक्षणम्. टि.] १४ उदावनख निःशीर्षप्रियाशरीरदर्शनम् ... ...
विषयः ४ १५ प्रभावत्याः श्वेतवस्त्रयो रक्तत्वदर्शनम् .... ... | १६ दीक्षा लात्वा प्रभावत्याः स्वर्गगमनं कुब्जिकायाः
प्रतिमापूजनं प्रभावतीदेवेन राज्ञः सम्यक्त्वे स्थापनं च १७ गान्धारश्रावकवृत्तान्तम् ... ... ... १८ प्रद्योतेनान्यप्रतिमां न्यस्य कुब्जिकया सह पुरातन्याः ___ प्रतिमाया निजपुरे नयनम् ... ... १९ विषयासक्तयोस्तयोर्भायलस्वामिवणिजे मूर्तिप्रदानम् २० प्रद्योतोदायनयोयुद्धम् ... ... २१ उदायनस्य प्रद्योतं गृहीत्वा स्वपुरं प्रति
वर्षाकालस्य चागमनम् ......... ८९ | २२ उदायनस्य मार्ग एवं वार्षिकपर्वाराधनं क्षामणा
प्रद्योतमोचनं च ... -९८ - २३ भयवचः सर्वविरत्युपदेशः
क.पा.च.4
Page #40
--------------------------------------------------------------------------
________________
लोकाङ्कः
कुमारपालच०
विषयानु क्रमणिका.
२०८
AACREAUCRACREAM
श्लोकाः । विषयः २४ पुत्रेण सहोदायनस्य व्रतस्वीकृतिः ....
३६ ततो वलभीपुरे गमनं तत्समीपस्थितपर्वतद्वयोपरि २५ महावीरेणोदायनस्य भविष्यदशाकथनम्
विहारविधापनं च .... २६ प्रतिमाविषया पृच्छा, तदुत्तरं च ___ .... २३५ ३७ चौलुक्यस्य पुण्डरीकगिरीश्वरारोहणम् २७ राजाज्ञया प्रतिमार्थ जनैतिभयस्थाने गत्वा तत्र ३८ तत्र जगडस्य सपादकोटिमूल्यरत्नदानेन प्रथममालाखननम् .... .... .... ....
परिधानम् .... ... .... |२८ उदायनदत्तशासनपत्रेण सह प्रतिमाया निस्सरणम् २६१ ३९ राज्ञः प्रभुस्तुतिः प्रार्थना च . २९ तस्याः प्रतिमायाः पत्तने समानयनं पूजनं च .... २६५ ४० हेमाचार्यकृता प्रभुप्रार्थना ३० हेमसूरीणां नृपाने तीर्थयात्राफलवर्णनम् .... २७४ ४१ चौलुक्यस्योजयन्तगिरिगमनं गिरिकम्पश्च
३१ कुमारपालस्य सङ्घपतीभूय तीर्थयात्रायै प्रस्थानम् २८० ४२ जगडस्य पूर्ववदाद्यमालापरिधानम् .... ४/३२ विग्रहार्थ डाहलदेशेशागमनश्रवणम् ....
४३ राज्ञः प्रभुस्तुतिः प्रार्थना च .... ३३ मार्गे कर्णस्य मृत्युप्रापणम् .... .... ३०४ ४४ श्रीहेमचन्द्रकृता प्रभुप्रार्थना |३४ चौलुक्यस्य यात्रार्थमनुपानत्पादचारेण गमनम् .... ३०७
४५ गिरिपद्याविधापनम् .... ३५ धन्धुकपुरे झोलिकाविहारविधापनम् .... ३१९ - ४६ चौलुक्यस्य देवपत्तने चन्द्रप्रभनमनम्
२८८
१९॥
Page #41
--------------------------------------------------------------------------
________________
प्राकार
..30
| विषय
श्योकाहः । ..विषयः अत्रापि जगडस्य प्रथममालापरिधानम् . .... ३६६ । ५९ चौलुक्यस्य वर्षासु विहारनियमादानम् ४८ कुमारपालजगडयोः संवादः राज्ञो माणिक्यपूजा- |६० चौलुक्योपरि शकेन्द्रस्य प्रयाणम्
वर्णनं च "...... ..... ... .... | ६१ श्रीहेमाचार्येण पल्यङ्कयुक्तशकाधीशानयनम् .... |४९ श्रीहेमसूरिणा नृपाय सप्ततत्त्वस्वरूपप्रतिपादनम् ३८२ ६२ षण्मासी यावदमारिकरणनियमाच्छकाधीशस्य मोक्षः ५० जीवतत्त्वभेदनिरूपणम् ....
३८५ ६३ भ्रष्टमुनिनतं राजानं दृष्ट्वा नड्लनृपहसनम् ५१ अजीवतत्त्वकथने षद्रव्यप्रखपणम् ....
६४ पार्श्वस्थादीनामवन्दनीयानां भेदतो निरूपणम् ५२ कालाणूनां व्याख्यानम् ..... ....
६५ भूपनमस्कारेण यतिपाशस्य शुभविचारणा |५३ शेषतत्त्वकथनम् .... ....
६६ तस्य मुनेः पुनर्वतमहणमनशनस्वीकारश्च ५४ सप्ततत्त्वश्रद्धानफलम् ..... .
६७ तस्य मुनेः स्वर्गगमनम् .... ५५ त्रिषष्टिशलाकापुरुषचरित्रादिप्रन्थरचनावर्णनम् ....
६८ सर्गसमाप्तिः .... .... |५६ श्रीहेमसूरिकृतसर्वग्रन्थलेखनप्रतिज्ञा ....
.... ४२९ 1५७ चौलुक्यधर्ममहिम्ना खरतालेषु श्रीतालत्वभवनम् .... ४३७
दशमः सर्गः १० ५८ श्रीहेमचन्द्रसूरिणा जैनमतोपश्लोकनम्
४४५ | १ चौलुक्यस्य गुरुपार्श्वे स्वपूर्वभवादिविषया पृच्छा .......
3003003030
RS८८८
००m GMA.mom
४०७ ४२२
MUU
....
....
Page #42
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ २० ॥
विषयः
२ सूरिमत्राधिष्ठायिकां प्रसाद्य हेमसूरिणा तत्सविस्तर
कथनम्
****
....
****
[ वागामिभवकथनस्. टि० ]
इ तृपस्य सूरये 'कलिकाल श्रीसर्वज्ञ' इति विरुद्दानम् १०६
१११
११७
www.
४ नृपस्य गुरुसमीपे राज्यदानपृच्छा
५ बालचन्द्रेणाजयपाळाय गुह्यमनकथनम्
६ हेमाचार्यः स्वास्तसमयं विज्ञाय स्वभ्रात्रे प्रद्युम्नसूरये गच्छं समर्थ्य स्वयमनशनं जमाह 19 नृपतिसङ्गसमक्षं हेमसूरेरन्थिमा देशना ८ बिगोदजीवानां दुःखवर्णनादि
१९ नारीगर्भदुःखनिरूपणादि
१० आत्मज्ञानभशंसनम्
....
११ पिण्डस्थादिष्यानप्ररूपणं तत्फलकथनं च
....
....
....
0000
...... १३-९८
....
....
....
***
....
www.
श्रीकाः
....
....
१२६
१२९
१३३
१४६
१५८
१६४.
विषयः
१२ गुरुराज्ञोः संवादः
१३ चौलुक्यस्य प्रभावनाकरणम् १४ हेमचन्द्रसूरेः स्वर्गगमनम् १५ अजयपालस्य भूपाय विषदानम् १६ कुमारपालस्यान्तिमाराधना १७ कुमारपालस्य स्वर्गगमनम्
१८ अजयपालस्य राज्यलाभः
१९ रचनाकालप्रन्थसख्याकथनं, सर्गसमाप्तिव २० प्रन्थकर्तुः प्रशस्तिः, प्रन्थसमाप्ति ...... २१ परिशिष्टम् नं० १ टिप्पनीकारप्रशस्तिः
२२ परिशिष्टम् नं० २ शङ्खेश्वरपार्श्वनाथस्तुतिश्चिन्तामणिपार्श्वनाथस्तुतिः सूरिस्तुतिर्गुरुस्तुविश्व.... २३ परिशिष्टम् नं० ́३ अपराजितवास्तुशास्त्रलोकाः
....
www.
0.00
....
....
....
श्लोकाः
१७८
१९४
१९९
२२६
२३५
२६०
२६८ २७५-२०६
१-१०
१-११
....
....
....
....
....
....
....
....
१-४-४-१२ १-३५
....
विषयानु
क्रमणिका
॥ २० ॥
Page #43
--------------------------------------------------------------------------
________________
पत्रम्
२
080
४
पृष्ठम् पंति:
२
२
२
१
१
२
६
४
५
१
४
अशुद्धम्
क्षोदिष्ट
न्यायवान्
बध्वा
दृढयतु
दिव्यद्
सत्वेन
शुद्धम्
क्षोषिष्ठ
न्यायवा
बजा
तु
दीव्यद्
सैवेन
॥ शुद्धिपत्रकम् ॥
१ एवमन्यत्रापि सर्वत्र तत्र तत्र स्थळेषु स स सन्धिः स्वयमूयः २ एवमन्यत्रापि हडिमा दृष्टुम् दृढयित्वा हा दृढयति अदृढन् इत्यत्र इत्यस्य स्थाने द्र इति दृश्यम् ३ एवमन्यत्रापि दत्वातत्वमहत्वादिषु तकारद्वित्वं भू.
पत्रम्
४
८
८
९
पृष्ठम्
३
२
२
१
१
पंतिः
१
७
فا
१२
१३
५
अशुद्धम्
१४
ऊर्ध्व
तदचीत्
तान्यवी
परिचाय
संन
निरुय
शुद्धम्
ऊर्दू
तदची (च) कथत्
वायवी
परिचायौ
१०
१०
१ एवमन्यत्रापि ध्ध स्थाने द्धो बोध्यः. २ कथमचीकथदिति, ये गणयतेरन्येषामपि पूर्वस्य यथादर्शनमीत्त्वमिच्छन्ति तन्मते भविष्यति, प्रकृत्यन्तरं वाऽन्वेष्यमिति किमारणसमुचये. ३ एवमन्यत्राप्यावद्धयसि दथन्त्यादिषु धकारैकत्वं प्रबोध्यम्.
संघेन
निरुयै
Page #44
--------------------------------------------------------------------------
________________
कुमारभालच०
शुद्धि| पत्रकम्
पृष्ठम् पंक्तिः अशुद्धम् शुद्धम्
पत्रम् पृष्ठम् पंक्तिः अशुद्धम् शुद्धम् ४|११ १ ११ सछद्मा
सच्छा
२३ १ ४ भूमिपतौ भूमीपतौ ११ २ ६ शाइवल शाद्वल
२४ १६ दिव्यत्तम दीव्यत्तम तस्वेच्छं तस्येत्थं
प्राघूर्णक प्राधूर्णिक द्वंश्या ईश्याः सेस्थीर्यते सेस्थीयते (तेष्टीयते)
विशिष्मिये विसिष्मिये धायता धाय तम् २६ २८ सध्या सध्यक्
जुहुषन् जुहूषन् २६ २ १४ इव १८ १ १४ विच्छत्वा शिछत्त्वा
२८ १ १४ सूर्यः
तेजःसमूहः १८ २ १४ अदृह्यत अदक्षत
२८ २ ३ दुर्जखि दूर्जखि |१९ १ १४ भभस्म
भस्म । २८ २ ११
शत्
दृशत् २२ १ १० गुणोल्बणः
२९
वारिरिव
.१ ५ गुणोल्वणः
वारीरिव - | पूर्जे दीर्घः सर्वत्र' इति परवाक्यात स्फूर्जकः स्फुर्जकच इति स्फूर्जक. १ एवमप्रेऽपि श्च्छ स्थाने च्छः.२ पृषोदरादित्वाद बकारोऽपि साधुः । पाब्दे शब्दकल्पद्रुमे.
SOCIATRAKASHMARAK
Page #45
--------------------------------------------------------------------------
________________
३०
पृष्ठम् पंलि अशुद्धम्'
निपीय
ऽतिबिस्मेरो १ १४ ख. २ १३ गोट्या
कुष्टादि पृच्छे
कुष्ठादि
१४
शुद्धम् । पत्रम् पृष्ठम् पंक्तिः अशुद्धम् शुखम् । निपीय ३७ १ १ बिरुदावलिम् विरुदावलिम् ऽतिविस्मेरो ३७ २ ३ दीवाकी: दिवाकीरैः ३८ १ १ येण
येन गोष्ठया ३८ १ ३ तीव्रबे
तीब्र ४० १ १३ मर्येण मर्येन प्रच्छे
इच्छितवरतु वांछितवस्तु इदान्तरे
विजेतुभैच्छत् विजेतुमैच्छत् तस्थिवान्
कर्णदेवांगज कर्णदेवाग्रज प्रच्छे
विध्वंस्यंते विश्वस्यते निष्पीता ४९ १ १४ भाम्यति भ्राम्यति कार्त्तखरोद्योति- | ४९ २ १० वात्साल्य वात्सल्य
५० २ ३ बध्वा ज्योतिरुयोति । १एवमन्यत्रापि बिरुदबोहित्थबन्दिनिविड स्तबकशिविरशब्देषु वस्थाने वो प्रायः
GROCARRESEARCCCAS
३३
१
तस्थितवान् १० पृच्छे
निःपीता
कार्तस्वरोद्योति१२ षष्ठि ४ ज्योतिरुद्योति
|३५
१
पष्टि
Page #46
--------------------------------------------------------------------------
________________
पृष्ठम्
पंसिर ।
कुमारपालच.
शुद्धि
पृष्ठम् पंक्तिः १ १४ १ १४
पत्रकम्
अशुद्धम् शुद्धम् । पत्रम् माठे श्मसा
श्मशा पृश्यताम् पृच्छयताम् काससंकाश प्रशसंकाश पराकम् बलातिशययुक्ता गर्जना सेसिच्यामास सेसिच्या(चा)मास
॥२॥
मशुखम् संधायासन संधायासनं आईदुसुराष्ट्रा
शुबम् संघानासन संधानासन भाईदू
मणी
२
रुचिरे।
RAKX
मणी रविरें
चन्द्रा विद्युत् सेसिच्या(चा)मास
शम्बाति
शम्याति
सेसिच्यामास
शन
धान
१
१ १ १४ १ ५ २ ...
७१
५
देवभूयं वषम मही(हि)ष्ट हालिका,
देवभूयं वृषम
प्रहीष्ट हालिका- .
सत्वय्यपि प्रेम, यस्त्वय्यपि प्रेम-18 प्राधूर्ण प्राघूर्ण प्रापूर्णि (प्रजिमिवान्) (प्रजिध्यिवान्। तखितवान् पस्थिवान्
॥
2
॥
११
Page #47
--------------------------------------------------------------------------
________________
पृष्ठम् पंक्तिः
१४
१२२
२
१२
RRRRRRR
अशुद्धम्
। पत्रम् पृष्ठम् पंक्तिः अशुद्धम् तांबूलम् , प्र. तांबूलम् ११० २ १४ किन्नरमहायजिका माहाराजिका ११४ २ १२ तद्गृहीता देवघोधितः दीपकात्
११८ २ १४ यस्या सा निरालंव निरालंब १२० २ ४ सङ्गी स्थितेन वायुना भ्रान्त स्थिते वायुभ्रांते १२१ २८ कार्यानि दौष्टवम् दौष्ठवम्
श्रीदो:-धनदो ते पतेः १२४
विवेचिनी गलत्कुष्टानपि गलत्कुष्ठानपि 1 १२६ १ ८ मजना रूक्मादि रुक्मादि
धार्मिकः! श्रीसद् मीसदस्
१३० १ १३ स्कारा बज्ञानम् १३० ३४ पदै उच्चारित पदैरुचारित
हाराब्, हारान् गृहीतु
१३५ २७ माधवि सखाया
सजाया | १३५ २ . भिषण
किमर:तग्रहीता यस्याः सा सङ्गि कार्याणि श्रीदो-धनदो विवेचि(कि)नी मनना(मा) धार्मिक! स्फारान् देषुणा हारान, हारा माधवी मिषेण
-
१२६
११
देषुणां
Page #48
--------------------------------------------------------------------------
________________
कुमार
पालच०
॥ ३ ॥
पत्रम्
१३८
१३९
१४९
१५४
१५८
| १५८
१५८
१६१
पृष्ठम्
२
१
२
२
१
१
१
१
१६४ २
१६४
२
१६५
२
१६५ २
१६५
| १६५
२
२
पंक्तिः
१०
८
९
१४
५
५
८
१४
१२
१३
१
१३
१३
१३
अशुद्धम्
ऽतिदुर्ले (S) भ
स्ततः
नन्दनीम्
महोन्मत्तः
गन्तु
पंगू
सहस्र
परः
प्रवर
जामत्या
सूरि
भतल्लिका
विघ्नाः
संत्रे
शुद्धम् ऽतिदुर्लभः
स्तवैः
नन्दिनीम्
मदोन्मत्तः
गन्तुं
पंगु
० ( सहस्रे )
परे
प्रवरा
जागन्य
सूरि
मतल्लिका
नित्राः
सूत्रे
पृष्ठम् पंतिः अशुद्धम्
१
नन्दनी
१ १३ ऊर्मिकां
पत्रम्
१६८
१६८
१७० १
१७१
१७१
१७२
१७२
१७६
१
१७७
२
१७९
२
१८२ १
१८२
२
~
१८२ २
१८४
२
९ शीलगन्धेन,
लभ
वृषयोर्मथु
त्वत्प्रशंसामिमं
मंजय
२ ३
२ १३
१
३
५
७
८
१४
१२
११
ރ
१२
१०
परिस्कृतान्
(या)
तेस्म
कृत्वा
प्रदक्षणा
प्रदक्षणा
नरिनति
शुद्धम्
नन्दिनी
ऊर्मिका
शीलगन्धेभ
नीलभ
वृषयो मैथु
त्वत्प्रशंसामिमां
रत्नमंजर्या
परिष्कृतान्
०
तेस्म कारयित्वा
प्रदक्षिणा
प्रदक्षिणा
नरिनर्चि
शुद्धिपत्रकम्
॥ ३ ॥
Page #49
--------------------------------------------------------------------------
________________
पत्रम्
१८६
१८८
१९१
१९५
१९५
१
१९६ २
पृष्ठम्
२ १३
२
२
२
१३
१
४
२०५. २.
२०९
१
२०९ १
२१० १
१
१
२१०
२१४
पंक्ति
५
वासिताशय
तुरुस्क
३. आकुला
३.
निर्घृणो
चैर्योण
१४
१०
अशुद्धम्
पित
पणौ
रोघः
मात्म:
८
१ वनव
५
ध्वनि
ईषल
शुद्धम्
पीत
पाणी
रोधः
मात्म
वासिताशयः
तुरुष्क
आकुलाः
निर्घृणो
चौर्येण
नैव
ध्वनि
ईषभ
पत्रम्
२१४
२१६
२१६
२१८
२१९
२१९
२१९
२१९
२१९
२२०
पृष्ठम्
१
२
२
२
१
१
२
२
२
२
पंक्ति: अशुद्धम्
९ दुष्पाप
७ वसब्
भ्रमब्
(ट्ठी)
प्रतिष्ठाय
केरुक्,
टिप्पण
९
१४
१
३
२
५
६
१३
शुद्धम्
दुष्प्राप
वसन्
भ्रमन्
(ट्ठि )
प्रतिष्ठाय (य)
केरुक्
टीप्पण
देवेन्द्र सेवाभृतः
जम्ब्वा दिसूरीश्वराः
भूमिविभूषको
जैन जगद्गुरुः
जनगुरुः सान्नाट्सु सुखकरः सम्राट्प्ररति विलासः
रतिपतिः
Page #50
--------------------------------------------------------------------------
________________
कुमारपालच.
RECE
दीक्षा कुण्डली.
॥४
॥
सूचना.. श्रीहेमचन्द्रसूरिदीक्षाविचारः प्रथमसर्गे "माघमासस्य धवले, पक्षे चातुर्दशेऽहनि ॥ १६१॥
रोहिण्यां शनिवारे च, रवियोगे त्रयोदशे । सप्तग्रहबलोपेते, वृषलग्ने शुभेमके" ।। १६२॥ ननु माघशुक्लचतुर्दश्यां रोहिणीभं न सम्भवति, "साऽस्मिन्पौर्णमासीति” नियमादुतो रोहिणीस्थाने पुष्यभं चेचदा "पुष्यः शनिवारे च" इति पाठे त्रयोदशो रवियोगोऽपि सङ्गच्छते । तथाच प्रभावकचरिते-"माघे सितचतुर्दश्यां, ब्राह्मे धिष्ण्ये शनेदिने ॥ ३२॥ विष्ण्ये तथाऽष्टमे धर्म-स्थिते (दृश्ये) चन्द्रे वृषोपगे । लग्ने बृहस्पतौ शत्रु-स्थितयोः सूर्यभौमयोः" ॥३३॥
माघसुविचतुर्दश्यां शनौ धिष्ण्ये-स्तुत्ये, ब्राझे-अमिजिन्मुहूर्ते-विजयमुहूर्ते, अष्टमे धिष्ण्ये-पुष्यभे, धर्मदृश्ये चन्द्रे-अर्थात्तृतीयस्थेऽब्जे, वृषलग्रस्थे गुरौ, शत्रुस्थितयोः सूर्यभौमयो:-अर्थात्तयोः शत्रु:-शविस्तद्राशिः कुम्भस्तत्रस्थयोरेतेनैवंविधा कुण्डली कल्यते-यदि कल्पनान्तरं कश्चिद् विपश्चिद् विज्ञापयिष्यति- ॥श्रीहेमचन्द्रसूरीणां दीक्षाकुण्डली॥- तर्हि सानन्दं सम्पादकः स्वीकरिष्यति,
SAATANGASASA
%
%
Page #51
--------------------------------------------------------------------------
________________
अर्हम् परमगुरुश्रीअनुयोगाचार्य (पं) श्रीमद्-उमेद विजयगणिगुरुपादपद्मेभ्योनमः
तपोगणगगनमणिश्रीकृष्णर्षीयश्रीजयसिंहसूरि प्रणीतं ।
॥ श्री परमार्हत श्रीराजर्षिकुमारपालभूपालचरित्रम् ॥
चिदानंदैककंदाय । नमस्तस्मै परात्मने ॥ शिवश्री रमते यस्मिन् । हंसीव सरसीरहे ॥१॥ श्रीनाभेयो जिनः सोऽध्याद् । भुक्तिमुत्युपदेशतः ॥ यः सतां दर्शयामास । द्विविधामपि 'निवृति ॥२॥ अंभ्रांतस्थितिरोचिष्णुः। शश्वत्कौमुदमेधयन् ॥ मृगलक्ष्मा जिनाधीश-स्तमःस्तोमं निरस्यतु ॥३॥ कृष्णवर्णोऽपि यो ध्यातः। पुष्णाति परमां नियं ॥ सोऽद्भुतैकनिधिर्भूयाद् । भूत्यै श्रीनेमिनायकः ॥ ४ ॥ अादिवांतरे यस्य । मूर्ध्नि भाति परं महः ॥ स्फूर्जत्फणि-18 मणिब्याजात् । स श्रीपार्श्वः श्रियं क्रियात् ॥५॥ श्रीवीरः शिवतातिः स्तात् यस्य ज्ञानप्रभाकरः॥ आसीत्तमोऽपहत्वेन ।।
१ सुखम्. २ अ-धान्ता-भवभ्रमणरहिता-स्थितिः अवस्थानं तया रोचिष्णुः शोभमानः-पक्षे-अभ्रस्य गगनस्यान्ते स्थितिः तया शोभमानः. ३ को-पृथिव्याम् न माति-दति-अमात्.
कु.पा.च.१
Page #52
--------------------------------------------------------------------------
________________
कुमार
पालच०
॥ १ ॥
सतां सन्मार्गदर्शकः ॥ ६ ॥ तपसा लब्धयो यस्य । वश्या दास्य इवाभवन् ॥ श्रीगौतमः स मे तुष्या - दग्रणी गणधारिणां ॥ ७ ॥ यस्य नाम्नि निलीनेव । कलेर्भीता घुसवी ॥ ध्यातॄणां सर्वकामाप्तेः । स श्रीकृष्णमुनिर्मुदे ॥ ८ ॥ कविस्तो मकृतोपास्ति — जनतापापहारिणी ॥ नालीकस्थितिरोचिष्णुः । पुनीयान्मां सरस्वती ॥ ९ ॥ प्राप्तक्षायिकसम्यक्त्वाः । श्रावकाः श्रेणिकादयः ॥ भूयांसोऽपि बभूवांसः । प्रभावाढ्याः प्रभावकाः ॥ १० ॥ अमारिकारकत्वेन । तेषु मुख्योऽस्ति वस्तुतः ॥ कुमारपालः क्ष्मापालो । धाम्ना धिष्ण्येषु चंद्रवत् ॥ ११ ॥ ततोऽस्य चरितं किंचि — दूरम्यहं स्वपुपूषया ॥ प्रेरितस्त गुणग्राम - रामणीयकसंपदा ॥ १२ ॥ क्व क्षोदिष्टमतिः सोऽहं । चैतस्य चरितं महत् ॥ ततगुलैः प्रभित्सामि । व्योमनिसीमेमोहतः ॥ १३ ॥ गुरुप्रसादादीशिष्ये । यद्वा तद्वृत्तवर्णने ॥ कुरंगः किं विधूत्संग-संगतः खे न खेलति ॥ १४ ॥ चौलुक्यवंशोत्तंसोऽभूत् । कुमारक्ष्मापतिस्ततः ॥ ऐतिह्यतस्तदुत्पत्तिः । प्रथमं प्रथयते पृथुः ॥ १५ ॥ पुरा मुरारिवद्विश्व विश्वोद्धारधुरंधरः ॥ चुलुक्य इति विख्यातः । संजातः क्षत्रियोत्तमः ॥ १६ ॥ धैर्यगांभीर्य - चातुर्यो- दार्यशौर्यादयो गुणाः ॥ श्रांता इव जगांत्या । यत्त्राश्रांता विशश्रमुः ॥ १७ ॥ यः सांग्रामिककर्मकर्मठमतिर्दैत्यानिव प्राणिनां । रौद्रोपद्रवकारिणोऽरिनिकरानुज्जास्य तीक्ष्णासिना ॥ निर्मायाप्यकुतोभयं कुव लयं स्वाराज्यवैहासिक-श्रीकं राज्यमतिष्ठिपत् किल मधूपद्माभिधे पत्तने ॥ १८ ॥ चौलुक्य इति वंशोऽभूतनाम्ना विश्वविश्रुतः ॥ आकरो नररत्नानां । सुपर्वश्रेणिसंकुलः ॥ १९ ॥ तद्वंश्या विश्वशस्याभा । बभूवुर्भूधना घनाः ॥ वल्गत्त्रिवर्गसंसर्ग - प्रियंभावुकवैभवाः ॥ २० ॥ श्रीसिंहविक्रम इति क्षितिभृत्क्रमेण । जज्ञे महेश्वरवितीर्णसुवर्ण
१ स्तुत्यो, प्र. २स्सीममोहितः, प्र.
स. १
॥ १ ॥
Page #53
--------------------------------------------------------------------------
________________
सिद्धिः ॥ यः क्षोणिचक्रमनृणं विरचय्य दानैः । संवत्सरं निजमवीवृतदासमुद्रं ॥ २१ ॥ पुस्फोर वीरकोटीर - स्तत्पुत्रो हरिविक्रमः ॥ स्वकीर्तिकेत कैर्येन । सुरभीचक्रिरे दिशः ॥ २२ ॥ पंचाशीतिर्नृपास्तस्मा - द्विस्मापकविभा बभुः ॥ न सेहे यत्प्रतापाग्निः । शर्कवंशैर्दृढैरपि ॥ २३ ॥ तदन्वयेऽभवत्क्षुण्ण - खरदूषणवैभवः ॥ रामो राम इव न्याय -सदनं मेदिनीश्वरः ॥ २४ ॥ ततः सहजरामोऽभाद्योऽश्वलक्षत्रयेश्वरं ॥ हत्वा शकपतिं पत्ति-मिव विश्वेऽप्यभूद्भटः ॥ २५ ॥ अदीप्यत श्रिया श्रीदः श्रीदेडक्कस्तदात्मजः ॥ यः पिपासाख्यराष्ट्रेशं । गजं सिंह इवाजयत् ॥ २६ ॥ भूपालः कांचिकव्याल - तद्राज्यमथ भेजिवान् ॥ यद्दानैरर्थिनोऽप्यासन् । दानशौंडाः सुरद्रुवत् ॥ २७॥ राजा राजिरथाजिराजिविजयी राजेव रेजे शुचि-र्यो यात्रां विरचय्य देवनगरे श्रीसोमनाथोक्तितः ॥ वैश्यां गुर्जरशासनस्य भगिनीं सामंतसिंहप्रभोलीलाख्यां जगदेकवीरजननीं लक्ष्मीमिव व्यूढवान् ॥२८॥ तयोः सूनुरनूनश्री - र्मूलराज इति श्रुतः ॥ अयोनिसंभवत्वेन । सच्चमत्कारकारणं ॥ २९ ॥ सामंतसिंहमतुलं निजमातुलं यः । शक्त्या निहत्य किल गुर्जरराज्यमाप ॥ लक्षं तथा समरकर्मणिबद्धकक्षं । सोमेशवैभववशाद्दलयांबभूव ॥ ३० ॥ रेजे चामुंडराजोऽथ । यश्चामुंडावरोद्धुरः ॥ सिंधुरेंद्रमिवोन्मत्तं सिंधुराजं मृधेऽवधीत् ॥ ३१ ॥ तस्माद्वल्लभराजोऽभू - द्यत्प्रतापातितापितः ॥ मुंजोऽवंतीश्वरो धारा - यंत्रेऽपि न धृतिं दधौ ॥ ३२॥ अधाद्दुर्लभराजस्त - द्राज्यं न्यायवनांबुदः ॥ निर्मथ्य लाटनाथं य - स्तद्रमां सक्षमां ललौ ॥ ३३ ॥ तद्भवो भीमदेवोऽभा - धन्माहात्म्यहिमागमे ॥ युक्तमंभोजवद्भोज – भूजानिलनिमानशे ॥ ३४ || भीमदेवस्य पुत्रौ द्वावभूतां भिन्नमातृका ॥ क्षेमराजस्तयोराद्यः । कर्णः कर्ण इवापरः ॥ ३५ ॥ पित्रा दशरथेनेव । तन्मात्रे प्राक्प्रतिश्रुतं ॥ क्षेमराजो
।
१ इयैः = प्र. २ दंडक - प्र. ३ वंश्याम. प्र. ४ तन्नामानं राजानं. ५ युद्धे.
Page #54
--------------------------------------------------------------------------
________________
कुमार
ददौ राज्यं । कर्णायात्मीयबंधवे ॥ ३६ ॥ तनूजः क्षेमराजस्य । राजमानमहोदयः॥ देवप्रसाद इत्यासी-देववत्सेवकपालच० प्रियः ॥ ३७॥ कर्णो वितीर्णवांस्तस्य । भक्तिस्मेरस्य भुक्तये ॥ प्रसादमिव मूर्त स्वं । स्थानं नाम्ना दधिस्थली ॥ ३८ ॥
तत्र देवप्रसादस्य । तनयो विनयोज्ज्वलः॥ नानाभवत् त्रिभुवन-पालः काल इव द्विषाम् ॥ ३९ ॥ कर्णस्य मयणल्लास्त्री कुक्षिशुक्त्येकमौक्तिकं ॥ तनयो न्यायवान् जज्ञे । जयसिंहो महीपतिः॥४०॥ कृत्वा विग्रहमुग्रसैन्यनिवहैर्यो द्वादशाब्दप्रमं । प्रारद्वारं विदलय्य पट्टकरिणा भक्त्वा च धारां पुरीं ॥ बध्वा श्रीनरवर्मभूधवमदःपादाग्रचर्मार्जितं । कोशं स्वं परिधाप्य खड्गमभवत्तीर्णप्रतिज्ञाभरः ॥४१॥ महोबकपुराधीशा-जितान्मदनवर्मणः ॥ कोटीः षण्णवति हेम्नां । यस्तन्मानमिवाददे ॥ ४२ ॥ यः कासारमुदारवारिलहरीलीलाभिरभ्रंलिहं । साक्षात्पार्वणचंद्रमंडलमिव श्रीपत्तनेऽचीकरत् ॥ तत्प्रांते च शिवाद्रिकांतमनिलोद्वेल्लत्पताकांचलं । कीर्तिस्तंभमतिष्ठिपद्यश इव स्वं मूर्ततामाश्रितं ॥४३॥ भुजौजसा पराजित्य ।
दुष्टं बर्बरकं सुरं ॥ यः सिद्धचक्रवर्तीति । नामान्यन्मान्यमानशे ॥४४॥ सिंचन वात्सल्यकुल्याभि-श्छेिदन रौद्रानुपद्रSवान् ॥ आरामिक इवारामं । स पालयति भूतलं ॥ ४५ ॥ | अथ श्रीकोटिकगण-द्रुमे व्याप्तदिगंतरे ॥ वज्राभिधायां शाखायां । चंद्रगच्छोऽस्ति गुच्छवत् ॥४६॥ तत्रासीद्वादिवित्रासी । स्वदासीकृतमन्मथः ॥ चारित्रेण पवित्रेण-वित्तः श्रीदत्तसूरिराट् ॥ ४७ ॥ मृद्धीका इव मृदीका । अपि यद्वाणीभंगयः॥ दुर्भेदमपि मोहादि । चित्रं बिभिदिरे सतां ॥ ४८ ॥ सोऽन्येद्युर्विहरन् सूरि-भव्यांभोरुहभा
१ सत्, प्र. २ त-प्र.
-CANCCCORECASALACTORS
| ॥२॥
Page #55
--------------------------------------------------------------------------
________________
स्करः॥ प्राप वागडदेशस्थं । वटपद्रपुरं परं ॥ ४९ ॥ तत्र स्वामी यशोभद्र-नामा भद्रंकरः सतां ॥ राजानकोऽस्ति है राजन्य-राजिराजितसन्निधिः ॥५०॥ समया मंदिरं तस्य । प्रासुके क्वचिदाश्रये ॥स्थित्वा श्रीदत्तसूरींद्रो । भव्यान् धर्म
मबूबुधत् ॥५१॥ विज्ञाय तत्र तं सूरि । साक्षात्पुण्यमिव स्थितं ॥ नमस्यामास सोऽभ्येत्या यशोभद्रःपुरेश्वरः॥५२॥ धर्मोदोपदेशयोग्योऽय-मिति मत्वा स सूरिराट् ॥ उपादिशजिनोपज्ञं । धर्म मर्माविधं शुचां ॥५३॥ पततां नरकोत्संगे। धर्म
एवावलंबनं अकूपार इवापारे । बोहित्थमिव देहिनां ॥५४॥धर्मो माता पिता धर्मो । धर्मो नृणां सहोदरः॥धर्मः स्वामी सुहृद्धर्मो। धर्मः स्यादंगरक्षकः॥५५॥ ये विना धर्ममीहंते । हंत राज्यादिसंपदः॥ कलयंति फलास्वादं । ते व्यपास्यैव पादपं ॥५६॥ मनोरथतरुस्ताव-जायते नायतस्थितिः॥ यावन्न वर्षति प्रौढ-पुण्यवार्षिकवारिदः ॥ ५७ ॥ दुर्लभं |नुभवं लब्ध्वा । मुग्धो यस्तं न सेवते ॥ क्लेशाप्तं स्वर्मणिं सोऽब्धौ । पातयत्येव विप्रवत् ॥ ५८॥
| तथाहि निःस्वतादाहि-कमलाकमलाकरः॥ अस्ति प्रतिष्ठानपुरं । गोदातीरैकमंडनं ॥५९॥ मुनिसुव्रतनाथस्य । यस्मिश्चैित्यमनुत्तरं । भविनां भवपाथोधौ । पततां यानपात्रति ॥ ६०॥ विष्णुशर्माऽवसत्तत्र । ब्राह्मणो ब्रह्मपारगः ॥ चंद्रस्य
रोहिणीवासी-त्तस्य शीलवती प्रिया ॥ ६१॥ कलाकलापभाजोऽपि । तस्य प्राकर्मदोषतः॥ लक्ष्मीन संमुखीभूता। दुर्भगस्येव भामिनी ॥ ६२॥ श्रीवाग्देव्योमिथो वैर-मिति सत्यैव लोकवाग् ॥ कुतोऽन्यथा त्यजत्येव । लक्ष्मीर्वाग्वल्लभान् जनान् ॥ ६३ ॥ न कुलेन न रूपेण । न गुणेन न विद्यया ॥ श्रीरियं रज्यति प्रायः । पण्यस्त्रीव दुराशया ॥ ६४ ॥
१ यशोभद्र नरेश्वरः,प्र.
GARAAR
धौ। पातया-पुण्यवार्षिकवा कलास्वादं ।
सप्॥१०॥
Page #56
--------------------------------------------------------------------------
________________
सर्ग.१
कुमारपालच०
HAGRICU
RRICROGRAMGAESAK
दरिद्रस्याभवंस्तस्य । मूर्ताश्चिंतालता इव ॥ विपत्तय इवाध्यक्षा । भूयस्यस्तनयाः क्रमात् ॥ ६५ ॥ दरिद्रत्वेन कन्यानां बहुत्वेन च पीडिता ॥ एकदा दीनवदना । प्रोचे शीलवती प्रियं ॥६६॥ त्वमात्मना द्वितीयोऽभूः । पूर्व तेन यथातथा ॥ कणादियाच्यापीश? । प्राणाधारो व्यधीयत ॥ ६७ ॥ इदानीं त्वभवन् कन्या। बयस्तत्पाणिपीडनं ॥ धनं विना कथंकारं । त्वया कारिष्यते ननु ॥ ६८॥ गृहस्थता धनाभावे । स्वामित्वं न्यायविप्लवे ॥ चारित्रं च कुशीलत्वे । कथं संग-टू तिमंगति ॥ ६९ ॥ वरमंधो वरं मूको। वरं पंगुर्वरं कुणिः॥ सर्वथा दुर्विधो नैव । निःशेषविपदास्पदं ॥७०॥ गृही सधन एवार्यो । मुनिर्निर्धन एव च ॥ द्वयं त्विदं विपर्यस्तं । न प्रशस्तत्वमंचति ॥ ७१ ॥ तदुद्यच्छस्व हे स्वामिन् । द्युम्नमूर्जितमर्जय ॥ उद्यमे नास्ति दारिद्यमिति लोकश्रुतिर्यतः॥ ७२ ॥ तत्प्रियोक्तं वचः श्रुत्वा । विष्णुशर्मा परामृशत् ॥ अहो मे मंदभाग्यत्वं । यदाजन्मापि दुःस्थता ॥७३॥ निःस्वता धनवत्ता वा । नैकांतोऽन्येषुवीक्ष्यते॥मम त्वधनतैवैका। हताशः करवाणि किं॥७॥ गुणा यांति ध्वंसं नयविनयदाक्ष्यार्जवमुखाःन मान्यत्वं लोके प्रसरति न कीर्तिविलसति॥कुटुंबं पार्थक्यं प्रथयति विरज्यंति तनयाः। न कांतापि स्नेहं कलयति धिगेतामधनतां ॥७५॥मृत्युनिःस्वतयोर्मध्ये। वरं मृत्युर्न निःस्वता॥ पूर्वस्मादल्पदुःखत्वं । परस्माच्च पदे पदे ॥ ७६ ॥ तद्धनं घनमानेष्ये । श्रित्वा देशांतरं स्वयं ॥ध्यात्वेति विष्णुशर्माथ । प्रतस्थे पृथुधीहात् ॥७७॥ क्रमात् क्रामन् धनान् देशान् । भ्रमन् रत्नाकरानपि ॥ प्रकाशयन् कलाः सर्वा । दातूनावजयन्नपि ॥७८॥ तथापि क्वापि न प्राप । स विप्रः श्रेयसीं श्रियं ॥ देशांतरेऽपि यद्वा स्यात् । प्राक्तनं कर्म नान्यथा ॥७९॥
१ दुःखता. प्र. २ पूर्वत्र यन्न दीनत्वं परत्रच पदे पदे, प्र.३ सर्व दातृन्, प्र.४ प्राकृतं, प्र.
RANSACCALCCAUSLCALOCALSO
Page #57
--------------------------------------------------------------------------
________________
SHUSHUSHA HUSHUSHUSHUSHA RASA
युग्मं ॥ विधत्तां वाणिज्यं श्रयतु नरनाथं प्रविशतु । धुलोकं पातालं व्रजतु भजतां वा धनपति ॥ अधीतां शास्त्रौघं दृढयतु तपोऽभ्यस्यतु कला-स्तथापि प्राक्कर्म स्फुरति न कदापि ह्यपरथा ॥८०॥ अस्तशर्मा ततो विष्णु-शर्मा स्वां दुर्दशा वदन ॥ दक्षं जरद्विजं कंचि-त्पप्रच्छ द्रविणेच्छया ॥ ८१॥ सोऽभ्यधाद्वारिधौ रत्न-द्वीपे रत्नखनीश्वरी ॥ आराद्धा | देवता दत्ते । रत्नं भाग्यानुमानतः॥ ८२ ॥ मंदभाग्योऽपि देव्याप्त-दिव्यद्रत्नप्रभावतः॥ भव्यं विभवमासाद्य । सद्यो माद्यति भूपवत् ॥ ८३ ॥ तस्योपदेशतः सोऽपि । यानेन मनसेव तां ॥ रत्नखानिसुरीं प्राप्य । प्रसादयितुमाहृतः॥८४॥ स्नातः कृतोपवस्त्रश्च । धौतचीवरपीवरुक् ॥ पुष्पैरभ्यर्च्य तां देवीं । विप्रः प्रोचे कृतांजलिः॥८५॥ कल्पवल्लीमिव |श्रुत्वा । त्वां दारियविदारिणीं ॥ देव्यहं भूयसीभक्तिः। प्राप्तो लक्ष्मीसमीहया ॥८६॥ सद्यस्तथा प्रसीद त्वं । यथाई स्यां श्रियां निधिः॥ नो चेत्तवोपरि प्राणान् । मुंचाम्यश्मकणानिव ॥ ८७ ॥ इत्युक्त्वा विष्णुशर्माथ । पुरस्तस्या निषेदि
वान् ॥ तदेकतानहृद्भूय । योगींद्र इव निश्चलः॥८८॥ युग्मं ॥ तस्यैवं ध्यायतो देवी-मेकविंशतिवासरे' ॥ तडिइंडदप्रचंडाभा । प्रादुर्भूय बभाण सा ॥ ८९॥ त्वं रे पूर्वभवे पुण्य-पण्यं नागण्यमार्जयः॥ बीजेनेव विना तेन । नोल्लसंती-18
प्सितांकुराः॥९० ॥ तत्त्वं सत्वरमुत्तिष्ठ । याहि मैदालयाद्वहिः॥ न चेद्वारिधिमध्ये त्वां क्षेप्स्याम्युत्पाव्य लोष्ठवत् ६॥९१॥ विष्णुशर्मा प्रणम्योचे । प्रार्थनाकल्पपादपे? ॥ अभिधत्से त्वमप्येवं । यदि तर्हि मृतोऽस्म्यहं ॥ ९२ ॥ किंच पुण्येन यद्यर्थ-स्तव किं देवि ? वैभवं ॥ रोगी पथ्येन नीरुक्चेत् । साहाय्यं भिषजः किमु ॥ ९३ ॥ प्रसादाद्देवतादीनां ।।
१, प्र. २ मद्रोहतो बहिः, प्र.
Page #58
--------------------------------------------------------------------------
________________
कुमारपालच०
॥४
॥
| निष्पुण्योऽप्यनुते श्रियं ॥ किं स्पर्शोपलवेधेन । नायः श्रयति हेमतां ॥९४॥ पुरा कल्पदुमीभूय । सेवकानां सुरोत्तमे ! ॥ अधुना बद्धमुष्टित्वं । दधाना किं न लज्जसे ॥९५॥ अचेतना अपीष्टं चे-ददते स्वर्दुमादयः॥ सचेतने ? कथं तर्हि । त्वं न मे ददसे वद ॥९६॥ तत्तुष्ट्वा देवि ? मे देहि । चिंतारत्नं तदुत्तमं ॥ श्रीदामि यत्प्रसादेन। नो चेत्पश्य कृतं मम ॥१७॥ इत्युदीर्य स्फुरद्वीर्यः । क्षुर्या निशितधारया ॥ कुष्मांडवन्निजं शीर्ष । द्विजश्छेत्तुं प्रचक्रमे ॥९८॥ तुष्टोच्चैस्तेन सत्वेन । |सा देवी मूर्तपुण्यवत् ॥ दत्वा देवमणिं तस्मै । जलरेखेव जग्मुषी ॥१९॥ विष्णुशर्मापि सिद्धार्थ-स्ततः स्वसदनोत्सुकः॥ यानमारुह्य वेगेन । प्रतस्थे वार्धिवर्त्मना ॥१०० ॥ जलधौ बजतस्तस्य । निशि राकानिशाकरः॥ नाविकानां तमोलुप्तं । वर्त्म व्यक्तुमिवोद्ययौ ॥१०१॥प्रेक्ष्यापत्यं विधुं वार्धिः । परिरब्धुमना इव ॥ ऊर्ध्व प्रासारयल्लोलान् । कल्लोलान् |स्वकरानिव ॥१०२॥ चंद्रं सांद्रद्युतिं दृष्ट्वा । दीपोऽयं किमु मन्मणिः॥ इति ध्यात्वा करेऽकार्षीद् । द्विजातिस्तं विलोकितुं| ॥१०३ ॥ पश्यतोऽनेकशस्तस्य । चंद्रबिंब मणिं च तं ॥ यानबाह्यात्कराच्युत्वा । पयोधौ पेतिवान् मणिः ॥ १०४॥ च्युते चिंतामणौ तस्मिन् । जीवितव्य इवात्मनः ॥ उचितं चेतनाशून्यो । द्विजः समजनि क्षणं ॥ १०५ ॥ कथंचिच्चेतनां प्राप्य । मुहुनिंदन स्वमुग्धतां । मुष्टवत् पर्यदेविष्ट कष्टतः सुचिरं द्विजः॥१०६॥ यथा मुग्धो द्विजः सोऽब्धौ । गमयामासिवान्मणिं ॥ तथा नृजन्म निर्धर्मो। गमयत्येव मानवः ॥१०७ ॥ ततस्त्वयाधिगम्यत-मानवं जन्म मानवं ॥ यशोभद्र स्वभद्राय । श्रेयः संचेयमुच्चकैः॥१०८॥ गुरोरित्युपदेशेन । सौरभेणेव वासितः॥ स धर्म
१ लक्ष्म्या -अपूर्वम्
॥४
॥
Page #59
--------------------------------------------------------------------------
________________
तत्ववन्मने । हितं को हि न मन्यते ॥ १०९॥ विहृतेऽपि गुरौ तस्मि-निधानमिव निर्धनः॥ धर्म गुरूदितं नैव । स| मुमोच कदाचन ॥ ११०॥ अन्यदा प्रावृडारमे । केकारवमनोहरे ॥ निर्जगाम यशोभद्रः । क्षेत्रक्षोणिदिदृक्षया ॥१११॥ तदा क्षेत्रेषु मूलानि । भृत्येषु ज्वालयत्स्वयं ॥ दृष्टवान् गर्भिणीमेकां । निर्दग्धां पन्नगप्रियां ॥ ११२॥ दध्यौ च विगिदं क्षेत्र-कर्मनिर्माणमंगिनां ॥ नियंते जंतवो हंत । यत्र पंचेंद्रिया अपि ॥११३॥ न मोक्षः क्वापि जीवाना-मेकजीववधादपि ॥ भूरिजीववधे जाते । का गतिर्भविता हहा ॥११४॥ जनैरारंभसंरंभः । कुटुंबार्थ विधीयते ॥ क्लिश्यते नरकोत्संगे।स त्वेकस्तद्भवांहसा ॥११५॥ कथमेताः प्रपूर्येरन् । नरकक्षोणयोऽखिलाः ॥ अस्मादृशा भवेयुश्चे-त्पापीयांसो न भूरिशः॥११६॥ | सप्तैव नरकावन्यः । श्रूयंतेऽर्हन्मते ततः॥ ईदृक्पापकृतः कुत्र । समुत्पत्स्यामहे वयं ॥ ११७ ॥ ते धन्यास्ते विवे-18 कज्ञाः । समस्तारंभवर्जनात् ॥ श्रित्वा भागवतीं दीक्षां । निष्पाप्मानश्चरंति ये ॥ ११८ ॥ ध्यात्वेति श्रावकामात्यं । सहादाय स हारभृत् ॥ यशोभद्रो ययौ तं स्वं । गुरुं डिड्वाणकस्थितं ॥११९॥ नत्वा श्रीदत्तसूरिं तं । स्वं तत्पापं निवेद्य च ॥ तत्यायश्चित्तमप्राक्षी-दश्रुमिश्रविलोचनः॥१२० ॥ व्याजहाराथ नियाजं । सूरिव निशम्यतां ॥ जंतुघातोद्भवमघं ।
सर्वाघादतिरिच्यते ॥ १२१॥ तत्रापि यो वधः पंचें-द्रियाणां स वधो महान् ॥ यस्माजंतुरधो याति । शैलश्रृंगच्युताकश्मवत् ॥ १२२ ॥ अमुष्मात्यापतो मोक्ष-स्तच्चारित्रं विना न ते ॥ किमपास्य सुधापानं । जीव्यते विषभक्षणात् ॥१२३॥5 ६ तन्निशम्य स निर्विण्णो । हारेण जिनमंदिरं ॥ विधाप्य व्रतमादत्त । श्रीदत्तगुरुसन्निधौ ॥ १२४ ॥ गुरोः पुरोव्रताहेऽसौ।
१-प्र. २ डिंडाणक. प्र.
BAISA CASA GASEOSASSASSASSA
Page #60
--------------------------------------------------------------------------
________________
कुमार- त्यक्त्वा षड् विकृतीर्ललौ ॥ एकांतरोपवासानां । यावज्जीवमभिग्रहं ॥ १२५॥ सोऽधीयन् सर्वसिद्धांतं । दुश्चरं च तपश्चपालच०
रन् ॥ सूरिणा स्वपदेऽन्यासि । क्रमाद्गीतार्थतां गतः॥१२६॥ शमयंस्तमसां स्तोमं । भव्यपद्मान् विकाशयन् ॥ भासां पतिरिवाभासीत् ॥ श्रीयशोभद्रसूरिराट् ॥ १२७॥ आयुःप्रांतं स विज्ञाय । विज्ञानातिशयान्निजात् ॥ त्रयोदशोपवास्याप । दिवंटू
रैवतकाचले ॥१२८ ॥ प्रद्युम्नसूरिस्तत्पट्टे । व्यद्योतिष्ट पटिष्ठधीः॥ प्रद्युम्नं जितवान् स्वस्य । नामसाम्यरुषेव यः॥१२९॥ 5 सूरिः श्रीगुणसेनोऽथ । तणश्रियमाश्रयत् ॥ यो विश्वं नायकीभूय । जिगाय गुणसेनया ॥१३० ॥ पदे तस्यापि शस्या-13
त्मा । दीप्यते स्म गतस्मयः॥ सूरिः श्रीदेवचंद्राख्यः । कृतव्याख्यः सुरैरपि ॥१३१॥ स्थानांगवृत्ति-श्रीशांति-चरित्राद्या अनेकशः॥प्रथंते यत्कृता ग्रंथा। ज्ञानांशा इव देहिनः ॥ १३२ ॥ स सूरिविहरन्नाप । मूर्तो धर्म इव स्वयं ॥ पुरं गुर्जर-18 देशीयं । धंधूक इति विश्रुतं ॥ १३३ ॥ तद्वास्तव्यः समस्तोऽपि । संघः कमलखंडवत् ॥ सूर्यालोकवशादासी-दुचित स्मेरतांचितः॥ १३४ ॥ तत्र मोढान्वयः प्रौढ-दृढिमा सुरशैलवत् ॥ आसीत् श्रेष्ठमतिः श्रेष्ठी । धर्मिष्ठश्चाचिगाह्वयः॥ ॥ १३५ ॥ गुणेष्वस्मत्सपत्नेषु । संसजत्येष सर्वदा ॥ इतीव रुषिता दोषाः ।यं कदापि न पस्पृशुः॥१३६ ॥ गेहिनी देहिनीव श्रीस्तस्याभूभाग्यभंगिभूः ॥ पाहिनी कामहृत्कील-शीललीलावगाहिनी ॥ १३७ ॥ अन्येद्युः सुखसुप्ता सा । स्वमे चिंतामणि शुभं ॥ लब्ध्वा दत्वा गुरुभ्यश्च । जागरामास तत्क्षणं ॥१३८ ॥ तया स्वमफलं पृष्टो। देवचंद्रप्रभुर्जगौ ॥ भावी तव सुतः कोऽपि । भद्रे ? लोकोत्तरस्थितिः॥ १३९॥ चिंतारत्नं गुरुभ्यो य-द्ददौ तेन तु वेम्यहं ॥
१ गाढं. प्र. २ गुण. प्र. ३ स्थानाड़. प्र.
ARREARRIAGRA
Page #61
--------------------------------------------------------------------------
________________
त्वत्सुतः सूरिराट् भावी । जैनशासनभासनः ॥ १४० ॥ तामाचम्य गुरोर्वाचं । सुधामिव मनोरमां ॥ अबभाच्छकुनग्रंथिं । सैवमस्त्विति वादिनी ॥ १४१ ॥ तस्यामेव निशीथिन्यां । तस्याः कुक्षाववातरत् ॥ कोऽपि पुण्यनिधिर्जीवः । सरस्यां राजहंसवत् ॥ १४२ ॥ समये परिपूर्णेऽथ । साऽसूत सुतमुत्तमं ॥ यथा मेरुमही कल्पद्रुमं विश्वजनेप्सितं ॥ १४३ ॥ तदा वागशरीरासी- द्वयोनि भाव्येष तत्त्ववित् ॥ जिनवज्जिनधर्मस्य । स्थापकः सूरिशेखरः ॥ १४४ ॥ जन्मोत्सवं समापय्य । द्वादशाहेऽथ तत्पिता ॥ चाचिगश्चंगदेवेति । नाम पुत्रस्य तेनिवान् ॥ १४५ ॥ लघीयसोऽपि तस्यासी- त्प्रज्ञा विश्वातिशायिनी ॥ अभ्युद्यतोऽपि किं भानो-र्न भवेदद्भुता प्रभा ॥ १४६ ॥ मोढचैत्येऽन्यदा देवचंद्रसूरौ समेयुषि | आजगाम तदा तत्र । पाहिनी चंगदेवयुक् ॥ १४७ ॥ गुरुः प्रदक्षिणीकृत्य । यावद्देवान्नमस्यति ॥ तावदुर्वासने बाल्या - चंगदेवो न्यविक्षत ॥ १४८ ॥ तं दृष्ट्वा सूरिराचष्ट । तत्सवित्रीं स्मरस्यदः ॥ स्वप्ने चिंतामणि लब्ध्वा । गुरवे त्वं प्रदास्यसि ॥ १४९ ॥ स्वयमेवाधुना तेऽसौ । सुतस्तदुचितं व्यधात् ॥ पुण्यनैपुण्यजः स्वप्नः । प्रायो भवति नान्यथा ॥ १५० ॥ तदयं दीयतां भद्रे ? । पुत्रोऽस्मभ्यं पवित्रधीः ॥ यथार्हद्धर्मसाम्राज्यं । जनयेज्जगतीतले ॥ १५१ ॥ त्वद्ने तस्थिवानेष । ज्ञास्यते कुत्रचिन्न वा ॥ सूरिर्जातस्तु विश्वेऽपि । यावच्छ्रीजिनशासनं ॥ १५२ ॥ इत्युक्ता सूरिणा प्रोचे । पाहिनी भक्तिवाहिनी ॥ युक्तमुक्तमिदं किंतु । प्रार्थ्यतां जनकोऽस्य सः ॥ १५३ ॥ ततस्तं चाचिगं सूरिः । प्रतिबोध्य कथंचन ॥ सर्वस्वमिव तद्वंश - श्रियस्तत्पुत्रमग्रहीत् ॥ १५४ ॥ तं चंगदेवमादाय । दायादं तेजसा रवेः ॥ देवचंद्रप्रभुः स्तंभ-तीर्थं प्रति विचेरिवान् ॥ १५५ ॥ प्रज्ञातिशयमालोक्य । तस्य वाचस्पतेरिव ॥ शास्त्राब्धिपारह
Page #62
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ ६ ॥
श्वत्वं । श्रीसूरिः समभावयत् ॥ १५६ ॥ महस्वितेव माणिक्ये । पुष्पे सुरभितेव च ॥ शास्त्रप्रवेशतस्तस्मिं - चातुरी व्यलसत्स्वयं ॥ १५७ ॥
अथ श्रीमालवंशीयं । जिनशासनवत्सलं | आइयोदयनामात्यं । देवचंद्रो गुरुर्जगौ ॥ १५८ ॥ श्रेष्ठिचाचिगपुत्रोऽयं । चंगदेवो व्रतेऽस्तिधीः ॥ त्वया विधाप्यतामस्य । मंत्रिन् ? दीक्षामहामहः ॥ १५९ ॥ तदात्मनीनं विज्ञाय । स्पृहयालुः शुभाय सः ॥ पुण्याकृष्टिमिवोत्कृष्टां । तत्सामग्रीमचीकरत् ॥ १६० ॥ अथ श्रीवर्धमानस्य । प्रासादे सादितांहसि ॥ | माघमासस्य धवले । पक्षे चातुर्दशेऽहनि ॥ १६१ ॥ रोहिण्यां शनिवारे च । रवियोगे त्रयोदशे ॥ सप्तग्रहबलोपेते । वृषलग्ने शुभेशके ॥ १६२ ॥ श्रीसूरिमंत्रस्मरण - स्मेरातिशयशालिना ॥ सूरिणा निजहस्तेन । चंगदेवः स दीक्षितः ॥ १६३ ॥ त्रिभिर्विशेषकं ॥ यशसा वदनेनापि । द्विरनेन जितः शशी ॥ इतीव सुरिस्तस्याख्यां । सोमचंद्र इति व्यधात् ॥ १६४ ॥ पापं लुनीहि लक्ष्मीं स्वां । पुनीहि सुकृतं श्रय ॥ दीक्षामहमातत्य । चकारोदयनो न किम् ॥ १६५ ॥ अपर्यध्ययनीभूय । | सोमचंद्रोऽथ सांद्रधीः ॥ अध्येतुं प्रावृतत्सर्व-शास्त्राणि गुरुसन्निधौ ॥ १६६ ॥ गुरुरप्यन्य शिष्येभ्यस्तमुच्चैरध्यजीगपत् ॥ | सत्पात्र एव हि प्रायः । प्रयासं श्रयते सुधीः ॥ १६७ ॥ अल्पीयसापि कालेन । सोऽधीयन्नप्रमद्धरः ॥ प्रज्ञायानेन संजज्ञे । | पाणो वाङमयां बुधेः ॥ १६८ ॥ पदानुसारिप्रज्ञाढ्यान् । सूरीन् श्रुत्वान्यदाग्रिमान् ॥ विद्वद्वृंदारकोऽप्येष | चिंतयामास | चेतसि ॥ १६९ ॥ स्तुत्याः सर्वेऽपि पूर्वे ते । सूरयो गुणभूरयः ॥ बुद्ध्या पदानुसारिण्या । ये पूर्वाण्यध्यगीषत ॥ १७० ॥ १ शुभाशयः, प्र. २ इत्याशिषं ददौ सूरिः सचिवायाऽपि प्रौढवाक्=प्र.
सर्ग. १
॥ ६॥
Page #63
--------------------------------------------------------------------------
________________
| ऐदंयुगीनानस्मान् धिक् । सर्वथा मंदमेधसः॥ क्लिश्नन्ति ये गुरून् गाढं। विदंति च न किंचन ॥ १७१॥ ततो यद्यपि शास्त्रज्ञो । जज्ञेऽहं तदपि स्वयं ॥ श्रित्वा कश्मीरदेशं तं । तोषयिष्यामि भारती ॥ १७२॥ सोमचंद्रेण विज्ञप्ते । स्वेप्सिते तस्य तद्गुरुः ॥ प्रपेदेऽतिशयात् ज्ञात्वा । शारदासंमुखागर्म ॥ १७३ ॥ उजयंतावताराख्ये । चैत्येऽथ प्रवरे दिने । कश्मीरानप्रति स स्मेरः । प्रस्थाने स्थितवान्मुनिः॥१७४ ॥ मांत्रिकं स्नानमाधाय । स्मरन् ज्योतिर्मयं महः ॥ तस्यामेव निशि ध्यानं । स सारस्वतमादधौ ॥ १७५ ॥ विश्वस्याभयदां न्यस्त-पुस्तिका वामके करे ॥ भक्तभ्यो वरदां साक्ष-मालामपि च दक्षिणे ॥ १७६ ॥ कर्पूरपूररोचिष्णु-द्युतियोतितदिङ्मुखीं ॥ उन्निद्रपद्मपत्राभ-नेत्रकांतिविलोकिनीं ॥ १७७॥ हृदये ध्यायतस्तस्य । भास्वरां वागधीश्वरी ॥ कृष्टेव तेन ध्यानेन । सा साक्षादजनि क्षणात् ॥ १७८ ॥ त्रिभिर्विशेषकं ॥ ब्रह्मपुत्री सवित्रीव । हक्पातः स्नेहसांद्रितैः ॥ प्रसादं बोधयंतीव । सैबैमाचष्ट तं मुनि ॥ १७९॥ कश्मीरान् मास्म यासीस्वं । वत्स! मत्तोषहेतवे ॥ त्वद्भक्तिप्रणिधानाभ्यां । प्रीतास्म्यत्रापि संप्रति ॥ १८०॥ सिद्धसारस्वतो भूयाः। प्रसादेन ममाधुना ॥ इत्युदीर्य तीरोऽधत्त । देवी विद्युदिव क्षणात् ॥ १८१ ॥ तदा च स्फुरितस्फार-सारसारस्वतोदयात् ॥ प्रज्ञा सर्वपथीनाभू-त्तस्य भानोरिव प्रभा ॥ १८२ ॥ अतिवाह्य निशाशेषं । सरस्वत्याः स्तवैनवैः॥ कृतकृत्यः समायासीत् । प्रातः स गुरुसन्निधिम् ॥ १८३ ॥ वाक्प्रसादात्तमालोक्य । दीप्रमप्रीयतोच्चकैः ॥ गुरु ग इवोन्निद्र पद्मं शूरप्रकाशतः॥ १८४ ॥ विज्ञप्ते रात्रिवृत्तांते । सोमचंद्र गुरुः स्वयं ॥ तुष्टस्तष्टाव कः पात्रं । न स्तुवीत गुणोत्तरं
१ कात्यव. प्र. २ स्पष्टमाचष्ट. प्र.
Page #64
--------------------------------------------------------------------------
________________
कुमार
॥ १८५॥ चौतुर्विद्यरहस्यज्ञः । श्रीवाग्देवीप्रसादतः ॥ विश्वेषामपि संदेह-ध्वांतं सोऽध्वंसतावत् ॥ १८६ ॥ देवचंद्रप्र-1 पालच० INIमुस्तस्मा-दन्येद्युः सोमचंद्रयुक् ॥ विहरन् वसुधापीठे । पुरं नागपुरं ययौ ॥ १८७॥ धर्मोपदेशपीयूष-सारणीभिरहर्निशं ॥
सेसिंचामास सूरिस्त-द्विवेकिजनशाखिनः ॥ १८८ ॥ सोमचंद्रः स बालोऽपि । द्वितीयोदितचंद्रवत् ॥ तत्राभूद्विषां वंद्यो। वैदुष्यकलयैकया ॥ १८९॥ | इतश्च तत्रैव पुरे। पौरगौरवगौररुक् ॥ वसत्याढ्यतरः श्रेष्ठी । धनदाख्य इति श्रुतः ॥ १९० ॥ स पुत्रपौत्रदौहित्रैरवर्धिष्ट दिने दिने ॥ योग्यैर्महामहत्त्वस्य । कलभैयूंथनाथवत् ॥ १९१॥ तस्याभूदाग्ययोगेन । महीयसितमा रमा॥ शुक्लपक्षेण चंद्रस्य । ज्योत्स्नेव जनतापभित् ॥१९२॥ उपकुर्वन् स सर्वेभ्यो । मार्गस्थफलितद्वत् ॥ स्वश्रियं सार्थकीचके। तच्चांचल्यं विदन्निव ॥ १९३॥ व्यवसायस्थिता लक्ष्मी-नश्येदिति कदाचन ॥ स निधीकृत्य दीनारान् । भूरीभ्यास्थन्म
हीतले ॥ १९४ ॥ निधिरेकत्र विन्यस्तः। प्राप्यते कर्हिचिन्न वा ॥ इति स्थानेषु भूयस्सु । न्यधात्तं च पृथक्पृथक् ॥१९५॥ दाएवं गते घने काले । तस्यैवाभाग्ययोगतः ॥ श्रीरासीत् क्षयिणी कृष्ण-पक्षज्योत्स्नेव शीतगोः ॥ १९ ॥ गृहेऽट्टे व्यव-1
साये च । क्षयंती तद्रमा क्रमात् ॥ निदाघसरसीवासीत् । प्रतिघनं क्रशीयसी ॥ १९७॥ प्रणश्यंत्यां श्रियां तस्य नश्यतिस्म गुणोच्चयः॥निर्वा दीपिकायां हि प्रकाशः किं प्रसर्पति॥१९८॥ श्रियोऽबलाया अपि शक्तिरत्र्या। यदापती
१चतस्रो विद्या एव चातुर्विद्य-"आन्वीक्षिकी-त्रयी-वार्ता, दंडनीतिश्च शाश्वती।" तर्कविद्या-वेदत्रयविद्या-इतिहासविद्या-राजनीतिविद्या. २ सेसिच्यामास. प्र.३ त्रुब्बती,प्र.
ADSCACASSASRANAMAA
सर-CR-SAMANARAM
Page #65
--------------------------------------------------------------------------
________________
SAROKAROSAROSASSAMSUMAR
सकलं गुणोघं ॥ असंतमप्यानयति ब्रजंती । नयत्य, संतमपि क्षणेन ॥ १९९ ॥ सुखसर्वकर्ष तस्य । दारिद्यमभवत्तथा ॥ यथा भोजनमात्रेऽपि । संदेहः सर्वतोऽस्फुरत् ॥ २०॥ धनदश्रेष्ठिना सूनु-सनाथेन ततः स्वयं ॥ निधिस्थानानि सर्वाणि! चख्निरे द्रविणेप्सया ॥ २०१॥ बहिनिष्काश्य सोऽद्राक्षी-धं यं स्वर्णमयं निधि ॥ स सोऽङ्गारमयो जज्ञे । तस्याभाग्यवि जूंभितैः ॥२०२॥ अथानानो निजं वक्षः । स्फोटयन्मस्तकं तथा ॥ रुष्टाहिदष्टवत्सद्यो । मूर्छालः सोऽपतत् क्षितौ ॥२०३॥ कथंचिज्जातचैतन्यो । व्यलापीच्चेति विह्वलः ॥ हहा दैव! त्वया चक्रे । किमेतद्दारुणं मम ॥२०४ ॥ हृत्वा बहिश्चरी लक्ष्मी । मुमुदानो न किं हृदि ॥ यदंतःस्थानपि निधी-नीहक्षान् विदधे भवान् ॥ २०५॥ बहिर्धने गते मेऽन्तर्द्धनं घुपकरिष्यति ॥ मयेति या कृता बुद्धिः। सापि चक्रे त्वया वृथा ॥२०६॥ तावन्मतिः स्फुरति वल्गति शास्त्रमंतः शौंडीर्यमुल्लसति भाति महत्वमुच्चैः॥यावन्मनोरथरथप्रथिमाद्रिमार्ग। न प्रातिकूलिकतमत्वमुपैषि' दैव!॥२०७॥ यद्वा भवत्स्वभावोऽय-मस्तिमाननगारिवत् । निःस्वो भवति निःस्वस्तु । चक्रीव कमलानिधिः ॥ २०८ ॥ एवं विलप्य धैर्येण । सन्नह्य हृदयं निजं ॥ तानंगारान् बहि:शाला-कोणके क्षिपतिस्म सः ॥ २०९ ॥ ततः स धनदश्रेष्ठी । लजमानो महाजने ॥ कथंचिद् दुःखविवशान् । दिवसानत्यवाहयत् ॥ २१० ॥ सोमचंद्रयुतोऽन्येधु-वीर|चंद्रोगणिभ्रमन् ॥ तस्य वेश्माविशल्लातुं । मिक्षां भक्तुमिवापदं॥२११॥ तदा च सपरिवारो। धनदो निधनाग्रणीः॥ कष्टितोत्थितवत्पेयां । पयोरूपां पिबन्नभूत् ॥ २१२ ॥ चतुर्दिक्षु गृहं प्रेक्ष्य । तदीयं तच्च भोजनं ॥ सोमचंद्रो गणि
१ मुपैति देवम्. प्र.
Page #66
--------------------------------------------------------------------------
________________
कुमारपालच०
KASARA
॥८॥
SAMASKCONGS
प्रोचे । शनैः पश्चादवस्थितः॥२१३ ॥ श्रेष्ठ्ययं किं समृद्धोऽपि । पेयां पिबति निःस्ववत् ॥ महीश इव नानाति ।
| सर्ग.१ शस्यां रसवीं कथं ॥ २१४ ॥ गणिजगौ त्वमिभ्यानां । धिष्ण्यादानीय मोदकान् ॥ अश्नासि तन्न जानासि । निःश्रीकाणां किल स्थिति ॥ २१५॥ प्रतिवेश्मनि दुःस्थानां । त्वमस्थास्यः कदापि चेत् ॥ तदाज्ञास्यः सुखेनैव । समस्तामपि
तां मुने! ॥ २१६ ॥ सोमचंद्रः पुनः प्रोचे । निःस्वोऽयं कथ्यते कुतः॥ यदस्य वेश्मकोणेषु । पश्यामि कनकोत्करान् ६॥२१७॥ ते व संतीति तत्पृष्टः । स तस्मै द्रागदीदृशत् ॥ स्वर्णदीनारराशीस्तान् । दीप्रान्मंगलतारवत् ॥ २१८ ॥
दृष्टा तान् विस्मितोऽत्युच्चै-गणिः श्रेष्ठयपि तद्वचः॥ संनिकृष्टतया श्रुत्वा । किं वक्ति शिशुरित्यवक ॥ २१९ ॥ न किंचिदिति जल्पाको । गणिः पृष्टो महाग्रहात् ॥ सोमचंद्रोदितं सर्व । श्रेष्ठिने तदचीकथत् ॥ २२० ॥ धुलकस्य दृशांगा-13 रान् । स्वर्णीभूतान्निभाल्य तान् ॥ तावन्नवीनद्रविण-लाभेनेव स पिप्रिये ॥२२१॥ लगित्वा पादयोस्तस्य । स्वं वृत्तांतं निवेद्य च ॥ उज्जीवित इव श्रेष्ठी । तमभाषिष्ट शिष्टधीः ॥ २२२ ॥ मन्ये मुने! त्वमेवासि । ग्रामणीः पुण्यशालिनां ॥ प्रभाववैभवं यस्य । शिशुत्वेऽपि प्रकाशते ॥२२॥ किंच यत्स्वर्णतोयेन । त्वमेव स्तनयित्नुवत् ॥ तृषार्त चातकमिव । मत्कु. टुंबमजीवयः॥ २२४ ॥ परं प्रसद्य दीनाराः । स्पृश्यतां निजपाणिना ॥ यथा त्वयि गतेऽप्येते । दधते नान्यरूपतां ॥ २२५ ॥ दयया सोमचंद्रेण । तदुक्ते विहिते सति ॥ तदृष्टावेव धनदः । स्वकोशे तान्यवीविशत् ॥ २२६ ॥ ततो| मुनियुतः श्रेष्ठी। समेत्य गुरुसन्निधौ ॥ नत्वा च सोमचंद्रीयं । तं प्रभाव न्यवेदयत् ॥ २२७ ॥ ऊचे च कनकं तत्ते ।। त्वच्छिष्यातिशयोदयात् ॥ प्रभो! प्रसद्य मां शाधि । कुत्र कुत्र व्ययेऽधुना ॥ २२८ ॥ गुरुर्जगाद निर्लोभः । तवेहरभक्ति
Page #67
--------------------------------------------------------------------------
________________
हारस्ति चेत् ॥ निर्मापय जिनेंद्रस्य । विमानमिव मंदिरं ॥ २२९ ॥ तुष्टस्तया गिरा श्रेष्ठी । चैत्यं निर्माप्य सत्तमं ॥ तेनैव च।
प्रतिष्ठाप्य । वीरबिंब न्यवेशयत् ॥ २३०॥ पौरास्तेन चरित्रेण । चेतस्युच्चैश्चमत्कृताः ॥ तुष्टुवुः सोमचंद्रं त-मेवं मागधवन्मुहुः ॥२३॥ श्रीसोमचंद्रमुनिरत्र चिरं स नंद्या-द्यन्नेत्रमांत्रपतनादपि शैशवेऽपि ॥अंगारकेषु भवतिस्म सुवर्णभावो।
लोहेषु सिद्धरससंगमतो यथैव ॥२३२॥ देवचंद्रप्रभुस्तस्मा-पुराच्चरणरेणुभिः॥ पावयन् पृथिवीपीठं । प्राप्तोऽणहिल्लपत्तनं P२३३॥ तत्रास्ति सोमचंद्रस्य । मित्रं देवेंद्रसूरिराट् ॥चंद्रस्य कैरवमिव । चित्रंन जडिमास्पदं ॥२३४॥ शुश्रुवे कर्हिचित्ताभ्यां ।
ताहिलपत्तने गौडदेश्यजनाननात्॥कलानामाकरो गौड-देशो वारामिवार्णवः ॥२३५॥ ततस्तौ मंत्रयेतेस्म । गौडदेशं प्रति स्वयं ॥ गत्वा कोऽपि कलाभ्यासः। क्रियते कौतुकास्पदं ॥२३६॥ यद्वालोऽपि कलायोगा-न्महतामेति मान्यतां ॥ स्पष्टोऽत्रार्थेऽस्ति दृष्टांतो।
महेश्वरशिरःशशी ॥ २३७ ॥ अचेतनमपि द्रव्यं । वर्धते चेत्कलांतरात् ॥ सचेतनः कथं तर्हि । न वर्धेत ध्रुवं ततः॥ ४॥२३८ ॥ ततः कथंचिदापृच्छय । स्वगुरू तावुभौ मुनी ॥ प्रस्थाय पत्तनात् सायं । खिरालग्राममीयतुः॥ २३९ ॥
तयोः स्थितवतोस्तत्र । यतिः कोऽपि जरत्तरः॥ विद्यासिद्ध इवाभ्येत्य । कुतोऽपि मिलितः स्वयं ॥ २४० ॥ स प्रोचे तो कृतौचित्यौ । ब्रूतं व प्रस्थितौ युवां ॥ कथिते सत्यभिप्राये । ताभ्यां वृद्धोऽभ्यधात् पुनः॥ २४१ ॥ कलार्थमयमारंभो। युवयोश्चेद्विज़ुभते ॥ तर्हि देशभ्रमं मास्म । कार्ट कष्टावहं तनोः ॥२४२॥ अहमेव प्रदास्ये वां । कलास्ताः सकलाः कलाः॥ ताभितोऽस्त्ययं कायो । राकाशीतांशुवन्मम ॥ २४३ ॥ परं मामुजयंतादि । कथंचिन्नयतं युवां ॥ परिचार्यो
१ पद्म. प्र. २ मनोहराः
Page #68
--------------------------------------------------------------------------
________________
कुमार-16षधीः कुर्वे । यथाहं युष्मदीप्सितं ॥२४४॥ सत्पात्रविद्यान्यासेन । समाहितमनास्ततः॥साधयामि परं लोकं । भवत्कृतांतिपालच०
मक्रियः ॥ २४५॥ ततस्तौ हृषितौ ग्रामा-धीश्वरेण सुखासनं ॥ तद्वाहकांश्च प्रगुणी-कार्य रात्री निदद्रतुः ॥ २४६॥ क्षणं सुप्तोत्थितौ तौ स्वं । रैवतादिशिरःस्थितं ॥ समालोक्य परं चित्रं । वहतः स्म हृदंतरे ॥ २४७॥क स ग्रामः व तद्धाम । क स वृद्धतपोधनः ॥ क्वावां क्व चोजयंतोऽयं । किमेतत्सर्वमद्भुतं ॥ २४८॥ ध्यायंताविति तौ साधू । काचिद्देवी तदावदत् ॥ खंडितोइंडमार्तड-रोचिर्मडलमंडिता ॥२४९॥ कलासु लालसं चित्तं । वीक्ष्य वां तत्प्रदित्सया ॥ प्राप्तास्म्यहं भवद्भाग्यैः । कृष्टा शासनदेवता ॥ २५०॥ प्रपंचोऽयं समस्तोऽपि । वृद्धसाध्वागमादिकः ॥ चक्रे मयैव युवयो-रत्रानयनवांछया ॥ २५१ ॥ इदं किल महातीर्थ । श्रीनेम्येतस्य नायकः ॥ अत्रौषधानि दिव्यानि । मंत्राश्चातिफलावहाः ॥ २५२॥ इत्युक्त्वा सा नृपाकृष्टि-देवाकृष्टिपटीयसः॥ मंत्रान् पठितसंसिद्धां-स्ताभ्यां तुष्टा व्यशिक्षणत्॥ | ॥२५३॥ सद्यः प्रत्ययकारीणि । वश्यादावौषधान्यपि ॥ भ्रामं भ्रामं गिरेः शृंगे । देवी तौ पर्यचीचयत् ॥ २५४ ॥ मास्म || | विस्मरतामेतौ । मंत्राद्यमिति सा मुनी ॥ कमंडलु करे कृत्वा । सुधापानार्थमार्थयत् ॥२५५॥ न सुधापानमप्य« । रात्रा
विति विविक्तधीः ॥ नैषीदेवेंद्रसूरिस्त-दहो सस्पृहता ते ॥२५६॥ उत्सर्ग चापवादं च । विचार्य चतुराशयः॥ अकुंठोत्कं. Fठया कंठम् । सोमचंद्रस्तु तां पपौ ॥२५७॥ सोमचंद्रः सुधापानात् । तत्सर्वं स्मृतवान् हदि ॥ तद्विनान्यस्तुन तथा ।मति
र्भाग्यानुसारिणी ॥२५८॥ ततस्तौ तीर्थनमनात् । कृतार्थों सैव देवता ॥ निशाशेषे समुत्पाव्य । मुमोच गुरुसन्निधौ ॥२५९॥ |अत्याश्चर्यकरं प्रात-श्चरित्रं तन्निवेद्य तौ ॥ स्वगुरू संघमप्युच्चै-श्वक्रतुः प्रमदास्पदं ॥२६० ॥ सोमचंद्र गुरुरथ ।
GURUKUMAR
रे कृत्वा । सुधापान चापवादं च वातद्विनान्यस्तु न तथा
॥
Page #69
--------------------------------------------------------------------------
________________
ज्ञात्वा गच्छधुरंधरं ॥ तस्मै सूरिपदं दातु-मुदतिष्ठत सौष्ठवात् ॥ २६१॥ संघानुज्ञां समासाद्य । गणकानुपवेश्य च ॥ लग्नं व्यचीचरसूरि-विश्वस्यापि शिवंकरं ॥ २६२ ॥ अथ माधवमासस्य । तृतीयस्यां तिथौ शुचौ॥ कर्कलग्ने गुरौ मूर्ती । राही कन्याव्यवस्थिते॥२६॥ भौमे धनुःस्थिते शुक्रे । मीनस्थे सबुधे रवौ। मेषाश्रिते तुषारांशौ। शनौ च वृषसंगते॥२६४॥ ५7 नालग्नेऽमुष्मिन् विधोर्गेहे । होराद्रेष्काणयोरपि ॥ वर्गोत्तमे नवांशे च । द्वादशांशेऽतिशो-15
X भने ॥ २६५ ॥ कवेस्तृतीये त्रिंशांशे । क्षणेऽस्मिन् क्षेमकारिणि ॥ श्रीसंधेन प्रहृष्टेन । कार्य
त्रमाणे महामहे ॥२६६ ॥ नंदिविधि विधायाग्यम् । सोमचंद्राय दत्तवान् ॥ जिनशासन
१२. सर्वस्व-मिवाचार्यपदं गुरुः ॥२६७ ॥ पंचभिः कुलकं ॥ हेमवत्कांतिमांश्चंद्र । इवाहा मं
द करोऽस्त्ययं ॥ इतीव हेमचंद्रेति । नाम तस्य गुरुय॑धात् ॥२६८॥ वादित्राणि तदा रेणुदिक्कुक्षिभरिभिः स्वनैः ॥ ज्ञापयंतीव सूरींद्रं । नवं मोहस्य भीतये ॥२६९॥ हर्षादनर्तिषुः केऽपि । केऽपि गीतमगासिषुः दवाद्यान्यवीवदन् केऽपि । केऽपि चास्ताविषुर्गुणान् ॥२७०॥ स्वर्णद्रविणधाराभि-वर्षतो व्यवहारिणः॥प्रमोदं प्रापय
नर्थि-केकिनः स्तनयित्नुवत् ॥ २७१॥ तदा भवो बिभायेव । ननाशेवाशुभोदयः॥ निदद्राविव मिथ्यात्वं । प्रोवासेव कुवासना ॥ २७२ ॥ ननर्तेव मुदा धर्मः । पुस्फोरेव च संयमः ॥ जगजैव तपो ज्ञान-मुन्मिमीलेव सर्वतः॥ २७३ ॥ पर्यटन राजपाट्यां सो-ऽन्येद्युः सिद्धधराधिपः॥ हेमाचार्य पुरोऽद्राक्षी-दायांतं राजवर्त्मनि ॥२७४॥ तन्मूर्तिस्फूर्तिमालोक्य । चौलुक्यश्चित्रितांतरः ॥ निरुद्ध्य स्वगजं किंचि-दाचक्ष्वेति तमूचिवान् ॥२७५॥ दृष्ट्वा नृपं निरंधतं । गजेंद्रप्रसरं
SHUSHU6408*ARUSTUSTERIS***
Page #70
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ १० ॥
रयात् ॥ तत्कालोचितमित्यूचे । निःक्षोभः प्रभुरप्यथ ॥ २७६ ॥ सिद्धराज ! गजराजमुच्चकैः कारय प्रसरमेतमग्रतः ॥ संत्रसंतु हरितां मतंगजा -स्तैः किमद्य भवतैव भूर्धृता ॥ २७७ ॥ चित्ते चमत्कृतः काम - मुक्तत्यात्यद्भुतया तया ॥ भूपोऽ भाषत मत्पार्श्वे । सदागम्यं त्वया प्रभो ! ॥ २७८ ॥ ततो गत्वा निशं सूरि-र्मध्याह्ने सिद्धभूधवं ॥ रंजयामास पीयूषसभीचीभिः स्वसूक्तिभिः ॥ २७९ ॥
अथ श्री सिद्धराजेन । शुद्धं धर्मं बुभुत्सुना ॥ षड्दर्शनीं समाह्वाय्यं । तत्स्वरूपमपृच्छयत ॥ २८० ॥ ततो दर्शनिनः सर्वे । निंदतो दर्शनांतरं ॥ धर्मं निजनिजान्मार्गा-जगदुर्जगदुत्तमं ॥ २८१ ॥ स्वस्वमार्गप्रतिष्ठान - निष्ठैस्तदुदितैर्नृपः ॥ संशयालुर्भृशं धर्मे । हेमाचार्यमदोऽवदत् ॥ २८२ ॥ सर्वज्ञोपज्ञधर्मज्ञो । निर्देषोऽप्यसि च प्रभो ! ॥ तद्यथावस्थितं धर्म-स्वरूपं मे प्ररूपय ॥ २८३ ॥ यथा तदहमाराध्य । साधयामि समीहितं ॥ धर्म विना नृजन्मद्रु-रवकेशी यतः स्मृतः ॥ २८४ ॥ यदयं संशयो धर्मे । त्वयि सत्यपि सन्मुनौ ॥ चिंतारत्नेति कैस्थेऽपि । तद्दारिद्र्यमहो ध्रुवं ॥ २८५ ॥ वातुर्विद्यनिधिः सूरिः । पुराणोक्तां कथामथ ॥ नृपाग्रे वक्तुमारेभे । सद्धर्मज्ञापनेच्छ्या ॥ २८६ ॥ पुरा शंखपुरं नाम । पुरं परमवैभवं ॥ आसीत्पौलस्त्यपुरवद् । भूरिपुण्यजनान्वितं ॥ २८७ ॥ तत्र शंख इवोन्मील - नैर्मल्यः साधुशब्दभूः ॥ श्रेष्ठी शंखाभिधानोऽभू-चित्रं न कुटिलाशयः ॥ २८८ ॥ पत्नी यशोमती तस्य । प्रेमैकनिलयालसत् - लावण्यरससं| सिक्त- मकरध्वजपादपा ॥ २८९ ॥ तस्यां शुश्रूषमाणाया - मपि दोषात्कुतश्चन ॥ विरज्य तत्पतिश्चक्रे । सद्रूपामपरां
९ समानाय्य प्र. १ तेऽथ प्र. ३ करस्थे. प्र.
सर्ग. १
॥ १० ॥
Page #71
--------------------------------------------------------------------------
________________
SARLS
६ स्त्रियं ॥ २९० ॥ तया नवीनया पत्न्या । कार्मणादिककर्मणा ॥ स्वपतिश्चतुरोऽप्युच्चै-श्चक्रे दासवदात्मसात् ॥ २९१ ॥
नवपत्नीरतः शंखः । पूर्वा दृष्ट्यापि नैक्षत ॥ यद्वा स्वभाव एवायं । लोको नवनवप्रियः ॥२९२ ॥ दूना पत्यपमानेन । सपत्न्या चावहीलिता ॥ दवानलेन दग्धेव । हृदि दध्यौ यशोमती ॥ २९३ ॥ वरं गेहत्यागो वरमुरुविरागो भवसुखे । वरं क्ष्वेडग्रासो वरमभिनिवासो वनभुवि ॥ वरं कंठे पाशो वरमखिलनाशो मृगहशां न तु प्रेयान् दृष्टः कथमपि सपनीवशगतः ॥२९४ ॥ ततः पतिं वशीकर्तुं । दुःखार्ता पृच्छति स्म सा ॥ तोषयित्वान्नपानाद्यैः। कलाप्रौढान् पर शतान्॥ ॥२९५ ॥ समाजगाम तद्धाम । कर्हिचिगौडदेशतः ॥ कलावान् कोऽपि निष्णातः । पतिसंवर्ननादिषु ॥ २९६ ॥ आवज्योर्जितया भक्त्या । तं शशंस यशोमती । नस्योतवृषवद्धीमन् ! । मत्पतिं कुरु मत्करे ॥ २९७ ॥ मध्येप्सानमिदं देय|मितो भावि तवेप्सितं ॥ उक्त्वेति स ददौ धूर्त-स्तद्धस्ते किंचिदौषधं ॥ २९८ ॥ सा हर्षात्तदुपादाय । क्षेयाहे समुपेयुषि ॥ |निक्षिप्य परमान्नं च । स्ववल्लभमबूभुजत् ॥ २९९ ॥ सौरभेयोऽभवत्सद्य-स्तस्मिन्नशित एव सः॥ आत्तान्यभववत्सापि ।
तं तथा वीक्ष्य विस्मिता ॥ ३०॥ दध्यौ च स मयाऽयाचि । नस्योतवृषवन्मम ॥ वशीकुरु प्रियं दुष्टः । स चक्रे वृषमेव |तं ॥ ३०१॥ छलयित्वा स सछद्मा । वाक्छलेन पिशाचवत् ॥ कथं विडंबयामास । हा मां विश्वस्तमानसां ॥ ३०२॥ पतिवश्यत्वमिच्छंत्याः। पतिरप्यगमन्मम ॥ जातं सत्यमिदं लाभम् । लिप्तोर्मूलमपि च्युतं ॥ ३०३ ॥ अविमृश्य विधत्ते
यः। कायेमाजवयोगतः॥ स बाढं दह्यते मद-त्पश्चात्तापकृशानुना ॥ ३०४॥ तत् ज्ञात्वा तां सपत्न्यूचे । किमकाAL १ मितः-प्र. २ संवननं-वशीक्रिया. ३ नासिकायां कृतछिद्रायां रजबद्धो यो वृषभस्तद्वत् . ४ प्सानस्य-भोजनस्य मध्ये इति मध्येप्सानम्. ५क्षयाहे क्षयतिथौ.
BORGSSATSAUSAIGRIRAISHI
Page #72
--------------------------------------------------------------------------
________________
कुमारपालच०
॥११॥
HESAMROSAMSURESS RESOMSANSAR
पीरदः खले!॥ येन गोत्वं मम पतिः । प्रापत्प्राणप्रियंकरः॥३०५॥ नो 'पिशाचकिनी नो वा । वातकिन्यपि कर्हिचित्॥ कुकर्मेदं विनिर्माति । त्वं निर्मासिस्म यत्कुधीः॥ ३०६॥ कार्मणादीनि कर्माणि । चक्रिरे प्रागपि स्त्रियः॥ प्रोष्ठौॉ प्रेयसः स्वस्य । त्वदच्चके न काचन ॥ ३०७ ॥ पापाय स्यात्परस्यापि । कृतमीदग्विडंबनं ॥ भुज्यते यस्य सर्वस्वं । प्रेयसस्तस्य किं पुनः॥ ३०८ ॥ सपत्न्या क्रुश्यमानेत्थं । सा पत्युर्गोत्वनाशकं ॥ प्रतीकारमजानाना । नानासंतापमापुषी ॥ ३०९॥ रज्वा ततस्तमाबद्ध्य । नीत्वा च पुरगोचरं ॥ मृदून दूर्वाकुरान् शश्वच्चारयामास सा स्वयं ॥ ३१०॥ भीष्मे ग्रीष्मे-12 न्यदा मध्यं-दिने तं पतिशांकरं ॥ चारयंती क्वचिवृक्ष-मूले शाड्वलभूतले ॥ ३११ ॥ स्मारं स्मारं कुकर्म स्वं । मन्नेव व्यसनांबुधौ ॥ करुणं पर्यदेविष्ट । सुचिरं सा यशोमती ॥ ३१२॥ युग्मं ॥ दैवात्तदा विमानाधिरूढो गौर्यान्वितः शिवः ॥ नभसा रभसाद्गच्छ-न्नौषीत्तद्विलापकान् ॥ ३१३ ॥ संजातकृपया गौर्या । पृष्टस्तदुःखकारणं ॥ यथावस्थितमाचख्यौ । हरस्तवृत्तमादितः ॥ ३१४ ॥ ईगस्ति भवजाति-यद्वशे पतितो हहा ॥ मोऽपि जायतेऽनड्वा-नित्युक्त्वाऽहासयच्च तां ॥ ३१५ ॥ लज्जाश्चर्यमयी गौरी । तं प्रोचे प्रिय! शंस मे ॥ किमप्यस्त्यौषधं वा न । येनायं ना पुनर्भवेत् ॥ ३१६ ॥ तन्निबंधावाचेशः। प्रियेऽस्यैव तरोस्तले ॥ अस्त्यौषधं यदशितं । त्वरितं मर्त्यतार्पर्क18 ॥ ३१७ ॥ श्रुत्वा तत्तरुमूलस्थं । सर्व दुर्वाकुरादिकं ॥ लावं लावं वृषास्ये सा । क्षिपतिस्म यशोमती ॥ ३१८ ॥ अज्ञा-6॥११॥ तेनापि वक्रस्थे-नौषधेनाशु तेन सः॥ वृषोऽभून्मनुजो देव । इव वैक्रियरूपभाक् ॥ ३१९ ॥रष्टा गां स्वप्रियं जातम् ।
१ नो पिशाची शाकिनी नो, प्र. २ प्राष्टीयं-वृषभत्वं-पोठीयापY. इति. भाषा. ३ कुत्स्यमानेस्थम्-प्र. ४ मीयुषी. प्र.
SONOTESCACANCHECOCOCAL
Page #73
--------------------------------------------------------------------------
________________
हृष्टा पृष्टा च तेन सा ॥ तत्कुकर्म निवेद्य स्वं । क्षमयामासुषी मुहुः ॥ ३२०॥ तिरोधीयत दर्भाधै-र्यथा दिव्यं तदौषधं ॥ तथा ऽमुष्मिन् युगे सत्यो । धर्मो धर्मान्तरैर्नप॥ ३२१॥परं समस्तधर्माणां । सेवनात्कस्यचिवचित् ॥ जा यते शुद्धधर्माप्तिः । दर्भच्छन्नौषधाप्तिवत् ॥ ३२२ ॥ तत्त्वं विधत्स्व निःशेष-धर्माराधनमादरात् ॥ येन संपद्यते सद्यः। सिद्धिद्वैधापि ते नृप! ॥ ३२३॥ श्रुत्वा सूरेरिमां वाचं । सर्वधर्माविरोधिनी ॥ जहर्ष पर्षदप्युच्चैः । किं वाच्यः सिद्धभूधवः ॥ ३२४ ॥ पुनः पप्रच्छ पृथ्वीशः। शंस मे सूरिसत्तम! ॥ को धर्मः सर्वसामान्यो । मान्यस्त्रिजगतामपि ॥ ३२५ ॥ | अथोवाच प्रभुर्वाचं । सर्वप्राणिप्रियंकरः॥ धर्मः प्रोक्तः कृपामूलः । प्रतिकूलः कुकर्मणां ॥ ३२६ ॥ न वार्देन विना
वृष्टि-न विना बीजमंकुरः॥न भानुना विना घम्रो ।न धर्मः करुणां विना ॥ ३२७॥ स स्फुरत्युपकारेण । माणिक्येजानेव भूषणं ॥ भजते यत्र कारुण्य-तारुण्यमविनश्वरं ॥ ३२८॥ उपकारव्रते यत्नो । बुधैः शश्वद्विधीयतां ॥ पद्मे पद्मेव
पुण्योपनिषद्यत्र निषीदति ॥ ३२९॥ विवदंते प्रतेऽन्यत्र । सर्वे दर्शनिनो मिथः ॥ उपकारवते त्वस्मिन् । केचिन्नैव 8 | विवादिनः॥ ३३०॥ उपकुर्वन् यथा पूर्व-मभयंकरचक्रभृत् ॥ आसीदसीमश्रीधाम । तथा सम्यग निशम्यतां ॥ ३३१॥ अस्त्यपाच्यविदेहेषु । विजयः पुष्कलावती ॥ पुरंदरपुरश्रीभृत्तत्पुरी पुंडरीकिणी ॥ ३३२ ॥ यत्र कुट्टिमविन्यस्तै-माणि
यैः कांतकांतिभिः ॥ दीपालिविफलीचक्रे । निशि क्षोणीशवेश्मसु ॥ ३३३ ॥ प्रजाक्षेमंकरस्तत्र । क्षमापः क्षेमंकरोऽजनि ॥ सांयुगीनतया योगा-द्वीरकोटीरहीरतां ॥ ३३४ ॥ यस्य प्रतापं वडवानलेन । मन्ये विरंची रचयांचकार ॥ कुतोऽ
१कारण्यं प्र.
Page #74
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ १२ ॥
न्यथाऽवर्धत सोऽरिनारी-नेत्रोदकं क्षारतरं निपीय ॥ ३३५ ॥ सदाप्यमरसेनेव । बहुलाभरणान्विता ॥ आसीदमरसेनेति| तत्प्रिया प्रेमशालिनी ॥ ३३६ ॥ अंगाभंगुर शृंगार - संगरंगदनंगयोः ॥ तयोर्निविंशतोः सातं । कियान् कालोऽगलत् किल | ॥ ३३७ ॥ शयाना तत्प्रियाऽन्येद्यु- रुद्यदुद्दामसंमदान् ॥ चतुर्दश ददर्शेतान् स्वप्मानस्वनदुर्लभान् ॥ ३३८ ॥ 'सिंहेवृपलक्ष्मींदुरैंविदमवजांबुं धीन् ॥ संरो विमानरत्नौघं - पूर्णकुंभ विभावसून् ॥ ३३९ ॥ युग्मं ॥ तदैवोत्थाय चाख्याय । तान् प्रियाय प्रियंकरान् ॥ एभ्यो भावि फलं किंचे-त्यपृच्छत्तमतुच्छधीः ॥ ३४० ॥ तदुदर्क वितक्योंच्चै भव्यं भूभृदभाषत ॥ एभिर्देवि ! ध्रुवं भावी । चक्रवर्ती सुतस्तव ॥ ३४१ ॥ एवमस्त्विति हर्षेण । पतिवाक्यानुमोदिनी ॥ गर्भ बभार सा रत्न-गर्भेव निषिमु त्तमं ॥ ३४२ ॥ पतिप्रपूरितोद्दाम - दोहदाऽसूत सा सुतं ॥ प्राचीवाहस्करं चंच - मरीचिचयचुंबितं ॥ ३४३ ॥ किं चित्रं तत्पिता तस्य । जननोत्सवमातनोत् ॥ यत्तं तदुद्भवप्रीति - गौराः पौरा अपि व्यधुः ॥ ३४४ ॥ विश्वाभयंकरो भावी विभाव्येतीव भूपतिः ॥ अभयंकर इत्याख्यां । स्वसुतस्य न्यवीविशत् ॥ ३४५ ॥ अपासितुं पुरोत्तापं । दयादाक्ष्यादयो गुणाः ॥ तस्मिन्नुल्लासमासेदु-र्वसंते पादपा इव ॥ ३४६ ॥ कलाकलापं कलय- नयन् कुवलयं मुदं ॥ पूर्णेदुरिव सौंदर्य - वर्य भेजे स यौवनं ॥ ३४७ ॥ तारुण्यपुण्यं तद्रूपं । दृष्ट्वा स्वः स्त्रैणमोहनं ॥ पनाय स्पृहयामासुः । कामिन्यः का न मानसे ॥ | ॥ ३४८ ॥ निशांते स निशांतेऽपि । सुप्तो भूपतिनंदनः ॥ वनांतस्थ - वनांतःस्थ - मन्यदा स्वमवैक्षत ॥ ३४९ ॥ किमेत दिति संभ्रांत - स्वांतं भूकांतनंदनं ॥ दिव्यमूर्तिधरः कोऽपि । पुमान् विस्पष्टमूचिवान् ॥ ३५० ॥ कुमार! मास्म विस्मेरो ।
१ मे पप्रच्छ, प्र. २ परोतापं, प्र. ३ राज्यवसाने. ४ गृहे. ५ जलान्ते जलाशयावसाने स्थित वनमध्यस्थम्. ६ आत्मानं.
सर्ग. १.
॥ १२ ॥
Page #75
--------------------------------------------------------------------------
________________
MORRORRON
भवस्त्वमहथा मया ॥ अपहारनिमित्तं च । क्षणोर्ध्वमवभोत्त्यसे ॥ ३५१॥ श्रुत्वा तन्मुदितः किंचि-द्यावज्जल्पति भूपभूः॥ विद्युल्लीलायितं कुर्व-स्तावदंतरधत्त सः॥ ३५२॥ भास्वत्यभ्युदिते भूप । इव सन्मार्गदर्शिनि ॥ अनीतिरिव सर्वापि । शर्वरी नाशमानशे ॥ ३५३ ॥ तमःस्तोमः समस्तोऽपि । तदा भानुभयादिव ॥ कौशिकस्याविशन्नेत्रे । तदंधत्वं कुतोऽन्यथा ॥३५४॥ सुप्तमप्याश्रयेऽभ्येत्य । स्वयं सति दिनोदये॥ इति ज्ञान् ज्ञापयंतीव । श्रीः पद्माकरमाश्रयत्॥३५५॥ देशांतरागतं कांत-मिव भास्वंतमीक्षितुं ॥ पद्मिनी प्रमदाच्चके । पत्रनेत्रविकाशनं ॥ ३५६ ॥ सुप्रातं जातमालोक्य ।। कुमारोंतर्वणं भ्रमन् ॥ बभौ स्मर इवान्विष्य-मधुं तत्राखिलतुनि ॥ ३५७ ॥ दृक्स्तंमिनीं श्रियं पश्यन् । काननी नांदनीमिव॥स्वमानसमिव स्वच्छं। सोऽपश्यन्मानसंसरः॥३५८॥जलाधिष्ठायिनीनां य-न्मुखलक्ष्मीनिरीक्षणे॥सहजौज्ज्वल्ययो. गेन । रत्नादर्शायतेऽनिशं ॥३५९॥ यत्पीयूषमयत्वेन । तापनिर्वापणेन च ॥ दधौ राहुभयत्रस्त-पौर्णमास्येंदुविभ्रमं ॥ ३६०॥ स्मानीयं तत्र पानीयं । मत्वा कृतशुचिस्ततः॥ भ्राम्यन् पुनर्वने क्वापि । मठं श्रेष्ठं स दृष्टवान् ॥ ३६१ ॥ स तस्याग्रक्षणं प्राप्तो । भास्वंतमिव दीप्तिभिः ॥ अंतर्दृष्टुमिवात्मानं । कुमलीकृतलोचनं ॥३६२॥ एकाकिनमपि स्फूर्त्या । सदोमध्यमिवाश्रितं ॥ मूर्त योगमिवाद्राक्षी-द्योगींद्रं ध्यानकर्मठं ॥ ३६३ ॥ युग्मं ॥ तं नत्वा भूयसीभक्ति-निविष्टः सोऽभयंकरः॥ ध्यानं मुक्त्वैनमाशास्त । महात्मापि प्रसन्नदृक् ॥ ३६४ ॥ तयोः कुशलपृच्छाद्या । कथाभूत्पृथुला मिथः ॥ शिष्टो हि |श्रेष्ठगोष्ठीना-माकरः साधुसंगमः॥ ३६५ ॥ जगाद सादरं योगी । तवैव हितकाम्यया ॥ अत्रानीतो विनीतस्त्वं । तत्प
१ निरुद्यममपि पुरुषं. २ दिनशब्दोऽत्र भाग्ये लाक्षणिकः ३ लक्ष्मीः, पक्षे शोभा. ४ पद्मवनं. ५ वसंततम्. ६ अखिला ऋतवः यस्मिन् तत्तस्मिन् वने.
A
COCCASSESAMEERUT
CHCHECCREAD
कृ.पा.च. ३
Page #76
--------------------------------------------------------------------------
________________
| सर्ग.१
कुमारपालच.
SCHOLA
॥१३॥
RSSOSAO SAO
श्चात प्रथयिष्यते ॥३६६॥ इत्युक्त्वा ध्यानमाधाय । दिव्यां रसवतीं पुरः॥ स्वशत्याऽऽनाय्य चायाचीत स तं भोजनहेतवे ॥३६७ ॥ कुमारस्तमभाषिष्ट । त्वद्दर्शनसुधारसैः ॥ मह्यमाकंठतृप्ताय । स्वदते किंचनापि न ॥ ३६८॥ अनया रसवत्या स्यात् । सौहित्यं स्वल्पकालिकं ॥ त्वत्कथाऽमृतपानात्तु । यावज्जीवं ममास्ति तत् ॥३६९ ॥ इत्यादिवादिनं भूपतनयं बहयुक्तिभिः॥मामयित्वा समं तेन । भुक्तवान् स कलानिधिः ॥ ३७० ॥ जाते चाचमने व्योम-प्राप्तभंगारपाथसा॥ हंकारेण पुनः प्रेषीत् । स तत्सर्व क्षणादपि ॥ ३७१ ॥ ददौ च तस्मै तांबूलं । कर्पराद्यतिपेशलं ॥ चिंतामणिमयेनेव । स्वप्रभावेण संभृतं ॥३७२॥ स्फुरत्ततादिवादित्रं । गीतामृतझरप्लुतं ॥ स्पष्टदृष्टादिभावात्त-मंगहावपरिष्कृतं ॥३७॥
मारप्रीतये नाट्यं । विधाप्य व्यंतरैजनैः॥ पुनर्विसृष्टवान् योगी । बपुरे योगवैभवं ॥ ३७४ ॥ युग्मं ॥ दैवतस्येव तस्यैवं । विमृश्य स्फूर्तिमद्भुतां ॥ प्रभावराशिमूर्तोऽय-मित्यध्यासीन्नृपात्मजः ॥ ३७५॥ ताहकौतुकतुष्टस्य । तस्यागातहिनं दूतं ॥ सतां हि समयः सौख्य-मयो गच्छति हेलया ॥ ३७६ ॥ अथोष्णदीधितिस्तेने । पश्चिमाधौ निमज्जनं ॥ अपारव्योमकांतार-भ्रमश्रमवशादिव ॥ ३७७ ॥ विस्तार्य क्ष्मांगणे तेजो-राशीनाकर्षतो रवेः ॥ पश्चात्स्थितास्तदीयांशा । इव दीपा बभुस्तदा ॥ ३७८ ॥ विशंकेऽहं तमःपंके । मनं गोमंडलं ततः॥ उद्धर्तुमुद्यतो विष्णु-रिवप्रौढकरः शशी ॥ ३७९ ॥ विश्वं तुषारांशुकरैः परीतं । किं चंदनस्यंदिरसैरसेवि ॥ कर्पूरपूरैः किमपूरि मूछेद्-दुग्धाब्धिवीची. भिरहो किमांचि ॥ ३८० ॥ अथाभयंकरं स्माह । योगी संति मदंतिके ॥ विद्याः पर शतास्ताश्च । यथास्थानं निवेशिताः
१ तृप्तिः, २ स्पष्टदष्ट्यादिभावाद्य-मंगहारपरिष्कृतं-प्र. ३ व्यंतरीजनैः, प्र. ४ तमःपंकात, ५ चि, प्र.
SISSISLISTA
॥१३॥
Page #77
--------------------------------------------------------------------------
________________
ARRIORCARE
॥ ३८१॥ अद्यापि विद्यते विद्या । खड्गसिद्धिकरी परं ॥ त्रिविष्टपजनाजग्यो । यच्छत्या जायते नरः ॥ ३८२ ॥ अयोगायोग्यपात्रस्य । न्यास्थं क्वापि न तामहं ॥ विद्यां न्यस्यन् यदस्थाने । तद्वांस्तद्वधपातकी ॥ ३८३ ॥ ईदृग्विद्योचितः। कश्चि-नास्त्यायुस्त्वल्पमेव मे ॥ इति चिंतांचितं सैव । विद्याऽभ्येत्य बभाण मां ॥ ३८४ ॥ मास्म चिंता कृथा वत्स!। प्रातः कोऽपि नृशेखरः॥ मयाऽत्रानेष्यते तस्मै । मां दत्वा त्वं सुखी भव ॥ ३८५ ॥ उक्त्वेति चेटकं प्रेष्य । त्वमत्रानाय्यथास्तया ॥ गृहाण तदिमां विद्यां । चिंतां मे निगृहाण च ॥ ३८६ ॥ न्यस्ता सुपात्रे विद्या स्या-गौरवाय गुरोरपि ॥२ सुक्षेत्रे निहितं बीजं । धनिकस्यातिवृद्धये ॥३८७॥ विद्यापि पात्रयोगेन । माहात्म्यमधिगच्छति ॥ शुत्याश्लेषेण मुक्तात्वं । लभते सलिलं किल ॥ ३८८ ॥ किं चेयं त्वद्गुणक्रीती । कनीव त्वय्यरज्यत ॥ एतहाने त्वहं हेतु-मात्रं तस्मादिमां भज ॥ ३८९ ॥ कुमारस्तमथावादी-मम त्वदर्शनादपि ॥ अभवन् सिद्धयः सर्वाः । खड्गसिद्धया किमेकया ॥ ३९०॥ इहलोकफलं स्वापं । चिंतारत्नादिदर्शनं ॥ लोकद्वयफलं त्वेतद्-दुरापं साधुदर्शनं ॥ ३९१ ॥ अघौघं प्राचीनं विघटयति पुण्यं प्रथयति । प्रसूते सद्बुद्धिं नवनवकलाः पल्लवयति ॥ हरत्यज्ञानांध्यं दिशति परमब्रह्मपदवीं । सतां संगः कल्पद्रुम इव न किं किं वितनुते ? ॥ ३९२ ॥ अनिच्छतोऽपि तस्येच्छं । खड्गविद्या निवेद्य सः॥ तदाराधनमामूल-चूल|| तथ्यमचीकथत्॥३९३॥अभंगं भाग्यमेवैकं । नृणां कामितकामधुक् ॥यतः शेये शयालु स्याद्-दुरापमपि वस्तु सत्॥३९४॥ तत्रैव सिद्धविद्यत्वा-त्कुमारं स्फारसंमदं ॥ अचिराच्चेटकोगी । पुनः स्वस्थानमापिपत् ॥ ३९५ ॥ ततः क्षेमंकरोऽपि ।
१ भाग्यात्. २ हस्ते. ३ तातः, प्र.
Page #78
--------------------------------------------------------------------------
________________
कुमार
पालच०
॥ १४ ॥
स्वं । समीक्ष्य सुतमागतं ॥ जानन् पुनर्जातमिव व्यधत्तातुच्छमुत्सर्वं ॥ ३९६ ॥ अभ्यधत्त च वत्सेदं । राज्यं त्वामुपतिष्ठतां ॥ कुलधुर्ये सुते नास्म - द्वंश्या शंस्याः स्ववेश्मनि ॥ ३९७ || सुधा किरागिरा भक्ति-वल्लीं पल्लवयन्निव ॥ अथ व्यजिज्ञपत्तातं । सुतो विनयवामनः ॥ ३९८ ॥ द्वेधानि नरकांतेन । मम राज्येन किं प्रभो ! | सुरकांतमिदं याव-लभे त्वद्भक्तिवैभवं ॥ ३९९ ॥ त्वत्पदां भोरुहे मह्यं । सदसद्व्यक्तिकारणं ॥ रोचते राजहंसत्वं । न राजत्वं कलंककृत् ॥ ४०० ॥ इति वत्समनिच्छंत-मपि राज्ये नियुज्य तं ॥ क्षेमंकरः स्वयं क्षेमंकरीं दीक्षामशिश्रियत् ॥ ४०१ ॥ भास्वत्यभ्युदिते | तस्मिन् । सच्चक्रानंदकारिणि ॥ पद्मायितं सुहृद्भिर्द्राग् । द्विषद्भिः कुमुदायितं ॥ ४०२ ॥ तस्मिन्नरेश्वरे शश्व-नीतिरीतिपरेऽप्यलं ॥ अनीतिरेव सर्वोऽपि । जनोऽजायत कौतुकं ॥ ४०३ ॥ अथ पुष्पपुरस्वामी । नृसिंहाख्यो महीपतिः ॥ अभ यंकरमास्थानी - स्थितं नत्वा व्यजिज्ञपत् ॥ ४०४ ॥ दावपावकदग्धानां यथोल्लासी घनागमः ॥ तथा विरोधिध्वस्तानामुद्धर्ता त्वमसि प्रभो ! ॥ ४०५ ॥ निपेतुषां द्विपेंद्राणां । यथाधारो धरोध्धुरः ॥ पदच्युतानां भूपानां । तथा त्वं देव ! दीव्यसि ॥ ४०६ ॥ तगरानगरीशेन । घनवाहनभूभुजा ॥ निष्कारणद्विषा भ्रष्ट - राज्योऽहं विदधेऽधुना ॥ ४७ ॥ यथोपतिष्ठते मित्रं । राजा गलितमंडलः ॥ निजोद्दिधीर्षया तद्व-दहं त्वामस्म्युपस्थितः ॥ ४०८ ॥ तद्दत्वा खड्गसिद्ध्यादिसाहाय्यं मां तथोर्जय ॥ यथाऽत्योजायमानोऽरिं । हत्वा स्वीयां श्रियं श्रये ॥ ४०९ ॥ नृपः प्रपद्य तत्सद्य - स्तमुत्तारार्थमादिशत् ॥ ततो व्यजिज्ञपन्मंत्री सुमतिः स्वामिनं प्रति ॥ ४१० ॥ देव ! दाक्ष्यं किमेतत्ते । बलमात्राभिलाषिणे ॥ अस्मै
सर्ग. १
॥ १४ ॥
Page #79
--------------------------------------------------------------------------
________________
&ावितरितुं खड्ग-सिद्धिं यत्प्रतिशुभ्रुवान् ॥ ४११॥ वासार्थिने नावसथ-मारामं न फलाथिने ॥ धेनुं दुग्धार्थिने नैवत
कोऽपि यच्छत्यतुच्छधीः ॥ ४१२ ॥ को दत्ते हेलया खड्ग-विद्यां विश्वविजित्वरी ॥ सतामपि हि सद्विद्या दुरापा स्वर्ण-10 सिद्धिवत् ॥४१३॥ जगादाथ क्षमानाथ-स्त्वद्वचः सचिवोचितं ॥ परं तामेव मामेष । ययाचे करवै किमु ॥४१४॥ विद्यापि स्थेयसी पात्र-दत्ता स्यान्नात्मनि स्थिता ॥ सेस्थीयते शिवन्यस्ता । कला चांद्री नहीतरा ॥ ४१५॥ कला च कमला च स्यात् । क्लेशलब्धापि निष्फला ॥ परेषामुपयोगाय । या चिराय न जायते ॥४१६॥ एवं प्रबोध्य मंत्रींद्रं । खड्गसिद्धिं बलान्वितं ॥ वितीर्य च नृपः प्रैषी-नृसिंहं विद्विषं प्रति ॥ ४१७ ॥ नृसिंहोऽप्यतिसिंहौजा । राजानं घनवाहनं ॥ जित्वा तत्प्राज्यराज्याढ्यं । स्वराज्यं लीलया ललौ ॥ ४१८ ॥ निर्विवेश विशामीशः । स पुनर्निस्तुषं सुखं ॥ उष्णतेव जलानां स्याद् । दुर्दशा क्षणिका सतां ॥४१९॥ द्विषद्गृहीतसर्वस्वो । भूपोऽथ घनवाहनः॥ दध्यौ दोदूयमानोंतः। शाखापतितकीशंवत् ॥४२०॥ अहो स्वप्नेऽपि मे नासी--मानसे यद्रमा मम ॥ हरिष्यति नृसिंहोऽयं । नृसिंहीभूय विक्रमैः ॥४२१॥ यद्वा दोषो न तस्यास्ति । कृतप्रतिकृतेरयं ॥ ममैव यत्खलीचक्रे । स मया राज्यमोचनात् ॥४२२॥ अहो सत्यमसंतोषो। मूलं नाशतरोर्महत् ॥ परराज्यं बुभुक्षोर्मे । स्वराज्यमपि यद्ययौ ॥ ४२३ ॥ श्रिया स्वार्जितया तृप्यं । नेह्यान्यश्री विवेकिना ॥ कांक्षन् परश्रियं लुब्धो । मद्वत्प्रभ्रश्यति स्वतः ॥ ४२४ ॥ किं करोमिक गच्छामि कं स्मरामि श्रयामि कं ॥
१ प्रतिश्रुतवानित्यर्थः २ अवसथम्-गृहं ३ अतिशयेन स्थिरा. ४ पुनः पुनः अतिशयेन वा स्थीयते. ५ कस्य वायोरपत्यं पुमान् किः-हनुमान् स ईशः यस्य स कीशः वानरस्तद्वत्, ६ ऊचे-प्र.
ARRANGANAGAR
Page #80
--------------------------------------------------------------------------
________________
कुमार
पालच०
॥ १५ ॥
पुनर्लभे कथं स्थानं । करप्रभ्रष्टरलवत् ॥ ४२५ ॥ हुं ज्ञातं यद्वलादेष । नृसिंहो मामहारयत् ॥ अभयंकरभूपालं । तमेवाहमपि श्रये ॥ ४२६ ॥ इति ध्यात्वा च गत्वा च । नगरीं पुंडरी किणीं ॥ क्षेमंकरात्मजं क्ष्मापं । नत्वोचे घनवाहनः ॥४२७॥ रूढिमात्रमिदं धात्रीं । शेषाद्या धारयंति यत् ॥ तदुद्धारधुरीणस्तु । स्यादेको ह्युपकारकः ॥ ४२८ ॥ के ह्यात्मंभरयो नेह । वडवानलसन्निभाः ॥ परार्थबद्धबुद्धिस्तु । कोऽपि स्यात् स्तनयित्नुवत् ॥ ४२९ ॥ वृथैव यौवनान्तं तं । जननी मास्मजी - जनत् ॥ याचते यः परं दीनः । शक्तो नावति यश्च तं ॥ ४३० ॥ देव ! त्वद्बलमासाद्य । नृसिंहेनातिदृप्यता ॥ जित्वा दैगंबरी दीक्षां । नीतोऽहं सर्वमोचनात् ॥ ४३१ ॥ एतन्मां प्रति कर्तु ते । युक्तं नासीद्विशांपते ! ॥ यतः शीतांशुवत्संतः । | सदृक्षाः पक्षयोर्द्वयोः ॥ ४३२ ॥ कुमुदाय श्रियं दत्तां । कृष्ट्वा राजा जडोंबुजात् ॥ त्वं तु राजन् ! बुधस्तस्मै । कथं दत्से रमां | मम ॥ ४३३ ॥ ततोऽस्मि त्वामुपायातो - ऽगदंकारमिवातुरः ॥ तथा प्रसद्यतां सद्यो । यथा स्यां सौख्यसख्यभाक् ॥ ॥ ४३४ ॥ तन्निशम्य नृपः प्रोचे । लज्जालुर्घनवाहनं ॥ मत्प्रमादेन यत्तेभू -- दहितं मे क्षमस्व तत् ॥ ४३५ ॥ मा च त्वं दुर्मनायिष्ठाः । काम्यस्वाम्यकृते कृतिन् ! ॥ अधुनैव करिष्ये त्वां । सुरेश्वरसमश्रियं ॥ ४३६ ॥ इत्युदीर्य श्रितौदार्यः । स तदैवाभयंकरः ॥ सोदर्यवन्निजे राज्ये । यावत्तमभिषिंचति ॥ ४३७ ॥ तावद्वयजिज्ञपन्मंत्री । देव ! कीदृक् तवौचिती ॥ तृणवत्पैतृकं राज्यं । यदस्मै प्रणिदित्ससे ||४३८ || नृपाणां राज्यमेव श्री -- स्तत्त्यागेनाधनंति ते ॥ किं कासारे परित्यक्ते । स्फूर्जति कमलाकराः ॥ ४३९ ॥ राजापि पूज्यते ताव -- द्यावल्लक्ष्मीरभंगुरा ॥ स्वेऽपि त्यजति तं निःस्वं । शुष्कं शौलमि
१ कमलसमूहाः २ स्वकीयाः ३ वृक्षं.
सर्ग. १
॥ १५ ॥
Page #81
--------------------------------------------------------------------------
________________
वांडजाः॥४४०॥ न केवलं नराणां श्रीः । सुराणामप्यहो प्रिया ॥ यस्माद्भमंति हेमाद्रि-मभितो भास्करादयः॥४४॥ ते संति हंत भूयांसो । जीवतो जीवयंति ये ॥ मृतान या जीवयत्याशु । सैका श्रीस्त्रिजगत्यपि ॥ ४४२॥ दत्वा देशादिकं कंचि-त्तदेतं परितोषय ॥ प्राणेभ्योऽप्यधिकं राज्यं । मुधा त्वं मास्मजीगमः ॥ ४४३ ॥ अथाभयंकरः माह || मंत्रिस्त्वं सत्यमभ्यधाः॥ परमस्याभवद्राज्य-भ्रंशो मद्धलकर्तकः॥४४४॥ अमुष्मै भृशमााय । स्वराज्यं न ददे यदि ॥ तदा मंदाक्षमंदोऽहं । दर्शयेऽमुं कथं मुखं ॥४४५ ॥वैभवं पात्रविन्यस्तं । स्फारीभूय निवर्तते ॥ किं द्रव्यं सदणिग्दत्तं ।। वर्धित्वा समुपैति न ॥४४६॥ सद्भ्यो धनं यत्तदपि प्रदत्तं । लोकोत्तरं द्राक्फलमादधाति ॥ गोभ्यो वितीर्णस्तृणपूलको हि । मुग्धं न कि यच्छति दुग्धपूरं ॥ ४४७ ॥ किंच मंत्रादिमाहात्म्या-त्स्याच्चाप्यचला क्वचित् ॥ ततोऽप्यधिकचा-| पल्या । राज्यलक्ष्मीरियं पुनः ॥ ४४८॥ या रज्यते गुणैर्नैव । न नद्धाप्यवतिष्ठते ॥ कीहक्स्यान्ममता तस्यां । श्रियां पण्यस्त्रियामिव ॥४४९॥ प्राणानपि प्रयच्छति । केचनोपचिकीर्षयान श्रीमात्रमहं दद्यां । यदि तन्मम का गतिः॥४५०॥ | राज्यश्रीभूभुजां मूलं । तन्मूलं सुकृतं पुनः॥ उपकृत्यातस्तन्मे । वद कीदृगनौचिती ॥ ४५१॥धीसखं बोधयित्वेत्थं । स भूभृद्घनवाहनं ॥ न्यवीविशन्निजे राज्ये । कटरे दातृता सतां ॥ ४५२॥ येषां परार्थमाधातुं । राज्यं बहु तृणायते ॥ प्राणाश्च कर्करायंते । धीराः स्तुत्या न कस्य ते? ॥४५३॥ पवित्रेण चरित्रेण । तेन क्षेमंकरात्मजः॥ महतामपि नो केषां। चित्रीयामास मानसे? ॥ ४५४ ॥ चतुरंगबलप्राज्यं । तद्राज्यं समवाप्य सः॥ नाम्नार्थेनापि सत्योऽभूद् । भूपतिर्घनवा
१ रोगिणः इत्यर्थः. २ मृतप्रायान्. ३ किं-प्र. ४ मंदाक्षेन-लज्जया मंदः-संकुचितः. ५ सुन्दरं. ६ विद्युत्. ७ विद्युतः. ८ बद्धा-प्र. ९ मतिः,प्र,
Page #82
--------------------------------------------------------------------------
________________
कुमारपालच०
सर्ग.१
हनः ॥ ४५५ ॥ तेन भूमिभृताऽजस्रं । सेव्यमानो गृहे स्वयं ॥ निश्चिंतो मुनिवत्तस्था-वभयंकरभूपतिः॥ ४५६ ॥ तत्ततीर्थनिनसार्थ-मन्येधुरभयंकरः॥ कृपाणपाणिरेकाकी । निरगानगरान्निजात् ॥ ४५७ ॥ पौरामात्यादयोऽभ्येत्य । पृष्ठे थ संवदश्रवः ॥ इति विज्ञपयांचऊोजितांजलिमंजुलाः ॥ ४५८ ॥ पर्यत्याक्षीः पुरा राज्य-मिदानी पुरमप्यदः॥ अस्मांश्च सेवकान् हित्वा देव ! त्वं क प्रतिष्ठसे ॥४५९ ॥ प्रस्थिते सति देवेऽस्मा-त्पुरमेतत्प्रपत्स्यते ॥ वसंतोल्लासनिमुक्तो-द्यानसादृश्यदृश्यतां ॥ ४६०॥ देवे देशांतरं प्राप्ते । म्लास्यत्येष जनोऽखिलः ॥ चंद्रे द्वीपांतरस्थे हिन स्मेरः कुमुदाकरः॥४६१॥ अकुंठोत्कंठताऽथास्ते । तीर्थान् दृष्टुं प्रभो! यदि ॥ तदादिश यथा यामो । वयं स्वस्वामिना | सह ॥ ४६२॥ युग्यं न योग्यं नो भृत्यः । कृत्यविन्न धनं घनं ॥ केयं रीतिरहो नाथ! । प्रस्थानं प्रति संप्रति ॥ ॥ ४६३ ॥ तस्मात्प्रसद्यतां सद्यः। प्रस्थानाच्च विरम्यतां ॥ यदि वा सह यानाय । जनोऽयमनुगृह्यतां ॥४६४॥ सिंचन्निव सुधावृष्टया दृष्टयाथाचष्ट तान्नृपः॥ भवद्भिः सर्वमप्येत-विज्ञप्तं प्रणयोचितं ॥४६५॥ परं तीर्थनमस्यामि-रहोराशिर्भिदेलिमः॥ पचेलिमं च पुण्यं स्या-त्तेन तत्रायमुद्यमः ॥४६६ ॥ एतत्पुरं च युष्मांश्च । राजाऽयं घनवाहनः॥ चातका| निव पाथोदः। प्रीणयिष्यति मत्समः॥ ४६७ ॥ सिंहः सत्पुरुषश्चापि । श्रयन् देशांतरं किल ॥ नान्यसाहाय्यकामः स्यात् । स्थितिरेषा महस्विनां ॥४६८॥ वृथा पथश्रमो वः स्या-मम च क्रमबंधनं ॥ सह यानादतोऽत्रैव । यूयं तिष्ठत सौष्ठवात् ॥ ४६९ ॥ इत्यवस्थाप्य मंत्र्यादीन् । पृष्टा च घनवाहनं ॥ प्रतस्थे तीर्थयात्रार्थ-मेकाक्येव स पार्थिवः ॥४७०॥
१ श्रव-प्र. २ प्राप्स्यति. ३ वाहनं. ४ खयं भिद्यमानः स्यात, ५ खयंपकं.
॥१६॥
Page #83
--------------------------------------------------------------------------
________________
लतालास्यकलाचार्यः। पुष्पसौरभतस्करः॥ सर सीकरशीतात्मा । सिषेवे तं मरुत्पथि ॥४७१॥ नमस्यंस्तानि तीर्थानि । वरिवस्यन् जिनेश्वरान् ॥ तपस्यंश्च यथाशक्ति । प्रेयःश्रेयश्चिकाय सः॥ ४७२ ॥ इत्थं पृथ्वी भ्रमन्नेष । क्वचिद्भूधरगहरे ॥ विधि दूरप्रसृमरं । शुश्राव करुणस्वरं ॥ ४७३ ॥ रोरुदीत्यत्र को रात्रौ । निर्जने गिरिगहरे ॥ गत्वा वीक्षे विमृश्येति । भूपस्तवनिमन्वगात् ॥ ४७४ ॥ तत्रापश्यन्नृपो दीप्र-वह्निकुंडांतिकस्थितां ॥ रक्तचंदनलिप्तांगीं । करवीरस्रजांचितां ॥ ॥ ४७५ ॥ स्मरजित्वररूपेण । योगिनैकेन केनचित् ॥ उद्र्णखगोदग्रेण । मृत्युनेव कटाक्षितां ॥ ४७६ ॥ कोऽप्यस्ति | वीरकोटीरो । रत्नगर्भे ! विभाव्यतां ॥ यमस्येवास्य वक्त्रान्मां । यः कर्षति कृपालुहृत् ॥ ४७७ ॥ जगच्चक्षुरसीति त्वां । याचे सूर्य ! न चेदिह ॥ मत्राता कश्चन द्वीपां-तरादानय तर्हि तं ॥ ४७८ ॥ इति प्रलापजाताद्रि-प्रतिध्वनिभृतांबरां ॥
अश्रुमिश्रमुखीं कांचि-कांदिशीकां मृगीदृशीं ॥ ४७९ ॥ पंचभिः कुलकं ॥ रतिप्रतिकृति तां स्त्रीं । | तदवस्थां च तादृशीं ॥ दृष्ट्वा दयालुर्भूपालो। योगिनं जगिवानिति ॥ ४८०॥ स्फूर्त्यानया न योगी त्वं । किंतु कोऽपि महांस्ततः॥ निर्मित्ससे कुकमैत-न्महत्वाऽनुचितं किमु ॥ ४८१ ॥ चरंत्यनुचितं कर्म । संतः प्राणात्ययेऽपि न ॥ छेदेऽपि नोद्गिरंत्येव । दुर्गधं चंदनद्रुमाः॥४८२॥ तदियं दयया देव! । मुच्यतां चारुलोचना ॥ आगस्यपि सतामस्त्रं । न हि स्त्रीषु प्रगल्भते ॥ ४८३ ॥ तया सुधामुचा वाचा । सा स्त्री सिक्केव सर्वतः॥ वीरोत्तंसं नृपं दृष्ट्वा । जीवि-1 | ताशां पुनर्दधौ ॥ ४८४ ॥ अथालपन्नृपं योगी । देव! त्वमपि लक्षणैः ॥ चक्रवर्युचितैरेभिन सामान्योऽसि सर्वथा ॥ ॥ ४८५ ॥ अयोग्योऽपि वधः स्टेणो । योऽयं त्वमवधायतां ॥ अवधारय मद्वाक्यात् । न ह्यकथ्यं भवादृशां ॥४८६॥
Page #84
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ १७ ॥
वैतायेत्युत्तरश्रेण्यां । पुरं श्रीरथनूपुरं ॥ विद्याधरेश्वरस्तत्र । रलचूडो महीपतिः ॥ ४८७ ॥ निष्कलंकेंदुलेखेव । तत्प्रिया रलमंजरी || अहं तयोस्तनूजोऽस्मि । मणिचूडाख्यया श्रुतः ॥ ४८८ ॥ ममापराजिताख्येति । कुलविद्या स्त्यवद्यभित् ॥ साक्षात् सिद्धिमिवाराद्धु - महं तामुपचक्रमे ॥ ४८९ ॥ जापघस्रेष्वपूर्णेषु । तदधिष्ठायिनी सुरी ॥ प्रत्यक्षीभूय मामाख्य- द्विद्युदाकारधारिणी ॥ ४९० ॥ गंगोत्तुंगतरंगश्री - रंगभंगविदग्धया ॥ तुष्टास्म्यभीष्टदानाय । वत्स ! त्वत्सेवयाऽनया ॥ ४९१ ॥ द्वात्रिंशलक्षणां नारीं । नरं वा ज्वलने परं ॥ हुत्वा वरं वृणीथा मां । दास्ये सिद्धिं त्वदीप्सितां ॥ ४९२ ॥ मम प्रीत्यर्थमेतावत्त्वया कारिष्यते न चेत् ॥ पक्कवालुंकवत्तर्हि । भेत्स्यते त्वच्छिरो ध्रुवं ॥ ४९३ ॥ आमे (मि)त्यभ्युपगम्यैत — देव्युक्तं स्वार्थसिद्धये ॥ प्राप्तुं यथोदितां कन्या - मपश्यं काश्यपीमहं ॥ ४९४ ॥ एतां सलक्षणां कन्यां । दृष्ट्वा सिंहपुरेशितुः ॥ इहानीय च देव्यर्थं । जुहुषन्नस्मि संप्रति ॥ ४९५ ॥ तदिमां मोचयन् देव ! । मत्सिद्धिं ध्वंससे कथं १ ॥ ध्वंसंते हंत नो संतः । परार्थं स्वार्थवत् क्वचित् ॥ ४९६ ॥ एकस्य ध्वस्यतेऽवश्यं । कृत्यमन्यस्य तन्यते ॥ नासौ सतां मतो धर्मः । सर्वत्र समचेतसां ॥ ४९७ ॥ किंच स्त्रीमात्रमेतत्ते । प्रियमात्मोदरंभरि ॥ न पुनर्नृपपुत्रोऽहं । भूयसामुपकारकः ॥ ४९८ ॥ अथाभयंकरोऽभाणी - द्यद्यप्येवं तथापि ते ॥ नैष योषिद्वधः श्रेया-नरकोत्संगसंगकृत् ॥ ४९९ ॥ तया सिद्ध्या च किं ? कार्य । या स्फुरेजंतुघाततः ॥ तया श्रियापि पर्याप्तं । या स्यात् प्राणप्रयाणतः ॥ ५०० ॥ सिद्ध्यंति सिद्धयः सर्वा । धर्मान्नाधर्मतः पुनः ॥ अंभोधरभवा नद्यो । न वर्धते तपागमात् ॥ ५८१ ॥ यद्येकजंतुघातेन । सिद्धिः - स्यात्तर्हि ता घनाः ॥ वधकानां कथं ? न स्यु — जैतुसंतानघातिनां ॥ ५०२ ॥ किं च न स्त्रीवधाद्देवी - तुष्टिर्दृष्टाऽथवा
1
सर्ग. १
॥ १७ ॥
Page #85
--------------------------------------------------------------------------
________________
श्रुता॥ केवलं वंचितोऽसि त्वं । तया कूटपटिष्ठया ॥५०॥ अथ देव्युदितं तथ्यं । तथापि स्त्रीतमामिमां ॥ हित्वा हुत्वा
च मच्छीर्ष । कार्यमार्य ! निजं कुरु ॥ ५०४॥ एवं कृते कृतिन् ! विद्या-देवता तव तोक्ष्यति ॥ जीविष्यति मृगाक्षीयं । ६ ममातिथ्यं च वय॑ति ॥ ५०५॥ मणिचूडोऽवदद्देव! । केयं तव विदग्धता ॥ यदेकस्त्रीकृते कायं । मुंचसे चक्रितोचित
॥ ५०६ ॥ किं रक्षिता मृगाक्षीय-मसाध्यं साधयिष्यति ॥ त्वं तु जीवन् पुनः शश्व-द्विश्वं पास्यसि तातवत् ॥५०७॥ आत्मकायव्ययेनैतां । यत्त्वं त्रातुं समीहसे? ॥ तद्रत्नकोटिदानेन । दृषत्खंडं जिघृक्षसे ॥ ५०८ ॥ अल्पव्ययादनल्पं हि || गृह्णन् स्यान्मतिमान् पुमान् ॥ विपर्यस्तं वितन्वंस्तु । मूर्धन्यो मंदमेधसां ॥ ५०९ ॥ तमभ्यधात्पुनर्भूपः । प्रांशुदंतांशुकैतवात् ॥ हृद्युद्धेलं दयाक्षीर-नीरधिं दर्शयन्निव ॥५१०॥स्नेहोचिता तवेयं वा-न तु धर्मोचिता सखे॥प्राणैरपि परत्राणं। कार्य धर्मो ह्ययं महान् ॥५१॥ किंच संस्मपितो लिप्तो । भूषितो भोजितोऽपि च ॥खलवत्खलु कायोऽयं । नात्मसात्कहिचिद्भवेत् ॥५१२॥ कृमयो भस्म वा यस्या-वसानं तन्निजं वपुः॥ परार्थ व्ययमानस्य । मम कास्त्यविदग्धता ॥५१॥ रुजां पात्रेण गात्रेण । सुकृतं संचिनोति यः॥प्राणनेन विषेणैष । संगृहीते सुधारसं ॥५१४ ॥ शुचि बहुमलाढ्येन । |स्थेयः क्षणातिपातिना ॥ सहचरमिहस्थेन । श्रेष्ठं निकृष्टमेन च ॥५१५ ॥ स्ववश्यमितरायत्ते-नोद्यत्सुखं सुवैरिणा। सुकृतममुनांगेनाऽऽदत्ते कृती नु कश्चन ॥५१६ ॥ युग्मम् ॥ इह कीर्तिमये देहे-ऽमुत्र धर्ममये पुनः ॥ सतामास्था मन-18 स्यस्ति । न त्वस्मिन् क्षणभंगुरे॥५१७॥ व्यापारे हीयतां कोऽपि । कोऽपि याति प्रगल्भतां ॥ जिजीविषा परं तुल्या। स्त्रिया वा पुरुषस्य वा ॥५१८ ॥ तदयं दीयतां खड्ग-विच्छत्वा येन शिरोऽर्पये ॥ चिरं जीवत्वियं योषा । तव सिद्धिश्च सिद्ध्यतु
२२***RRRRRRRRRRR
Page #86
--------------------------------------------------------------------------
________________
कुमारपालच.
॥१८॥
SHARAMMARCA
॥५१९॥ इत्युक्तोऽपि यदा नादात् । खड्ग विद्याधरात्मजः॥ अनिच्छतोऽपि तस्मात्तं । तदा भूपोऽग्रहीद् ग्रहात् ॥५२०॥ *स सौम्यदर्शनो भूभृत् । करालकरवालभाक् ॥ भेजे भुजंगमाश्लिष्ट-चंदनदुमतुल्यतां ॥५२१॥ ततोऽव्यापारयत् स्कंधे
कृपाणं स्वेन पाणिना॥ नृपः स्मेरमुखः काष्ठे । कुठारमिव वर्धकिः॥५२२॥ नृपस्कंधः कृपाणेन । सुहृदेव सुहृत्तदा ॥ संश्लिष्य पुष्यति स्मोच्चै । रोमांचं मूर्तहर्षवत् ॥५२॥ अथ व्यापार्यमाणोऽपि । भुजः शक्तोऽपि भूभुजः॥ शिरच्छेत्तुमलंभूष्णु- भूत् कीलितवत्किल॥५२४॥प्राक्पटिष्ठोऽपि मत्तेभ-कुटस्थलविपाटने॥अकिंचित्करतामांची-दधुना मत्करः किमु ॥५२५॥ध्यात्वेति तेन हस्तेन । भृत्येनेव प्रभुदुहा ॥ दह्यमानो नृपः खड्ने।वामं व्यापारयत्करं ॥५२६॥ युग्मं ॥तेन व्यापारितः खग-स्तीक्ष्णधारोऽपि तत्क्षणं ॥ आस्फालित इव ग्राणि । कलयामास कुंठतां ॥५२७॥ दोर्माद्यखगकुंठत्वदीनो लीनव्यथश्चिरं ॥ अदंदह्यत भूपोंत-मत्रस्तंभितभोगिवत् ॥ ५२८ ॥ दध्यौ च वीक्षापन्नः सन् । धिग्मे भंगुरभाग्यतां ॥ असावुपचिकीर्षापि । यत्सिद्धिं नाधिरोहति ॥ ५२९ ॥ धन्यास्ते प्राणिनो येषां । भवत्युपकृतिस्पृहा ॥ ते तु धन्यतमा येषां । सा सद्यः सिद्धिमश्नुते ॥ ५३० ॥ नृपोऽथ शीर्षच्छेदार्थ । यावद्याचति योगिनं ॥ तावत्सोऽप्यति मूर्छाल-विच्छन्नदुरिव पेतिवान् ॥ ५३१ ॥ अहो अस्यापि किं जात-मिति दुःखोत्थमूर्छया ॥ भूपः शून्य इवाश्रीषीद्धाकारं दिवि दैवतं ॥ ५३२॥ लब्धसंज्ञः क्षणात् क्षोणी-भृदक्षत निजाग्रतः॥ कादंबिनीमिवोक्षंतीं । कमंडलुगलज्जलैः ॥ ॥५३३ ॥ नंती संतमसं दीप्त्या । प्रदीपकलिकामिव ॥ दिव्याभरणभंगीमि-भर्भाती कल्पलतामिव ॥ ५३४ ॥ सेव्यमानां
१ कट, प्र. २ अतिशयेन अदृह्यत. ३ वि-विविधप्रकारा ईक्षा-मतिः तां आपन्नः, ४ प्राप्नोति. ५ प्राप्नोति. ६ मेघमालावत् सिंचती.
Page #87
--------------------------------------------------------------------------
________________
सुरस्त्रीभि- गीभिरिव पद्मिनी ॥ इंदुलेखामिवानंद-दायिनी सौम्यदर्शनात् ॥५३५ ॥ स्नेहार्द्राभ्यां मुहुर्दग्भ्यां पश्यंती जननीमिव ॥ कांचनद्युतिरोचिष्णु-कायां कांचनदेवतां ॥५३६ ॥ चतुर्भिः कलापकं ॥ सा स्माह वत्स ! |सैवाहं । देवताऽस्म्यपराजिता ॥ त्वत्साहसेन तुष्टाऽस्मि । प्रार्थयस्व यथारुचि ॥५३७॥ नत्वाऽभयंकरोऽभाणीत् । तुष्टाऽसि
यदि देवि ! मे ॥ निशुंभ तर्हि दोस्तंभ-स्तंभ संभावितत्वरं ॥५३८ ॥ यथा स्वशीर्षदानेन । त्वद्भक्तस्यास्य योगिनः॥ विद्यासिद्धिं वितन्वेऽहं । कार्य राज्यादिना न मे ॥ ५३९ ॥ अथ कर्तुमिदं मातालंकीणविक्रमा ॥ विद्याधरसुतस्याऽस्य । तर्हि सिद्धिर्विधीयतां ॥ ५४० ॥ देव्यूचे नास्य पापस्य । वितितीर्षाम्यसूनपि ॥ सिद्धिदूरेऽस्तु ये नैष । प्रारब्धः स्त्रीवधोऽधमः ॥५४१॥ नेयताऽपि स्थितः सोऽयं । किंतु ते विश्वरक्षिणः ॥ ध्वंसात्कल्पद्रुमस्येव । स्वार्थ फलमिवेहते ॥५४२॥ इदं शिष्टं मयाऽनिष्टं । कृत्यं सत्त्वं परीक्षितुं ॥ अयं तु तुमेव स्त्रीं । प्रावर्तिष्ट निकृष्टंधीः ॥५४३ ॥ अतस्तव भुर्ज खड्ग-मपि स्तंभितवत्यहं ॥ ईदृशी दुर्दशां चैनं । लंभयामासुषी रुषा ॥५४४ ॥ स्त्रीवघे बद्धबुद्धेस्त-सिद्धिरस्य कुतो भवेत् ॥ पापीयसां न सिद्ध्यंति । कला हि कमला इव ॥ ५४५ ॥ निर्मतुजंतुहंतॄणा-मालस्योल्लासशालिनां ॥ सत्त्वरेचितचित्तानां । न स्युर्धर्मार्थसिद्धयः॥ ५४६ ॥ हेतोस्तदस्य दुष्टस्य ।। नैव स्वं हंतुमर्हसि ॥ न हि रांकृते कोऽपि । दहति त्रिदशनुमं ॥५४७॥ क्रियेताकृत्यमप्येत-दस्य चेत्स्यादुपक्रिया ॥ न ह्यूपरस्य जायेत । वृष्टियोगेऽपि योग्यता ॥ ५४८॥ अथावदन्नृपो देवि!। सिद्धिरस्य ममेप्सिता ॥ त्वं
१दूरीकरु. २ कार्यकरणसमर्थपराक्रमा. ३ वितरितुं-दातुमिच्छामि. ४ नीचधीः ५ प्रापितवती. ६ क्षार, प्र, क्षारकंभभस्म. . क्षार (भूमेः ) देशस्य.
कु.पा.च.४
Page #88
--------------------------------------------------------------------------
________________
कुमारपालच०
॥१९॥
निषेधसि तामेव । मह्यं तुष्टा कथं वद ॥ ५४९ ॥ ईदृशोऽप्येष चात्मीयो-ऽनुग्राह्योऽस्ति तव ध्रुवं ॥ विरज्यते किमीशो हि । संश्रिताद् भुजगादपि ॥ ५५० ॥ किंचास्य सिद्धिविध्वंसा-त्संगरो भंगुरो मम ॥ तेन "प्राणव्ययेनेव ।” जीवन्नपि मृतोऽस्यहं ॥ ५५१॥ मास्मभूत् स मनुष्योऽपि । निंदनीयो मनस्विनां ॥ प्राणेभ्योऽप्यधिकं स्वीयं । यः प्रतिज्ञातमुज्झति ॥ ५५२ ॥ यथेच्छं गच्छ तद्देवि! । वह्नौ वेश्याम्यहं पुनः॥ इत्युक्त्वा नृपतिस्तत्र । झंपां दातुं प्रचक्रमे ॥ ५५३ ॥ तत्तथा वीक्ष्य भूपोऽयं । मदर्थ म्रियते हहा ॥ धिग्मामितिवचाःसापि । स्त्री मूर्छालाऽपतद् भुवि ॥५५४॥ अथाकृष्या|ग्नितः क्षमाप-माख्यद्देवी तथोच्चकैः ॥ तुष्टाऽस्मि त्वत्कृते पश्य । जीवितौ द्वाविमौ मया ॥५५५॥ उक्त्वेति कामंडलवैः। सलिलैरमृतैरिव ॥ सिक्त्वा सा मणिचूडं तं । कुमारीमप्यजीवयत् ॥ ५५६ ॥ जीवंतं नृपति प्रेक्ष्य । हृषिता सा कनी हृदा॥तं पतीचछैषी का हि । नेहते तादृशं वरं ॥ ५५७ ॥ नृप ! त्वदुपरोधेन । योगिनोऽस्य प्रसेर्दुषी ॥ उदित्वेति ददौ | देवी । तस्मै सिद्धिं चिरेप्सितां ॥ ५५८॥ भानुस्तदोदयामास । तादृशाभूतकर्मणः॥ अभयंकरभूपस्य । मुखं दृष्टुमिवोच्चकैः ॥५५९ ॥ प्रभाते स्फुरितेऽकस्मा-द्रोदेसीभेदसोदरं ॥ विश्वयंचं कलकलं । कलयामासिवान्नृपः ॥५६॥ किमेतदिति संभ्रांतो । भूकांतो यावदीक्षते ॥ तावदाविरभूदये। चतुरंगकलं बलं ॥५६१॥ एकश्छेकः पुमानेत्य । तस्माद्विस्मापयन् गिरा ॥ व्यजिज्ञपन्महीजानिं । तमेवं योजितांजलिः॥५६२॥
ता॥१९॥ अस्ति लक्ष्मीपुरं लक्ष्मी-लीलाढ्यं दानवारिवत् ॥ नाम्नारिकेसरी तत्र । नृपोऽरिद्विपकेसरी ॥५६३ ॥ यत्प्रताप१ प्रतिज्ञा. २ तवो, प्र. ३ कृतवती.४ प्रसन्नाजाताऽहं.५ स्वर्गभूमिमेदसमानं-खर्गभूमिमेदकम्. ६ सर्वदिग्गामिनं कोलाहलं-अव्यक्तशब्दम्. ७ देववत्,
Page #89
--------------------------------------------------------------------------
________________
SASSASSISLOSSEUSEURUSHA
बहद्धानो-बैंरिवंशान दिधक्षतः॥ शौर्यमूर्जस्वलं भेजे । वात्याव्यतिकरायितं ॥ ५६४ ॥ तस्मिन् गते घुललना-लोललोचनलेह्यतां ॥ नि थत्वेन तद्राज्यं । भेजे संध्यानभस्तुलं ॥५६५॥ ततः सुमित्रमंत्र्याधैः । कुलदेव्यपराजिता ॥
प्रसादिता समादिक्ष-द्राज्याहं त्वामिह स्थितं ॥ ५६६ ॥ तदादेशाद्गलदैन्यं । सैन्यं त्वामिदमाश्रितं ॥ राज्यश्रीर्भवता ४/सेयं । स्पर्धतां द्यां सवासवां ॥५६७॥ अरिकेसरिभूभर्तु-स्तस्यैवाहं क्रमागतः॥प्रज्ञालोकाह्वयो मंत्री । त्वामेतद्वक्तुमेतहै वान् ॥ ५६८ ॥ उदित्वेति निवृत्तेऽस्मिन् । देवता साऽपराजिता ॥ आसयित्वाऽऽसने हैमे । तत्रैवाभ्यषिचन्नृपं ॥५६९॥
दत्वा तां भूभृते कन्यां । सा तिरोधत्त देवता ॥ उपकारः कृतस्तस्य । तदैवासीत् फलेग्रहिः ॥ ५७०॥ हरति विपदं,8 ४ सूते कीर्ति, निकृन्तति वैरितां । जनयति जने मानाधिक्यं, वशीकुरुते रमां ॥ मदयति दयासारं धर्म, तनोति महोदयं । है किमिवै सुधियां नाधत्ते ऽसौ परोपकृतिः कृता ॥ ५७१ ॥ मणिचूडोऽपि संपन्न-सिद्धिर्भूधवमभ्यधात् ॥ मत्पुण्यैरेव ते
देव ! जैनिः समजनि ध्रुवं ॥ ५७२ ॥ सिद्धिर्ममास्तु दूरेऽमी । प्राणा अपि तुषा इव ॥ उड्डीयेरन् सुरीरोष-वात्यया | त्वां विना यतः॥ ५७३ ॥ न केवलं त्वया स्त्रीयं । त्राता प्राणप्रयाणतः॥ किंतु स्त्रीघातसंजात-पातकादहमप्यहो॥ ॥ ५७४ ॥ निःस्पृहत्वेन सर्वेषा-मुपकुर्वन् स्ववर्मणा ॥ परार्थीकृतसर्वस्वो । नंद चंदनवत्ततः॥ ५७५ ॥ स्वदर्शनामृतैः | सिक्त्वा । पितॄना नुपैम्यहं ॥ विज्ञप्येति नृपं प्राप । मणिचूडः स्वमंदिरं ॥ ५७६ ॥ अथारिकेसरीयास्ते । मंत्रिप्रभृतयो |खिलाः ॥ तं नवस्तूपवन्नेमु-रमंदानंददायिनं ॥५७७ ॥ ततस्तैर्विनयानवैः । पुरयानार्थमर्थितः ॥ प्रतस्थे पार्थिवःसंतो।
१फलयुक्तः-सफल इत्यर्थः. २ छिनत्ति. ३ किमित्यर्थः. ४ जन्म. ५ खदेहेन.
Page #90
--------------------------------------------------------------------------
________________
कुमारपाठच०
॥ २० ॥
ह्यर्थनाभंगभीरवः ॥ ५७८ ॥ स्वधैर्यनिर्जयात् सेवा - हेतवे समुपागतं ॥ नगेंद्रमिव तुंगांग-मुपवाह्यं गजं श्रितः ॥ ५७९ ॥ सितच्छत्रेण पर्वेदु - गर्व सर्व स्वहारिणा ॥ मूर्तेन यशसेवोच्चै - रधिमूर्द्ध विभूषितः ॥ ५८० ॥ रोचिरैछटाद्वयेनेव । मुखेंदोः सर्पताऽभितः ॥ चामरद्वितयेनारा - द्वीजितः श्वेतदीप्तिना ॥ ५८१ ॥ प्राप्तोऽस्म्यहं नृपो नंतुं । मामेतेत्यन्तिकान्नृपान् ॥ | ज्ञापयन्निव तूर्यौघै - दिकुक्षिंभरिनिःस्वनैः ॥ ५८२ ॥ भट्टोदितैर्जयारावे - र्जनान् बधिरयन्निव ॥ सैन्योत्खातरजः पूरै । रोदसीं स्थगयन्निव ॥ ५८३ ॥ स्नेहार्द्रदृष्टिदानेन । पौरानुज्जीवयन्निव ॥ स्वदर्शनेंदुना पौरी - रागान्धि श्रीवयन्निव ।। ५८४ ॥ पश्यन् लक्ष्मीपुरं पौरो - तंमितस्वर्णतोरणं ॥ अभयंकरभूमीपः । प्राप क्ष्मापतिमंदिरं ॥ ५८५ ॥ षड्ति कुलकं ॥ तत्र हेमासनासीनं पूर्वाद्रिस्थमिवारुणं ॥ नत्वा सीमालभूपालाः । प्राभृतैरुपतस्थिरे ॥ ५८६ ॥ अथ सिंहपुरस्वामी । सुतावृत्तमवेत्य तत् ॥ तत्राभ्येत्य च तां तेन । भूभुजा पर्यणीनयत् ॥ ५८७ ॥ साऽपि काममिवोद्दाम-कामनीयकधाम तं ॥ लब्ध्वा पतिं रतिरिव । श्रियं कांचिदशिश्रियत् ॥ ५८८ ॥ तौ प्रागुपकृतौ भूपौ । नृसिंहघनवाहनौ ॥ मणिचूडः कृतज्ञैक - चूडो विद्याधरः स च ॥ ५८९ ॥ परेऽपि भूभुजोऽभ्येत्य । तं भूभुजमपुपुजन् ॥ रत्नाद्यैः प्राभृतैर्दिव्यैर्देवा देवाधिपं यथा ।। ५९० ॥ युग्मं ॥ इति नानानृपानीतो - पायनैस्तस्य वैभवं ॥ ववृद्धेभो यथांभोषेः। सिंधुप्रापितवारिभिः ॥५९१॥ आयुधागारिकोऽन्येद्युरुपसृत्याभयंकरं ॥ चक्रित्वोचितया चक्र-रत्नप्रायाऽभ्यवीवृधत् ॥ ५९२ ॥ तं सत्कृत्य मुदा भूपः । शस्त्रागारमुपेत्य च ॥ चक्रं ददर्श मार्तंड-मंडलश्री विखंडेनं ॥ ५९३ ॥ अर्चित्वा चंदनाद्यैस्तच्चक्रे चाष्टाहिकामहं ॥ महांतः किमु मुह्यंति ।। १ नगेन्द्र (मेरुपर्वत) धैर्यनिर्जयात् २ किरणकान्तिप्रवाहद्वयेन. ३ समीपे ४ अनिर्वचनीयां शोभां. ५ बिडंबनं प्र
सर्ग. १
॥ २० ॥
Page #91
--------------------------------------------------------------------------
________________
पूज्यपूजनकर्मणि ॥ ५९४ ॥ तस्यान्यान्यपि रत्नानि । सेनान्यादीनि जज्ञिरे ॥ अगण्यपुण्यपण्यानां । किमिवास्ति दुरासदं ॥ ५९५ ॥ ततश्चक्रानुगश्चक्री । दिक्चक्रविजिगीषया ॥ चचाल चालयंश्चक्र-रेचलानचलानपि ॥ ५९६ ॥ महीमाक्रममाणस्य । चक्रभृत्सैन्यनीरः॥ अमजन भूभृतोऽप्यंतः। परेषां गणनापि का ॥५९७॥ स्वतेजसैव द्विषतः। पिषतस्तस्य चक्रिणः॥न कोऽपि संमुखस्तस्थौ । तिग्मांशोरिव कौशिकः ॥ ५९८ ॥ षट्खंड विजयं जित्वा । वकृत्वा निधी|नव ॥ व्यावृत्तः स्वपुरं प्राप-दभयंकरचक्रभृत् ॥ ५९९ ॥ चक्रभृत्त्वाभिषेके च । जाते द्वादशवार्षिके ॥ स वदान्यतया चक्रे । याचकान् धनदानिव ॥ ६००॥ सैदानभोगतां बिभ्र-द्विबुधाश्रितसन्निधिः॥ शक्रवच्चक्रवर्ती स । चिरं राज्यमपालयत् ॥ ६०१॥ अथागर्म गुरोर्तास्वा । स शिष्य इव हर्षुलः॥ गत्वा नत्वा च तत्पावें । देशनामिति शुध्रुवान् । ॥६०२॥ मनीषिणा तदाचर्य । येन स्याच्छाश्वतं सुखं ॥ तन्मुक्तौ तेदुपायस्तु । व्रतं प्रोचे जिनेश्वरः ॥ ६०३॥ व्रतं | तु सर्वसावद्य-योगत्यागोऽभिधीयते ॥ यस्मादत्राय॑ता लोके । मोक्षलक्ष्मीः परत्र च ॥ ६०४॥ जातोऽस्ति यदि ते
सिद्धि-संगमो हृदयंगमः॥ तदादत्स्व व्रतं येन । सिद्धिरेति स्वयंवरा ॥ ६०५॥ चक्रवर्ती निशम्येति । मुक्तिसंगमनोउत्सुकः॥ राज्ये न्यस्य सुतं तस्य । गुरोः पार्थे व्रतं ललौ ॥ ६०६ ॥ सुदुस्तपेन तपसा । कुठारेण शितेन सः ॥ लुलाव सकलं मूलात् । पूर्वदुष्कर्मकाननं ॥ ६०७ ॥ केवलज्ञानमासाद्य । प्रबोध्य च घनं जनं ॥ अभयंकर यत्याप । निष्पापः
१ पुण्यानां. प्र-२ रचलामचलामपि-प्र. निश्चला पृथ्वीमपीत्यर्थः ३ निश्चलान् पर्वतानपीत्यर्थः. ४ दातृस्वेन. ५ दानेन सहितः सदानः, सदानः भोगो यस्य स सदान |भोगः तस्य भावस्तत्तातांबिभ्रत् , पक्षे. सदा नभसिगच्छतीति सदानभोगस्तस्य भावस्तत्तातांबिभ्रत्. ( विद्वांसः पक्षे. देवाः शुश्राव इत्यर्थः ८ शाश्वतंसुखं. ९ मुक्त्युपाय:
Page #92
--------------------------------------------------------------------------
________________
कुमारपालच०
सर्ग.१
परमं पदं ॥ ६०८॥ उपकारमयाद्धर्मा-दभयंकरचक्रिणः॥ मत्वा महत्त्वमीक्षं । सिद्धेश ! कुरु संततं ॥ ६०९॥ इति निशम्य गुरोगिरमादरात् । स जयसिंहनृपः कृपयांचितः ॥ हृदि निवेश्य परोपकृतिव्रतं । रुचिरमाचरति स्म तदन्वहं॥ ॥ ६१०॥ इत्थं सुगोभिर्जयसिंहदेव-संदेहसंदोहतमांस्यपास्यन् ॥ उज्ज़ुभयन् जैनमतांबुजन्म । श्रीहेमसूरिः शुशुभे स| भावान् ॥ ६११॥
॥२१॥
इति श्रीकृष्णपीयश्रीजयसिंहसूरिविरचिते परमाईतश्रीकुमारपालभूपालचरिते महाकाव्ये -
तत्पूर्वज श्रीहेमसूरिजन्मवर्णनो नाम प्रथमसर्गः।
AAAAAA
Page #93
--------------------------------------------------------------------------
________________
॥ अथ द्वितीयः सर्गः प्रारभ्यते ॥
अथ पुर्यां दधिस्थयां । स्वाः प्रजाः परिपालयन् ॥ स बभूव त्रिभुवन - पालः श्रीद इव श्रिया ॥ १ ॥ अस्ताघे मानसे तस्य । धर्मः सत्पक्षलक्षितः ॥ विलासान् कलयामास । राजहंस इवानिशं ॥ २ ॥ करे तदीये करवालवल्ली । द्विष| द्भिदा शोणितशोणरोचिः ॥ रणाजिरे रागभराभिरामा । मूर्ता जयश्रीरिव राजते स्म ॥ ३ ॥ तस्यासीत् प्रेयसी प्रीति - स्थेयसी श्रेयसी गुणैः ॥ नाम्ना कश्मीरदेवीति । श्रीरिवांगश्रिया स्वयं ॥ ४ ॥ या सतोऽपि परिष्कारान् । हित्वा बाह्यान शाश्वतान् ॥ अंतरंग स्थिरं चांगे । शीलमंडनमाश्रयत् ॥ ५ ॥ तया समं त्रिभुवन - पालो वैषयिकं सुखं ॥ श्रियेव श्रीवरयिता । सरवदे स्मेरितस्मरः ॥ ६ ॥ प्रजानां भूतयेऽन्येद्यु - स्तत्प्रिया गर्भमादधौ ॥ अंतर्गूढं यथा बीज - मुष्टिं क्षेत्रवसुंधरा ॥ ७ ॥ आसमुद्रं क्षितेस्त्राणं । प्राणिनामभयार्पणं ॥ व्यसनानां निषेधं च । साऽकांक्षच्छुभगर्भतः ॥ ८ ॥ पत्याऽतिप्रीतिपात्रेण । परिपूरितदोहदा ॥ समयेऽसूत सा सूनुं । द्वितीयेव निशाकरं ॥ ९ ॥ तदोच्चचार वाग्व्योम्नि । सत्त्वाद्युग्रगुणोल्बणः ॥ एष जित्वा धरां धर्म - साम्राज्यं जनयिष्यति ॥ १० ॥ बालदेहप्रभाजालै - विशालैर्गलितौजसः ॥ तदारिष्टस्थिता दीपा । हारिताला इवालसन् ॥ ११ ॥ तज्जन्मनि जनानां किं । प्रमोदः प्रणिगद्यते ॥ पूरप्युच्चैर्ननर्तेव । वातवेल्लदुजैः करैः ॥ १२ ॥ कुमारे इव विक्रांतः । पालयिष्यत्ययं क्षितिं ॥ ततः कुमारपालेति । नाम तस्य पिता व्यधात् ॥ १३ ॥ पितरौ तन्मुखालोक - रसं पीयूषपूरवत् ॥ कणेर्हत्य पिबंतौ तौ । परमां प्रीतिमापतुः ॥ १४ ॥ पुत्रोऽपि चेद्वह्निरिवा
| अस्तपापे, पक्षे स्ताधरहिते. २ रणांगणे. ३ भूषणानि. ४ अरिष्टं सूतिकागृहं. ५ कार्तिकेयः ६ श्रद्धाप्रतिघातं कृत्वा - अतिशयेनेत्यर्थः.
Page #94
--------------------------------------------------------------------------
________________
कुमार
पालच०
CASSO
साक्षेप !
सौम्यत्वं शशभृत्प्रताप २७॥ पित्रा भोपलदेवी मा सतावुभौ ॥ महीपालकीतिपाय ॥२०॥
॥२२॥
विनीत-स्तदा दहत्येव कुलं समस्तं ॥ स एव विस्मेरकलः शशीव । महेशमौलावपि लालसीति ॥ १५ ॥ध्यात्वेति पित्रा साक्षेपं । शस्त्रे शास्त्रे च शिक्षितः॥ तारुण्यं स्फारलावण्यं । कुमारःखेने तेनिवान् ॥१६॥ स्थैर्य मेरुगिरिमति सुरगुरुगोभीर्यमंभोनिधिः । सौम्यत्वं शशभृत्प्रतापमरुणः शौर्य च पंचाननः ॥ औदार्य त्रिदशगुमः सुभगतां कामः श्रियं श्रीनिधिनूनं ढोकयतिस्म यौवनपदे दृष्ट्वा कुमारं स्थितं ॥ १७ ॥ पित्रा भोपलदेवीं स । धन्यां कन्यां विवाहितः ॥ तया समं सुखं भेजे । रत्या श्रीतनयो यथा ॥ १८ ॥ अन्यावपि त्रिभुवन–पालस्यास्तां सुतावुभौ ॥ महीपालकीर्तिपाल-नामानौ मानशालिनौ ॥ १९ ॥ सुता प्रेमलदेवीति । जाता देवीव दिव्यरुक् । तां पिता कृष्णदेवेन । सोत्सवं पर्यणाययत् ॥२०॥ परा देवल्लदेवी च । पुत्री सौंदर्यमंदिरं ॥ पित्रा शाकंभरीनाथा-र्णोराजाय व्यतीर्यत ॥ २१॥ एवं पुस्त्रिमिधर्म-कामाथैरिव देहिभिः॥ श्लाघनीयस्त्रिभुवन-पालस्त्रिभुवनेऽभवत् ॥ २२ ॥ कुमारपालः सोऽन्येधुः । पत्तनं समुपेयिवान् ॥ जयसिंहनृपोपांते । हेमाचार्य व्यलोकत ॥ २३ ॥ कलानिधिरयं कोऽपि । ध्यात्वेति विनयोल्वणः ॥ हंसः पद्मवनस्येव । तस्य सेवां स तेनिवान् ॥ २४ ॥ गुणगोष्ठयां प्रवृत्तायां । को गुणेष्वग्रणीर्गुणः ॥ इति पृष्टः कुमारेण । हेमाचार्यस्तमूचिवान् ॥ २५ ॥ गुणेषु सत्त्वमेवैकं । मन्येऽहं सार्वभौमति ॥ अमी सर्वेऽपि धावति । यत्पृष्ठे जात्यभृत्यवत् ॥ २६ ॥ सत्त्व-18 मोजायतामेकं । किमन्यैर्बहुभिर्गुणैः ॥ संपत्संपद्यते सद्यो । यस्माञ्चिंतामणेरिव ॥ २७॥ व्यसनांभोधियादोऽपि । सत्त्वेन श्रयति श्रियं ॥ अजापुत्रो यथा पूर्व । श्रूयतां तत्कथाऽधुना ॥ २८॥
१ शनैः शास्त्रैश्व-प्र. २ आत्मना. ३ सूर्यः. ४ गुणाः.
ISAARIKOSI
॥२२॥
Page #95
--------------------------------------------------------------------------
________________
AUSS
| इहैव जंबूद्वीपेऽत्र । क्षेत्रे च भरताभिघे ॥ स्वःस्पर्धिवर्धिसर्वर्द्धि-रासीचंद्रानना पुरी ॥ २९ ॥ शिवानुयातो भृतभू-18 है रिभूतिः । संपन्नभोगो वृषबद्धरागः ॥ महेशलीलाकलितोऽपि यत्र । चित्रं न कोऽप्यस्ति जनो विर्षांदी ॥ ३० ॥ चंद्रापीडो नृपस्तत्र । चंद्रॉपीड इवापरः॥ चकासामास शौर्येण । चित्रं नोग्रत्वभाजनं ॥ ३१ ॥ महीविजयहेतवे चलति यत्र भूमिपतौ । जलस्य च तृणस्य चाघटत नास्तिता सर्वतः ॥ यदुग्रबलधूलिभिः स्थगितमोद्यमत्यं" पुन-गृहीतमरिभिहे
स्वमवितुं रदाणार्पणात् ॥ ३२॥ पुरे तत्रैव विप्रोऽभू-धर्मोपाध्यायसंज्ञया ।। यः कलानिधिरप्युच्चै-र्न कुरंगप्रसंगभृत् ॥ MI॥ ३३ ॥ रंगत्प्रेमतरंगासी-नंगा तत्सहचारिणी ॥ शुचिता रसवत्ता च । यस्यां विश्राममाश्रिते ॥३४॥ निर्विशंकं "निर्वि-12
शतो-स्तयोरपतुषं सुखं ॥ अजनिष्ट जनेष्टश्री-स्तनूजो मनुजोत्तमः ॥ ३५ ॥ पंचोच्चग्रहयोगेन । प्राज्यराज्यरमाप्रदं ॥8 तजन्मलग्नं विज्ञाय । विज्ञस्तजनकोऽमृशत् ॥ ३६॥ अहो मम तनूजोऽय-मेतल्लग्नानुसारतः॥ भविता राज्यमासाद्य । माद्यन् ब्रह्मक्रियोज्झितः ॥ ३७ ॥ नैवास्योपैनयो नापि । सांगवेदादिदक्षता ॥ न ऋतुप्रक्रियाकांड-तांडवं न विवेकिता ॥ ॥ ३८॥ पापात् प्रकृतसंतापात् । बहारंभादितो पि च ॥ अयं भूत्वाऽपि मत्पुत्रो। गंता ही नारकी भुवं ॥ ३९ ॥ नवरं स्वयमेवायं । पाप्ममिर्निरयंगमी ॥ एतत्संतानिनोऽप्येवं । घिधिग् दुष्टविधेविधि ॥४०॥ वर्धमानः सुतस्तस्मा-दयमुच्छेत्स्यते कुलं ॥ स्फोयमानो यथा प्लक्ष-प्ररोहो देवमंदिरं ॥४१॥ तदेने त्याजयाम्याशु । ध्यात्वेत्यूचे द्विजः प्रियां ॥
१निरुपद्रवयुतः, पक्षे पार्वतीयुतः. २ विभूतिरैश्वर्य, पक्षे, रक्षा-भस्म. ३ सर्पः.४ धर्मः, पक्षे वृषभः-बलीवर्दः.५श्रेष्ठी-धनान्यः, पक्षे शंकरः, ६ सखेदः पक्षे विषभक्षी. |७ शंकरः ८ हरिद-प्र. ९जलं. १० तृणं. ११ कुत्सितानंद:-कुरंगः शोकः,पक्षे मृगः १२ भुंजानयोः. १३ यज्ञोपवीतप्रदानं. १४ यज्ञक्रिया. १५ वृद्धि प्राप्नुवन्.
GRAUGAISAO
Page #96
--------------------------------------------------------------------------
________________
कुमार
सग.२
पालच०
॥२३॥
व सत्यमूषुषी ॥ परं पुत्रमा कृथा वृथा ॥ ४८ ॥
भद्रेऽयं जातमात्रोऽपि । त्यज्यतां बहिरात्मजः॥४२॥ दग्धा वाचा तया दाव-ज्वालयेव समंततः ॥ धर्मोपाध्यायमाचख्यौ । गंगाऽगःपरिवर्जिता ॥४३॥ स्वामिन् ! किमिदमादेशि। तनुजाऽपि न सुत्यजा॥ इंदुवन्नयनानंदी। किं वाच्य
स्तनयः पुनः॥४४॥ चिंतामणिश्च पुत्रश्च । द्वयमेतत्सुदुर्लभं ॥ तत्कथं ? त्यज्यते नाथ ! । प्राप्तं सुकृतयोगतः ॥ ४५ ॥ IPIपरः शतान्यौपयिका-न्यहो यस्याप्तयेऽनिशं ॥ बुधैरपि विधीयते । कः कृती तं त्यजेत् सुतं ? ॥ ४६ ॥ प्रियः प्रियामथा-|
चष्ट । शिष्टे ! त्वं सत्यमूक्षुषी ॥ परं पुत्रः स पाल्यः स्या-द्वर्धयेद्यः कुलं निजं ॥ ४७ ॥ असौ कुलक्षणत्वेन । कुलक्षयकरः पुनः॥ तस्मादहिस्त्यजैनं द्राग् । विचारं मा कृथा वृथा ॥४८॥ पुत्रादपि कुलस्त्रीणां । श्रेयः प्रेयोवचः खलु॥ध्यात्वेति सा गलदंगा । गंगाऽऽदाय निजं सुतं ॥ ४९ ॥ सिंचंत्यश्रुभरैर्वक्षः । स्तन्यैश्च क्षितिमंडलं ॥ मुहुर्मूर्धनि चुंबित्वाऽत्याक्षीद्रनमिव क्वचित् ॥५०॥ युग्मं ॥ पथि तं पतितं बाल-मजा प्राग्जन्मनेः प्रसूः ॥ तदर्शनात् क्षरत्क्षीरा । निजं स्तन्यमपीप्यत ॥५१॥ अजापृष्ठस्थितो दृष्ट्वाड-जापालो वाग्भटोऽथ तं ॥ दयालुत्वादुपादाय । पुत्रत्वेनार्पयत् स्त्रियै ॥५२॥ निष्पुत्रा प्राप्य तं पुत्र-मजापालप्रियाऽपि च ॥ तृषातुरानीरमिव । संमदाद्वैतमासदत् ॥ ५३॥ सदैव दैवमेवैकं । स्तुमहे महिमोद्धतं ॥ प्रगल्भते यतो नान्यः। संपद्यपि विपद्यपि ॥ ५४॥ त्याजयित्वा पुरा येन । मातापितृकरोदरात् ॥ अजापालगृहे बालः । स तदैव न्यवेश्यत ॥५५॥ अजाविनिर्मितस्तन्य-पानदर्शनहेतुना ॥ अजापुत्राख्ययाऽऽख्यायि । पितृभ्यां सोऽर्भको मुदा ॥५६॥ गुणालयोऽतिश्रीपात्रं । भाव्यपि प्राच्यकर्मणा ॥ अजापालकुले सोऽर्भः । पंके पद्म
१ गंगा रंगापवर्जिता-प्र.२ पुत्री. ३ उक्तवती. ४ प्रारजननप्रसूः, प्र.
ROGRESSHESHI SASA
च क्षितिमंडलं ॥ मुहुमेधानि
-CONCERCOASTRUS
Page #97
--------------------------------------------------------------------------
________________
इवावृधत् ॥ ५७ ॥ स्तनंधयोऽपि से स्वस्य । जगिवान् राज्ययोग्यतां ॥ तेजोभरैर्जगज्जैत्रै | रविवद्दिनकर्तृतां ॥ ५८ ॥ तस्मिन् वसंतवत्सर्व-गुणद्रुषु विवर्धिषु ॥ रसालवद्विशालत्वं । भृशं सत्त्वमशिश्रियत् ॥ ५९ ॥ यत्नं विनापि तच्चित् । जलाशय इवामले ॥ सकलोऽपि कलाव्यांपः । संक्रांतः शशिबिंबवत् ॥ ६० ॥ जनके ज्वरितेऽन्येद्युस्तदादेशवशंवदः ॥ अजाजं चारयितु-मजापुत्रो बहिर्ययौ ॥ ६१ ॥ निजेच्छया चरंतीषु । छागीषु पुरगोचरे ॥ स वैटच्छायामाश्रित्य । | निषसाद विषादमुक् ॥ ६२ ॥ तदा तत्पुरराट् चंद्रा - पीडश्चंद्रवितंद्ररुक् ॥ प्राप पापर्धितस्ताप - तापितस्तं तरुं गुरुं ॥ ६३ ॥ तरुच्छायां श्रिते तस्मि - नृपतौ सपरिच्छदे || प्रादुर्भूयावदत्काचि - देवी दिव्यत्तमद्युतिः ॥ ६४ ॥ असावजासुतो राजन् ! | लक्षसैन्येशतां श्रितः ॥ हत्वा त्वां द्वादशाव्यंते । भविताऽत्र पुरे नृपः ॥ ६५ ॥ देव्यां गतायां तत्प्रोच्य । शोच्यं वीक्ष्य च तं शिशुं ॥ तृणीकृतजगद्दर्पा - चंद्रापीडो व्यचिंतयत् ॥ ६६ ॥ असंबद्धमिदं देव्या । जगदे मे पुरः किमु ? ॥ यत्तेजसाऽतिसिंहं ही । हंता मामेष मेषरुक् ॥ ६७ ॥ पंगुश्चेन्मेरुमारोहे - तरेच्च कुणिरर्णवं ॥ तर्ह्यसौ कर्हिचिन्नूनं । हंतुमीशीत मां शिशुः ॥ ॥ ६८ ॥ इति तूष्णीस्थितं भूपं । प्रोचे सुमतिमंत्रिराट् ॥ शिशावपि रिपौ स्वामि-नोपेक्षां कर्तुमर्हसि ॥ ६९ ॥ ययाविश्व विरोधी च । द्वावेतौ संमतौ समौ ॥ उपेक्षितौ प्रवृद्धौ च । दुरुच्छेदौ बुधैरपि ॥ ७० ॥ त्वद्गृह्यैवामरी काचिदियं त्वद्धितमूचुषी ॥ दृषल्लेखा स्थिरा नैव । देव्युक्तिश्च भवेन्मृषा ॥ ७१ ॥ अपकर्तुं यदप्येष । द्वेषी नेष्टे शिशुत्वतः ॥ निर्वास्यतां तथाप्यस्मा - देशात्तस्करवत् क्वचित् ॥ ७२ ॥ आलोचितं तदुचितं । मत्वा भूमान् स्वमंत्रिणः ॥ क्वाप्यरण्ये
।
१ सश्वस्य जग्मिवान् प्र. २ विस्तारः ३ वरछायं-प्र. ४ खगृहासका ५ उक्तवती.
৬৬
Page #98
--------------------------------------------------------------------------
________________
कुमार- तदैवाप्त-रजापुत्रममूमुचत् ॥ ७३ ॥ मातापितृपरित्यक्तो । महारण्ये निपेतिवान् ॥ बालोऽप्यवालमतिव-दध्यावित्थमपालचनजात्मजः॥ ७४ ॥ अहो मंतुन मे कश्चित् । कुतोऽनेन महीभृता ॥ स्थानान्निर्वासितः स्वस्मा-त्सापराध इवाधमः ॥७५॥|*
हुँ ज्ञातमनया देवी-गिरा प्रोद्भुरभीभरः ॥ स्वं राज्यं च परित्रातुं । मामसौ निरवासयत् ॥ ७६ ॥ जीवितव्यं च राज्यं ॥२४॥
च । किमपीष्टतमं नृणां ॥ यत्कृते कृतिनोऽप्युच्चै-रकृत्यानि प्रकुर्वते ॥ ७७ ॥ किमनेन नृकीटेन । सत्त्वमेकं प्रसीदतु ॥ हत्वा येनेदृशान् पापान् । गृह्यते राज्यमूर्जितं ॥ ७८ ॥ इत्थं विचार्य धैर्येण । दृढयित्वा च मानसं ॥ अजापुत्रः प्रतस्थे|ऽग्रे । पारींद्र इव निर्भयः॥ ७९ ॥ अरण्ये गच्छतस्तस्य । श्वापदा भीषणा अपि ॥ तत्सत्त्व विभवध्वस्ता-श्चित्रन्यस्ता इवाभवन् ॥ ८०॥ वन्यैः फलैः कृताहार-स्तिष्ठस्तरुतले शुचौ ॥ भवपारं तपखीव । प्रांतरप्रांतमाप सः॥८१॥ अरण्यांतेत पुरी दृष्ट्वा । हृष्टोऽसौ तां प्रति व्रजन ॥ तदर्वाग्यक्षवेश्मैकं । रश्मिस्मेरमुदैवत ॥ ८२ ॥ अग्निगर्ता च तत्पार्थे । ज्वलंती परितश्च तां ॥ ददर्श चतुरो मान् । यामिकानिव संस्थितान् ॥ ८३ ॥ कोपीनवसनान् दीनान् । दृष्ट्वा तान् श्यामला-18 |ननान् ॥ विस्मेरः सन्नजापुत्रः । पप्रच्छ स्वच्छधीरिति ॥ ८४॥ गर्ताऽस्ति केयमाग्नेयी। भवंतः के ? किमीदृशाः ॥ यद्यस्ति मद्यमाख्येयं । तदाख्यात महाशयाः!॥ ८५॥ तैरूचे गर्भरूपस्त्वं । कार्यमत्यूर्जितं च नः॥ ततः किं कथ्यते तुभ्यं । त्वयेदं नैव सिद्ध्यति ॥ ८६ ॥ अजापुत्रो जगादैता-नैतत्तथ्यं भवद्वचः॥ महतैव महत्कार्य । सिद्ध्यत्यल्पेन नेति यत् ॥ ८७ ॥ अल्पीयानपि तत्कार्य । कुर्याजातु न यन्महान् ॥ कुंतासाध्यं दृषद्भेदं । टंकः किं कुरुते न हि ॥ ८८॥ |श्रुत्वा तस्योर्जितं ताह-ग्विस्मेरास्ते तमूचिरे ॥ यद्येवं श्रूयतां तर्हि । साधोऽस्माकं चिकीर्षितं ॥ ८९॥
॥२४
Page #99
--------------------------------------------------------------------------
________________
BARSANGALORCASS
अस्त्यकंपा पुरी चंपा । तस्यां स्नेहलमानसाः॥ अवतिष्ठामहे शिष्टा-श्चत्वारःसोदरा वयं ॥९०॥सोदर्यस्याऽस्य तुर्यस्य घनैरोपयिकैः कृतः॥ पुत्रः पवित्रधीर्जातः । शातकुंभसमद्युतिः॥९१॥ सोऽन्यदा तीव्ररोगातॊ ऽगदंकारैः परःशतैः॥ हठाच्चिकित्स्यमानोऽपि । सौष्ठवं नाधितष्ठिवान् ॥ ९२॥ परैरप्युपचारा ये । तच्चारुत्वकृते कृताः॥ तेऽपि वैयर्थ्यमासेदुः । सत्कारा इव दुर्जने ॥ ९३ ॥ तच्चिंतार्णवयादस्सु । तदाऽस्मासु दयालुहृत् ॥ एत्य वैदेशिकः कश्चित् । स्वपूर्वज इवादिशत् ॥९४ ॥ पचेलिमं वह्नितरोः । फलमस्मै वितीर्यतां ॥ तदास्वादात् सुधास्वादा-दिवासौ भविताऽपरुक् ॥3 ॥ ९५ ॥ से च कादंबरारण्य-प्रांते यक्षालयांतिके ॥ ज्वलंत्यां वह्निगाया-मास्ते वह्निमहीरुहः ॥९६॥ अभिज्ञानान्वितं स्थान-मिदं ज्ञात्वा तदाननात् ॥ वयमत्रागमाम द्रा-गद्राक्ष्म च यथोदितं ॥ ९७ ॥ कृत्वा कोपीनमेतस्यां । पित्सवो|ऽप्युत्सुकत्वतः॥ नापप्ताम वयं ज्वाल-जालदाहभवद्भियः॥९८॥ तेनेमां परितो गर्ता-माता वर्तामहे वयं ॥ किंकर्त-13 | व्यजडत्वेन । परस्परनिरीक्षकाः॥९९॥ अजापुत्रः कृपालुस्ता-नचे ताम्यत मास्म भोः॥ अहमादाय दास्ये वः। फलं
वह्नितरोरितः॥१०॥ अवोचस्ते प्रवेष्टुं ते । वह्निगर्ते न युज्यते ॥ कः परार्थ समर्थोऽपि । प्रविशेन्मृत्युसंकटे ॥१०१॥ ६ इतः कृशानुतरुतो। यत्त्वया फलकर्षणं ॥ तत्प्राघूर्णकहस्तेन । नियतं सर्पमारणं ॥ १०२॥ आचर्यतां निजं कार्य-मार्य
वर्य! ततस्त्वया ॥ फलं त्वानेष्यते कश्चि-देको बंधुचतुष्टये ॥ १०३ ॥ आजेयः पुनरऽप्यूचे । मैवं वोचत सत्तमाः!॥ परार्थ एव हि स्वार्थो । महतां पर्यवस्यति ॥ १०४ ॥ उद्यच्छंते परार्थाय । संतः स्वार्थविवर्जनात् ॥ किं न पश्यत ? मेघा-|
१ पृष्ठु च., प्र. २ वहितरुः. ३ पतितुमिच्छवः. ४ खार्थे-प्र.
AAAAAAA
क.पा.चे.५
ACRex
Page #100
--------------------------------------------------------------------------
________________
कुमारपालच०
॥२५॥
ROURAXILIAI LANG
दीन् । विश्वोल्लासनलालसान् ॥ १०५॥ किंचानेन शरीरेण । बहुविघ्नेन किं फलं? ॥ स्वस्येव न परस्यापि । येनोपक्रियते हहा ॥ १०६ ॥ इति संबोध्य तानग्नि-गायां जलकुंडवत् ॥ पतित्वा तत्फलद्वंद्वो । निरयासीदजासुतः॥१०॥ सिद्धवत्तमदग्धांगं । फलद्वयकरं च ते ॥ विलोक्य स्फुर्जदाश्चर्याः । स्तुवंतिस्मेति बंदिवत् ॥१०८॥ शंसनीयः सतामंतस्त्वमेवैकोऽसि सात्विक!॥ चंदनस्येव यस्येत्थं । परतापापहं वपुः॥१०९॥ कतिनाम न संतीह। क्षुद्राःस्वार्थसमर्थका? परार्थसाधकः कश्चि-त्वमेकः सहकारवत्॥११०॥ स्तुत्वेति तमथापृच्छन् । कथ्यतां तथ्यमुत्तम!"नाग्निनात्वं कथं दग्धो
ऽगृहाच द्विफली कथं ॥१११॥ अजासुतोऽवदत्काचि-द्देवी वह्नितरुस्थिता॥ददौ मह्यं फले ते च ।लात्वाऽहं निर्गतोऽक्षतः है॥११२ ॥ अजापुत्राय ते दत्वा । फलमेकं बलादपि ॥ द्वितीयेन निजं पुत्र-मुजीव्य मुदमासदन ॥ ११३ ॥ पुरः पुरी
प्रति प्रीत्या । प्रस्थितोऽजासुतस्ततः॥ तडागं पांथहग्दत्त-रागं प्रैक्षिष्ट कानने॥११॥शैत्य-श्वैत्य-रसांभोज-गंध-भ्रमरझंकृतैः॥ यः सुधाकुंडवत्पंचें-द्रियग्रामप्रमोदकृत् ॥ ११५॥ पालिट्ठमालिप्रस्कैन्नश्वेतसूनोरुमौक्तिकः ॥ यो धत्ते वृत्तरोचिष्णु-र्भूकांताकुंडलाकृति ॥ ११६ ॥ फलं वस्त्राश्चले बवा । मुक्त्वा तच्च सरोंतिके ॥ उदन्यादैन्यमुच्छेत्तुं । पयः पातुं स लेगिवान् ॥ ११७ ॥ तावत्कोऽपि कपिः कंठे। स्फारमौक्तिकहारभृत् ॥ भ्राम्यन्नितस्ततो दैवा-त्सरःपरिसरं श्रितः |॥ ११८ ॥ विज्ञाय तत्फलं स्फार-सौरभै सिकंधयैः॥ वस्त्राल्लात्वा च तत्कालं । काकनाशं ननाश सः ॥ ११९ ॥ पयः |पीत्वा निवृत्तोऽजा-तनूजः फलमंचले ॥ अपश्यन् तसर्वस्व । इवापश्यचतुर्दिशं ॥ १२० ॥ अध्यासीच बनेऽमुष्मिन् ।
१ पतित्वाऽऽत्तफलद्वन्द्वो. प्र. २ शीत-श्वेत, ३ पतित. ४ पिपासादैन्यं.
CHECREOGRAMERA
Page #101
--------------------------------------------------------------------------
________________
SALAAMALAMROSAROKALAMALS
विजने न जनागमः॥सुरदुफलवत्केन । फलमेतत्तदाददे ॥ १२१॥ धिग्दैवं येन मे सेहे । नैतावदपि वैरिवत् ॥ अथवा | मंदपुण्यानां । करस्थमपि याति ही ॥ १२२॥ कटीतटे फलं बद्धा । यद्यपास्यमहं पयः॥ तययास्यदिदं नैव । यद्वेग्भवितव्यता ॥ १२३ ॥ ध्यायन्निति हृदा शून्यो । यावत्तिष्ठति तत्र सः॥ हारहारिगलः कोऽपि । पुमांस्तावत्तमूचिवान् ॥ १२४ ॥ अहं कपिस्तवोपात्त-फलताशनादपि ॥ घुसद्वरादिवेदानीं । जातोऽस्मीदृग्नरोत्तमः॥१२५ ॥ आजग्मिवान् भवानत्र । मद्धितायैव केवलं ॥ भवेद्भवांतरप्राप्याऽ-न्यथा कथमियं नृता ॥ १२६ ॥ तदक्षतं फलमिदं । हारं च प्राभृतं मम ॥ अंगीकृत्यायमात्मीय-दासत्वेन कृतार्थ्यतां ॥ १२७ ॥ कपिमर्योऽभ्युदीर्येति । तस्मै हारफले ददौ ॥ अजापुत्रोऽपि तत्प्राप्ति-तुष्टः स्वीययति स्म तं ॥ १२८ ॥ तत्फलं हृदि निश्चित्य । तिरश्चां नरताकरं ॥प्रभावः कोऽप्यमुष्येति । विमृशन् स विशिष्मिये ॥ १२९ ॥ गच्छेदेको न पंथान-मिति स्मृतिमिव स्मरन् ॥ सहायीकृत्य तं मयं । प्रतस्थे स स्थिरः पुरः॥ १३० ॥ गच्छन्मार्गमवच्छिन्न-मेकं देवकुलं कलं ॥ दिनांतेऽजासुतःप्रेक्ष्य । विश्रांत्यै तत्र तस्थिवान् ॥ १३१॥ | महविनोऽपि दैवाज्ञां । न लंधितुमधीशते ॥ईतीव ज्ञापयन् विज्ञां-स्तदाऽस्तं प्राप भास्करः॥१३२॥यावद्दिनं भवेत्तावदहं स्यां गुणवत्स्वपि ॥ इतीव कथयंती श्रीः । सायं पद्माकरं जहौ ॥१३३ ॥ अस्तमीयुषि मार्तडे । प्रदीपे विश्ववेश्मनः॥ युक्तं दृशामनायुष्यं । तमकैवल्यमुत्थितं ॥ १३४ ॥ मुक्ताफलभृतं नील-रत्नपात्रमिवोच्चकैः ॥ चकासामास गगनं । | तारकोत्करदंतुरं ॥ १३५॥ शश्वक्षिपत्यपि मयि । ध्वांतमेति मुहुः कुतः ॥ इतीवोरुरुषा रक्त-स्तदा शीतांशुरुद्ययौ|
१ महखंतो. प्र. २ इति वि.प्र. ३ दिवसः, पक्षे भाग्यं. ४ कमलतन्तुवत्सु, पक्षे-गुणशालिषु. ५ शोभा-पक्षे-लक्ष्मीः . ६ दिनान्ते. ७ कमलं पक्षे लक्ष्मी.
Page #102
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ २६ ॥
॥ १३६ ॥ निशीदृशि प्रसर्पत्यां । सुप्ते च कपिपूरुषे ॥ अंतर्देवकुलं ज्योति - रजापुत्रो न्यभालयत् ॥ १३७ ॥ इयच्चिरमिह ज्योतिर्नैक्षि संप्रत्यभूत्कुतः १ ॥ किं दैवं ? किमुताग्नेयं । किं भुजंगमणीभवं १ ॥ १३८ ॥ पश्यामीति गतो ज्योति - दृष्ट्वा तद्विवरस्थितं ॥ जिज्ञासमानस्तन्मूलं । स विवेश तदंतरे ॥ १३९ ॥ युग्मं ॥ तस्मिन् प्रविष्टमात्रेऽपि । ज्योतिस्तद् द्रागधोऽगमत् ॥ सोऽपि तत्पृष्ठलग्नोऽगा-तेन मूढमना इव ॥ १४०॥ तत्खेदार्थमिवामुष्मिन्नधोऽधो याति तेजसि ॥ अनुगच्छन्नजापुत्रो । ललंघे महतीं महीं ॥ १४१ ॥ पुरः प्राप्ता समा भूमि-ज्योतिस्तच्च तिरोऽभवत् ॥ अजाभूरपि तद्देशे । पुरीं प्रेक्ष्य परामृशत् ॥ १४२ ॥ क्व तद्देवकुलं ? तन्मे । क्व मित्रं ? क्व च तन्महः ? ॥ केयं भूमिः ? पुरी केयं ? । बपुरे विधिवल्गितं ॥ १४३ ॥ मार्गदर्शीव तज्ज्योति — स्तिरोऽभूत्तदयं पुरः ॥ कथं गंतेति कारुण्या - दिवार्कोऽभ्युदितस्तदा ॥ १४४ ॥ भास्करेऽभ्युदितेऽनेश- लोकांकरणं तमः ॥ किं तेजस्तमसोः क्वापि । श्रूयते वा सह स्थितिः ॥ १४५ ॥ चूर्णीकृत्य फलं हार - सध्यङ्कव्यां निवेश्य तत् । चचाल कौतुकोत्ताल - स्ततोऽजातनुजः पुरः ॥१४६॥ पुरीपरिसरे वीक्ष्य | शृगालादीन् भ्रमत्तमान् ॥ किमुद्वसा? वसंती? वाs - स्त्येषेत्येष व्यतर्कयत् ॥ १४७॥ मध्ये पुरं गतो लोकं । सशोकं हतबंधुवत् ॥ श्रीपथं शून्यवत्पश्यन् । राजद्वारमवाप सः ॥ १४८ ॥ दुःखदग्धानिव श्याम-मुखान् दौवारिकानपि ॥ प्रेक्ष्य प्रक्षोभनिर्मुक्त-स्तानप्राक्षीदजासुतः ॥ १४९॥ केयं पुरी ? नृपः कोऽत्र ? । कुतो लोकः सशोकहृत्ः १ ॥कस्माद्यूयमपीदृक्षाः । दक्षाः ! मे ख्यात तत्त्वतः ॥ १५० ॥ तेऽवोचन् स्वःपुरीवैषा । पुरी नाम्ना शिवंकरा । अत्रास्ति नृपतिः प्रौढ-स्थाम्ना नाम्ना च दुर्जयः ॥ १५१ ॥ सोऽन्यदा वर्द्धिपापर्द्धिः । पाप निर्ययौ बहिः ॥ नैकैरनीकैः सोत्सेकै - राकंपितमहीतलः ॥ १५२ ॥ क्षेत्रपाला इव श्वाना- श्रिता रौद्राश्च केचन ॥ उद्यत्पर
सर्ग. २
॥ २६ ॥
Page #103
--------------------------------------------------------------------------
________________
श्वधाः स्थूलो-दराः केऽपि गणेशवत् ॥ १५३ ॥ अधःकृतवृषाः शूल-पाणयः केऽपि शंभुवत् ॥ गदाव्यग्रकराः श्याम-कायाः केऽपि मुरारिवत् ॥ १५४ ॥ मंडलायकराः प्रौढो-त्साहाः केऽपि जिगीषुवत् ॥ नृपभृत्या वभुस्तहि । मृगव्याबद्धबुद्धयः॥ १५५ ॥ त्रिभिर्विशेषकं ॥ श्वेडोभेरिधनुर्वान-रपि व्याप्तदिगंतरः ॥ कीनाश इव वन्यानामवनीशो वनेऽविशत्॥१५६॥ सारंगोऽवाप्तभंगो, रुरुरथ भयभृत्कृष्णसारोऽस्तसारो । गोमायुस्त्याजितायुः, कपिरपगतमुत्, खंडितांगश्च शंडः॥ मातंगस्त्यक्तरंगः, किरिरपि निपतद्विक्रमः, क्रोधसांद्रः। पारींद्रस्तत्र भूपे किरति-शरभरं तत्क्षणं जायतेस्म ॥ १५७ ॥ तत्सैन्या अपि भूयिष्ठ-तरवारिप्रहारतः॥श्वापदानापदाक्रांतां-श्चक्रिरे वारिवाहवत् ॥१५८॥ इत्थं मृगयया भव्य-स्त्रियेवापहृताशयः॥ विमुच्यानीकमात्मीयं । नृपो दूरतरं ययौ ॥ १५९ ॥ स ललाटंतपे पूष्णि ।। तृष्णाभरकदर्थितः॥ नीरार्थ काननेऽभ्राम्य-द्धनार्थमिव निर्धनः ॥ १६०॥ शिलोच्चये रत्नमिव । सौजन्यमिव दुर्जने ॥ मरुस्थले चूतमिव । स तत्र इदमैक्षत ॥ १६१॥ हृष्टस्तस्य सुधाकुंड-स्येव दर्शनतो नृपः॥ विवेश हंसवत्तत्र । पानीयं पातुमातुरः॥ १६२॥ पानादेवांबुनस्तस्य । स दुर्जयमहीपतिः॥ वैयाघ्र रूपमापेदे । जलोर्जितमहो महत् ॥१६३ ॥ किमप्यमृतमप्यंभ-स्तपस्तेज इवोज्ज्वलं ॥ दुराश्रयवशादासी-त्तस्यानर्थसमर्थकं ॥ १६४ ॥ तेनांभसा नृपं व्याघीभवंतं चान्वंगाप्तवान् । तत्सुतो नरसिंहाख्यो । निरैक्षिष्ट ससैनिकः॥१६५॥ हा मे तातस्य किं जात-मित्यसातनिपा
१ कुठारयुताः. २ धर्मः, पक्षे, बलिबईः, ३ मंडलानः-खड्गविशेषः. ४ मृगव्यं-मृगया तत्र आ-समन्ताद्धा-योजिता बुद्धिः-मतियस्ते तथा. ५ श्वेडाभरैः, प्र. ६ रु रुरुभयभृत् ।, प्र. ७ उत्सुकः ८ अन्वचू अन्वग्-अनुगामी.
SHUSHISHISAISASAISUUSASAASASUK
Page #104
--------------------------------------------------------------------------
________________
कुमारपालच०
॥२७॥
औषधादिकमवागिनं ॥ मस्तिकान् ॥ खातात्मजं ॥ अदेखि
AGRISOSTOSAS40664596
तिहत् ॥ जवातिपातितमरु-नरसिंहोऽभ्यधावत ॥१६६॥तावन्निरीय स व्याघ्र-स्त मेवात्मसुतं क्षुधा ॥ जग्रसेऽत्युग्रवदनः । क तैरश्चये विवेकिता? ॥ १६७ ॥ तथाभूतं नृपं दृष्ट्वा । तजग्धं च तदात्मजं ॥ अदेविषत तद्वर्या रोदःकुक्षिभरिस्वराः ॥ १६८॥धावंतं च क्रुधावंतं । जग्धुमन्यानपि स्वकान् ॥ श्रृंखलाभिर्विशालाभि-स्तं नियम्य कथंचन ॥ १६९ ॥ क्षिप्त्वा च पंजरे लौहे । महानर्थमिवांगिनं ॥ मंत्रिणोऽत्र समानीय । मध्ये सौधमतिष्ठिपन् ॥ १७०॥ युग्मं ॥ तस्य व्याघ्रत्वमुच्छेत्तुं । मंत्रयंत्रौषधादिकं ॥ मंत्रिणः कारयांचक्रु-स्तदुष्कर्मेव नागमत् ॥ १७१ ॥ मंत्रादिस्मरणं शुभानुसरणं पृथ्वीपसंसेवनं । शास्त्राद्यभ्यसनं गुणाधिगमनं सद्देवताराधनं ॥ शत्रुमोद्दलनं परोपकरणं रत्नाकरोल्लंघनं । दैवे हि प्रतिकूलतां कलयति व्यर्थ समस्तं नृणां ॥ १७२ ॥ स्वामिकष्टेन तेनायं । लोकः शोकवशंवदः॥ विधौ विधुतुदग्रस्ते । स्मेरः किं तत्करोत्करः ॥ १७३ ॥ तत् श्रुत्वाऽजासुतोऽवोच-द्यद्येवं तर्हि दर्यतां ॥ स व्याघ्रः शीघ्रमेवाहं । वितनोमि यथा नरं ॥ १७४ ॥ दौवारिकास्तदावेद्य । मंत्रिणे तन्निदेशतः॥ अजानंदनमानेषु-रुपकारमिवांगिनं ॥ १७५॥ तमभ्यु-18 त्थाय मंत्रींदु-रमंदानंदतुंदिलः ॥ निवेश्य चासनेऽनये । सप्रश्रयमदोऽवदत् ॥ १७६ ॥ प्राप्तरूप! त्वया भूप-स्वरूपं यादृशं पुरा ॥ द्वाःस्थाननादवाधायि । विद्यते ताहगेव तत् ॥ १७७॥ अद्य चास्य नृपस्याग्नि-द्रुमस्था कुलदेवता ॥ आराद्धा श्रद्धया स्वमे । समागत्येदमूचुषी ॥ १७८ ॥मा खिद्यथा वृथा मंत्रिन् ।। प्रातरस्य महीभृतः ॥न्यकरिष्यति तियेक्त्व-मजापुत्रः पवित्रधीः॥१७९॥ कोऽसावजासुतो? देवि ! संप्रति वावतिष्ठते॥कथं चायास्यतीत्युक्का। सा पुनः
१ तैरनो-प्र..(तिरक्षो). . २ दूरी करिष्यति.
चास्य नृपस्यातरूप ! त्वया
९॥ कोऽसावजामा खिद्यथा या
Page #105
--------------------------------------------------------------------------
________________
annorrtorony
प्रत्यवोचत ॥ १८०॥ महीमितस्ततो भ्राम्य-नानादेशदिवक्षया ॥ प्रांतरप्रांतविश्रांते । सोऽस्ति देवकुलेऽधुना ॥१८॥ *ज्योतिःप्रपंचमाधाय । तदालोकनलालसं ॥ अहमेव तमानेष्ये । का चिंता भवतामिह ॥ १८२॥ एवमाश्वासितो देव्यात
सांतःपुरपरिच्छदः ॥ त्वन्मार्ग मार्गयन्नस्मि । रोगीव भिषगुत्तमं ॥ १८३ ॥ अस्मद्भाग्यैरिवाकृष्टो । दिष्ट्येदानीं त्वमागमः॥ दाभक्त्वा च भूभुजः कष्टं । राज्यमेतत्सनाथय ॥ १८४॥ इत्युक्तः सचिवेनाजा-सुतो व्याघ्रांतिकं गतः॥ वहिद्मफल-18
क्षोदं । दत्वा मर्त्य व्यधत्त तं ॥ १८५॥ बालवदुर्जयनृपः । स्वस्वरूपस्य न स्मरन् ॥ किमेतदिति ? पप्रच्छ । विस्मितः सचिवोत्तमं ॥ १८६॥ वृत्ते तेनोदिते तस्मिन् । श्रुत्वा स्वेन हतं सुतं ॥ वज्राहत इव क्षमापो। मूर्छामानछे तत्क्षणं ॥ १८७॥ चंदनादिद्वैः सिक्त्वा । चैतन्यं प्रापितो नृपः॥ स्मारं स्मारं गुणान् पौत्रान् । पर्यदेविष्ट कष्टतः॥ १८८॥ हा सुजातक यातोऽसि । निजं तातं विमुच्य मां ॥ वत्स! वेत्सि न किं ? सोऽयं । मद्विना नैव जीवति ॥ १८९॥ लोके शास्त्रेऽप्यसिद्धं प्राग् । वैयाघ्रमिदमद्भुतं ॥ तवैव मृत्यवे मन्ये । दैवेन मम निर्ममे ॥ १९० ॥ स्वयं विनाश्य |
वत्स !त्वां। कमिदानीमुपालभे ॥ उपालभ्यो भवत्यन्यो । न ह्यर्थे स्वेन नाशिते ॥१९१॥ स्वयं स्वपुत्रहननं न म्लेच्छै-18 नरपि जन्यते ॥ कृतिन् ! कृतवतस्तन्मे । गतिः कीदृग्न संविदे ॥ १९२ ॥ विलपन्निति भूमीपः । सचिवाद्यैः प्रबोधितः॥
पुत्रौर्वदेहिकं चक्रे । नेत्राणि निवापयन् ॥ १९३ ॥ अथामात्यमुखाद् ज्ञात्वाड-जापुत्रं स्वोपकारिणं ॥ तद्दर्शनादपि | प्रीतः । प्रोचे तमिति दुर्जयः ॥ १९४ ॥ महःस्तोमस्तवैवोच्चैः । सखे ! यद्भास्वता त्वया ॥ आशु प्रणाशयामासे । ममेह
१ अरण्यान्तसंस्थिते. २ पातयन, ३ सूर्यः.
Page #106
--------------------------------------------------------------------------
________________
कुमार
406464
ग्दुर्दशानिशा ॥१९५॥ तवोपकर्तुरनृणः । कथं ? स्यां सर्वदोऽप्यहं॥ यज्जीवितप्रदस्यास्ति । निष्क्रयो न जगत्यपि ॥१९६॥ पालचर 18| उपकर्तुन समः स्यात् । प्रत्युपकर्तोपकारशतकृदपि ॥ कुरुते यददृष्टगुणः। प्रथमोऽन्यः पुनरवाप्तगुणः॥१९७ ॥ तथापि
द स्फूर्जदुर्जस्वि-वैभवाभोगभागिदं ॥ मम राज्यं समासाद्य । मां मनागप्यपर्णय ॥ १९८ ॥ अजासुतस्ततः प्रोचे । साधु ॥२८॥
साधु धराधिप!॥ यस्यैवं श्रीरिवांभोजे । कृतज्ञत्वेऽस्ति धीरहो ॥ १९९ ॥ तव राज्यं ममैवैत-द्यथेच्छं भुज्यतां त्वया ॥ नवरं सूयतां मैत्री। सतां सा हि प्रियंकरा ॥ २०॥ वितरति मतिं हंति क्लेशं, निगृहति दूषणं । प्रथयति गुणवातं, सातं तनोति धिनोति च ॥रचयति यशः, सूते धर्म,प्रसारयति श्रियं, सृजति महतां मैत्री किं? न प्रियं सुरधेनुवत्॥२०१॥ प्रतिपद्य तदुक्तं तत् । स्नेहसिंधुः स्वबंधुवत् ॥ भोगैर्नवनवैर्दिव्यै-भूपतिस्तमतूतुषत् ॥ २०२॥ सिद्धवदर्शयन् राज्ञे । कलाकौशलमद्भुतं ॥ अजापुत्रोऽपि तत्रस्थः । कियत्कालमगालयत् ॥ २०३॥ वैयाघ्रकारि तद्वारि-विलोकनकृतेऽर्थितः ॥3 | आजेयेन तदन्वीतः। प्रतस्थे दुर्जयः पुरात् ॥ २०४॥ श्लोका इव कवेर्वक्रा-न्मार्गणा इव कार्मुकात् ॥ अश्ववारास्तरस्वंत-स्तत्पृष्ठे निरयासिषुः ॥२०५॥ महीं महीयसी क्रांत्वा । क्वचिदंतर्वणं नृपः ॥ इदं स्वसुहृदश्छन्न-वार्धिवत्तमदीदृशत् ॥ २०६॥ सच्चित्तमिव गंभीर-मपि कुम(ग्रा)हसंगतं ॥ मुनिवद्वत्तसंयुक्त-मपि श्रितकुशासनं ॥ २७ ॥ स्वच्छांबुमपि नीलान-लीनालित्विड्डरादिव ॥ अंतःप्रतिफलढ्योम-संगादिव शितिद्युतिं ॥२०८ ॥ स्वोत्संगलालितैः पझैः। पुत्रैरिव परिष्कृतं ॥ जीवनप्राप्तिसंतुष्टैः । खगैर्भटैरिवाश्रितं ॥२०९॥ अजापुत्रस्तमालोक्य । इदं हृदि परामृशत् । जह१ समासज्य, प्र. २ कुत्सितप्रह ( कदाग्रह ) युक्तं, पक्षे, कुत्सितजलजंतुयुक्तं.३ कुप्रवर्तनं, पके, दर्भ (डाभ.) असनः-वृक्षविशेषः. ४ प्रतिविम्बीभवतू. ५ कृष्णं.
6 4SHAROSLOGOS
॥२८॥
Page #107
--------------------------------------------------------------------------
________________
Nont
| स्याप्यस्य कीदृक्ष-महो महिम वल्गति ॥ २१०॥ चतुर्भिः कलापकं ॥ अभ्यधाद्भूधवः पश्य । तद्वयस्य ! पयः पुरा ॥18॥ व्याघ्रत्वं येन कृत्वा मे । त्वं मित्रं समगम्यथाः॥२११॥ यद्यज्ञानवशादेत-नापास्यत मया पयः॥ अलप्स्यत कथं तर्हि । त्वाद्दग्मित्रं सुदुर्लभं ॥ २१२ ॥ स प्रोचेऽन्योदकादस्य । न रूपे किंचिदंतरं ॥ शक्तिः कस्मादियं यद्वा । विचित्रा वस्तुनिर्मितिः॥ २१३ ॥ तयोर्वार्तयतोरित्थ-मुन्ममज इदात्तदा ॥ कोऽपि द्विपः पयोराशे-रैरावण इवापरः॥२१४ ॥ वारिरिव कराघातै-भूयसीलहरीदलन् ॥ शेवालावलिमाकर्षन् । पल्लग्नां श्रृंखलामिव ॥ २१५ ॥ इदमध्यात्स निर्गत्य । मायामय इव द्विपः ॥ अजासूनुं समाकृष्य । विवेश सहसांभसि ॥ २१६ ॥ युग्मं ॥ पश्यतोहरवन्मित्रं । हृत्वा हस्तिन् । क यासिरे ॥ इत्युक्त्वात्तकृपाणस्त-त्पृष्ठेऽधाविष्ट भूधवः ॥ २१७ ॥ नीरे करी पुरो याति । पृष्ठे भूपो निषादिवत् ॥ अधोऽधो ब्रजतोरेवं । तयोर्दती तिरोऽभवत् ॥ २१८ ॥ अपश्यन् काश्यपीशस्तं । सवयस्यमपि द्विपं ॥ फालच्युत इव द्वीपी। विषादपदमादधौ ॥ २१९ ॥ पश्यत्येव मयि क्वायं । जग्मिवानिति विस्मयात् ॥ पुरः सर्पन्निरैक्षिष्ट । सौधं स्वर्णमयं नृपः ॥२२०॥ चंचत्कांचननिर्यातैः । कांतिपूरैः प्रसृत्वरैः ॥ बालार्करश्मिभिरिव । पिंजरीकृतदिभुखं ॥ २२१॥ विमानमिव निघूत-रजस्कं सुमनः श्रितं ॥ दृष्ट्वा तन्मंदिरं माद्य-दिन्दिरं व्यमृशन्नपः ॥२२२॥ युग्मं ॥ व स हस्तीक तन्मित्रं । इदःकसी पयः क्व तत्? ॥ क्वेयं ? भूमंदिरं क्वैतत् ? । किमिदं ? स्वप्नसन्निभं॥२२३॥ तस्मिन् सौघे प्रविश्याथ । क्षमानाथस्तदंतरे ॥ ददर्श चंडिकां देवीं । दिव्यपूजां ननाम च ॥ २२४ ॥ दंतिना ही हृतं मित्रं । मदग्रेऽत्रायिनो मया ॥
१ पुरः, प्र. २ वारिः-गजबन्धनरज्जुः.३ व्याघ्रः.
orty
Page #108
--------------------------------------------------------------------------
________________
कुमार
घिग् मामित्यनुतापाग्नि-तप्तस्वांतः स दुर्जयः॥ २२५ ॥ तस्याः पुरः शिरःपद्मं । तत्सपर्याचिकीरथ ॥ खगेन छेत्तुपालच० मारेभे । कापि मैत्री सतामहो ॥ २२६ ॥ युग्मं ॥ छिनत्ति नृपतिर्याव-च्छिरः कमललीलया ॥ तावद्देवी पुरो
भूय । तमाचष्ट प्रकृष्टरुक् ॥ २२७ ॥ हहा मास्म कृथा राजन् ! शिरश्छेदं सुहृत्कृते ॥ संगस्यते तवावश्यं । षण्मास्यंते स ॥२९॥
पुण्यतः॥ २२८ ॥ ततः कर्णे प्रविश्याऽस्य । समादिश्य च किंचन ॥ वितीर्य चौषधं दिव्यं । देवी स्वपदमासदत्॥२२९॥ तावता स्त्रितमा काचि-द!पकरणान्विता ॥ देवी पूजयितुं तत्र । प्राप शृंगारभारिणी ॥ २३०॥ तां निपीय नृपो दध्यौ । नूनमेषा न मानवी ॥ यन्मां दृष्टुमिवैतस्या। निर्निमेषा दृशो यी ॥ २३१ ॥ यद्वाऽसौ रतिरेवास्ते । लावण्यैकनिकेतनं ॥ यदस्या दर्शनेनापि । कामः स्फुरति सर्वतः ॥ २३२ ॥ इति ध्यायति धात्रीशे । चंडिका परिपूज्य सा॥ स्मराशुगैरिवाऽकृष्टै-स्तं कटाक्षरऽमूमुहत् ॥ २३३ ॥ तस्या नृपस्य पश्यंत्या । वक्रतुं कांतिकोमलं ॥ उद्वेलतां दधारोच्चैरुचितं रागसागरः॥२३४ ॥ नृपदर्शनमात्रेऽपि । सा स्त्री स्मरभरातुरा ॥ काक्षेण प्रेक्षमाणा तं । यथागतमगात्ततः
॥२३५॥ केयं? कस्मादकस्माद-प्यायाता? मां च किं ? मुहः॥ स्मेरस्मरं निरैक्षिष्ट । न्यस्यंती स्नेहले दृशौ ॥२३६॥ इति Kध्यायंतमंतस्तं । नृपमागत्य सुंदरी ॥ काचिदूचे क्षरंतीव । सुधां भणितिभंगिभिः॥ २३७ ॥ राजनिहास्ति मत्तेभ
गामिनी स्वामिनी मम ॥ सर्वांगसुंदरी नाम्ना । धाम्ना च व्यंतरी किल ॥ २३८॥ देवी पूजयितुं साऽत्र । प्राप्ता रतिपतेरिव ॥ तवालोकाद् दृढप्रेमा। त्वामाह्वयति वेश्मनि ॥ २३९ ॥ तत्प्रसीदाधुनैव त्व-मलंकुरु तदालयं ॥ तत्कृतं सत्कृतं
१ वि. प्र. २ सर्ग. २ श्लो. ३२७ उत्तराई. ३ निरीक्ष्य. ४ कुत्सितं अक्ष-नेत्रं अत्र कोः कादेशः कटाक्षेण इत्यर्थः. ५ देहेन. ६ व्यंतरदेवी.
ANSAR
SLOGANSAUGASCASAISESTASIES
॥२९॥
Page #109
--------------------------------------------------------------------------
________________
सर्व । गृहाणानुगृहाण च ॥ २४० ॥ अहो मे भाग्यमत्युग्र - मिति हर्षप्रकर्षभाक् ॥ दुर्जयस्तां पुरस्कृत्य । जग्मिवान् व्यंतरी गृहं ॥ २४९ ॥ तन्मध्ये क्वापि सोत्पद्माः । स्फाटिकी: केलिदीर्घिकाः ॥ वापि पुष्पभ्रमद्भृंगी संगीतमुखरा वनीः ॥ २४२ ॥ क्वापि प्रसूनशय्याति - शीतलान् कदलीगृहान् ॥ क्वापि दासीः समुद्दीप्य - मानाभरणडंबराः ॥ २४३ ॥ कापि कीरान् सुधासिक्त – सूक्ताभ्यसनलालसान् ॥ क्वापि हेलाकृतोत्फाल —- लीलान् कस्तूरिकामृगान् ॥ २४४ ॥ क्वापि कर्पूरकस्तूरी - श्रीखंडघुसृणोत्करान् ॥ पश्यन् नृपोऽतिबिस्मेरो । व्यंतरी पार्श्वमाश्रयत् ॥ २४५ ॥ चतुर्भिः कलापकं ॥ व्यंतर्याऽथ तया दिव्यैः । स्नानवस्त्रासनादिभिः ॥ वितत्य तथ्यमातिथ्यं । जगदे दुर्जयप्रभुः ॥ २४६ ॥ देव ! त्वदर्शनेsप्याप्त - स्फीतप्रीतिरहं हृदि ॥ त्वामर्थये प्रसीदात्र भोगान् भुंक्ष्व मया समं ॥ २४७ ॥ इदं सौधमियं लक्ष्मी - रेषाऽहं प्रीतिरीतिभृत् ॥ अयं च मत्परीवारः । सर्व स्वीयं विमृश्यतां ॥ २४८ ॥ तदंगीकृत्य रंगेण । शृंगारभरभासुरां । नृपस्तां रमयामास । देवो देवीमिवोन्मदां ॥ २४९ ॥ स वसंस्तादृशे स्थाने । रमयन् व्यंतरीं च तां ॥ नामन्यत तृणायापि । स्वर्गे संतं शचीपतिं ॥ २५० ॥ दैवे सत्यनुकूले स्या - द्विपत्तिरपि संपदे ॥ न चेत्तस्य कथं जातं ? । सातं हृदनिपाततः ॥ २५९ ॥ तत्रानंदमयस्यापि । दुर्जयस्य हृदन्वहं ॥ एकं दुःखं करोति स्म । वयस्यविरहो महान् ॥ २५२ ॥ अथाजातनयं हृत्वा । गत्वा चाधोहदाध्वना ॥ स करी व्यंतरावास - भूमौ मुक्त्वा तिरोदधे ॥ २५३ ॥ अदृष्टपूर्वा तामूर्वी । सर्वां नानामणीमयीं ॥ पश्यन् स्वमान से मेने । रत्नराशिखनीमसौ ॥ २५४ ॥ कोऽसौ करी किमर्थं मा-मिहामुंचत् स्वयं क्व
१ कस्तूरिकाहेतुर्मृगः - कस्तूरिकामृगः १ केसर कुंकुम. ३ वृंद्ध. ४ एको दुःखाकरोति स्म. प्र.
Page #110
--------------------------------------------------------------------------
________________
कुमार
दसः॥ इति ध्यायंतमाजेयं । व्यंतरः कोऽपि दृष्टवान् ॥ २५५ ॥ अहो मनुष्यकीटोऽयं । कथमत्रेति कौतुकात् ॥ स सुरो पालच. व्यंतरेंद्रस्य । स्थानमानयति स्म तं ॥ २५६ ॥ स्वर्णप्राकाररोचिष्णु। रत्नोच्चकपिशीर्षकं ॥ मणिनद्धतलोवींकं । रंगदुत्तुंग
तोरणं ॥ २५७ ॥ क्रीडास्थानमिव श्रीणां । रतिस व चेतसां ॥ स्तंभौषधमिवाणां स व्यंतरद्रङ्गमैक्षत ॥२५८॥ युग्मं ॥ ॥३०॥
तत्र द्विधापि सच्छायान् । द्विधापि प्रेक्षणोचितान् । द्विधाप्यतुल्यकल्याणान्-पश्यन् वैयंतरान् गृहान् ॥२५९॥ लावण्यानामधिष्ठात्रीः। श्रृंगारस्यैकजीविकाः॥ प्राणान् कुसुमचापस्य । व्यंतरीः स्वेन मोहयन् ॥२६०॥ देवीविरचितस्फीतसंगीतकुतुकामृतं ॥ अदृष्टपूर्व स्वमेऽपि । स्वादयन् लोचने भृशं ॥ २६१॥ देवद्रुमसुमोत्पन्न-रामोदनासिकंधयैः ॥ सानंदो नंदनोऽजाया । व्यंतरेंद्रगृहेऽविशत् ॥२६२॥ चतुर्भिः कलापकं ॥ तत्रेद्रपरिषत्सर्व-श्रीगर्वपश्यतोहरे॥ प्राचीनादीनपुण्यदु-फले च सदसि स्थितं ॥ २६३ ॥ अंतराले दिविषदां । दीप्यमानं महौजसां ॥ तारकाणां समुदये । शारदोच्चैःशशांकवत् ॥ २६४ ॥ करुणारसपाथोधि । दाक्षिण्यैकनिकेतनं । सेवकेप्सितकल्पहूँ । व्यंतरेंद्रं स दृष्टवान् ॥ २६५ ॥ त्रिभिर्विशेषकं ॥ प्रणेमिवांसं तं प्रीति-मांसलो व्यंतरेश्वरः॥ कस्त्वं ? कथमिहायासी-रिति प्रनितवान् स्वयं ॥२६६॥ वृत्तांते तेन विज्ञप्ते । व्यंतरेशस्तमूचिवान् ॥ स्वपितुर्वेश्मनीवेह । तिष्ठ त्वमकुतोभयः ॥ २६७ ॥ स्वाम्यादेशादसौ देवैदेवीमिश्च स्वबंधुवत् ॥नापितोऽलंकृतो दिव्यं । भोजनं च विधापितः ॥२६८ ॥ बहुप्रकारैः सत्कारै-रुदारैरादरात् सदा ॥ |पितेव व्यंतरेंद्रस्त-मजापुत्रममूमुदत् ॥ २६९ ॥ सुधासधर्मया, धर्म-गोष्ट्या कौतूहलैः कलैः॥ सोऽभवत् सर्वदेवीनां ।
१ आतपाभावेन,कान्त्या च, सहितान् २ नृत्योचितान् दर्शनोचितांच. ३ प्रचुरसुखान्, प्रचुरसुवर्णाश्च, ४ महौजसा, प्र.
॥३०॥
-मजापुत्रम मुदत तो दिव्यं । भोजन नावह । तिष्ठ त्वमकुतीयासी-रिति प्रतिवादवान् ॥ २६५ ॥
Page #111
--------------------------------------------------------------------------
________________
निजात्मेवातिवल्लभः ॥ २७० ॥ शुश्रूष्यमाणो देवीमि-दिव्यषस्त्रासनादिभिः ॥ स मानी मन्यते स्म स्वं, नरमप्यमरं हृदि ॥ २७१ ॥ अजापुत्रोऽन्यदाऽप्राक्षी-व्यंतरेंद्रं कुतूहलात्॥ एतस्या व्यंतरक्षोणे-रधस्तादस्ति किं प्रभो ! ॥२७२॥ स माह सप्त नरका, दुःखापवरका इव ॥ नारका येषु तिष्ठति, विपक्रिमविपन्मयाः॥ २७३ ॥ कथं पश्याम्यहं तानित्युक्ते तेनातिकौतुकात् ॥ गुरुवत् स्वकर न्यास्थ-त्तन्मूर्ध्नि व्यंतरेश्वरः ॥ २७४ ॥ तत्प्रभावादसौ सिद्धां-जनन्यासादिव क्षणात् ॥ ज्ञानीव दिव्यचक्षुस्त-दर्शने शक्तिमानभूत् ॥ २७५ ॥ रत्नप्रभादयः सप्त । नरकक्षोणयः क्रमात् ॥ अधोऽधो विस्तृतास्तेन । तदा वीक्षांबभूविरे ॥ २७६ ॥ तासां मध्ये क्रमेणैवा-थ त्रिंशत्पंचविंशतिः ॥ पंचदश दश तिम्रो-लक्षा लक्षा च पंचमुक् ॥ २७७ ॥ पंचान्ये, चतुरशीति-लक्षा निःशेपसंख्यया॥ दुर्गधाः प्रसरत्पूति-वसारक्तादिपंकिलाः॥ २७८ ॥ रत्नप्रभादित्रितये, भृशोष्णा ज्वलनादपि ॥ चतुर्थ्यामूर्द्धमत्युष्णा-घनाः शीतास्त्वधोऽल्पकाः ॥ २७९ ॥ पंचम्यां बहवोऽत्युष्णाः, स्तोकाः शीता हिमादपि । षष्ठयां सप्तम्यां च क्षमायां, शीता एव समंततः ॥ २८०॥ गर्भावासा इवादृष्ट-निर्गमास्तमसावृताः॥ अजापुत्रेण नरका-वासास्ते व्यालुलोकिरे ॥२८१॥ पंचभिः कुलकम् ॥ अंबाचैर्निर्दयैस्तत्र । परमाधार्मिकैः सुरैः॥ आरोप्यमाणान् शूलासु । दिप्यमाणांश्चिताऽग्निषु ॥२८२॥ आस्फाल्यमानान् वज्रा इम-कंटकेषु शितेष्वलम् ॥ आरादिभिर्विध्यमानान् , बद्ध्यमानांश्च रजुभिः॥ २८३ ॥ पशुत्रिशूलकुंतासि-कृपाणीशक्ति. तोमरैः॥ आकृष्यमाणोदरह-द्वसामांसांत्रकालकान् ॥ २८ ॥ भज्यमानशिरोबाहु-कटीपाणिक्रमांगुलीन् ॥ पच्यमाना
१ बुभूजिरे-अ । बुभूविरे-प्र.
**CUSCITECOSTEGHCUTE
फु..पा.च.६
Page #112
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ ३१ ॥
न्महाकुंभी - कुंडपचनकादिषु ॥ २८५ ॥ तेषामेव शरीरेभ्य-रिछत्वा छित्वा क्षुरादिभिः ॥ मांसखंडानि सास्थीनि । स्वाद्यमानान्मुहुर्मुहुः ॥ २८६ ॥ असिपत्रवनं नीतां श्छायार्थं तन्निपातिभिः ॥ खड्गाद्यैश्छिद्यमानौष्ठ - नासाकर्णकरकमान् ॥ २८७ ॥ त्रटत्त्रटदिति स्पष्ट — स्फुटदस्थिरवोल्बणम् ॥ भृज्यमानांश्च धानाव- दत्युष्णे वालुकोञ्च्चये ॥ २८८॥ वैतरिण्या वसापूति - केशास्थिरुधिरस्पृशः ॥ तप्तत्रपुप्रवाहेषु । क्रीड्यमानाननेकधा ॥ २८९ ॥ पाय्यमानान् भृशोष्णानि, तैलताम्रत्रपूणि च । वज्रास्यकीटिकाभिश्च, सीव्यमानोष्ठपल्लवान् ॥ २९० ॥ साक्षादाग्नेयकीलाभिः । पुत्रिकाभिः सहासकृत् ॥ वज्रकंटकशय्यासु । शाय्यमानान् बलादपि ॥ २९९ ॥ अधोमुखानूर्द्धपदान् । लंबयित्वा पशूनिव ॥ भृष्टान् विधाय वज्रानौ । कर्त्यमानप्रतीककान् ॥ २९२॥ चूर्ण्यमानान्महामुष्टि- घातैः पर्पटकूटवत् ॥ करपत्रैर्निशितायैः । स्फाट्यमानांश्च काष्ठवत् ॥ २९३ ॥ आयसैर्लकुटैः स्फोट्य-मानान्निर्जीर्णभांडवत् ॥ आहन्यमानान् रजक - वस्त्रवन्निविडाश्मसु ॥ २९४ ॥ एष मे प्राच्यवैरीति । संकल्पानल्पकोपतः ॥ मिथः शस्त्रशताघात - पातजातकदर्थनान् ॥ २९५ ॥ अतिव्यथाऽऽतुरत्वेन । वात्योच्छालितपत्रवत् ॥ योजनानि पंचशती - मूर्द्धमुच्छलतस्तलात् ॥ २९६ ॥ सप्तसु क्षेत्रसंभूतां, | विना शस्त्रैर्मिथः कृताम् ॥ पंचसु क्ष्मासु शस्त्रोत्थां, तिसृष्वमरनिर्मिताम् ॥ २९७ ॥ दशप्रकारमन्यां च । क्षुतृष्णाद्यां
१ नेरइया णं दसविहं वेयणं पचणुभवमाणा विहरंति, तंजा— सीयं १ उसिणं २ ई ३ पिवास ४ कंडे ५ परभं ६ भयं ७ सोगं ८ जरं ९ बाहिं १० वेदना-पीडा तत्र शीतस्पर्शजनिताशीता ताम् सा च चतुर्थ्यादिनरकपृथ्वीषु इति १ एवमुष्णा प्रथमादिषु २ क्षुधं बुभुक्षाम् ३ पिपासां - तृषम् ४ कंडं खर्जूम् ५ परम्भंतिपरतंत्रताम् ६ भयं मीतिम् ७ शोकं दैग्यम् ८ जरां वृद्धत्वम् ९ व्याधि-ज्वरकृष्टादिकमिति १०
सर्ग. २
॥ ३१ ॥
Page #113
--------------------------------------------------------------------------
________________
महाव्यथाम् ॥ सहमानान्निमेषाधे-मपि सौख्यपराअाखान् ॥ २९८ ॥ श्यामान जुगुप्स्यान लूनांगा-निर्गतांत्रभयंकरान् ॥ नारकांस्तनयोऽजाया। निन्ये दृक्पथपांथताम् ॥२९९॥ अष्टादशभिः कुलकम् । तद्दुःखदर्शनात्तस्य । साक्षादनुभवादिव ।। अजापुत्रोऽतिमूछोलो । मृतवन्यपतद् भुवि ॥ ३०॥ व्यंतरप्रकृतैः शीतो-पचारैः प्राप्य चेतनाम् ॥ निर्वेदमेदुरोऽध्यासी-च्चेतसीति भवस्थितिम् ॥ ३०१॥ धिग्धिग्भवमिमं यस्मिन्, मधुबिंदूपमं सुखम् ॥ दुःखं त्वर्णवविस्तीर्ण, लभंते हंत | जंतवः॥ ३०२॥ पिग्धिजंतूनिमान् बह्वा-रंभसंरंभिणोऽन्वहम् ॥ ये नुन्ना इव तज्जात-पातकैर्निपतंत्यधः॥ ३०३ ॥ आपातमात्रसरसं, परिणामेऽतिनीरसम् ॥ किंपाकफलवद् दुष्टं, धिग्धिक् पापतरोः फलम् ॥३०४॥ तावन्न शांतिमायाति । तापः पापभवो भवे ॥ यावद्धर्मामृतं मन्ये । मनोहत्य न पीयते ॥ ३०५॥ तत्प्राप्य स्वपदं किंचि-दात्मनीनं करोमि तत् ॥ ममात्मा येन शांतः सन् । सर्वतो निर्वतो भवेत् ॥ ३०६ ॥ अथाजातनयोऽत्यर्थ-मभ्यर्थ्य व्यंतरेश्वरम् ॥ आपपृच्छे सरस्तीरं, गंतुमुत्कंठुलाशयः ॥ ३०७॥ गुटी रूपपरावर्त-प्रवणां व्यंतराधिपः॥ वितीर्य तं सरस्तीरे । व्यंतरैः स्वैरमूमुचत् ॥ ३०८ ॥ अथापश्यनजापुत्र-स्तत्र तं दुर्जयं नृपम् ॥ तद्दिदृक्षार्थमारुक्षत् । पक्षिवत्पालिपादपम् ॥ ३०९॥ नृपसैन्यास्तदा दैन्यात् , तं पप्रच्छु/शोत्सुकाः । अस्मन्महीपतिः क्वेति, न जानामीति सोऽप्यवक् ॥३१०॥ तेऽवोचस्त्वां
१ संकप्पो संरंभो, परितावकरो भवे समारंभो ॥ आरंभो उद्दवओ, सबनयाणं वि सुद्धाणं ॥१॥ प्राणातिपातं करोमीति य संकल्पः स संरंभः,परस्य परितापकरो य व्यापारः स समारंभः, अपद्रावयतः-जीवितात् परं व्यपरोपयतः व्यापारः आरंभः, एतच्च समारंभादित्रितयं सर्वनयानामपि शुद्धानां प्राकृतस्वात् अशुद्धानां वा सम्मत,IG २ श्रद्धाप्रतिघातं कृत्वा इत्यर्थः.
SASARASOSCHISSA!
Page #114
--------------------------------------------------------------------------
________________
कुमार
सरस्तीरात् । कृष्ट्वा मग्ने द्विपेऽम्भसि ॥ तत्पृष्ठतोऽन्वधाविष्ट । नृपः कष्टमयाशयः॥ ३११॥ अनुहृदं तटे भूपं, शरीर इव | पालच० नदेहिनम् ॥ सेवका मृगयांचक्रुः, परं नालप्सत क्वचित् ॥३१२॥ अस्माभिरपि देशेऽस्मिन् । बंभ्रमद्भिरविश्रमम् ॥ नाल-
भ्यत नृपो धर्म । इवाभव्यात्मनिर्भवे ॥ ३१३ ॥ नृपाप्राप्त्याखिलः पौर-वर्गः संसर्गितः शुचा ॥ निजींव इव वैकल्यं, ॥३२॥
कलयन्नस्ति सर्वतः॥३१४ ॥ हाहा कि मत्कृते जातं,कृतिनस्तस्य तत्स्वयम् ॥ उपेत्य व्यंतरेशं तं, पृष्ट्वा च मृगये नृपम् ॥ ३१५ ॥ अजासुतो विमृश्येति । जलकेलिचिकीरिव ॥ ह्रदंतरे ददौ झंपा, शंपासंपातसन्निभाम् ॥३१६॥ युग्मम् ॥ त्रैलोक्योपकृतौ कृतीति तपैने प्रीति व्यधाद्वासर-स्तेनाप्यस्य॑ पृथुप्रकाशजननी काऽपि प्रतिष्ठा ददे ॥ अस्तं यांतममुं विलोक्य || विकलः सोऽप्येतदास्तिनुते । मैत्री धर्मपतंगयोरिव भवेत् पुण्यात् कयोश्चिद् दृढा ॥ ३१७ ॥ विना व्यंतरसाहाय्यं । मजन इदजलांतरे ॥ अजासुतः कटी याव-मकरेणाशु जग्रसे ॥३१८॥ तावद् इदांबुमाहात्म्या-द? व्याघ्रीबभूव सः॥ शशाक कवलीकर्तु, मकरोऽपि न तं ततः ॥ ३१९ ॥ अजासुतकटीसत्क-चूर्णव्यामिश्रवारिणः॥ आस्यप्रवेशतः सोऽपि । मकरः समभून्नरः॥ ३२० ॥ स ताहगर्धे मनुजो, व्याघ्रोऽर्धे चापचेतनः । लहरीप्रेरितस्तीरे, लग्नो हा विधि-18 वलिगतम् ॥३२॥ ध्यायत्यन्यत्पुमांश्चित्ते । विधत्तेऽन्यत्पुनर्विधिः॥ गच्छन्नपार्थमाजेयो । यत्स्वयं व्यसनेऽपतत् ॥३२२॥ सुधीरपि समर्थोऽपि । किं ? विधत्ते हहा नरः॥ विनैव कारणं यस्य । विधिर्वैरायतेऽन्वहम् ॥ ३२३ ॥ तदा च दैवयो-12 |गेन । क्ष्मातला रंतुमागताः॥ दास्यः सर्वांगसुंदर्या । व्यंतर्यस्तं व्यलोकयन् ॥३२४॥ रूपं नरद्वीपिमयं । किमिदं नरसिंह-द्र
१ अस्मिन् हृदतटे-प्र. २ विद्युत्. ३ सूर्ये. ४ दिवसः. ५ सूर्येण, ६ वासरस्य. ७ सूर्य, ८ वासरः. ९ अस्तं. १० प्राप्नोति. ११ दिवससूर्ययोः.
सः ॥ शशाक भून्नरः ॥ ३२० ॥ स ताऽन्यत्पुनर्विधिः ॥ गच्छावरायतेऽन्वहम् ॥ ३२ किमिदं नरसिंह हैं सोऽपि । मकरः ॥ध्यायत्यन्यत्पुमांश्चित्ते । विधाविनैव कारण यस्य ।।
Page #115
--------------------------------------------------------------------------
________________
वत् ॥ इत्याश्चर्येण तं नीत्वा । ताः स्वामिन्याः पुरोऽमुचन् ॥ ३२५ ॥ तत्रस्थो दुर्जयो राजा । तं निभाल्य तथाऽद्भुतम् ॥ किमेतदिति चित्तांत - चंडिकावाचमस्मरत् ॥ ३२६ ॥ शिरश्छेदक्षणे तर्हि । देव्योक्तमभवन्मम ॥ षण्मास्यं ते वयस्यं त्वं, दृष्टा नृद्वीपिरूपिणम् ॥ ३२७ ॥ ततः 'क्षितिक्षिता देवी - दत्तौषधरसोक्षितात् ॥ अजासुतो विनिर्यातो नृभूतमकराननात् ॥ ३२८ ॥ मकरस्तु तथैवास्था - न्मानवाकारधारकः ॥ जातौ च देवयोगेन । तावुभावपि चेतनौ ॥ ३२९ ॥ अजापुत्रः परिज्ञाय, राज्ञाऽऽश्लिष्यत निर्भरम् | अंतर्वेशयितुमिव, तद्वियोगव्यथातुरम् ॥ ३३० ॥ मिथोऽद्भुतस्ववृत्तांत-कथनामृत सेचनैः ॥ तावुभौ चक्रतुः प्रीति- वल्लीपल्लवनं चिरम् ॥ ३३९॥ देव्या सर्वांगसुंदर्या । भूभुजाऽपि सगौरवम् ॥ स्थापितोऽजासुतस्तत्र । तस्थितवान् मकरान्वितः ॥ ३३२ ॥ अजापुत्रोऽन्यदाऽवादीत् । प्रीतस्तं दुर्जयं प्रति ॥ सांद्रदंतस्फुरज्ज्योस्ना - धवलीकृतदिङ्मुखः ॥ ३३३ ॥ देव ! पश्चाद्भवद्राज्ये । भावत्कविरहार्त्तितः ॥ अस्त्यग्निमग्नवद् दुःखी । समस्तोऽपि परिच्छदः ॥ ३३४ ॥ तद्गम्यतां निजं स्थानं । स्वदर्शनसुधारसैः ॥ सितांशुनेव देवेन । स द्रुतं परिषिच्यताम् ॥ ३३५ ॥ श्रुत्वा तत् स्वपुरं गंतुं । विंध्यं गज इवोत्सुकः ॥ सर्वांगसुंदरीदेवी - मापपृच्छे महीपतिः ॥ ३३६ ॥ भविष्यद्विरहाय सा । चक्रवाकीव विक्लवा ॥ मैन्यूत्पीडस्खलद्वाक्यं । नृपमेवं व्यजिज्ञपत् ॥ ३३७ ॥ देव ! त्वां सरसस्तीरे । स्थितं रूपातिमन्मथम् ॥ दृष्ट्वा रिरंसया प्राप्ता । दास्यो मह्यं न्यवीवदन् ॥ ३३८ ॥ त्वद्रूपश्रवणादेव । प्राच्यजन्मवधूरिव ॥ संजाताऽहं त्वयि प्रेम - मदनोन्मादसादरा ॥ ३३९ ॥ ततस्त्वामन लंभूष्णु- र्हर्तुं पुण्यवतां मणिम् ॥ अहार्ष करिरूपेण । त्वन्मित्रं ० २२९ ४ - प्र. ५ शोक.
१ सर्ग० २ श्लो० २२९. २ क्षितिमीष्टे इति क्षितिक्षित् तेन क्षितिक्षिता भूपेन- दुर्जयराजेन इत्यर्थः ३ सर्ग० २
Page #116
--------------------------------------------------------------------------
________________
कुमारपालच०
त्वयि पश्यति ॥ ३४०॥ तद्दुःखेन त्वमत्रागा, राजन् ! मद्भाग्ययोगतः॥ इयच्चिरं त्वया साधं, भुक्तं लोकोत्तरं सुखम् ॥३४१॥ यियाससि निजं स्थानं, यदि त्वं तर्हि किं ब्रुवे ॥ यियासुश्च मुमूर्षुश्च, निषिद्धौ हि न तिष्ठतः॥ ३४२॥ परं मम मनः स्वामि-स्त्वया सार्धं समेष्यति ॥ प्रस्थिते हि मनोनाथे । मनस्तिष्ठेन्न भृत्यवत् ॥३४॥ किंचजन्मोत्तमं नृणां। शश्वत् स्वैरविहारिणाम् ॥ स्त्रीणां तु गर्हितं याव-जीवं परवशात्मनाम् ॥ ३४४ ॥ जन्माभावो वरं भूया-मोक्ष| सौख्यैककारणम् ॥ न तु जन्मांबुजाक्षीणां । सर्वदुःखाप्तिलग्नकम् ॥३४५॥ योगे सति सुखं स्वल्पं । वियोगे दुःखमुल्बणम्॥ विदन्नपीति हा मूढो । जनः संसजति प्रिये ॥३४६॥ दवीयस्यपि मंतव्या । देवाहं स्ववशंवदा ॥ च्युतोचितं च यत्किंचित्तन्मे शंतव्यमव्यथम् ॥ ३४७ ॥ इत्युक्त्वा भूषयित्वा च । दिव्यनेपथ्यभूषणैः ॥ नृपादींस्त्रीन् सरस्तीरेऽ-मुंचत् सर्वांगसुंदरी ॥ ३४८॥ आत्ततव्याघ्रताकारि-सलिलं तमजासुतम् ॥ लात्वा मकरमर्त्य च । प्रतस्थे नृपतिस्ततः ॥ ३४९॥ महामात्यैः सुमत्यायैः । कृतप्रावेशिकक्रियः॥ दुर्जयःक्ष्मापतिः प्राप । समित्रोऽपि निजास्पदम् ॥ ३५०॥ तत्र स्थित्वा कियकालं, हठादापृच्छय दुर्जयम् । तद्दत्तं रनहेमादि, तृणवत् परिमुच्य च ॥ ३५१॥ प्रस्थितस्तनुजोऽजाया, लात्वा मकरपूरुषम् ॥ यक्षसम तदेवागा-तेनैव विवराध्वना ॥ ३५२ ॥ युग्मम् ॥ उत्थाप्य तं कपिनरं । नरद्वययुतस्ततः॥ अजापुत्रः प्रतस्थेऽये। नगरी प्राग यियासिताम् ॥३५॥ सोऽपश्यत्पुरतो मेघ-घट्टनेन दिवश्युताम् ॥ मंडलीमिव पूर्णेदोः। स्फाटिकी केलिदीर्घिकाम् ॥ ३५४ ॥ ददर्श परितस्तां च ।कांतिजालजटालितान् ॥ विमानानतनुश्रीकां-स्तारकानिव १स्त्रीणाम, २ गतोचितं-औचित्यरहितम्. ३ व्यथारहितं यथास्यात्तथा.
SSSSSSSSS
Page #117
--------------------------------------------------------------------------
________________
RECORRESS
भूरिशः॥ ३५५ ॥ तत्र वाप्यामपश्यच्च । रतेरभिनयानिव ॥ सधीचीरिव पौलोम्या । लक्ष्म्याः प्रतिकृतीरिव ॥ ३५६ ॥ भृत्वाऽञ्जलीन जलभरै-व्यावहासीपुरस्सरम् ॥ व्यात्युक्षी परितन्वानाः, काश्चित्कमललोचनाः॥३५७॥ युग्मम् ॥ मानव्यः | किमिमाः संति । त्रिदश्यो वेति संशयम् ॥ आजेयस्य निराचक्रे । तद्दग्निमिषणं मुहुः ॥ ३५८ ॥ स्त्रीदृष्टिगोचरं हित्वा । तल्लावण्यं निपीय च ॥ अजासुतश्चिरं दध्यौ । विस्मयस्मेरलोचनः ॥३५९॥ एतासां वदनद्युतिर्यदि तदा मंदायते चंद्रिका।
कायश्रीर्यदि कांचनं श्रयति तद्विच्छायतां कांचन ॥ भावार्दा यदि दृष्टयो विदधते ताः किं सुधावृष्टयो । निःपीता भणि-टू जातियदि प्रभवति प्रीत्यै न वीणाक्वणः॥ ३६॥ अथ तासां किलंतीनां । कोकिलालापकोमलम् ॥ आलापमिति शुश्राव ।
स नेदीयानजासुतः॥ ३६१॥ सख्योऽद्याष्टापदं गंतु-मतिकालो महानभूत् ॥ देवेंद्रः सुरदेवीयुग। भावी तत्रागतोऽधुना ॥ ३६२॥ तन्मुच्यतामियं केलि-बहिर्निर्गम्यतां द्रुतम् ॥ पद्मान्यादाय वापीतो। विमानश्चल्यतामितः॥ ३६३ ॥ ताभिविद्याधरस्त्रीभि-रित्युदीर्य तथा कृते ॥ दध्यावजासुतोऽप्येव-ममंदानंदसुंदरः॥ ३६४ ॥ मया विहरमाणेन । मर्त्यलोको व्यलोक्यत ॥ व्यंतरेंद्रप्रभावेण । दृष्टास्ते नरका अपि ॥ ३६५ ॥ अधुना पुनरालोक्या । नानावैमानिकाः सुराः॥ सुख(प)मा येषु निस्सीमा । विश्राम्यति समं श्रिया ॥३६६ ॥ ताविमौ हारनीराभ्यां, सह त्यक्त्वेहमानवौ ॥ व्यंतरार्पितया ६ |गुट्या, भ्रमरीभूय च स्वयम् ॥ ३६७ ॥ स्त्रीपाणिस्थितपद्मेषु, स्थायं स्थायं निजेच्छया ॥तीर्थमष्टापदं यामि, नयामि स्वं कृतार्थताम् ॥ ३६८ ॥ इति ध्यात्वा च कृत्वा च । तदैवाजातनूरुहः ॥ विद्याधरप्रियापाणि-पद्ममध्यास्य चेलिवान् १ परस्परहसनपुरस्सरम्. २ परस्परसेचनरूपां जलक्रीडामित्यर्थः.
tort
Page #118
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ ३४॥
PI॥ ३६९ ॥ पंचभिः कुलकम् ॥ परिभ्राम्यन् स गात्मा । स्वैरं स्त्रीपाणिपंकजे ॥ मंजुस्वगुंजितैस्ताः स्त्री-र्मुहुर्मुहुरमूमुहत् सर्ग.२
॥ ३७० ॥ कर्णामृतैकसारण्या । झंकृत्या लोभिताशयाः॥ अत्रैहि द्रुतमत्रही-त्यवदंस्तं स्त्रियोऽध्वनि ॥३७१॥ सोऽपि । तद्भावमाभाव्य । सिद्धवत्तत्तदाश्रयात् ॥ ववर्षेव सुधां स्निग्धैः । स्वरैस्तत्कर्णवीथिषु ॥ ३७२ ॥ इत्थं विद्याधरस्त्रीभिः कल्यमानः पदे पदे ॥ अभ्रंकषाप्रशिखरं, प्राप सोऽष्टापदं गिरिम् ॥ ३७३ ॥ परिखाभूतगंगांबु-संक्रांतप्रतिबिंबतः॥ कामनीयकमात्मीयं, पश्यंतमिव संततम् ॥ ३७४ ॥ चैत्याधारतयोद्भूष्णु-पुण्येनेव विसर्पिणा ॥ यशसेवाथवा शुद्धं ।। स्फुटस्फटिकवर्मणा ॥ ३७५ ॥ सर्वरत्नमयत्वेन । शिलोच्चयजयोद्भवाः ॥ वहंतमिव सत्कीर्ती-मूर्ता निझरकैतवात
॥ ३७६ ॥ तमष्टयोजनोत्सेधं, स्फुरत्सोपानकाष्टकम् ॥ अष्टापदगिरि विष्व-गजापुत्रो न्यभालयत् ॥ ३७७ ॥ चतुर्भिः |कलापकम् ॥ तत्रोच्चत्वेन कांत्या च, प्रासादान् सकलान् भुवि ॥ तर्जयंतमिव प्रौढ-पताकांगुलिकंपनैः ॥३७॥
जात्यकार्तस्वरोद्योति-ज्योतिष्पटलपिंजरम् ॥ बहिः प्रक्लुप्तकालेय-विलेपनमिवाभितः॥ ३७९ ॥ धात्रीतलेऽत्र कोऽप्यस्ति। |प्रासादो मत्समो न वा ॥ इतीव दृष्टुमारूढं । तुंगं श्रृंगं महीभृतः॥ ३८० ॥ चतुर्दारं त्रिकोशोच्चं, योजनायामविस्तृतम् ॥ हैम सिंहनिषद्याख्यं, चैत्यं सोऽपश्यदद्भुतम् ॥३८॥ चतुर्भिः कलापकम् ॥ किमिदं श्रेयस राशिः। किं परात्ममयं महः॥ किं वा निवृतिसञत्थ-माजेयस्तव्यतर्कयत् ॥३८२॥ सौरभोदारमंदार-प्रसूनोन्निद्रसंमदैः॥ वाचालमिव झंकार-कारिभिभ्रमरोत्करैः॥ ३८३ ॥ माणिक्यमयरूपाभिः। पांचालीभिः समंततः ॥ कौतुकान्निश्चलांगीभि-देवीभिरिव शोभितम् ॥ ३८४ ॥ पंचवर्णस्फुरद्रन-कोटिघट्टितकुट्टिमम् ॥ प्रासादमध्यमध्यास्त, स भंगात्मैव कौतुकात् ॥३८५॥ युग्मम् ॥ तत्र 8
पदगिरि विष्व तिमिव प्रौढ-पता धात्रीतलेऽत्रमावस्तृतम् ॥
SISUSTUSEGUSTUSPARGARO
॥३४॥
Page #119
--------------------------------------------------------------------------
________________
पूर्वादिदिक्षु द्वि- चतुरष्टककुष्मितान् ॥ स्वस्ववर्णप्रमाणाढ्यान् । रत्नपीठ प्रतिष्ठितान् ॥ ३८६ ॥ नाभेयप्रमुखान् देवान्, ! पूजयित्वा यथाविधि ॥ भक्त्या प्रास्तुवत स्तोतुं, विद्याधरसुलोचनाः ॥ ३८७ ॥ युग्मम् ॥ तावदिंद्रोऽपि सांद्रश्रीः । शच्याद्युरुपरिच्छदः ॥ तत्रापतद्वपुस्तेजः - स्तोमैः संतर्जितार्यमा ॥ ३८८ ॥ अद्रूष्यदे वदूष्यश्री - दिव्याभरणभासुरः ॥ मुदा देवान्वितः शक्रः । कुसुमांजलिपूर्वकम् ॥ ३८९ ॥ जिनानां स्नात्रमाधाय । विधाय विविधार्चनाः ॥ रंगमंडपमध्यास्त । प्रेक्षणक्षणहेतवे ॥ ३९०॥ युग्मम् ॥ गायत्सु तुंबर्वाद्येषु । कोकिलस्वरभास्वरम् ॥ वाद्येषु वाद्यमानेषु । गीततलभृशोचितम् ॥ ३९१ ॥ शचीप्रभृतयो देव्य - चतुर्धाभिनयान्वितम् ॥ लास्यैतांडव भेदेन । विचित्रं ननृतुस्तमाम् ॥३९२॥ युग्मम् ॥ देव| संसदि मर्त्यः स्या- द्रत्नौघे काचखंडवत् ॥ इत्याजेयोऽपि तत्सर्वं । भृंगात्मैव न्यभालयत् ॥ ३९३ ॥ नृत्यांते पुनरादेशि ।
१ धातुमातुसमायुक्तं, गीतमित्युच्यते बुधै-स्तत्र नादात्मको धातु- र्मातुरक्षरसंचयः ॥१॥ इति ॥ तथा-गीतं च द्विविधं प्रोकं, यंत्रगात्रविभागतः | यंत्रं स्याद्वेणुवीणादि, गात्रं तु मुखजं मतम् ॥१॥ तथा निबद्धमनिबद्धं च गीतं द्विविधमुच्यते । अनिबद्धं भवेद्गीतं, वर्णादिनियमं विना ॥१॥ यद्वा गमकधातुज्ञे-रनिबद्धं विनाकृतम् । निबद्धं च भवेद्गीतं, तालमानरसान्वितम् ॥ २ ॥ छंदोग मकधातु शै- वर्णादिनियमैः कृत मित्यादि . २ गीतकार क्रियामानं, अयं स्वरः, इयत्कालं गेयः, इयत्कालं विलंबितम्, इयस्कालं हतम्, इयत्कालं मध्यमम्, इति बोधयितुम् ईदृशैर्हस्तैरंगुल्या कुंचन प्रसारणादिमिः नर्तितव्यं गातव्यं चेति कालक्रिययोः प्रमाणं तालः, तस्य मेदाः एकाधिकं शतं, तेषु मुख्याः षष्टितालाः । ३ हतभावव्यंजकशरीर चेष्टादिरभिनयः, अभिनेय ( अनुकरणीय ) पदार्थस्य शरीरचेष्टाभाषणादिभिरनुकरणं वाऽभिनयः, यदुक्तं भवेदभिनयोऽवस्था-नुकारः स चतुर्विधः । अगिको वाचिकचैव माहाय्यः सात्त्विकस्तथा ॥१॥ इति नटैरंगादिभिः रामयुधिष्ठिरादीनामवस्थाऽनुकारोऽभिनयस्तत्र अंगेषुशिरोहस्तवक्षः पार्श्वकटिचरणेषु अक्षिश्रकुटिनासाधरकपोलचिबुकेषु च नियुक्तः आंगिक, वाचि नियुक्तः वाचिकः, आहियते वेषादिना साम्यं अधिक्रियते इत्याहायः वेषादिना साम्यानुकरणमित्यर्थः, सत्त्वेन जितः संस्कृतो वा सत्त्वे वा नियुक्तः इति सात्त्विकः, सत्वं च रजस्तमोभ्यां शून्यस्य मनसः काप्यवस्था, सात्त्विकश्च स्तंभस्वेदादिभावात्माऽभिनय इति. ४ पुंनृत्यं तांडवं प्रोकं, स्त्री नृत्यं लास्यमुच्यते.
Page #120
--------------------------------------------------------------------------
________________
*
सर्ग..
कुमार- पालच.
गातुं शक्रेण तुंवरुः ॥ एतदेव हि रम्यत्व-रूपं यद्रोचते मुहुः॥ ३९४ ॥ अत्रांतरे सदस्यस्मिन् । कलया स्वं प्रकाशये ॥ ४ अप्रकाशस्य पुंसः स्यात् । पशोरिव जनितथा ॥ ३९५॥ ध्यात्वेति भुंगतां हित्वा । जगी तुंबरुरूपभाक् ॥ अजासुतः
स्वर-ग्राम-मूर्छनोऽदमेदुरम् ॥ ३९६ ॥ युग्मम् ॥ तन्मुखोत्था श्रुतिः साक्षात् । सिंचंतीवामृतप्लवैः॥ सदासदां हृदि प्रीति-वल्लरीमपपल्लवत् ॥ ३९७ ॥ तद्गीतास्वादतस्तुष्टे । श्रोत्रे दृष्ट्वा सभासदाम् । तदविज्ञतया मेने । वंचनेवापरेंद्रियः ॥३९८॥ गीतेन यदि तुष्यति । विकर्णा अपि पन्नगाः॥ सकर्णास्तर्हि किं वाच्या-स्तद्रसास्वादसादराः॥३९९॥ पीत्वा तद्गीतिमाधुर्य । व्यचारीद्रादिभिस्तदा ॥ ईदृशी तुंबरोरद्य । कंठसुस्वरता कुतः॥४००॥ तं गेयाधैर्गुणैस्तुल्यं । दृष्ट्वा हो| तुंबरुर्नवः॥ कोऽसावित्यतिविस्मेर-स्तदा तुंबरुरप्यभूत् ॥ ४०१॥ अथ प्रसाददानार्थ, संहूतो हरिणा स्वयम् ॥ हित्वा तुंबरुतां मयीं-भूय चामे स तस्थिवान् ॥ ४०२॥ बिस्मेरेषु सभासत्सु । बिस्मेरेण बिडौजसा ॥ कोऽसीति पृष्टोऽजा
१ सप्तखराख्नयो प्रामाः, मूछनाश्चैकविंशतिः । तथाहि-षड्जर्षभौ च गान्धारो, मध्यमः पंचमस्तथा । धैवतश्च निषादश्च, ते स्वराः सप्त नामतः ॥ १॥ खराणां संदोहो ग्राम इत्यभिधीयते-षड्जमामो भवेदादौ, मध्यमग्राम एव च । गांधारग्राम इत्येतत्, प्रामत्रयमुदाहृतम्॥१॥ नन्दावर्तोऽथ जीमूतः, सुभद्रो प्रामकानयः । षड्जमध्यमगान्धाराक्षयाणां जन्महेतवः ॥२॥ तेषां सप्त खरविशेषयोगात् एकविंशतिमूर्छनाहेतुत्व-कमात्खराणां खप्ताना-मारोहवावरोहणं । सा मूर्छनोच्यते प्राम-स्था | एताः सप्त सप्त च ॥१॥ खरः संमूछितो यत्र, रागता प्रतिपद्यते । मुर्छनामिति तो प्राहुः कवयो प्रामसंभवाम् ॥ २ ॥२ इदानीं षड्जप्रामस्य मूर्छनाः क्रियतेष ऋगम प ध नि इति षड्जस्य, मपौ धनीष ऋग इति मध्यमस्य, ऋगौ (1) मपौ धनी ष इति गान्धारस्य मूर्च्छना।१५ ग म प ध नि । २ नि प ग म पध । ३ ध नि ष ऋग म प । ४ प ध नि ष ऋगम । ५ म प ध नि ष ऋग। ६ ग म प ध नि ष ऋ। ७ ग म प ध नि ष । इति मूर्च्छनाः सप्त षड्जजाः। मध्यमप्रामजारत्वेवं, मूर्च्छनाः परिकीर्तिताः । मकारादिकमेणैव, गकारान्तास्तुः ता मताः ॥१॥ इत्यादि.
ROMAA
1664
Page #121
--------------------------------------------------------------------------
________________
%ASSRORE
पुत्रः, स्वस्वरूपं न्यरूपयत् ॥ ४०३ ॥ तस्य तादृग्गुणग्राम-मोहितः सुरनायकः॥ दिव्यवस्त्रादिदानेन । स्फारसत्कारमाचरत् ॥ ४०४॥ अहो रूपमहो रोचि-रहो विभववैभवे ॥ अहो शच्यादयो देव्यः । सर्व लोकोत्तरं ननु ॥ ४०५॥ इति निस्सीमया शक-श्रियाऽपहृतमानसः॥ अजासुतस्तमप्राक्षी-दीक्षा श्रीः कुतस्तव? ॥४०६॥ युग्मम् ॥ स्वर्गे स्थानं विमाने वसतिरनुपमे ज्योतिरुद्योतिदेह, पारेवाग्वति वीर्य नवनवविलसद्पनिर्माणसिद्धिः। लक्ष्मीस्त्रैलोक्यकाम्या गतिरनुपहता गीतनृत्यादिरम्यं, शच्याद्या भोगपात्रं मम सुकृतवशाजातमैश्वर्यमेतत् ॥ ४०७ ॥ यद्वा शक्रादिपदवी । धर्मद्रोः कुसुमं किल ॥ फलं पुनश्चिदानंद-मयं तत्पदमव्ययम् ॥ ४०८॥ तस्य धर्मस्य निस्सीमं । महेम महिमाद्भुतम् ॥ यो दत्ते श्रितमात्रोऽपि । नरामरशिवश्रियः॥४०९॥ इति शक्रोपदेशेन । तल्लक्ष्मीदर्शनेन च ॥अजासुतस्य धर्मेऽभू-निस्तुपाऽऽस्तिक्यवासना ॥ ४१०॥ अजासुतं निजं स्थानं । नेतुमेकं दिवौकसम् ॥ समादिश्याथ देवेशो। दिविषत्पदमासदत् ॥४११॥ भूरिभावनया सोऽपि । कृततीर्थनमस्कृतिः॥ उत्पाव्य तेन देवेन । वापीतीरे व्यमुच्यत ॥ ४१२॥ आपादमस्तकं शस्ये। | निवेश्यामरवाससी ॥ पार्वे तयोः स्वनरयो। स्वपतोः सोऽथ सुप्तवान् ॥ ४१३ ॥ दिव्यवस्त्रावृतः कोऽय-मिति चिंता
परौ नरौ ॥ अतिविस्मापयामास । प्रकाश्य स्वमजासुतः॥४१४ ॥ अपेतपंकः कुर्वाणो । बहुधान्यविवर्धनम् ।। साधुलोक |इव प्रेयान् । शरत्कालस्तदापतत् ॥ ४१५ ॥ शोभंते शालयो यत्र । विस्फुरत्कमलाकराः ॥ नमंतः फलभारेण । धात्री
१ काल पक्षे बहु धान्यविवर्धनं, साधुलोकपक्षे बहुधा अन्य (धार्मिकजन ) विवर्धनम्. २ पुत्रपक्षे शस्य-मुखस्स. आलयः-पतयः-संततय इति यावत. | ३ पृथ्वीम्-पक्षे. मातरम्.
Page #122
--------------------------------------------------------------------------
________________
कुमारपालच०
सत्तनया इव ॥४१६॥ केकिकेकाः परुषतां, माधुरी हंसनिःस्वनाः॥ तदा निदधिरे के वा, सर्वदा रम्यताऽऽस्पदम् ॥४१७॥ श्रीविशालाः सरलतां । पुष्णंतः पंकवर्जिताः॥ सज्जना इव सेव्यत्वं । मार्गाः शरदि दधिरे ॥ ४१८ ॥गगनं प्रोन्ननामेव । दिशः पश्चाद्गता इव ॥ प्रससारेव रोदोऽन्त-निवृत्ते मेघमंडले ॥४१९ ॥ अर्थकामयुतो धर्म, इव मर्त्यद्वयान्वितः ॥ अथाजातनयः सर्पन, पुरीं स्वमनसाऽमृशत् ॥ ४२० ॥ दृग्भ्यां जगत्त्रयी दृष्टा । मया लेभे च दुर्लभम् ॥ तिरश्चां नृत्वदं | चूर्ण । नृणां तैरश्चदं जलम् ॥ ४२१॥ चूर्णयोगेन तिर्यचौ । मानवीभावमाश्रितौ ॥ सेवकाविव वर्तेते । मदादेशवशंवदौ ॥ ४२२ ॥ ततो मे सफलं जन्म । भाग्यभंग्यप्यभंगुरा ॥ इति प्रमोदपूर्णोऽसौ । जयंती नगरी ययौ ॥ ४२३॥ मानसस्तंभनी पश्यं-स्तदीयां सर्वतः श्रियम् ॥ बहुबुद्धिवणिग्गेह-मजासूनुः स जग्मिवान् ॥ ४२४ ॥ श्रेष्ठी श्रेष्ठं तमालोक्य । ददौ स्थानं स्वसद्मनि ॥ सोऽप्यात्मना तृतीयोऽस्थात् । सतां कुत्र न गौरवम् ? ॥४२५॥ रक्षार्थ श्रेष्ठिने हारं । चूर्ण कपिनराय च ॥ दत्त्वा स नखशुद्ध्यर्थ । नापितस्य कुटीं ययौ ॥ ४२६ ॥ निर्गच्छतस्तत्सदना-दाजेयस्य कटीतटात् ॥ तद्वासोयुगलं दिव्यं । न्यपतदैवयोगतः ॥ ४२७ ॥ करोपैकर्ष तल्लात्वा । नापितः स्पर्शमार्दवात् ॥ ज्ञात्वा च देवलोकीयं । || द्रव्येण वणिजे ददौ ॥४२८॥ राजाह तत्परिज्ञाय । वाणिजोऽप्यपदाऽऽस्पदे ॥ श्रीविक्रमनरेंद्रस्य । स्वपुरीस्वामिनो ददात्
॥ ४२९ ॥ तदा च कृशकायस्य । कामस्य बलवृद्धये ॥ रसायनमिवोदयं । वसंतर्तुळजूभत ॥ ४३० ॥ बालप्रवालजालेन । शोणिता शुशुभे वनी ॥ प्रकटीकृतरागेव । वसंतं स्वपति प्रति ॥४३१॥ मधुपानोन्मदा ,गा। झंकारमुखरा बभुः॥ १ उत्तमपुत्रा इव. २ हस्तसमीपकर्षणं यथास्यात्तथा. ३ खामिने. प्र.
॥३६॥
Page #123
--------------------------------------------------------------------------
________________
CACHEOSTOSOS
भट्टा इवतुराजस्य । वदंतो बिरुदावलिम् ॥४३२॥ वियुक्तवनितास्वांते । वसंतं विरहानलम् ॥संधुक्षितुमिवामंदं । ववौ मलयमारुतः॥४३३ ॥ चलैदलैः सनृत्येव । सस्मितेव सुमैर्वनी । संगीतेवालिसंरावै-तुपत्यागमेऽस्फुरत् ॥ ४३४॥ विश्वग्वनानि ससुमान्यलिनोऽतिमत्ता-स्ताक्षणाः कलरवाः पवनः सुगंधिः ॥ शीतांशुरुज्ज्वलरुचिर्मदनः सतेजाः । प्राप्ते वसंतसमये न कथं प्रमोदः ॥ ४३५ ॥ कल्पितानल्पनेपथ्य-स्तदा पौरजनोऽखिलः ॥ जगामाराममुद्दाम । वसंतोत्सव-31 हेतवे ॥४३६ ॥ ते निवस्यांशुके दिव्ये । प्रेयसीभिः परिष्कृतः॥ श्रीविक्रममहींद्रोऽपि । प्रापारामं रिरंसया ॥ ४३७॥ बहुबुद्धितनूजोऽपि । संज्ञया मतिसागरः॥ अजाभूहारसश्रीको । दैवात्तत्रैव जग्मिवान् ॥ ४३८ ॥ तं हारं नृपतिस्तस्य । | कंठे दृष्ट्वोपलक्ष्य च ॥ आकारयत् स्वपुरुषैः। परुषैर्मतिसागरम् ॥४३९॥ अपृच्छच्च कुतस्तेऽयं । हारः स्फाररुचिर्वद?॥अब्रुवन्नुहत्तरं सोऽपि । मूकवन्मौनमानशे ॥ ४४० ॥ बवा दृढं नृपभटैः । कुट्टितो यष्टिमुष्टिभिः ॥ रक्कं वमन स भूपीठे । लुलोठी
गतजीववत् ॥ ४४१॥ हारव्यतिकरं श्रुत्वा । बहुबुद्धिः सुबुद्धिभाक् ॥ अजापुत्रं गृहीत्वैव । नृपपार्श्वमशिश्रियत् ॥४४२॥
कस्यायमिति च पृष्टः । सन्नाचष्ट महीपते । ॥ हारोऽस्त्यजासुतस्यास्य । कस्मान्मम सुतो हतः॥४४३ ॥ विमोच्य || दाश्रेष्ठिनः पुत्रं । भूपोऽजांगजमूचिवान् ॥ किमचोरि त्वया हारः? । माहाऽऽमेति स कौतुकात् ॥ ४४४ ॥ अरेरे
हन्यतामेष । मेषवत्तस्करो भटाः!॥ इत्यादिष्टे नृपेणोचे । स देव ! शृणु मद्वचः॥४४५॥ परवस्त्वपहर्ता यः। स वध्यो भवतां नयः॥ अयं विलेख्यतां पत्रे । स्तेनोऽस्त्यन्योऽपि यन्ननु ॥४४६॥ तदाशयापरिज्ञाना-द्राज्ञाऽस्मिन् लेखिते
१ कोकिलाः. २ मि. प्र. ३ मदतिरिक्तस्त्वमपि इतिभावः
SOCIOCX
5.पा.च.
Page #124
--------------------------------------------------------------------------
________________
कुमारपालच.
सर्ग..
रुषा॥ निर्वह्योऽयं नयो राज-नित्यजातनुजो जगौ ॥४४७॥ ओमित्युक्तवति क्षमापे । सोऽवदद्भवदंतिके ॥ ममैते वाससी तेन । स्तेनस्त्वमपि वर्तसे ॥ ४४८ ॥ यदि त्वमवलेपेन । मदुक्तं मन्यसे मृषा ॥राजस्तदाऽनयोः प्राप्ति-पारंपर्य विचारय ॥४४९॥राज्ञा तदर्पकः पृष्टः । कस्यैते वसने ? इति ॥ अकीर्तयहीवाकीर्तेः। सोऽप्यजातनुजस्य च ॥४५॥ श्रुत्वा तद्विक्रमक्ष्मापः। किंचिम्लानस्तमूचिवान् ॥ परदत्तगृहीतत्वा-दहं नैवास्मि तस्करः ॥४५१॥ आजेयोऽपि जगौ स्मित्वा । यदैवं देवधीस्तदा ॥ स्तेनोऽहमपि नैव स्यां । गृह्णन् हारं परार्पितम् ॥ ४५२॥ ततो नृपेण हारार्थ । पृष्टः कोशाधिपोऽभ्यधात् ॥ अलंकारकृते देव! । त्वत्पुत्र्यै तमदामिति ॥ ४५३ ॥ पुत्रीमपि समाहाय्य । पप्रच्छ नृपविक्रमः।। वत्से ! त्वत्सविधे हारः । सांप्रतं विद्यते न वा॥४५४ ॥ साऽवोचन्नगरीबाह्ये । केलिवाप्यां पितर्मयि ॥ किलंत्यांहारमादाय । नेशिवान् केलिमर्कटः॥ ४५५ ॥ सोऽन्वेषितोऽपि सर्वत्र । न लेभे स्तेनवत् क्वचित् ॥ बिभ्यती तातपादाने । न चाहमिदमभ्यधाम् ॥ ४५६ ॥ आकर्ण्य कपिमर्त्यस्त-द्वीक्ष्य राजसुतां च ताम् ॥ पुनः कपित्वमैहिष्ट । स्वजातिः खलु दुस्त्यजा ॥४५७॥ स तैरश्चयकरं नीरं । पीत्वा कापेयमाप्य च ॥ कृतोत्फालतयोत्तालः। सोऽगाद्राजसुतांऽन्तिकम् ॥४५८॥ |स्वं केलिमर्कटं राज-तनूजा ऽप्युपलक्ष्य तम् ॥ उत्संगे स्थापयामास । मेने स्नेहो हि कारणम् ॥४५९॥ किमेतदिति विस्मेरे ।
भूपती परिपृच्छति ॥ कापेयं वृत्तमाख्याय । ददौ हारमजांगजः॥४६०॥ भूपोऽपि हारमादाय । दत्त्वा दिव्यांशुकद्वयम्॥ | क्षमयित्वाऽर्चयित्वा च । मुदाऽऽजेयं विसृष्टवान् ॥ ४६१॥ एवं परि प्रकाश्य स्वं । गृहीत्वा चूर्णपाथसी ॥ समं मकरम
१चौरः ३ गāण. ३ कलंत्यां, प्र. ४ तत्, प्र.
GOSTIGASUGUSTEGA
Page #125
--------------------------------------------------------------------------
________________
SERIES RSMSSAMSUSALOCALCULAR
त्येण । चलितोऽजासुतस्ततः॥४६॥ द्रोणपत्तनसंबाध-ग्रामाकरसमाकुलाम् ॥ धरां सिद्ध इव भ्राम्यन् । दृशोः साफल्यमाप सः॥ ४६३ ॥ अन्येधुर्गच्छतस्तस्य । कांतारे दिनयौवने ॥ द्विपेंद्रापहृतः कोऽपि । पुमान् दृष्टिपथं ययौ ॥४६४॥ तं नरं कुंभिकुंभागे । दृष्ट्वा निश्चेष्टवत् स्थितम् ॥ स तत्स्वास्थ्यचिकीरासी-त्सतामेतद्धि लक्षणम् ॥४६५॥ ब्रजंतं तीव्रबेगेन । गजं तं धर्तुमक्षमः ॥ अग्निद्रुफलचूर्णेन । तेने मर्त्यमजासुतः॥४६६॥ शीतोपचारैश्चैतन्यं । लंभयित्वा स पूरुषः॥ कोऽसीति पृष्टः स्वं वृत्तं । वक्तुं तस्मै प्रचक्रमे ॥ ४६७ ॥ अस्तीह विजयेत्याख्यं । कृतव्याख्यं बुधैः पुरम् ॥ तत्र भूपो| महासेनो। महासेन इवौजसा ॥ ४६८ ॥ यन्निस्त्रिंशयमीधारा-जले निर्मज्य शत्रवः ॥ सुखादनिमिषीभावं । बिभरांचक्रिरे रणे ॥४६९॥ तत्प्रिया शीलवत्यस्ति । भूमिष्ठेव शची स्वयम् ॥तनूरहोऽस्मि तस्याहं । नाम्ना विमलवाहनः॥४७॥ आरूढोऽहं वशीकर्तुं । मदावस्थामुपेयुषा ॥ अनेन करिणा प्रेत-पतिनेव हृतो रुषा ॥ ४७१॥ नाम्नः समानं मातंग| भावं व्यक्तुमिव द्विपः॥ मामसौ मृतदेशीयां । दशां निन्ये श्रमादिभिः॥ ४७२ ॥ निश्चेष्टं काष्ठवत् क्लेशा–वेशात्त्यक्त| मिवासुभिः॥त्वयोजीवयता मांनु । किं नैवोपकृतं सखे !॥४७३॥ कुलीनोधनवान् विद्वान् । धनुष्मान् विनयी नयी॥सुलभः
पुरुषो लोके । दुर्लभस्तूपकारकः॥४७४॥अथ भोजितपाथेयो। गृहीत्वा सह तो नरौ॥ अजापुत्रः पुरो गच्छ-निशि देव| द्रोणः-सिंधुवेलावलयितं नगर-समुद्रप्रवाहवेष्टितं नगरमित्यर्थः, पत्तनं-नानादेशागतपण्यस्थानम्, जलस्थलनिर्गमप्रवेशम्,-जलस्थलयोरन्यतरेण पर्याहार (निर्गम) प्रवेश (नगरं ) उक्तं च-पत्तनं शकटैर्गम्य, घोटकैनौंभिरेव च । नौभिरेव तु यद् गम्यं, पट्टणं तत्प्रचक्षते ॥१॥ जलपत्तनं स्थलपत्तनं च, संबाधः-बहुलोकमीलनस्थानम् | (मेळो ). २ बृहत्सेनाधिपतिः (इन्द्रः ). ३ यमसंबंधि, पक्षे संयमीसंबंधि. ४ नरीभूतहस्तिराजकुमारी.
ALSEARCANCERCOM
Page #126
--------------------------------------------------------------------------
________________
कुमारपालच०
कुले स्थितः॥ ४७५ ॥ सुप्तेष्वन्येषु भूपाल-पुत्री विमलवाहनः॥ आर्द्रदुःखीति नो निद्रां । लेभे निःस्व इवार्चनाम्॥ ॥ ४७६ ॥ तदा देवकुले तत्र । स कीरमिथुनस्वरम् ॥ श्रुत्वा तदंतिकं गत्वा । शुश्रूषुर्निभृतं स्थितः ॥ ४७७॥ इयच्चिरं । स्थितः क्व त्वं । कथं वा छुटितस्ततः॥ इति पृष्टः शुकःप्रोचे । शुकी प्रति मनुष्यवाग् ॥४७८ ॥ शबरो मां तदा धृत्वा। ४ानीत्वा च विजयं पुरम् ॥ राजदासीकरे क्रूरो । विक्रीणीते स्म भृत्यवत् ॥ ४७९ ॥ दासी भूपमहासेन-पत्नीशीलवतीकरे ॥
अर्पयामास मां साऽपि । दृष्ट्वा तुष्टवती हृदि॥ ४८० ॥ श्रुत्वाऽसौ मानुषी वाणी, व्यक्तान् श्लोकांश्च मन्मुखात्। न्यधान्मां पंजरे हैमे, गुणाधिक्यं हि बंधनम् ॥ ४८१ ॥ यच्छंती मधुरं भोज्यं । सूक्तान्यध्यापयंत्यपि ॥ स्वपुत्रमिव सा नैव । मां मुमोच करोदरात् ॥ ४८२ ॥ एकदा नृपतेः पट्ट-हस्ती प्राप्योन्मदिष्णुताम् ॥ आलानस्तंभमुन्मूल्य । कंदवन्निरगाबहिः18 ॥४८३॥ अंकुशं स्कंधतो व्योम्नयु-च्छालयंस्तृणपूलवत् ॥ क्षिपन् हस्तिपकान दूरे । कर्करानिव रोषतः ॥ ४८४ ॥ यमदंडाग्रवच्छंडा-मुदस्यन् दलितुं खगान् ॥ पुरो मानवदर्श च । पेष्टुं धावन् कृतांतवत् ॥ ४८५ ॥ प्रलयक्षुब्धपाथोधितुलना नगरं नयन् ॥ विहर्तुमिव स स्वैरं ।.प्रतस्थे विपिनं प्रति ॥ ४८६ ॥ त्रिभिर्विशेषकम् ॥ निषिद्धोऽपि जनैर्भूप-पुत्रो विमलवाहनः ॥ कपि ममिवारोह-तं गजं सांत्वनेच्छया ॥ ४८७ ॥ यावत्तं शिक्षयत्येष । तावत्प्रेतात्तवद् द्विपः॥ जनानां पश्यतामेव । धावित्वा जग्मिवान् क्वचित् ॥ ४८८॥ तन्निशम्य महासेनो । गत चैतन्यवन्नृपः॥ न राज्यादिकथां कांचि-द्वितेने शून्यमानसः॥४८९ ॥ तदाकलय्य भूपालाः । सीमालाः पूर्ववैरिणः ॥ एत्य सैन्यैरदैन्यैस्त-पुरं त्रिःप
१नरीभूतहस्ति-मकरपुरुष-अजापुत्रेषु. २ निश्चलं-गुप्तं यथास्यात्तथा.
-CROSAROKAR
त्यनेच्छया ॥ ४८७ ॥ महानो । गतचैतन्यवादन्यैस्त-त्पुरं त्रिःप है।
॥३८॥
Page #127
--------------------------------------------------------------------------
________________
यवेष्टयन् ॥४९०॥ महासेनोऽपि सेनाभिः । समं तान् युध्ययोधयत् ॥ पराभवं सहते हि । सिंहवन्न महस्विनः ॥४९॥ सैन्यभंगे सति स्वेन । युध्यमानोऽप्यनेकधा ॥ बलिभिश्छलिभिर्द्विद्धिः। महासेनो न्यहन्यत ॥ ४९२ ॥ भास्वतीव गते तस्मि-नृपेऽस्तं दैवयोगतः॥ लोकेऽन्धकरणः शोक-तमःस्तोमस्तदाऽस्फुरत् ॥ ४९३॥ ततो बुद्धिबलो नाम । मंत्री बुद्धिबलोद्धरः॥ पिधाप्य विशिखाः सर्वाः । पौररक्षामचीक्लपत् ॥४९४॥ कृपां मनसि कृत्वोच्चैः । कारागार निवासिनः॥ जनान् सोऽमूमुचत् सर्वान् । प्रस्तावज्ञा हि तादृशाः ॥ ४९५ ॥ राज्ञीमृत्या समायासी-न्ममापि मरणं हहा ॥ इत्युदीयॆकया दास्या । मुक्तोऽहं पंजरात्प्रिये! ॥४९६॥ विना तमेकं भूपाल-पुत्रं विमलवाहनम् ॥ मृतप्रायमभूत्सर्व । भोज्यहीनं यथा वपुः ॥४९७॥ कीदृशं राज्यमासीत्तत् । प्रथमं सांप्रतं पुनः॥ कीदृगस्ति हहा दैवा-दनित्याऽहो ? भवस्थितिः ॥४९८ ॥ अंतर्मत्रचणो मंत्री । लक्षसैन्या द्विषो बहिः॥ किं किं भावि पुरो वेद । भगवान् कोऽपि नापरः॥ ४९९ ॥ अधुनैव समायान्तं । विद्धि मां तत्पुरादिह ॥ शुकीमिति शुकः प्रोच्य । मुनिवन्मौनमातनोत् ॥५००॥ श्रुत्वा तद्दुःश्रवं तात-वृत्तं विमलवाहनः॥ शस्त्राहत इवोद्दीप्त-मूर्छश्चैत्यादधश्च्युतः॥ ५०१॥ तत्पातजातनिर्घाता-दजापुत्रोऽपनिद्रितः ॥ अपश्यन् संनिधौ भूभृत्-पुत्रं तं द्रष्टुमुत्थितः॥ ५०२॥ इतस्ततो भ्रमंश्चैत्य-पश्चाद्भागेऽतिमूर्छितम् ॥ दृष्ट्वा राजसुतं सोऽभू-दवालीढ इवाकुलः ॥५०३॥ शीतैरौपयिकैराशु । स्वस्थयित्वा कथंचन ॥ तव जज्ञे किमेतत्त-मित्यप्राक्षीदजासुतः॥ ५०४॥ परिसृताश्रुमिश्राक्षः। कथंचिद्वाचमुच्चरन् ॥ वृत्तं शुकोदितं तस्मै । जगौ विमलवाहनः॥५०५॥ अजासुतस्तमूचेऽथ । स्नेहलो निजबंधुवत् ॥ मा रोदीर्मास्म शोचीश्च । विभाव्य भवचेष्टितम् ॥ ५०६ ॥ पितरः कस्य
Page #128
--------------------------------------------------------------------------
________________
कुमारपालघ०
॥ ३९ ॥
जीवंति । चिरं कस्यानिशं सुखम् ॥ रुरुधे कस्य नो राज्यं । मंथिभिः प्रतिपंथिभिः ॥ ५०७ ॥ उदयः पतनाय स्याज्जीवितव्यं च मृत्यवे ॥ विरोधः सुखनाशाय । स्थितिरेषा सनातनी ॥ ५०८ ॥ तावदेवोदयः पुंसां । यावद्भाग्यमभंगुरम् ॥ शुक्लपक्षक्षये जाते । सुधांशुर्वर्धते कियत् ॥ ५०९ ॥ तच्छोकशंकुमुन्मूल्य । धीरतां हृदि धारय ॥ व्यसने सति यो धीरः । स धीर इति मे मतिः ॥ ५१० ॥ अगाधे व्यसनांभोधौ । महतोऽपि निपेतुषः ॥ नवरं धीरतैवैका । तदुत्तारे तरीयते ॥ ५११ ॥ इति संबोधितः सूक्त - महासेनतनूरुहः ॥ अधुना किं करोमीति ? । पृच्छति स्म तमुत्सुकः ॥ ५१२ ॥ अजासुतो बभाषे तं । मा भैषीस्त्वं द्विषद्गणात् ॥ वराका मे पुरः केऽमी ? । मृगेंद्रस्य यथा मृगाः ॥ ५९३ ॥ किंतु यावदहं यामि । तावल्लेखः प्रहीयताम् ॥ शुकेनानेन तेन स्यात् । स्वस्थो मंत्री यथा हृदि ॥ ५१४ ॥ इत्युक्त्वा कीरमाकार्य । प्रोचेSजातनयो मृदु ॥ पश्य त्वं नृपतेः पुत्रः । सोऽयं विमलवाहनः ॥ ५१५॥ यद्येतज्जननीस्नेहा-त्त्वमानृण्यं समीहसे ? ॥ तदेतदुपकाराय । मंत्रिणोलेखमर्पय ॥ ५१६ ॥ इत्यर्थितः शुकस्तेन । लेखं लात्वा तदर्पितम् ॥ तदैव देववद्गत्वा । ददौ बुद्धिबलाय तम् ॥ ५१७ ॥ यस्य तस्यापि कृप्तः स्यादुपकारः फलेग्रहिः ॥ पश्य कस्यां हि वेलायां । शुकः स पत्रमार्पिपत् ॥५१८ ॥ दृष्ट्वाऽपि कृतहृल्लेखं । तं लेखं प्राप्य मित्रवत् ॥ स्वयं बुद्धिबलो मंत्री । वाचयामास तद्यथा ॥ ५१९ ॥ स्वस्तिश्रीमन्महासेनसूनुर्विमलवाहनः ॥ भुजोपपीडमालिंग्य । मंत्रिणं निगदत्यदः ॥ ५२०॥ अस्तीह निस्तुषं स्वस्ति । तत्रत्या निखिला कथा ॥ | मयाऽज्ञायि शुकादस्मात् । स्वस्मादनुचरादिव ॥ ५२१ ॥ वैक्लव्यं न त्वयाऽऽलंब्यं । जातं यज्जातमेव तत् ॥ अहमायात एवास्मि । तावद्रक्ष्यं निजं पुरम् ॥ ५२२ ॥ इति लेखार्थबोधेन । बुद्ध्वा भूपभवागमम् ॥ धीसखः सुखमापेदे । सनायक
सर्ग. २
॥ ३९ ॥
Page #129
--------------------------------------------------------------------------
________________
है इवोच्चकैः ॥५२॥ अस्मिन् क्षणे यथा कीर!। भवतोपकृतं मम ॥ तथा न बंधुनाऽपीति । मंत्री तं प्रत्यचीकथत् ॥५२४॥
कुमारः क्षिप्रमेवात्र । प्रेष्य इत्यनुशिष्य तम् ॥ प्राहिणोच्च शुकः सोऽपि । कुमाराय तदाख्यत ॥ ५२५ ॥ गुटीयोगेन कृत्वाऽथ । रूपं भारंडपक्षिणः॥ स्वार्भानिव कुमारादीन् । क्षिप्त्वा पक्षांतरेऽखिलान् ॥ ५२६ ॥ आजेयो नभसा तस्मादुड्डीय विजयं पुरम् ॥ क्षणेनैकेन संप्राप । कटरे सिद्धिरुत्कटा ॥५२७॥ युग्मम् ॥ स्वस्थीकृत्य द्विषद्धंसो-पायोक्त्या नृपनंदनम् ॥ अजासूनुः समं तेन । पुरद्वारमशिश्रियत् ॥ ५२८॥ द्वाराध्यक्षेण संबोध्य । कुमारागममंतरा ॥ मंत्रिणा दर्शिताध्वाऽसौ । भूधवावासमासदत् ॥५२९॥ कुमाराद् ज्ञातवृत्तांतो । धीसखस्तमजासुतम् ॥ पूर्वजादधिकं मेने । प्रियः कस्य हि नोपकृत् ॥ ५३० ॥ प्रातय॑धादजापुत्रो । राज्ये विमलवाहनम् ॥ अचीकरच रुचिरं । नगरे मंत्रिणा महम् ॥५३१॥ राजन्यभ्युदिते तस्मिं-स्तद्राज्यं व्योमवद्वभौ । कैरवाकरवल्लोको-ऽभवत् प्रमोदमेदुरः॥ ५३२ ॥ तस्य राज्योपवेशे ये । बभुवुर्वाद्यनिःस्वनाः ॥ त एव वैरिणां प्राण-प्रयाणपटहस्वनाः ॥ ५३३ ॥ अजासुतानुमत्याऽरीन् । दूतेनावीवदन्नपः॥ अधुनैव धराधीशाः!। युद्धे सन्नह्यतामिति ॥ ५३४ ॥ अजापुत्रं बभाषे च । यस्त्वया प्राग्नरीकृतः॥ पट्टहस्ती स मे स्याच्चे-त्तरीन् हन्मि हेलया ॥ ५३५ ॥ तदैव देववत्तेन, पट्टहस्ती नराकृतिः । इदांभसा पुनर्हस्ती-कृत्य राज्ञे समआर्पितः ॥ ५३६ ॥ अथाजेयो बहिर्गत्वा । चूर्ण क्षिप्त्वा सरोंऽभसि ॥ तत्पायनान्नरीचके । द्विषां सर्वहयद्विपान् ॥ ५३७॥ तान् भटानुत्कटान् लक्ष-संख्यान् स निजसन्निधौ ॥ कृत्वा मकरमर्येण । भूपं प्रत्यभ्यधादिति ॥ ५३८ ॥ पट्टहस्तिनमा-18 स्थाय । त्वं ससैन्योऽपि निर्भयः ॥ मृगानिव निजारातीन् । मनीयाः मृगराजवत् ॥ ५३९ ॥ लक्षसंख्यैर्भटैः साक-मह
HASSACHUCASUSTUS
Page #130
--------------------------------------------------------------------------
________________
मस्मि बनि
सर्ग.२
कुमार- पालच०
॥४०॥
OSUUSAASAASAASTA
मस्मि बहिःस्थितः ॥ त्वत्तः प्रणश्यतः शत्रून् । हतारो मद्भटा इमे ॥ ५४० ॥ भूत्वा तथैव संनद्धो । नृपो विमलवाहनः॥ दावपावकवत्तीव्रः। पेतिवान् रिपुकानने ॥ ५४१॥ तद्धस्ती बलवांस्तुंगः । प्रक्षरन्मदनिर्झरः ॥ मंथाद्रिवन्ममंथोच्चै-स्तं द्विषत्सैन्यसागरम् ॥५४२॥ पदमर्दनतः कांश्चित्, कांश्चिच्छंडाग्रघाततः॥दंताद्रिपाततः कांश्चि-चूर्णपेषं पिपेष सः॥५४३॥ नृपोऽप्यलक्षिताकर्ष-संधानपरिमोक्षणैः ॥ चक्रे स्फारं शरासारं । प्रावृषेण्यपयोदवत् ॥ ५४४ ॥ तन्मुक्ताभिः शरालीभिविष्वद्रीचीभिराचिताः॥ द्विषो द्विधापि तं जिष्णुं । मेनिरे निजमानसे ॥५४५ ॥ बाणैररुतुदैर्भूप-स्तथाध्यं विद्विषां व्यधात् ॥ निनक्षवोऽपि ते मंक्षु । यथा नैक्षत निर्गमम् ॥५४६॥ हास्तिकाश्वीयराहित्यात् । तान् नृपानपि पत्तिवत् ॥ जित्वा वशंवदान् स्वस्य । चक्रे विमलवाहनः ॥ ५४७ ॥ ततो जयरमाश्लेष-सुभगंभावुको नृपः॥ समेत्य तैः समं सम्य-गजापुत्र प्रणेमिवान् ॥५४८॥ तं चक्रिणमिवालोक्य । लक्षसैन्यसमन्वितम् ॥ नृपाः परेऽपि परमं। विस्मयं प्रतिपेदिरे॥५४९॥ स्वसद्मनि तमानीय । महोत्सवपुरस्सरम् ॥ ऊचे स्नेहांचितां वाचं । भूमान् विमलवाहनः ॥ ५५०॥ प्राक् त्वया ददिरे प्राणाः। सांप्रतं राज्यमप्यदः॥ सर्वस्वस्यापि मे देव !, त्वमेव प्रभवस्यतः॥ ५५१॥ संत्त्वोत्सेकस्तव छेकः । कोऽप्यसौ येन हेलया ॥राज्यमप्यर्यतेऽन्यस्मै । स्वयं किंचिन्न चेप्स्यते ॥५५२॥ तथापि स्वगुणक्रीतं । मुंश्व राज्यमिदं सुखम् ॥ अहं तु त्वामुपासिष्ये । श्रीराम हनुमानिव ॥ ५५३ ॥ अजासुतस्तमूचे त्वं । यद्येवं भक्तिमानसि ॥ तर्हि मे निखिलं सिद्धं । राज्यदानेन किं मुधा ॥ ५५४ ॥ यदुपकृत्य परस्य न गृह्णते । किमपि सत्पुरुषास्तदवैम्यहम् ॥ भवतु मेति यदे| १ आचिताः-व्याप्ताः.२ अरंतुदैः मर्मपीडकैः.३ मार्गम्.४ हस्तिनां समूहः हास्तिकम्, अश्वानां समूहः आश्वीयम्. ५ अजापुत्रम्.६ सचोत्सेकेन.७ सुखं यथास्यात्तथा.
॥४०॥
ॐ
Page #131
--------------------------------------------------------------------------
________________
मिरवक्रयः । स्वचरितस्य शुभस्य समाददे ॥५५५॥ नृपाभ्यर्थनया तत्र । गुरुगौरवपूर्वकम् ॥ सोऽवात्सीदुत्सवैभव्यैः।। प्रीयमाणः कियच्चिरम् ॥५५६॥ चंद्रापीडनृपोर्पज्ञ-मथ ध्यात्वा पराभवम् ॥ अजासुतः ससैन्योऽपि । प्रतस्थे तजिगीषया है।
॥५५७ ॥ आसन् ये कल्पिता माः । पूर्व चूर्णप्रदानतः ॥ ते पुनईदतोयेन । हस्त्यश्वीचक्रिरेऽमुना ॥ ५५८ ॥ पथि 18 संचरतस्तस्य । सैनिकानां बहुत्वतः ॥ तृणमासीद् द्विषद्वक्रे । नीरं तत्स्त्रीदृशोर्यदि ॥५५९॥ वाहिनीशतसंकीर्णे । तदीये 5
| सैन्यसागरे ।। मक्त्वा भूपैः सपक्षर-प्यहो मैनाकितं न कैः॥ ५६० ॥ जंगलोऽनूपतीमाप । तदीयेभमदोदकैः ॥ जंगलस्वमनूपस्तु । तद्धयोद्भूतधूलिभिः ॥५६१॥ वार्धिपूर इवोद्वेले । तत्सैन्ये प्रसरीनेति ॥ वैतसीं वृत्तिमाश्रित्य । स्थितं यदि परं नृपैः ॥ ५६२ ॥ इतो निशात्यये चंद्रा-पीडः स्वमृतिबोधिनीम् ।। वाचं देव्योदितां स्मृत्वा । दोयामासिवान हृदि ॥ ५६३ ॥ सत्यनामानमाकार्य । प्रातर्गणकशेखरम् ॥ कुतो मे भविता मृत्यु-रिति प्रनितवान्नृपः॥५६४॥ सोऽपि | लग्नं विनिश्चित्य । प्रोचे देव ! तव ध्रुवम् ॥ पक्षांते मरणं भावि । लक्षसैन्यादजासुतात् ॥५६५॥ किंच भूपाल ! देवीनां । बालकानां तपस्विनाम् ॥ ज्योतिर्दृष्टमिव प्रायो । वाक्यं भवति नान्यथा ॥५६६॥ तदैवज्ञवचः श्रुत्वा । शल्यविद्ध इवोचकैः॥ चंद्रापीडः स्फुरत्पीडः।क्ष्मातले सहसाऽपतत् ॥५६७॥ विषादप्यधिकं मन्ये। मृत्युरित्यक्षरद्वयम् ॥ तज्जग्ध्वा मूर्छति प्राणी। श्रुत्वाऽप्येतदहो यतः॥५६८॥ यद्वैतदक्षरद्वंद्वं । सर्वदुःखमयं ध्रुवम् ॥ कुतोऽन्यथैतच्छ्रवणा-जनता दुर्मनायते॥५६९॥
१ गृहीतवस्तुभिः. २ मूल्यम्. ३ तमाददे, प्र-( स नाददे). ४ आदौ कृतम्. ५ रचिताः. ६ सेना, पक्षे, नदी. ७ सेनानां संघः सैन्यम्. ८ जूडयित्वा. |९ भूभृद्भिः-नृपैः, पर्वतेच. १० जलरहितप्रदेशः. ११ जलयुक्तप्रदेशताम्. १२ सृधातोर्यदलगन्ताच्छतृप्रत्ययः, प्रसरीयति, प्र.
Page #132
--------------------------------------------------------------------------
________________
कुमार पालच०
॥४१॥
अथाजेयप्रवृत्त्यर्थ । चतुर्दिक्षु चरान्निजान् ॥ बंधूनिवातिविश्वस्तां-श्चंद्रापीडो विसृष्टवान् ॥ ५७० ॥ परं विज्ञाय तद् सर्ग. २ वृत्तं । देवतामोहिता इव ॥ व्यावृत्ता न चराः केचि-त्तेन स्वस्थोऽभवन्नृपः ॥ ५७१॥ तस्य कारयतः शश्व-दजासूनुगवेषणम् ॥ आयु प्रांत इवागच्छत् । पक्षप्रांतः शनैः शनैः ॥५७२॥ तदा चागसि कस्मिंश्चि-चंद्रापीडेन कोपतः। सुबु|द्धिरिति मंत्रीद्रः। स्वपुरान्निरवास्यत ॥५७३॥ नूनं तेन क्रुधांघेन । न सुबुद्धिः स धीसखः॥ पुरान्निर्वासयांचक्रे । किंतु बुद्धिः स्वदेहतः ॥५७४॥ नृपापमानताध्मातो, वैरशुद्धिचिकीरसौ ॥ इतस्ततः परिभ्राम्य-नाजेयानीकमैक्षत ॥५७५॥ हास्तीयाश्वीयपादात-रथकोव्याकुलं बलम् ॥ वीक्ष्य पिंडीकृतं विश्व-मिव मेने सधीसखः॥ ५७६ ॥ तं प्रस्थितं परि-1 ज्ञाय । चंद्रापीडनृपं प्रति ॥ आसीद्देवीवचः सत्य-मिति निर्णीतवानयम् ॥५७७॥ तस्मात् स्वसिद्धिमाध्याय । दृष्ट्वा च तमजासुतम् ॥ सुबुद्धिर्विलसद्बुद्धिः। स्वस्वरूपं न्यबोधयत् ॥५७८॥ विपक्षमपि सच्चके । तं तथोच्चैरजासुतः॥ यथा ऽसौ कथयामास । वधोपायं विरोधिनः॥ ५७९ ॥ अथाजेयः पुरस्कृत्य । तं सुबुद्धिं स्वबुद्धिवत् । चंद्राननापुरीपार्थे । तस्था-1 वाक्तने दिने ॥५८०॥ पुरोपरोधं तिष्ठतं । तं विलोक्य बृहदलम् ॥चित्रत्रासविषादात्त-श्चंद्रापीडो व्यचीचरत्॥५८१॥ चरेषु कोऽपि तावत्सु । नास्योदंतमचीकथत् ॥ अयमायात एवात्र । दृष्टः किं व्योमतोऽपसत् ॥ ५८२ ॥ सत्यापनाकृते यद्वा । देवीदेवज्ञवाक्ययोः॥ काऽपि लोकोत्तरा दैवी-मायवेह विज़ुभते ॥ ५८३ ॥ भवत्वेवं तथाप्येनं । ध्वंसिष्ये स्वभु-16॥४१॥ जौजसा ॥ इति धैर्यान्नपः सैन्यान् । सेनान्या समनीनहत् ॥ ५८४ ॥ निशि मंत्री पुरं गत्वा । राज्यधुर्यानभाषत ॥
१ वरि, प्र.२ समीपं. ३ तं, प्र.
•%%%%
CREASSAGE
Page #133
--------------------------------------------------------------------------
________________
आसीदेवीवचः सत्य-मजापुत्रो यदाययौ ॥ ५८५ ॥ प्रभाते लक्षसैन्योऽसौ । चंद्रापीडं हनिष्यति ॥ तद्यूयं भजत द्राक्तं । जिजीविषत चेच्चिरम् ॥५८६॥ उदयी सेव्यते स्वामी। परोऽपि स्वोऽपि न क्षयी ॥ व्योमाप्याश्रयते सूर्य । सोमास्तसमये सति ॥ ५८७ ॥ नीतिसर्वस्वसंवित्तौ । छेकमेकं तमः स्तुमः ॥ छायाछलेन यद्दीपं । द्विषमाश्रित्य नंदति ॥५८८॥ अहं युष्मद्धितायैव । वक्तुमायामिदं ध्रुवम् ॥ एतदेव हि हादं यत्-प्रागेव हितशंसनम् ॥५८९॥ किंच वैदग्ध्यमप्येतद्यच्छुभायतिचिंतनम् ॥ को विशेषोऽन्यथा दक्षो । जडवद्दह्यते यदि ॥ ५९॥ ततो भवद्भिः सन्नह्य । स्थातव्यं सकलैरपि ॥ अजापुत्रेऽत्र संप्राप्ते। युष्मान्मेलयिताऽस्म्यहम् ॥ ५९१॥ आत्मनीने वचस्यस्मिन् । प्रधानैः स्वीकृते सति ॥ मंत्री
बहिस्तदैवैत्य । स्वनाथाय न्यवेदयत् ॥५९२॥ जातेऽथ तपने प्राच्या-ऽचलचूलाग्रचुंबिनि ॥ वाद्यमानेषु वाद्येषु । रिपु६ प्राणापहारिषु ॥ ५९३ ॥ अस्त्रैः सर्वांगसंलग्नैः । साक्षालोहमयानिव ॥ सिंहनादैर्मुखोद्गीर्णैः । शब्दाद्वैतमयानिव ॥५९४॥
तेजःस्तोमानिवाप्तांगा-नुत्साहानिव चाक्षुषान् ॥ अहंकारानिवाग्रस्थान् । प्रतापानिव पिंडितान् ॥ ५९५ ॥ कृतोत्फालान् रणोत्तालान् । वाचालान् जयनिःस्वनैः॥ प्रसादितान् पुरस्कृत्य । पदातीन् पातितद्विषः॥५९६॥ समरोन्मादिमिः सादि-निषादिरथिकैर्घनैः।। जगजग्धं कृतानेक-रूपैः साक्षाद्यमैरिव॥५९७॥ अन्वितः स्फीतशौंडीर्यो। जैत्रमारुह्य कुंजरम् अजासुतश्चचालाथ । द्विषदुन्माथकाम्यया ॥ ५९८ ॥ षडिः कुलकम् ॥ सुबुद्धिमंत्रिमंत्रेण । स पुरीद्वाररक्षकान् ॥ विना श्यागेतनान्नव्यां-स्तत्रात्मीयान्यवेशयत् ॥ ५९९ ॥ आजेये मध्यमायाते । प्रधाना मंत्रिभेदिताः॥ समगंसत सर्वेऽपि । | स्नेहला बांधवा इव ॥ ६००॥राजद्वारं ततःप्राप्य । तत्रत्यानपि यामिकान् ॥ हत्वाऽन्यान् स न्यधान्नीते-रविश्वासो हि
Page #134
--------------------------------------------------------------------------
________________
कुमार
पालच.
॥४२॥
जीवितम्॥६०१शातद्विज्ञाय महापीड-चंद्रापीडो युयुत्सया॥यावदायाति तावत् द्रा-ग्मध्येऽविशदजासुतः॥६०२॥द्वेधाऽपि तद्बलाद्वैतं । स्वप्रधानांश्च तद्गतान् ॥ पीत्वा दृग्भ्यां भयभ्रांतः। सोऽभवद्विक्लवः क्षणम् ॥६०३॥ ततो लज्जिष्यते क्षात्रमित्यात्तोत्साहसाहसः। स डुढौके वहन् खड्ग-माजेयेन सहाजये ॥६०४॥ अजापुत्रोऽपि कोपेन ।धारालकरवालभृत् ॥ बभूवानभ्यमित्रीणः । सिंहवत्संहतोर्जितः ॥ ६०५॥ मल्लवद्वहु वलान्तौ। भ्रमंती चक्रवन्मुहुः ॥ क्षुदंतौ च महीपीठं । पादा,जिराजवत् ॥६०६॥ यच्छंती वंचयंती च। खगघातान् परस्परम् ॥ युयुधाते भटौ तौ द्वौ । द्विपाविव मदोद्धती ॥६०७॥ युग्मम् ॥ कृतप्रेतिकृतिप्रौढ-स्तयोः स समरोत्सवः॥ वादिनोर्वादवत् कस्य । न प्रियंभावुकोऽभवत् ॥ ६०८॥3॥ तयोर्विगृह्णतोरेवं । लब्धलक्षतयाऽसिना ॥ आजेयश्चिच्छिदे भूभृ-च्छीर्ष कमलनालवत् ॥६०९॥ आजेयस्य शिरस्यागात् । पुष्पवृष्टिर्नभस्तलात् ।। भुवस्तलान्नभः प्राप । कीर्तिरामोदमेदुरा ॥६१०॥ ऊचिरे यान् जयारावां-स्तदा तं प्रति मागधा। उच्चाटमंत्रफट्कारा-स्त एवासन प्रतिद्विषः ॥ ६११॥ तदैव शोभने लग्ने । मूर्धनीव विरोधिनाम् ॥राज्ये न्यवीविशन्मंत्री । सुबुद्धिस्तमजासुतम् ॥ ६१२ ॥ सुप्रीतेस्तस्य सर्वेऽपि । मंत्रिणो नागरा अपि ॥ प्रीत्याऽभिषेकमातेनु-राधिपत्यतरोरिव ॥ ६१३ ॥ महीपालाश्च सीमालाः । स्फारोपायनपाणयः प्राणसिषुस्तमभ्येत्य । द्वितीयाचंद्रवन्मुदा ॥ ६१४ ॥ स्वयं स्वयंवरायाता । देवीभूमिगता इव ॥ परिणिन्ये नृपोऽनेका-इछेका नृपतिकन्यकाः॥ ६१५ ॥ इत्थमेकेन सत्त्वेन । चंद्रापीडं निहत्य सः॥ स्वसात्कृत्वा च तद्राज्यं । कृतार्थोऽजन्यजात्मजः॥ ६१६ ॥ रममाणः स्वपत्तीभि-देवीभिरिव १ रहस्यम्. २ पराक्रमेण, सैन्येन, च. ३ संग्रामाय. ४ शत्रुसन्मुखगामीनः-शत्रुममि सामर्थ्येन गंता, ५ कृतस्य प्रतिकरणे प्रौढः, ६ फुट्, प्र. ७ सुप्राप्ते,प्र. सुप्रातः,प्र.
४२॥
Page #135
--------------------------------------------------------------------------
________________
इ.पा.च. ८
वासवः ॥ तृतीयपुरुषार्थाब्धि - पारीणत्वं स लब्धवान् ॥ ६१७ ॥ तस्यासन् द्विसहस्यूना । लक्षी स्फूर्जद्रया हयाः ॥ द्विसहस्री गजेंद्राश्च । रथाः पङ्गास्त्वनेकशः ॥ ६१८ || यौवनानंगशृंगारान् । शिशिराल्पीकृतौजसः ॥ नेतुं स्फूर्तिमिव स्फीतां । वसतोऽथ समागमत् ॥ ६१९ ॥ जगच्छरव्यकरणा-स्प्राच्यपुष्पशरव्ययम् ॥ मत्वेव कुसुमास्त्रस्य । मधुस्तेने सुमो| त्करान् ॥ ६२० ॥ मलयाहिविषव्याप्तः । किं ववैौ तन्मरुत्तदा ॥ यदस्य स्पर्शतो मूर्च्छा-मानच्छुर्विरहातुराः ॥ ६२१ ॥ अस्त्यंत्र नोत्तमा जाति-मन्याश्च मधुपायिनः ॥ इतीव न वसंतोऽभू- नवरं व्रतिनां प्रियः ॥ ६२२ ॥ अस्त्रस्तोममिव स्मारं । वसंतसुमनः स्रजः ॥ वनीपालोऽवनी पाल – स्योपायनमुपानयत् ॥ ६२३ ॥ वितीर्य नृपतिस्तस्मै । कनकं पारितो षिके ॥ रिरंसया समः सन् । कृष्णवद्वनमाविशत् ॥ ६२४ ॥ पुष्पोच्चयपयः केलि - प्रेखा खोल्नादिभिः ॥ तत्राजेयश्चिरं | रेमे । नंदने त्रिदशैद्रवत् ॥ ६२५ ॥ नेत्रैकपेयं निर्मातुं । वनश्रीकमनीयकम् ॥ भ्राम्यन् शुश्राव भूमीशः । श्लोकमेकमिमं मुहुः ॥ ६२६ ॥ यत्र त्वमसि तत्रैव । तिष्ठतीं जननीं निजाम् || अदृट्रैव यदश्नासि । तत्ते घिग्हंस ! हंसताम् ॥ ६२७॥ तन्नि शम्य नृपो दध्यौ । श्लोकेनानेन कोऽप्यसौ । मामाचष्ट पुरेऽत्रैव । वसंतीं मम मातरम् || ६२८ ॥ धिग्धिग्मामनिशं मत्तः । श्रिया मदिरयेव यः ॥ स्वमातुरपि नास्मार्षं । किमकार्षमहं हहा ॥ ६२९ ॥ आजीवितं सतां माता । भवतीति महद्वचः ॥ तस्मै जलांजलिर्दत्तो । मया विस्मृत्य मातरम् ॥ ६३० ॥ माता पिता कलादाता । भीतित्राता तथा प्रभुः ॥ येनैते
१ पारगतत्वम्. २ कक्षा-शब्दः स्त्रीलिंगेऽप्यस्ति. ३ माघ-फाल्गुनो. ४ विस्तृताम् ५ चैत्र-वेशास्त्रौ. ६ लक्ष्यम्. ७ विगमभू. ८ कामदेवस्य ९ वसंतः १० वसंते. ११ ज्ञातिः, पक्षे-जाति ( जाइ वृक्ष ) पुष्पाणि. १२ मद्यपायिनः, पक्षे, भ्रमराः १३ स्मरसंबंधिनम्. १४ सनीकः, पक्षे, बलदेवयुक्तः १५ नृत्यम्. १६ दोला.
Page #136
--------------------------------------------------------------------------
________________
कुमारपालच०
॥४३॥
न्यकृतास्तेन । सुकृतं न्यकृतं निजम् ॥६३१॥ तदैव नृपतिःप्रोचे । मंत्रिणं जननी मम ॥ पुरेऽस्ति कापि तामद्य । दृष्दैवा-10 सर्ग. २ नामि नान्यथा ॥ ६३२ ॥ वनक्रीडादिकं सर्व । विहाय विषवन्नृपः ॥ स्वसौधमेत्य च प्रोचे । चरानिति चिरंतनान् ॥६३३ ॥ वप्रादहिर्याम्यदिशि । प्रष्टव्यो वाग्भटाख्यया ॥ पशुपालो भवत्सौघे । तनुजोऽजनि वा न वा ॥ ६३४॥ चरैस्तद्वाग्भटः पृष्टो । जगौ मेऽजनि नांगजः॥ अध्वन्येकस्तु लग्धोऽभूत् । सोऽपि कुत्रापि जग्मिवान् ॥ ६३५॥ चरैस्तदेत्य विज्ञप्तः । संशयालुरजासुतः॥ पटहं वादयामास । मातृज्ञप्त्यर्थमित्यथ ॥ ६३६॥ अभिधत्ते वसंती यः। पुरेऽत्र नृपमातरम् ॥ विश्राणयति तस्येष्टं । यथेष्टं सैर्ष तुष्टहत् ॥६३७॥ पटहे वाद्यमानेऽपि । कोऽपि नोवाच मातरम् । नृपस्तदपरिज्ञानात । खिन्नोऽप्यत्ति न सर्वथा ॥ ६३८ ॥ अभुंजानेऽथ भूजानौ । चिखिदे तत्परिच्छदः॥ अदीप्यमाने दीपे हि । न प्रकाश प्रकाशभाग् ॥ ६३९ ॥ अथ स्त्री रोगिणी काचि-देत्य भूपं व्यजिज्ञपत् ॥ यदि त्वं मे गदं हंसि । तदा त्वजननीं वे ॥६४०॥ आजेयस्तां मुदाऽऽचष्ट । दृष्टायां निजमातरि ॥ अहत्वा त्वद्गर्द भद्रेन पयोऽपि पिबाम्यहम्॥६४१॥ ततः सा वनिता कापि । गत्वा देवीव तत्क्षणम् ॥ गंगामानीय मातेय-मिति तस्मै समार्पिपत् ॥ ६४२ ॥ स्वपुत्रदर्शनादेव । गंगायाः स्तनयुग्मतः॥ स्तन्यमाविरभून्मूर्त । प्रेमेव हृदयाद्वहिः॥ ६४३ ॥ अजानतोऽपि भूजाने-जननीदर्शनादपि ॥ उद्धेर्षच्छद्मना तेने-ऽभ्युत्थानमिव रोमभिः॥ ६४४॥ स्तन्यच्युतिप्रत्ययतो । नृपो ज्ञात्वा स्वमातरम् ॥ उत्थाय ॥४३॥ विधिवद्गोत्र-देवतामिव नेमिवान् ॥ ६४५॥ अप्राक्षीच्च व तातो मे । सा जगी स्वर्गभागभूत् ।। पुनः स पृष्टवान्
तिरस्कृताः. २ ददाति. ३ इच्छितवस्तु. ४ राजा. ५ आनन्दमिषेण.
Page #137
--------------------------------------------------------------------------
________________
AUSSURES
मातःपार्थक्यं कथमाययोः ॥६४६॥ साऽश्रुमिश्रमुखी प्राह । वत्स ! वेदविदां वरः॥ धर्मोपाध्यायसंज्ञस्ते । तातो गंगाऽस्मि च प्रसूः ॥६४७॥ पिता त्वां जन्मलग्नेन । भूपं संभाव्य भाविनम् ॥ नरकं मत्सुतो गंता । हहा राज्यभवांऽहसा 8 ॥६४८॥ एतत्संतानिनोऽप्येवं । निपतिष्यति दुर्गतौ ॥ध्यात्वेत्यत्याजयद्वा । तदैव त्वां मया बलात् ॥६४९॥ युग्मम् ॥ ततस्त्वं वृद्धवान् कस्य । वेश्मनीति न संविदे ॥ अथ त्वां दृष्टवत्यस्मि । पुनः पुण्यमिवात्मनः ॥ ६५० ॥ तन्निपीय नृप|श्चित्ते । विमर्शन कार्मिकी गतिम् ॥ सत्कृत्य च सवित्री तां । प्रैषीदंतःपुरांतरम् ॥६५१॥ अथाजेयः स्ववैद्येभ्यो । रोगिणी तामदीहशत् ॥ अचीकथच्च सजेयं । क्रियतां क्षिप्रमौषधैः॥ ६५२॥ तां निरीक्ष्य परीक्ष्यापि । ते सुराज्ञे व्यजिज्ञपन् । अंत्रशाटो बभूवास्याः साध्येयं तेन नैव नः ॥ ६५३ ॥ तदैव पुरतस्तेषां । मांसखंडान्यनेकशः॥ उदम्य विस्रगंधीनि मृतप्रायेव साऽभवत् ॥ ६५४ ॥ पुनःप्रोचे नृपो वैद्या-नसाध्याऽस्ति यदप्यसौ ॥ तथाऽपि कृपया योग्य-भैषजैरुपचर्यताम् ॥ ६५५ ॥ तथा कृतेऽगदंकारै-नृपादेशवशंवदैः ॥ अत्युग्रौषधशोषेण । सा मूर्छालाऽपतद् भुवि ॥ ६५६ ॥ नृपेण कार्यमाणैर-प्युपायैरतिशीतलैः॥ कथंचिदपि चैतन्यं । सा प्रमीतेव नानशे॥६५७॥ उल्लापयिष्यते सेयं, कथमित्यातुरे प्रभौ । वैदेशिको भिषक् कोऽपि, कुतोऽप्येत्यौषधं जगौ ॥ ६५८ ॥ अजादुग्धेन पुष्टस्य, नरस्य रसना ऽऽमिषम् । यद्यस्यै दीयते तर्हि, स्यादवश्यमियं विरुक् ॥ ६५९ ॥ यद्येवं स्यादियं नीरुग् , लेभे तर्हि न किं मया । इति हृष्टो नृपः शख्या, स्वजिह्वां छेत्तुमुद्यतः॥६६०॥ क्लिश्नाति स्वमपि प्रायः, साधुः परहितेच्छया। कर्पासो न कियत्कष्टं, सहते जनहेतवे ॥६६॥ १ श्री. २ श्री. ३ सेयंत्री कथं ? उबंधनं प्रापयिष्यते-प्राप्स्यति वा-कथं निरामया भविष्यति इत्यर्थः.
9689900CRACCAR
4064%
Page #138
--------------------------------------------------------------------------
________________
कुमार
पालच०
॥४४॥
*%
SCARSASARAN
यावच्छिनत्ति जिह्वान-माजेयस्तावदंबरे । राजन् ! मा साहसं कार्षि-रित्युच्चैरुदितो ध्वनिः॥ ६६२ ॥ ध्वन्यनंतरमेव द्रा-मादुरासीत्पुरः सुरी । रोगार्ता स्त्री च वैद्यश्च, तिरोऽभूतां पयोदवत् ॥६६३॥ संभ्रांतो भूधवो दध्यौ, व साऽऽर्ता स्त्री! भिषक व सः कोऽयं दिव्यो ध्वनिः ? केयं ?, देवतेत्यद्भुतं किमु ॥ ६६४ ॥ सा देवी तमुवाचैवं, येयं चंद्रानना पुरी । अस्म्यधिष्ठायिनी तस्या-स्त्वय्याजन्मातिवत्सला ॥ ६६५ ॥ ताहशीम्यो विपद्भ्यस्ते, प्रोद्धृतस्य मया|ऽधुना । प्राज्यं राज्यं वितीर्यंत-चके सत्त्वपरीक्षणम् ॥६६६॥ वत्सास्ति त्वयि तत्सत्त्व-मुपकारकजीवितम् । जीवन्नपि विना
येन, जनः स्यादपजीववत् ॥ ६६७ ॥ द्वात्रिंशल्लक्षणाधिक्यं, यत्सत्त्वस्याल्पमेव तत् । येन जीवति जीवोऽपि, ततोऽप्यPIधिकमस्त्यदः ॥ ६६८॥ तदिदं सुचिरं राज्यं, त्वं सत्त्वालय! पालय । सात्त्विकानां च भूपानां, शिरश्चूडामणीभव ॥६६९॥
सा देवीत्याशिष दत्त्वाऽ-भ्रच्छायेव तिरोऽभवत् । स्नानाद्याचर्य भुंक्ते स्म, भूपोऽपि सपरिच्छदः॥ ६७० ॥ पद्भिः कुलकम् ॥ आश्रितः सात्त्विकी वृत्तिं, सत्यभामाबलान्वितः । विष्णुवत्पालयन् लोकं, सोऽभवत् पुरुषोत्तमः ॥ ६७१॥ कदाचिद्गुरुसंपर्के, संपन्ने सिद्धिलग्नके । ललौ सम्यक्त्वमाजेय-चिंतामणिमिवाधनः ॥६७२॥ सम्यक्त्वं पालयन् शुद्धं, जैनं धर्म प्रभावयन् । विस्तारयन् यशःस्तोमं, स महीं चिरमन्वशात् ॥६७३॥ अथ वार्धकवर्धिष्णु-भवनिर्वेदमेदुरः। विरज्यति स्म राज्यादा-वजासूनुर्मुमुक्षुवत् ॥ ६७४ ॥ एताः खला इव चला, विरसाः स्ववशा न हि । इत्यसौ नितरामासीत् । श्रीषु स्त्रीष्वप्यनादरः ॥ ६७५ ॥ एषां सती परित्यागे, गुणः स्यादसतां तु न । अतः सतः स तत्याज, विषयान् विषसोदरान्
सत्य-वचनम्, भा-दीप्तिः, मा लक्ष्मीः, बळ-पराक्रमम्. १ भियः नियच. ३ विषयाणाम् . ४ विद्यमानानाम्. ५ अविद्यमानानां.
%%AA%CA
॥४४॥
Page #139
--------------------------------------------------------------------------
________________
॥६७६ ॥ देहस्थामपि पंचाक्षी, विजये नैव यद्यहम् । तर्हि में शूरता केति, व्यजिगीषत तामसौ ॥ ६७७ ॥ ततो राज्यश्रियं दत्त्वा, सूनवे नयशालिने । अजापुत्रो गुरूपांते, संयमश्रियमाश्रयत् ॥ ६७८ ॥ कषाययामिकवृत्ता-भवकारागृहांतरात् । निर्यियासुरिव क्षिप्रं, स क्रियोद्धारमानशे ॥६७९॥ भवप्रेतवने मोह-पिशाचो मां छलिष्यति । इतीवागममंत्रं स, स्मरति स्म दिवानिशम् ॥ ६८०॥ अदत्त क्षीयते क्षिप्र-मिदं दत्तं तु वर्धते ॥ इति चिंताधिकं ज्ञानं, मुनिभ्यः स मुनि-10
ददौ ॥ ६८१॥ कुशीलं नेहतेऽन्यापि, निवृत्तिः प्रेयसी किमु । इतीव स मुनिः शीलं, सलीलं पर्यशीलयत् ॥ ६८२ ॥ 18 इदमेव भवांभोधि-पानेऽगस्तिमुनीयते । इति मत्वा स राजर्षि-स्तपस्तेपेऽतिदुस्तपम् ॥ ६८३ ॥ न विना भावना
दूती, मुक्तिर्धत्तेऽनुकूलताम् । विमृश्येतीव स स्वांते, शान्ते तां पर्यभावयत् ॥ ६८४ ॥ इत्थं चतुर्विधं धर्म, संयंत्यपि
गृहस्थवत् । चतुःप्रकारं संसारं, निष्पेष्टुमिव निर्ममे ॥ ६८५ ॥ इत्याचर्य चिरं चरित्रमसमं, साम्यं श्रयन्मानसे,प्रांते चानदशनाद्विपद्य विधिना, स्वर्लोकमासाद्य च । आजेयः स बार भाजनमुरुश्रेयःश्रियो वैभवं, तच्छातक्रतवं पचेलिमशुभप्रा-16
ग्भारसजीकृतम् ॥ ६८६ ॥ ततश्चयुत्वा तस्मात् त्रिदशसदनात् प्राप्य नृभवं, श्रितो दत्तेत्याख्यां शुभविभवसंभारसुभगः। अजापुत्रश्चंद्रप्रभजिनपदांते गणधरः, स्फुरित्वा कैवल्यं दधदतनु लेभे शिवसुखम् ॥ ६८७॥ एतामजासुतकथां विनिशम्य ४ सत्त्वे, तत्संनिवेश्य हृदये स कुमारपालः । स्थानं निजं समधिगम्य दधिस्थली तां, धर्मार्थकामविवशान दिवसान्निनाय॥६८८॥ इति श्रीकृष्णर्षीयश्रीजयसिंहसूरिविरचिते महाकाव्ये परमाईतश्रीकुमारपालभूपालचरिते तजन्मवर्णनो नाम द्वितीयः सर्गः
१ विजेतुमैच्छत् . २ मध्यात्. ३ शुद्धक्रियाम्. ४ प्राप-स्वीकृतवानित्यर्थः ५ चिंतयाधिकं, चिंतामणिरत्नादधिकं वा. ब्रह्मरहितं पुरुषम्. . श्री. ८ संयत्-युद्धं तस्मिन् , पक्षे संयती-साधुः ९ गृहे स्थित इव, पक्षे भावकवत्. १० बभाज, प्र. वै नवं-प्र. १२ शतक्रतो-रिन्द्रस्येदं शातक्रतवम्
SIRIPAIGAISAURAHIAAAA
Page #140
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ ४५ ॥
॥ अथ तृतीयः सर्गः प्रारभ्यते ॥
अथ श्रीसिद्धराजस्य, राज्यं पालयतः सतः । भूयांसोऽपि सुखेनेयु- र्वासरा इव वत्सराः ॥ १ ॥ परं गृहस्थधर्मद्रोः, फलं नापत्यमाप सः । सशल्य इव तेनांत - र्महतीमधृतिं दधौ ॥ २ ॥ दध्यौ च मेऽभवन्मूर्ध्नि, पलितंकरणी जरा । पुत्रं नाद्यापि पश्यामि, निष्पुण्य इव सन्निधिम् ॥ ३ ॥ कुलं समृद्धमध्येत - न्निःश्रीकं तनयं विना । न शोभते सरः पूर्णमपि निष्कमलाकरंम् ॥४॥ दिनं दिनकरं विना, वितरणं विना वैभवं महत्त्वमुचितं विना, सुवचनं विना गौरवम् । सरः सरसिजं विना, धनभरं विना मंदिरं, कुलं तनुरुहं विना, श्रयति नैव सश्रीकताम् ॥ ५ ॥ संसारेऽस्मिन् द्वयं सारं, विभवंस्तनयोऽपि च । तेनैकेनापि हीनस्य, जन्मिनो जन्म निष्फलम् ॥ ६ ॥ जलबुद्बुदवद् विद्युद् — द्युतिवत्सांध्यरागवत् । कुर्ल नश्यति निष्पुत्रं, सहसाऽपि हहाऽङ्गिनाम् ॥ ७ ॥ पुत्रार्थं पार्थिवस्तेने, प्रयोगान् विविधांस्ततः । तथापि न स तस्यासी - भाग्यायत्ता हि सिद्धयः ॥ ८ ॥ अनपत्यतया दून - स्तदा श्रीसिद्धभूधवः । हेमाचार्य सहाकार्य, नंतुं तीर्थानि चेलिवान् ॥ ९ ॥ पादचारिणमालोक्य, चौलुक्यक्षितिभृत् प्रभुम् । सुखासनाधिरोहार्थ -मत्यर्थमुपरुद्धवान् ॥ १० ॥ गुरुर्जगदिवान् राजन् ! यतीनां नैव युज्यते । परपीडाकरत्वेन, वाहनाद्यधिरोहणम् ॥ ११ ॥ पद्भ्यां गलदुपानद्भ्यां संचरति दिवाऽत्र । चारित्रिणस्त एव स्युर्न परे यानयायिनः ॥ १२ ॥ जानाना जीवलोकस्य, सुखदुःखं प्रियाप्रियम् । कृपालवः कथं - जैनाः पीडां परात्मनाम् ॥ १३ ॥ यानानादानतो दूनः, कोपर्कप्रो नृपः प्रभुम् । महात्माऽपि जडोऽसि त्व-मि१ सेवधिं, प्र. २ समूहम् ३ संचरते प्र.
सर्ग.
11 84 11
Page #141
--------------------------------------------------------------------------
________________
AURANGANA
त्युदीर्य पुरो ययौ ॥ १४ ॥ त्रीण्यहानि पथि कापि, समगंस्त न सूरिराट् । अमंस्त तेन तं रुष्टं, स्वचित्ते क्षितिवल्लभः॥१५॥ तरीयेऽहनि सूरीशं, प्रसिसादयिषुः स्वयम् । नृपो गुरुदरद्वार-मुपासक इवासदत् ॥ १६ ॥ बहिःस्थितेन श्रीसिद्धमाभृता सूरिक्ष्यत । कांजिकेन समं भैक्ष, भुंजानः सपरिच्छदः॥ १७ ॥ तप्यंतेऽमी तपः कीड-महात्मानो यदन्वहम् । अनंत्यन्नं जलक्किन्नं, मार्गे चांहिप्रचारिणः ॥ १८॥ तदन्यजनसामान्य-धिया ऽमी माननोचिताः। नापमान्या
मया किंतु, मान्या एव महेशवत् ॥१९॥ विमृश्येति नृपः सूरेः, क्रमौ नत्वाऽब्रवीत्प्रभो। यानानाश्रयणे रोषा-मयोचे ४ यत्क्षमस्व तत् ॥२०॥ सुखासनं मयाऽऽनीतं, यत्त्वं नाहतवांस्तदा । तेनोक्तस्त्वं जडोऽसीति, मया नाभक्तितः पुनः C॥२१॥ अध्वन्यपि सदाचारा-ध्वन्य! यन्मे न संगतः । तेन त्वां रुषितं ज्ञात्वा-ऽनुनेतुं प्राप्तवानहम् ॥ २२ ॥ ततः18
प्रभुभाष तं, किमागः प्रकृतं त्वया । यत्क्षम्यते मया देव ! त्वादृशा हि न सागसः ॥ २३ ॥ यच्च वर्त्मनि न क्वापि, | देवस्य समगंस्यहम् । कोपस्तत्र न मे किंतु, नार्थः पार्थिवदर्शने ॥२४॥ पद्भ्यामध्वनि संचरेय, विरसं भुंजीय भैक्षं सकृजीर्ण वासो वसीय, भूमिवलये रात्रौ शयीय क्षणम् । निस्संगत्वमधिश्रयेय, समतामुल्लासयेयानिशं, ज्योतिस्तत्परमं दधीय हृदये, कुर्वीय किं भूभुजा ॥२५॥ जीवन्मुक्तवदत्यंतं, तमलोलुपमानसम् । सूरिं प्रणम्य भूमीशो, निजवासमशिनि8यत् ॥ २६ ॥ ततः पुरस्सरीकृत्य, गुरुं जंगमतीर्थवत् । विमलाचलमारुक्षत्, सिद्धराट् सपरिच्छदः ॥ २७॥ कल्याणीभक्तिरभ्यर्च्य, तत्र श्रीनाभिनंदनम् । निस्सीम कलयामास, लोचनेन जनुःफलम् ॥ २८ ॥ पश्यन्नस्तनिमेषाभ्यां, दृग्भ्या-15 १ सिखंड निवसीय, प्र, सिच्-वस्त्रं तस्य खंडस्तम्. २ श्रयाय-प्र. ३ स लोचनजनुःफलम्, प्र.
सो
भूभुजा ? ॥ २५ ॥गमतीर्थवत् । विमलाचलनाजनःफलम् ॥ २८ ॥ प
Page #142
--------------------------------------------------------------------------
________________
कुमारपालच
॥४६॥
मादीश्वरं मुहः । स द्वेधापि महानंद-मंदिरं स्वमविंदत ॥ २९ ॥ हेमाचार्योऽपि तुष्टाव, श्रीनाभेयं नवैः स्तवैः। भक्तिवल्लीसमुद्भूत-प्रसूनस्तवकैरिव ॥ ३० ॥ तत्र तीर्थेऽर्हतां प्रेक्ष्य, माहात्म्यं वागगोचरम् । चौलुक्यः प्रापदास्तिक्यं, परमं । जिनशासने ॥३१॥ ईदृशे यदि तीर्थेऽस्मिन् , स्वयं न श्रीनिवेश्यते । तदा प्रेत्य कथंकारं, सुराजंभवमंगिभिः ॥ ३२॥ विचार्येति नृपोऽगण्य-पुण्यपण्यसमीहया । ददिवान् द्वादशग्रामी, श्रीनाभेयार्चनाकृते ॥३३॥ युग्गम् ॥ पीयूषरसदेशीय, रश(सनैरशनैरसौ । अवारितानि सत्राणि, प्राववर्तत भूरिशः ॥ ३४ ॥ नूतनक्षौमपृथ्व्योघ-हास्तिकाश्वीयदानतः । सोऽर्थकान् पार्थिवीचक्रे, कटरेऽस्य वदान्यता ॥३५॥ अवतीर्य ततस्तीर्था-सिद्धेशो रैवताचलम् । गत्वा प्रणेमिवान्नेमि-त देवं मदनसूदनम् ॥ ३६॥ श्रीखंडकुसुमस्वर्ण-रत्नाद्यैर्नेमिनायकम् । पूजयामासिवानात्म-पुपूजयिषयेव सः॥ ३७॥ आसने समुपानीते, विनीतैर्देवसेवकैः । भक्त्या तत्सिद्धराट् त्यक्त्वा, सर्वाध्यक्षमिदं जगौ ॥ ३८ ॥ अस्मिंस्तीर्थे नृपेणापि,18 नोपवेष्टव्यमासने । मंचे न शेयं भुक्तौ च, न धार्याऽडणिकाऽग्रतः ॥ ३९॥ प्रसवो न स्त्रिया कार्यो, मथनीयं च नोद दधि । प्रतिपाल्या व्यवस्थेयं, धर्मास्थाऽऽधायिभिर्नूमिः॥४०॥ युग्मम् ॥ उल्लसत्कवितावल्याः, फलानीव जिनेशितुः| स्तोत्राण्युपायनीचक्रे, हेमाचार्योऽपि भक्तितः॥४१॥ उजयंतादथोत्तीर्य, देवपत्तनमेत्य च । नत्वा सोमेश्वरं माप-18
कोटीनारपुरं नृपः॥४२॥ विश्वांबामिव तत्रांबां, भक्त्याऽभ्यर्य भुवः प्रभुः। अपत्यचिंतासंतप्तो, हेमाचार्य व्यजिज्ञपत In४३ ॥रत्नस्वर्णगजाश्वादि, सर्वमप्यस्ति मद्गृहे । तनुजः केवलं नास्ति, राज्यश्रीवल्लिपादपः॥४४॥ प्रसाद्य तदसा
१ मैत्रानन्द- विषयेन परत्र मोक्षप्राप्त्या च महांश्वासी आनन्दश्च महानन्दस्तस्य मंदिर-स्थानम्. २ भास्मानम्. ३ आत्मना.
RECEROSSAX
॥४६॥
Page #143
--------------------------------------------------------------------------
________________
वंबा, देवतेत्यनुयुज्यताम् । भविता मे सुतो नो वा, मत्पश्चात् कश्च भूपतिः॥४५॥ ततस्तेनेति विज्ञप्तः, सूरिस्त्रिभिरुपोषितैः । आराध्याऽम्बां तदादिष्ट-माचष्टेति महीभृतम् ॥४६॥ अपत्यं नास्ति ते देव!, कृतैरौपयिकैरपि । यस्तु त्वामनु भूमीभुगू, भावी तमवधारय ॥ ४७ ॥ कर्णदेवांगजक्षेम-राजपुत्रः पवित्रधीः । देवप्रसाद इत्यासी-दधिस्थल्यां कृतस्थितिः॥४८॥ तत्पुत्रोऽस्ति त्रिभुवन-पालः सत्त्वैकसेवधिः । यद्दोविध्यस्थले शौर्य-गजः संक्रीडतेऽनिशम् ॥४९॥ संति तत्तनुजन्मानो-मानोदात्ततमाशयाः । श्रीकुमारमहीपाल-कीर्तिपाला इति त्रयः॥५०॥ कुमारपालस्त्वद्राज्ये, भविता विश्वविश्रुतः । यः संप्रेतिरिवावन्यां, जैन धर्म तनिष्यति ॥५१॥ इति श्रीसूरिवाक्येन, प्रॉसेनेव हतो हृदि । क्षमापः प्राप संताप-मवाङम(मा)नसमोचरम् ॥५२॥ ततो यात्रापवित्रात्मा, श्रीगूर्जरधरेश्वरः । श्रीहेमसूरिणा सार्ध, राजधानी | निजां ययौ ॥५३॥ अथांबादेशसंवाद-चिकीः श्रीकर्णनंदनः । पुत्राप्तिंभाविभूपं च, पप्रच्छ गणकानिमान् ॥५४॥ तेऽपि तात्कालिकं लग्न-तत्त्वं वित्त्वा तदुत्तरम् । देव्यादेशवदाचख्यु- विज्ञानं हि नान्यथा ॥ ५५॥ देवीनैमित्तिकोत्याऽपि, संपन्नाप्रत्ययो नृपः। आरिराधयिषामास, सोमेशं सुतकाम्यया ॥५६॥ प्रचरन् पादचारेण, कॉपोती वृत्तिमुद्वहन् । केदारपुत्रवत् कर्ण-पुत्रोऽगाद्देवपत्तनम् ॥ ५७ ॥ स्नात्वा प्रभासे सस्त्रीको, भूपरूयहमुपोषितः । पुष्पाद्यैः पूजयित्वोच्चैः, सोमनाथमतोषयत् ॥ ५८ ॥ अंगरंगत्प्रभापूरै-स्तमिस्रामपि घस्रयन् । प्रत्यक्षीभूय सोमेशः, किं ? स्मृतोऽस्मीति तं जगौ
पृच्च्यताम्. २ संप्रतिनामा-राजा. ३ कुंतेन. ४ ज्योति शास्त्रम्. ५ उञ्छवृत्तिम्-अबाधितस्थानेषु पथि क्षेत्रेषु अप्रतिहतावकाशेषु यत्र यत्र औषधयः (धान्यादि) विद्यते तत्र तत्र भंगुलीभ्यां एकैकस्य कणादेः (कणस्य ) विक्रीतावशिष्टस्य कणशः आदानेन वृत्तिं कुर्वागः इत्यर्थः. ६ कार्तिकेयवत् .
64466CRACCक
कर
Page #144
--------------------------------------------------------------------------
________________
सर्ग
कुमारपालच०
४
॥४७॥
॥ ५९॥ नत्वा व्यजिज्ञपद् भूपो, वार्धकं मे समागतम् । परं नैकोऽप्यभूत् पुत्रः, स्ववंशे यो ध्वजायते ॥ ६० ॥ देव ! त्वत्सेवकस्यापि, या ममेयमपुत्रता । सुरद्रुमाश्रितस्यापि, पुंसः सा सानहीनता ॥ ६१॥ सद्यः प्रसद्य तद्देहि, मह्यमकं तनूरुहम् । तराविव लता यत्र, राज्यश्रीरवतिष्ठते ॥६२ ॥ ध्यात्वा सोमेश्वरोऽवोच-त्तव नास्त्येव संततिः। राज्याहस्तु पुराऽप्यस्ति, कुमारः स्फारविक्रमः॥६शापुनः प्रोचे नृपोदीन-स्त्वं श्रुप्तोऽभीष्टदायकः। दत्से न पुत्रमप्येकं, कीदृक् तेऽभीष्टदातृता ? ॥ ६४ ॥ पुत्राप्तियोग्यता नास्ति, तवाहं करवै किमु ? । तामंतरेण निर्मातुं, न कोऽपि किमपि क्षमः ॥६५॥ इत्युक्त्वाऽन्तर्हिते देवे, सिद्धेशः खेदमेदुरः। स्वं निंदस्तनयाप्राप्त्या, निजमाजग्मिवान् पुरम् ॥६६॥ ततो देवीनिमित्तज्ञदेवादेशैविशांपतिः । कुमारपालं राज्याई, मत्वा दिद्वेष तं प्रति ॥ ६७ ॥ पित्रादीन् घातयित्वा तं, घातयामीति बद्धधीः। अघातयत् त्रिभुवन-पालं स प्रेष्य घातकान् ॥ ६८॥ औद्धदेहिकमाधाय, पितुस्तद्घातकारणम् । कुमारो राजवर्गीणान् , प्रवीणान् पृष्टवान् रहः॥ ६९ ॥ केनापि परमाप्तेन, घातहेतौ निवेदिते । चिंतयामास चित्तेऽसौ, निर्विण्णात्मा मुनीशवत् ॥ ७० ॥ धिग् राज्यं यत्कृते मूढे-वीरभोगीणबाहवः । पितृभ्रातृतनूजाद्या, विध्वंस्यंते विरोधिवत् ॥७१॥ ये श्रियं शाश्वती कतु-मीहते बंधुघाततः। वल्लीमल्लासयंते ते, दीव्यद्दावाग्नियोगतः॥७२॥ वरं दोस्थ्य, वरं भक्षं, वरं प्राणव्ययोऽपि च । न तु श्रियः स्वकुल्यानां, घातसंजातपातकाः॥७३॥ अधःपातोऽवश्यं भवति गगनानादिव येतो, महान क्लेशो यस्मिन् विलसति 'युधीव' प्रतिपदम् । न यत्स्थैर्य योषिन्मन इव' निधत्ते क्षितिधवा, बुभुक्षेते राज्य
* भोजनराहित्यम्. १ वीराणामुचितः भोगः-वीरभोगस्तस्मै हिताः-वीरभोगीणाः ईदृशाः बाहवो येषां ते. २ राज्यातू. ३ राज्ये. ४ राज्यम्. ५ भोक्तुमिच्छन्ति.
॥४७॥
Page #145
--------------------------------------------------------------------------
________________
Horrororg
निजकलजपातेन तदपि ॥७४॥ रिपवंति परे किंचि-त्प्रतिपद्यैव कारणम् । दैववत्तद्विनैवायं, सिद्धराजो दुराशयः॥७५॥ यावदेष स्फुरद्वेषो, न घातयति मामपि । तावत् परिच्छदं मुक्त्वा, क्वापि त्राये स्वजीवितम् ।। ७६ ॥ विमृश्येति कुमा-1 रोऽगाद्-गूढमंत्रविधित्सया । 'बंधोरिव' स्वसृपतेः, कृष्णदेवस्य सन्निधिम् ॥ ७७ ॥ अभिप्रायं प्रकाश्य स्व-मिदानीं। करवाणि किं । इति पृष्टस्तमाचष्ट, कृष्णदेवः पटिष्ठधीः॥ ७८ ॥ विधी वक्र स्थिते मूर्भि, मन्ये सोऽपि महेश्वरः।। भिक्षयाऽऽत्मभरिर्जज्ञे, का कथाऽन्यस्य देहिनः॥ ७९ ॥ प्रसीदति विधिर्याव-त्तावत्स्वीयं परिच्छदम् । धीमन्मुक्त्वा दधिस्थल्यां, त्वं देशांतरमाश्रय ॥ ८०॥ प्रभाकरोऽपि निस्तेजाः, श्रित्वा देशांतरं निशि । प्रातरोजायमानः सन् , पुनः स्वं पदमश्नुते ॥ ८१॥ अत्रत्यं राजसूत्रं त्वां, ज्ञापयिष्याम्यहं चरैः । वेषांतरेण त्वं भ्रांत्वा, नयस्व कतिचित्समाः ॥२॥ ततो मुक्त्वा दधिस्थल्यां, स्वीयां भोपलदेप्रियाम् । भ्रात्राचं परिवारं च, कुमारो निरगान्निशि ॥८३॥ जटाधरत्वमाश्रित्य, स्वं कुत्राप्यप्रकाशयन् । धूर्तवत्सोऽभ्रमद् भूमौ, कौतुकान्यवलोकयन् ॥ ८४॥ वधाय मृगयित्वा त-मलब्ध्वा चाथ सिद्धराट् । भटानादिष्टवान् ज्ञाप्यः,कुमारोऽत्रागतो मम ॥८५॥ कालं कियंतं स भ्रांत्वा, परिव्राजकमध्यगः । राज्यस्वरूपं जिज्ञासुः, श्रितोऽणहिल्लपत्तनम् ॥८६॥ राजकीयैर्भटैक्ष्यिा -दुपलक्ष्य सपद्यपि । रिपुस्तेऽत्रागतोऽस्तीति, न्यवेद्यत महीभृते ॥ ८७॥ तद्वधोपायमाध्याय, स्वपितृश्राद्धवासरे। सर्वान्निमंत्रयामास, जटिलान् कुटिलो नृपः॥ ८८॥ कुमारोऽपि समायासी-जटाधारी तदंतरे । सैद्धराजै टैधूर्ते-आतोऽस्मीत्यविदन् हृदि ॥ ८९॥ एकैकशः क्रमौ तेषां, क्षालयन् |
समीपम्. २ चंद्रे-पक्षे-भाग्ये. ३ वर्षाणि. ४ विचिन्त्य.
MORECARENCIEMALEARCC
ia
Page #146
--------------------------------------------------------------------------
________________
कुमारपालच.
॥४८॥
द्विबुभुत्सया । ऊ रेखादिभिश्चिहै, कुमारं ज्ञातवान्नुपः ॥१०॥ दृष्ट्याऽतिक्रूरया पश्यन् , काश्यपीशस्तदिंगितैः । विदांचक्रे कुमारेण, ज्ञातवानेष मामिति ॥ ९१ ॥ घातयिष्यामि भुक्त्यूई-मिति ध्यायति भूधबे । भुक्त्वा पलाय्य यामीत्थं, ध्यायन् सोऽत्तुं निषेदिवान् ॥ ९२॥ धौतपोतसमाकृष्टयै, कोशावासं निते नृपे । भुक्वाऽनेशत्कुमारो दाग , वांतिव्याजेन तद्गृहात् ॥ ९३ ॥ कोशागारान्नृपोऽभ्येत्य, जटिभ्यः सिचान् ददत् । तमप्रेक्ष्य क्रुद्धाध्मातः, सेनान्यं सहसाऽऽदिशत् ॥ ९४ ॥ इतः कुमारो नंष्ट्वाऽगा-तं जीवंतमिहानय । नो चेत्त्वां तत्पदे नेष्ये, सद्यः कीनाशदासताम् ॥ ९५ ॥ स्वाम्यादेशात् स सेनानीः, ससैन्यः समवर्तिवत् । आत्तां कुमारपालेन, दिशं दैववशाद्ययौ ॥ ९६॥ भूयोभिरिव पेक्षींद्रवेगवातातिपातिभिः। गच्छंस्तुरंगमैः प्राप, तत्पृष्ठं स चमूपतिः॥९७ ॥ कुमारोऽपि रजःपूरं, हयानां हेषितान्यपि । दृष्ट्वा श्रुत्वा च वेत्ति स्म, पृष्ठे सैन्यसमागमम् ॥९८॥ संभ्रांतः प्रेक्षते यावत्, स पश्चात्तावदक्षत । उद्धेलमिव पाथोधि, सैन्यमायांतमंतिकम् ॥ ९९ ॥ किं करोमि ? क्व गच्छामि ? प्रविशामि व? वेति सः । आकुलोऽभूत्तदालोका-मार्यमाण इव स्वतः॥ १०॥ त्रस्तैणवद्दिशः पश्यन् , सोऽपश्यद्बदरीवणे । प्राग् राशीकृततत्पत्र-जालं हालिकमेककम् ॥ १०१॥ कुमारो हालिकं स्माह, पृष्ठतो नृपसैनिकाः । निर्मतुं हंत मां हेतु-मायांति यमदूतबत् ॥ १०२ ॥ तदात्य दयालुत्वं, |क्षिप्त्वाऽस्यां पत्रसंहती । त्रायस्व मां महत्पुण्य, भावि ते तापसावनात् ॥१०३॥ श्रुत्वा तत्सकृपः सोऽपि, मा स्म भैपीरिति ब्रुवन् । क्षिप्त्वा तं तत्र पार्वेऽस्था-दातुरे को हि नोपकृत् ॥१०४॥ उपरिष्टादधस्ताच्च, कंटकाप्रैररुंतुदैः । दूयमानः | शत्रु ज्ञातुमिच्छया. २ वस्त्राणि. ३ यमदासताम्. ४ यमवत्. ५ गरहेः, रेवतैरिति प्रत्यंतरे. ६ मर्मपीडका,
CUSSSSS
CUCCESS
॥४८॥
Page #147
--------------------------------------------------------------------------
________________
-CCIRCULOUSESSMARCRA
स दृग्द्वंद्व, निमील्य मृतवस्थितः ॥ १०५॥ तावत्ससैन्यः सेनानी-स्तत्पदन्यासदर्शनात् । तं प्रदेशं तमन्वागा-जीवं स्वकृतकर्मवत् ॥ १०६ ॥ तदग्रतः पदं तस्या-पश्यन् क्रुद्धश्चमूपतिः। त्रिनेत्र इव दुष्प्रेक्षा, प्रश्नयामास हालिकम्॥१०७॥ | रे त्वयाऽत्र युवा कश्चि-त्पीवरांसो महाभुजः । जटी गच्छन् पथाऽनेन, प्रेक्षांचक्रे न वा वद ॥ १०८॥ स प्रोचे बदरीभ्योऽहं, पत्राण्येतानि पातयन् । अद्राक्षं नैव तादृक्षं, कंचिद्व्यग्रः स्वकर्मणा ॥१०९॥ ततः प्रेष्य चतुर्दिक्षु, स सैन्यांस्तं निरीक्षितुम् । बंभ्रमीति स्म तद्देशे, भवे जीव इव स्वयम् ॥११०॥ भ्रम भ्रमं समंतात्ते, श्रांताः सर्वेऽपि सैनिकाः। सेनान्ये 8 कथयामासु-न प्राप्तः क्वाप्यसाविति ॥१११॥ व्यावृत्त्याथ चमूनाथो, भीत्या स्तेन इवातुरः । सर्वमुर्वीभृतेऽशंस-त्सोऽ प्यखिद्यत निर्भरम् ॥११२ ॥ प्रवृत्तिमस्य यः कश्चि-दानेता तस्य वांछितम् । धनं दाताऽहमित्युक्त्वा प्रैषी भूपोऽभितश्वरान् ॥ ११३ ॥ इतो नृपबले तस्मि-निवृत्ते पत्रमध्यतः। राव्यां प्रहरमाच्यां तं, हालिको निरकाशयत् ॥११४॥ | कंटकक्षतसर्वांग-क्षरद्बुघिरधोरणिः। द्रवद्धातुरसाश्लिष्ट-शैलवत्स तदाऽशुभत् ॥११५॥तदोन्मील्य हगंभोजे,जीवलोकं विलोकयन् । स शूनोन्मुक्तपशुवत्, स्वं जीवंतममन्यत ॥ ११६॥ कुमारो हालिकं प्रोचे, स्वस्य जीवातुमातुरः। भवत्सहायकादस्मि छुटितोऽद्य द्विषद्बलात् ॥ ११७ ॥ रक्षित्वा मामितः कृच्छ्रात, किं नैवोपकृतं त्वया । उपकारेषु यन्मुख्यं, प्राणिनः प्राणरक्षणम् ॥ ११८ ॥ जीवदातुर्भवतोऽह-मनृणः स्यां न यद्यपि । तथाप्युपकरिष्यामि, समये त्वां स्वबंधुवत् ॥ ११९ ॥ इत्युक्त्वा भीमसिंहेति-संज्ञां तस्यावधार्य च । कुमारः स कृतज्ञाना-मग्रणीस्तं विसृष्टवान् ॥१२०॥
१ पुनः पुनरतिशयेन वा भाम्यति. २ प्राणिवधस्थानोन्मुक्तपशुवत्. ३ जीवनौषधि, जीवस्यमातुरे. प्र. ४ भवधाय च. प्र.
भवतोऽहमनमामितः कृच्छात,
भीमसिंहेति
कृ.पा.च.९
Page #148
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ ४९ ॥
भद्राकृत्य जटाः सर्वा, वेषांतरधरस्ततः । संगंतुं स्वपरीवारं स प्रतस्थे दधिस्थलीम् ॥ १२१ ॥ पथि गच्छंस्तरुच्छाये, स स्थितः क्वाप्यलोकत । आकर्षतं मुखेनाखु, मुद्रां रूप्यमय बिलात् ॥ १२२ ॥ आकर्षत्येष कियती - रिति यावत्स पश्यति । मूषकस्तावदाकार्षीन्मुद्राणामेकविंशतिम् ॥ १२३ ॥ हर्षात्तदर्शनोत्पन्ना - दूध्वींभूय मनाग्मुहुः । तमाखुं प्रेक्ष्य नृत्यंतं कुमारः स व्यचारयत् ॥ १२४ ॥ नो भोगो, न गृहादिकार्यकरणं, नो राजदेयं किम-प्यन्यस्यापि न सत्कृतिर्न सुकृतं, सत्तीर्थयात्रादिकम् । यद् गृहंति तथापि लोलुपधियः सूच्यांननाद्या धनं, तन्मन्ये भुवनैकमोहनमहो नास्मात्परं किंचन ॥ १२५ ॥ आसित्वा च शयित्वा च, मुद्राणामुपरि क्षणम् । एकां चादाय तन्मध्या - दुन्दुरुर्बिलमाविशत् | ॥ १२६ ॥ शेषा मुद्राः समादाय, कुमारे निभृते सति । अप्रेक्ष्य ताः पुरः सद्यो, विपेदे मूषकोऽर्तिभाक् ॥ १२७ ॥ विपन्नं तं तथा प्रेक्ष्य, किमकारि मया हृहा । सुचिरं परितप्येति, कुमारः प्रस्थितः पुरः ॥ १२८ ॥ त्रिदिनीं भोजनाभावात्, क्षामकुक्षिस्तपस्विवत् । अतुच्छमूर्च्छया मील - न्नयनः सोऽहिदष्टवत् ॥ १२९ ॥ श्वशुरावासतो वेश्म, प्रयांत्या पैतृकं पथि । रथाधिरूढया वध्वा, प्रेक्षामासे कयाचन ॥ १३०॥ युग्मम् । तं तथा दुःस्थमालोक्य, दयालुहृदया सती । भ्रातृवात्सल्यमुच्छाल्य, स्वं रथं साध्यरूरुहत् ॥ १३१ ॥ कर्पूरपूर सौरभ्य - शुभं शालिकरंभकम् । अभोजयच्च दौःस्थ्येऽपि, दैवं चिंतापरं ध्रुवम् ॥ १३२ ॥ उदुंबराभिधे ग्रामे देवसिंहतनूरुहाम् । नाम्ना देवश्रियं तां स्त्रीं ज्ञात्वा स्वस्योपकारिणीम् ॥ १३३ ॥ मम राज्यक्षणे भग्नि ! कर्तव्यस्तिलकस्त्वया । इत्युदीर्य कुमारोऽगा-च्छ्रिया स्थूलां दधिस्थलीम् ॥ युग्मम् ॥ १३४॥ १ मीलितुम् २ मूषकाद्याः ३ गुप्ते जाते.
सर्ग. ३
॥ ४९ ॥
Page #149
--------------------------------------------------------------------------
________________
-वेष्टितांगोऽतिकटमलब्ध्वा च, न्यता॥१४२॥ विश्वाससमानता
राईभटैः पूर्वमायातै-स्तत्र दृष्ट्वा तमागतम् । कुमारोऽत्रागतोऽस्तीति, स्वनाथाय न्यवेद्यत ॥ १३५ ॥ जिघातयिषया तस्य, प्रहितं सिद्धभूभुजा । सैन्यं तत्र समायासीद्-धूलिच्छन्नार्कदीधिति ॥ १३६ ॥ तस्यां पुर्या चतुर्दिा, वेष्टि-12 तायां द्विषटैः । शशवत् श्वानमंडल्यां, सोऽभून्नंष्टुमनीश्वरः ॥ १३७ ॥ पचंतमिष्टका दृष्ट्वा, कुलालं सज्जनाह्वयम् । कुमारोऽर्थितवानेवं, त्रायस्वात्र निवेश्य माम् ॥ १३८ ॥ सज्जनः सज्जनत्वाय, स्पृहयालुर्निधानवत् । इष्टकापाकमध्ये तं, निक्षिप्यास्थात्तदंतिके ॥ १३९ ॥ समंतादिष्टकानातै-र्वेष्टितांगोऽतिकष्टभृत् । निरुच्छासतया सोऽभू-तत्र जीवन्मृतो-11 पमः॥ १४० ॥ समस्तायां दधिस्थल्यां, चैत्याराममठेषु च । अन्विष्य तमलब्ध्वा च, न्यवृतत्सिद्धराड्बलम् ॥ १४१॥ ततः कृष्ट्वा कुमारं तं, वेश्मानीय च सज्जनः । स्नपयित्वाऽशनं रम्यं, भोजयामास मित्रवत् ॥१४२॥ विश्वाससद्माऽस्तच्छद्मा, द्वितीयमिव जीवितम् । समगस्त कुमारस्य, वयस्यस्तत्र बोसरिः ॥ १४३ ॥ आसयित्वा निशीथिन्यां, सज्जनं तं |च बोसरिम् । कृतज्ञतोचितां वाचं, कुमारः प्रोचिवानिति ॥ १४४ ॥ मृत्योरिवास्माद् द्विट्सैन्या-त्त्वया सज्जन ! रक्षता। |'तातेनेव' पुनर्जन्म, मह्यं संप्रत्यदीयत ॥ १४५ ॥ द्वावेव पुरुषौ लोके, धरणीधरणोडुरौ । उपकर्ता कृतज्ञश्च, शेषास्त - द्वारकारणम् ॥ १४६ ॥ केचिन्नाम्ना गुणैः केचिद्, भूयांसः संति सज्जनाः। द्विधा पुनस्त्वमेवैकः, सज्जनोऽस्यधुना ननु ॥ १४७ ॥ गूर्जरेंद्रवदद्यापि, दैवं मे प्रातिकूलिकम् । प्राणप्रणाशकं क्लेशं, यद्ददाति पदे पदे ॥ १४८ ॥ तत्कुटुंब-द मितोऽवंती, सजन! त्वं नयस्व मे । अहं तु सुहृदानेन, युक्तो देशांतरं श्रये ॥ १४९॥ इति मंत्रयतस्तस्य, खाट्कारादिव] वाक्यतः । सज्जनांबाजनकयो-निद्राऽनेशत्तमा तदा ॥ १५० ॥ तौ रात्रिजागरोद्विग्नौ, द्विष्टाविव जजल्पतुः । मुधा जाग-18
४॥ मृत्योरियाधरणोद्धरौ । उपमका, सजनानकुटुंब-18
Page #150
--------------------------------------------------------------------------
________________
कुमार
र्ययाऽनायौं, नयेथे किं निशीथिनीम् ॥१५१॥ बोसरे ! किमसौ भूभृद्-भूत्वा ते लाटमंडलम् । दाता ? सजन ! तुभ्यं पालच०
किं, चित्रकूटस्य पट्टिकाम् ॥ १५२ ॥ युवां न स्वपितं कस्मा–निश्चिंतौ नरनाथवत् । अस्त्येतस्येव कर्तव्यो, मंत्रः किं?
युवयोरपि ॥ १५३ ॥ तद्वाक्यमित्थमाकर्ण्य, शकुनग्रंथिमंचले । बध्वा च भिन्नमर्मेव, कुमारो ध्यातवान् हृदि ॥१५४॥ ॥५०॥
दारिद्यमेव दौर्भाग्य, देहिनां यदधिष्ठितः । जल्पन्नपि जनोऽन्येषां, भवत्यरिरिवाप्रियः॥ १५५ ॥ गुणज्ञोऽपि कृतज्ञो|ऽपि, कुलीनोऽपि महानपि । प्रियंवदोऽपि दक्षोऽपि, लोकंप्रीणो न निर्धनः ॥१५६॥ सज्जनेन सहावंती, कुटुंबं स्वं प्रहित्य सः । स्वेन मूर्त्यतरेणेव, समं बोसरिणाऽचलत् ॥ १५७ ॥ स भ्राम्यन् प्रथमे घने, क्वाप्यनासादिताशनः। द्वितीये दिनतारुण्ये, ग्राम कंचित्समासदत् ॥१५८॥ क्षुधितस्तृषितश्चोचे, चौलुक्यो बोसरि द्विजम् । उपायश्चिंत्यतां कश्चि-द्यथा संपद्यतेऽशनम् ॥१५९॥ द्विजो जजल्प जननी, भोजनं मे प्रदास्यति । सोऽपृच्छत् क्वास्ति ? सा तत्र, भिवेत्यवदत् सुहृत् ॥१६०॥ सर्वत्र सुलभाऽभीष्ट-भोजनादिप्रदायिनी । भिक्षाचराणां भिक्षैव, जननी राजते नवा ॥१६१ ॥ इत्युदीर्य स्फुरद्धैर्यो, द्विजो ग्रामं प्रविश्य तम् । करंभनिभृतं कुंभं, बहीं भिक्षां च लब्धवान् ॥१६२॥ वस्त्रेण कुंभं संगोप्य, तस्मै मिक्षा प्रदश्य च । तावुभावपि तां भुक्त्वा, सुखं सुषुपतुर्मठे ॥ १६३ ॥ कुमारेऽथ द्विषद्भीत्या, कूटनिद्रामुपेयुषि । करंभ कुंभतो
लात्वा, द्विजो भोक्तुं प्रचक्रमे ॥१६४ ॥ चौलुक्यस्तं तथाऽऽलोक्य, दध्यौ हा धिगिमं द्विजम् । यः संगोपाय्य || मत्तोऽपि, छन्नं भुक्तेऽतिरंकवत् ॥ १६५ ॥ यद्वा विप्राः प्रकृत्यैव, भुक्तेस्तृप्यंति जातु न । अतःस्वार्थमसौ छन्न-मिदम
१ काऽस्ति. प्र. २ नवीना अपूर्वा.
SAHASRASANSAR
॥५०॥
Page #151
--------------------------------------------------------------------------
________________
नमतिष्ठित् ॥ १६६ ॥ इति चिंतापरे तस्मिन् भुक्त्वोत्थाय च बोसरिः । अवशिष्टं करंभं तं, गोपयामास वाससा ॥ १६७॥ उत्थितेऽथ कुमारे स, द्विजश्चेत्त्वं बुभुक्षसे । करंभं तर्हि भुंक्ष्वेति, प्रोच्य तस्मै तमानयत् ॥ १६८ ॥ कुमारोऽभाषताभोजि, प्राक्त्वयैकाकिना कुतः ? । स स्माह भिक्षमाणं मां, जगादैका द्विजप्रिया ॥ १६९ ॥ अयं करंभ कुंभोऽस्ति, रात्रावपिहितः परम् । यदि कार्य तदा ऽऽदत्स्व, मह्यं देयं न दूषणम् ॥ १७० ॥ लप्स्यते वा न वाऽ न्याऽत्र, भिक्षेति ध्यायता मया । अंगीचक्रे स लौल्येन, द्विजप्रकृतिरीदृशी ॥ १७१ ॥ अत्रागत्य मयाऽपाया - द्वीभ्यता तुभ्यमेषकः । नादर्श्यत क्षुधार्तः सन्, भवान् भुंजीत कर्हिचित् ॥ १७२ ॥ वरं मे मरणं भूयात्, पाल्योऽसौ यत्नतो मया । यः कल्येऽपि नृपीभूय, तातवत् त्रास्यते क्षितिम् ॥ १७३ ॥ ध्यात्वेत्थं त्वयि निद्राणे, भुक्त्वा ज्ञात्वा च तं शुभम् । अधुना कथयन्नस्मि, भुंक्ष्व त्वं क्षुधितोऽसि चेत् ॥ १७४ ॥ चौलुक्यो ध्यातवानीह - गस्य स्नेहो ममोपरि । अहं तु नीचवत् किंचिदन्यदेव व्यचिंतयम् ॥ १७५ ॥ धिग्मामिति स्वयं निंद - न्नात्मानं स करंभकम् । अशित्वा प्रस्थितस्तस्मिन् प्रीतो रामेऽच्युतो यथा ॥ १७६ ॥ अन्येद्युः स भ्रमन्नागात्, स्तंभतीर्थाभिधं पुरम् । निमित्तं प्रष्टुकामश्च, हेमाचार्यमठं ययौ ॥ १७७ ॥ तदा तत्र स्थितो हेमसूरिः समुपलक्ष्य तम् । सुचिरं वार्तयामास, संतो ह्युचितवेदिनः ॥ १७८ ॥ कुमारः सूरिमप्राक्षी - न्मुनिवद्विनयांचितः । ममापि भगवन् ! भावि, कर्हिचित्किं ? सुखं न वा ॥ १७९ ॥ किंचिन्निमित्तमालोच्य, स्मृत्वा चांबावचः प्रभुः । यावत्तं | भाषते ताव - त्प्रापोदयनमंत्रिराट् ॥ १८० ॥ तं मंत्रिणं ज्ञापयितुं, कुमारं सूरिरुचिवान् । भविता कियताऽपि त्वं, कालेन क्षितिनायकः ॥ १८१ ॥ स निःश्वस्य प्रोचे, मिथ्यैतत् कथ्यते कुतः ? । निःस्वस्येव न मे भोज्य-मपि राज्यस्य का
Page #152
--------------------------------------------------------------------------
________________
S
सर्ग.३
कुमारपालच०
॥५१॥
संविध्ययस्तमुवाचैवं घटिता। लेखित्वा मददी सिन्जालोकसन्यास चतु- मार्गशीर्षस्य,श्मिक लोक, भवद्वत्साहन
कथा ? ॥ १८२ ॥ जानीषे यदि तद् ब्रूहि, राज्याप्तौ वत्सरादिकम् । अन्यथाऽऽमुष्मिक लोकं, भवद्वत्साधये क्वचित् ॥ १८३ ॥ विमृश्याभिदधे सूरि-नवांकेश्वरवत्सरे (११९९) । चतुर्थ्या मार्गशीर्षस्य, श्यामायां पुष्यगे विधौ ॥ १८४॥ अपराहे तवैश्वर्य, यदि नोर्जस्वि जायते । निमित्तालोकसन्यास-स्तीतः परमस्तु मे ॥ १८५॥ युग्मम् ॥ प्रतिज्ञायेति सूरींद्र-स्तदा तद्दिनपत्रकम् । लेखित्वा प्रददौ तस्मै, सचिवोदयनाय च ॥ १८६॥ तेन तस्य सुरस्येव, ज्ञानेनातिचमत्कृतः। चौलुक्यस्तमुवाचैवं, घटितांजलिमंजुलः॥ १८७॥ यद्येतत्त्वद्वचः सत्यं, त्वमेव क्षितिपस्तदा । अहं तु त्वत्पदांभोज, सेविष्ये राजहंसवत् ॥१८८ ॥ वदंतमिति तं सूरि-जंगौ राज्येन किं ? मम । भानुनेव त्वयोद्भास्यं, शश्वज्जैनमतांबुजम् ॥ १८९॥ रंगादंगीकृते तेन, तस्मिन् वाक्ये स सूरिराट् । अमात्योदयनं प्रोचे, स्वरहस्यं रहस्यदः ॥ १९०॥ यथैवामकुमारःप्रा-कन्यकुब्जनृपात्मजः । अपमानाद् भुवि भ्राम्य-नागान्मोढेरकं पुरम् ॥ १९१॥ श्रीसिद्धसेनसूरिस्तं, ज्ञात्वा सत्कार्य चार्यवत् । अतिष्ठिपत्स्वनेदिष्ठं, रंजयन् गुणगौरवात् ॥१९२॥ स प्राप्तराज्यस्तच्छिष्यं, बप्पभट्टि प्रभु मुदा । गुरुकृत्य कृतज्ञत्वा-दर्हन्मतमदिद्युतत् ॥ १९३ ॥ तथा त्वयाऽप्ययं भावि-राज्यो दुःस्थोऽधुनाऽऽगतः । यद्युपक्रियते स्वीय-स्वामिवद् द्रविणादिना ॥ १९४ ॥ तदाऽयमपि संप्राप्य, स्वाम्यमाममहींद्रवत् । उल्लासयेन्मतं जैनं, भूत्वैव परमाहेतः॥ १९५॥प्रभुणेति समादिष्टः, कुमारं निजमंदिरम् । नीत्वा भोजनवस्त्राद्यैः, सच्चके सचिवाग्रणी ॥ १९६ ॥ चौलुक्यो निवसंस्तत्र, चरैात्वा कथंचन । वृथा वैरायमाणाय, सिद्धेशाय न्यवेद्यत ॥ १९७ ॥ तदानीमेव तन्नुन्ना, भटा द्विघातलंपटाः । स्तंभतीर्थ समागत्य, परितस्तं लुलोकिरे ॥ १९८ ॥ तन्मत्वोदयनावासा-मैनाक इव
OCAROSTAS STATISTICS
Page #153
--------------------------------------------------------------------------
________________
ROGACHOS
HUAIGOGOROSBACH
नीरधिम् । कुमारः शरणाकांक्षी, हेमाचार्याऽऽश्रयं श्रितः॥१९९॥ ऊचे च सिद्धराड्भृत्याः, पितृवैरादिवोल्बणात् । पश्यंतः संति मां हेतु-मतस्त्वां प्राप्तवानहम् ॥२००॥ तदेतेभ्यः प्रभो ! रक्ष, मां वृकेभ्य इव छगं । कृपया, यदि वाऽऽत्मीय-ज्ञान सत्यापनेच्छया ॥ २०१॥ सूरिस्तद्वाक्यमाकर्ण्य, दध्यौ कारुण्यनीरधिः। एकतो भूपतिद्रोहो, रक्षणीयोऽयमन्यतः॥२०२॥ राजद्रोहे व्ययोऽसूनां, बातेऽस्मिन् पुण्यमुल्बणम् । अनयोः कृत्ययोर्मध्ये, सांप्रतं करवै किमु ? ॥२०३॥ नृपः कुप्यतु, गच्छंतु प्राणा वा ऽहं, तदप्यमुम् । त्रास्ये, यथा भवत्येष, जिनशासनलालसः॥२०४॥ अथ तं वसतावेव, न्यस्य भूमि
गृहांतरे । पुस्तकग्रंथिमिस्तस्य, द्वारं सूरिः प्यदीधपत् ॥२०५॥ तावद् भूपभटाः कोपो-त्कटा भ्रांत्वाऽखिलं पुरम् । तत्रैत्य दापोचिरे सूरि, कुमारोऽस्ति ? भवन्मठे ॥ २०६॥ प्राणिनाणं महत्पुण्यं, मिथ्यावादस्त्वषं लघु । विदन्नित्यवदत्सूरिः,18
सोऽत्र नास्त्येव सर्वथा ॥ २०७॥ भटैरूचेऽत्र चेन्नास्ति, राजाज्ञा क्रियतां तदा । प्राणांतं प्रेक्षमाणोऽपि, पुण्यार्थी तां व्यधात्प्रभुः ॥ २०८॥ कस्यापि दुर्जनस्योत्या, मन्वानास्तत्र तं स्थितम् । अभितो मृगायामासु-स्तं मैठं सुभटा हठात् ॥ २०९॥ पुस्तकग्रंथिभिस्ताल-पत्रजालैश्च पूरितम् । दृष्ट्वा भूमिगृहद्वारं, न तैर्देवाद्विलोकितम् ॥ २१॥ गतेषु तेषु निष्काश्य, चौलुक्यं प्रभुरभ्यधात् । गिरो द्विषद्भटोद्गीर्णा-स्त्वया शुश्रुविरे न वा ? ॥२११॥ स योजितकरोऽवादीत्तस्थुषाऽपि मयांतरे । तदीया भवदीयाश्च, गिरः कर्णातिथीकृताः॥२१२॥ जिता पृथ्वी पृथ्वी, दलितमखिलं शात्रवकुलं, कृतः कोशो भूयान् कनकनिकरायजनितैः । मुदा राज्यं भुक्तं सुचिरमधुना बंधुहननाद्, वृथा वृद्धः सिद्धक्षिति
१ खप्राणरक्षणोल्बणपुण्ययोर्मध्ये इत्यर्थः, २ माठे. प्र. ३ विस्तृता.
Page #154
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ ५२ ॥
पतिरयं किं ? रचयिता ॥ २१३ ॥ त्वया प्राणांतमादृत्य, गरुडाच्छंखचूडवत् । जीमूतवाहनेनेव, वातोऽहं संकटादितः ॥ २१४ ॥ दयामयो भवद्धर्मः श्रुत एवाभवत्पुरा । अनुभूतोऽधुना सोऽयं मया मज्जीवितावनात् ॥ २१५ ॥ ये सुखे प्युपकुर्वति, तेऽपि संप्रति पंचषाः । यस्तु प्राणव्यये सत्त्व - मेकः स त्वद्वदग्रणीः ॥ २१६ ॥ भक्तोऽभवं पुराप्ययै र्भावत्कैभूरिभिर्गुणैः । क्रीतो जीवितदानेन, दास एवास्मि संप्रति ॥ २१७ ॥ निमित्तकथनात् पूर्वं, राज्यदानं प्रतिश्रुतम् । इदानीं जीवितमपि त्वदर्थं भवतान्मम ॥ २९८ ॥ इत्यादि निगदंतं तं कुमारं सूरिरालपत् । पश्चाज् ज्ञायिष्यते सर्वे, किमिदानीं बहूक्तिभिः ॥ २१९ ॥ अमात्योदयनात्तस्मै, दापयित्वोरुशंबलम् । निशायाः पश्चिमे यामे, प्रेषयामास तं प्रभुः ॥ २२० ॥ स क्रामन् वसुधाच, वटपद्रपुरं गतः । क्षुधार्त्तः कटुकाख्यस्य, वाणिजस्यापणं ययौ ॥ २२१ ॥ चणकांस्तं ययाचे च, निगद्यैकं विशोषकम् । दत्त्वा तान् वाणिजोऽभाणीद्, द्रविणं दीयतां मम ॥ २२२ ॥ तेन कौक्षेय के मुक्ते, ग्रहणे तं धनोज्झितम् । निश्चित्य कटुकः प्रोचे, मांगल्येऽमी भवंतु ते ॥ २२३ || तन्नामादि परिज्ञाय, पुनर्भूत्वा जटाधरः । इतस्ततो भ्रमन्नाप, भृगुकच्छाह्वयं पुरम् ॥ २२४ ॥ तत्रैकः प्रार्थितस्तेन, मारवः शाकुनोत्तमः । चिन्त्यतां शकुनं किंचिद्भविता कर्हि मे शुभम् ? ॥ २२५ ॥ प्रातरेव बहिर्गत्वा, शकुनज्ञस्तदन्वितः । दुर्गामाह्वानयामास, निक्षिपन्मंत्रिताक्षतान् ॥ २२६॥ तदैव परिपुष्टांगी, श्यामाऽऽस्यस्वीकृताशना । मुनिसुव्रतनाथस्य, प्रासादमधिर्तस्थुषी ॥ २२७ ॥ विकस्वरं स्वरद्वंद्वं", चकारामलसारके । स्वरत्त्रयं च कलशे, दंडे स्वरचतुष्टयम् ॥ २२८ ॥ युग्मम् ॥ ध्यात्वा तं शाकुनः प्रोचे, श्यामायाश्चै१ लौकिकशास्त्रप्रसिद्धः शंखचूडनामकनागो यथा जीमूतवाहनेन राज्ञा गरुडात् त्रातस्तथा २ मया स्वीकृतम् ३ खने. ४ उपविष्टा सती. ५ द्वयम्.
सर्ग. ३
॥ ५२ ॥
Page #155
--------------------------------------------------------------------------
________________
त्यसंश्रयात् । स्वरवृद्धेश्च ते भावी, जिनभक्तेमहोदयः॥ २२९ ॥ तद्वाणीश्रवणात्तुष्ट-स्तं संतोष्य धनादिना । स जटाधदरतां हित्वा, ययावुज्जयिनी पुरीम् ॥२३०॥ तत्र दृष्ट्वा कुटुंबं स्वं, पृष्ठे प्राप्तान द्विषद्भटान् । मत्वा नंष्ट्वा च चौलुक्यः, कोल्ला
पुरमुपेयिवान् ॥ २३१॥ तत्र भ्रमन् स सर्वार्थ सिद्धिनामानमुत्तमम् । करंडमिव सिद्धीना-मेकं योगींद्रमैक्षत॥२३२॥ नत्वाऽग्रतो निविष्टं तं; समाप्य ध्यानमात्मनः । प्रसेदिवद्भ्यां नेत्राभ्यां, पश्यन् योगीश्वरो जगौ ॥ २३३ ॥राज्याहलक्षणाढ्यस्य, तवावस्था किमीदृशी । न हि जात्यस्य रत्नस्य, धूलिधूसरतोचिता ॥ २३४ ॥ स बभाषे ममावस्था, योगिनासीदियच्चिरम् । भानोरिव निशाऽनेशत्, परं त्वदर्शनादसौ ॥ २३५॥ मेघालोकाद्यथा हर्ष-प्रकर्षः स्याच्छिखंडिनः । तथा त्वत्संगमादस्मा-न्ममापि हृदयंगमात् ॥ २३६ ॥ प्रसद्य दीयतां कश्चि-न्मंत्रः स्फूर्जत्तमो मम । चिंतामणिरिव येतो, विभवेद्विभवो महान् ॥ २३७ ॥ योगी तुष्टस्तमाचष्ट, द्वौ मंत्री स्तो मदंतिके । साम्राज्यदायी तत्रैको, यथेष्टद्रव्यदः परः |॥ २३८ ॥ परं सोपद्रवी गाढं, यदि साधयितुं क्षमः । तादत्स्व तयोर्मध्या-देकं मंत्रं यदृच्छया ॥ २३९ ॥ महाप्रसाद इत्युक्त्वा, योगींद्राद्राज्यदायिनम् । मंत्रं राज्यमिवादत्त, कुमारो विधिपूर्वकम् ॥ २४०॥ कृतत्रिक्षपणः शुद्ध-ब्रह्मवान् ब्रह्मचारिवत् । जपति स्म स षण्मासी, तं मंत्रं विजने क्वचित् ॥ २४१॥ अथ कृष्णचतुर्दश्यां, प्रथमे प्रहरे निशः। स देहवानिवोत्साहः, पूजोपकरणान्वितः॥२४२॥ क्वचित्करालकंकालं, क्वचिद्वेतालसंकुलम् । क्वचित्स्फुरचितिज्वालं, क्वचित्कुणपपूरितम् ॥ २४३ ॥ क्वचिन्नृत्यत्पिशाचौघं, क्वचित्प्रेतप्रियंकरम् । क्वचिद् दुःशाकिनीकीर्ण, क्वचिद् भूतशतांचितम् १प्रसन्नाभ्याम्. २ मयूरस्य. ३ अभवदिति शेषः ४ मंत्रात्. ५ रात्रः ६ भयानक-त्वकूमांसरहितशरीरारंभकास्थिसमूहम्. ७ शबपूरितम्.
4002040SAMAN
Page #156
--------------------------------------------------------------------------
________________
सर्ग. ३
कुमारपालच०
॥५३॥
BASAHOSAURUSSARO BEX
॥२४४ ॥ क्वचिन्निशाचरीवक्त्र-खाद्यमानशबामिषम् । कचिद्भयंकरस्फार-शिवाफेत्कारभारितम् ॥ २४५ ॥ क्वचि च्चित्योच्छलछ्म-भूमस्पृष्टनभोऽगणम् । श्मशानमागमत्प्रेत-पतिक्रीडावनोपमम् ॥ २४६ ॥ पंचभिः कुलकम् । तत्रैक शबमानीय, तद्वक्षसि निवेश्य च । वह्निकुंडमखंडार्चिः-सप्तार्चिः परिपूरितम् ॥ २४७ ॥ तन्नाभौ स्वयमासित्वा, कृत्वा चार्चा यथाविधि । मेरुवत्स स्थिरो मंत्रं, स्मरन् होतुं प्रचक्रमे ॥२४८॥ युग्मम् ॥ तं कुर्वतं तथा होम, प्रेक्ष्य प्रेतवनाधिपः। वक्रदंष्ट्राभिधः क्षेत्र-पालः काल इवाकुपत् ॥ २४९ ॥ ऊर्ध्वमूर्ध्वस्फुरत्पिंग-केशस्तुंगतमाकृतिः । अधित्यकाज्वलद्दावज्वालाजाल इवाचलः ॥२५० ॥ दीर्घदंष्ट्रावलीव्याप्त-व्यात्तवऋविभीषणः । अंतर्जाग्रभुजंगौघ-कोटरदुरिवोच्चकैः ॥२५१ ॥ अभ्रंकषेण शीर्षेण, तारकान् पातयन्निव । मुखोद्गतानलोल्कोभि-स्तमः कवलयन्निव ॥ २५२ ॥ दूरप्रसृमरैदोभिः, पादपानाकृषन्निव । निबिडैश्चरणन्यासैः, क्ष्मामधस्तात्क्षिपन्निव ॥ २५३ ॥ अंजनाद्रिरिव श्यामो, मंदरादिरिवाकृशः। प्रादुरासीत्पुरस्तस्य, क्षेत्रपालः करालदृक् ॥२५४॥ पंचभिः कुलकम् ॥ तं स क्षोभयितुं दुष्टो, नेदिष्ठैः पर्वतैः सह । काश्यपी कंपयामास, लतावत्पादघाततः॥२५५॥ ब्रह्मांडभांडसंभेद-शक्तान किलकिलारवान् । स चकार परोलक्षान् , सिंहनादान् यथा भटः ॥२५६॥ भूकंपात्तन्निनादाच्च, सिंहध्वानादिव द्विपाः॥नश्यति स्म पिशाचाद्या, अपि क्रोष्ट्रादयः किमु | ॥२५७ ॥ करालान् यमदंष्ट्राव-द्धावमानान् जिघत्सया । कारं कारं भुजंगादीन, भापयामासिवान् स तम् ॥ २५८ ॥ मंत्रः सोपद्रवोऽस्तीति, गुरुवाक्यस्य संस्मरन् । क्षोभ्यमाणोऽपि तेनेत्थं, चौलुक्यो नैव चुक्षुभे ॥ २५९ ॥ प्रत्युत स्थिरता
१शुगालशब्दयुतम्. २ बहुत्व. ३ श्मसानाधिपः. ४ पर्वतस्योपरिभूमिः.५ तेजःपुंजैः. भगालादयः, ७ कृत्वा कृत्वा-विकुयं विकुळ.
ROCROSECROMAEECAUGUS
Page #157
--------------------------------------------------------------------------
________________
सोऽधात्, ध्यानकर्मणि निर्भयः । वात्यया चाल्यमानोऽपि किं चलत्यचलाधिपः ॥ २६० ॥ खलवन्निष्फले तस्मिन्, क्षेत्रपाले गते सति । मंत्रकर्मणि पूर्णे च, जापहोमपुरस्सरम् || २६१ ॥ तेजोभिः सृजतीव द्यीं, सूर्यराजीमयीं तदा । प्रादुरासीत्पुरो लक्ष्मीः, पुण्यश्रीरिव देहिनी ॥ २६२ ॥ युग्मम् ॥ दारिद्र्यभंगजननीं, जननीमिव तां रमाम् । विठोक्य | विकसद्वक्र - चौलुक्यो नमति स्म सः ॥ २६३ ॥ कथयामास सा वत्स ! मंत्राधिष्ठायिनी स्वयम् । श्रीरहं त्वां प्रपन्नाऽस्मि, | विस्मेरविभवास्पदम् ॥ २६४ ॥ क्षेत्र पप्रकृतैः क्षुद्रो-पद्रवैर्ध्रुववत्तव । निश्चलं सत्त्वमालोक्य, प्रसन्नाऽस्मि वरं वृणु ॥ २६५ ॥ | कुमारः स्माह पुण्यद्रु - रद्यैवांकुरितो मम । दुर्लभा कल्पवल्लीव, मया यत्त्वमलभ्यथाः ॥ २६६ ॥ गार्हस्थ्यं स्थितिमेति, यात्युपचयं पुण्यं, प्रतिष्ठैधते, साफल्यं दधते कलाः प्रतिकूलं सौख्यं समुन्मीलति । सर्वस्योपकृतिः स्फुरत्यपमला कीर्तिः समुज्जृंभते, विश्वं लक्ष्मि ? भवत्कटाक्ष कणिकाच्छोटेन जीवत्यदः ॥ २६७॥ वाणी सरस्वती ख्याता, त्वं तु सारस्वती ततः । अकारेणाधिका मातः !, कथं नासि गुणैरपि ॥ २६८ ॥ त्वदाश्रितजनस्तोत्रैः, पुष्णती स्वसुतान् बुधान् । भारती स्पर्धते यत्त्वां पठन्मूर्खेव सा ततः ॥ २६९ ॥ त्वदंगीकारतो जज्ञे, कृष्णोऽपि पुरुषोत्तमः । शंकरोऽपि कपालित्वं, प्रपेदे त्वदनादरात् ॥ २७० ॥ कमले ! चेत्प्रसन्नाऽसि मय्यात्मीयतनूजवत् । फलं वत्सलतावल्ल्या - स्तदैश्वर्यं समर्पय ॥ २७१ ॥ सा श्रीर्विश्राणयामास, वरमद्यतनाद्दिनात् । मनोरथतरुस्तेऽसौ पंचवर्ष्या फलिष्यति ॥ २७२ ॥ इत्युदीर्य प्रयातायां, | देव्यां वारिधिजन्मनि । कुमारो योगिने तस्मै, प्रातस्तद्वृत्तमूचिवान् ॥ २७३ ॥ योगी हृष्टस्तमाचष्ट, त्वं नूनं भाग्यवा
१ आकाशम् २ प्राप्ता. ३ मर्यादां स्थिरताम् ४ प्रतिक्षणम् ५ सूक्ष्मांशाच्छोटेन. ६ सरखतः समुद्रस्येयम् ७ ददौ.
45644
Page #158
--------------------------------------------------------------------------
________________
ल
कुमारपालच०
॥५४॥
नसि । यस्येदृग्विषमो मंत्रः, सिद्धः सद्धर्मकर्मवत् ॥ २७४ ॥ सिद्धमंत्रः स योगींद्र, प्रणम्य विहरन् महीम् । कल्याणदेशश्रीसुधू-कांची कांचीपुरीं ययौ ॥२७५ ॥ तद्गोचरे चरन्नीर-हारिणीनां मृगीदृशाम् । स्तोमं मिलितमालोक्य, चौलुक्यस्तत्र जग्मिवान् ॥ २७६ ॥ द्विषता छिन्नशीर्षस्य, कबंधं तत्र कस्यचित् । तासां संप्रेक्षमाणानां, शुश्रुवांश्चेति जल्पितम् ॥ २७७ ॥ अहो केशकलापोऽस्य, द्राधीयान् कोऽपि दीप्यते । अहो दीर्घतमौ कर्णा-वहो कूर्चा महाधनः ॥ २७८ ॥ अहो विरलता दंत-श्रेणेमुक्तावलिश्रियः । अहो व्यसनिता काऽपि, नित्यं तांबूलभक्षणे ॥२७९ ॥ युग्मम् ॥ |श्रुत्वा तद्विस्मितोऽध्यासी-कुमारोऽस्य शिरो विना । स्थिति केशकलापादे-रेतां जानंत्यः कथम् ॥२८० ॥ स 8
मृगाक्षीरथाप्राक्षी-ददृष्टाऽप्यस्य मस्तकम् । स्वरूपं कथमेताहग, भवत्यः परिचिन्वते ॥२८१॥ स्मित्वाऽवोचंत ताःप्रेक्ष्य, विदंत्यपधियोऽपि हि । सुधियस्तु त एव स्यु-थैरप्रेक्ष्यापि लक्ष्यते ॥ २८२ ॥ पृष्ठेऽस्य कबरीघर्षः, स्कंधयोः कौंडलो किणौ । आनाभिहृदि गौरत्वं, रक्तप्रांता कनिष्ठिका ॥ २८३ ॥ अंगुष्ठश्चर्णधवलो, दृश्यमानाः क्रमादमी । दीर्घादित्वं कबयोदे-निःसंदेहं प्रचक्षते ॥ २८४ ॥ युग्मम् ॥ तया स्त्रैणधिया प्रीत-श्चौलुक्यो जग्मिवांस्ततः । तडागं पालिरूढार्ग, संज्ञ याऽमृतसागरम् ॥ २८५॥ तत्र स्नानं समासूच्य, चैत्ये तत्तीरभासुरे । एकं मस्तकमद्राशी-त्पूज्यमानं सं देववत् ॥२८॥ प्रश्नयामासिवांश्चैकं, तत्रत्यं कंचिदर्चकम् । विहाय देवतामूर्तीः किमेतत पूज्यते शिरः ॥ २८७ ॥ स स्माहाकयेतां देव!, सेयं कांचीपुरी पुरः॥ गता यज्जयभीतेव । स्वर्लोकममरावती ॥ २८८॥ मकरध्वजरूपोऽस्ति, भूपोऽत्र मकरध्वजः। मुनी
१ कर्णाटकदेशस्य शोभारूपस्त्रियाः कटिमेखलाम्. २ स्त्रियः ३ चिहे. ४ सदैव तत्. प्र.५ पुरा, प्र. ६ मकरध्वजः-कामः मुनीनाममान्योऽयं तु मान्यः इत्याश्चर्यम्.
SEASCRISOASIGACIO
॥५४॥
Page #159
--------------------------------------------------------------------------
________________
नामपि यो मान्य-श्चित्रं सन्मानदानतः ॥ २८९ ॥ यस्य कौक्षेयकांभोदे, धारापातं वितन्वति । हंसा इव द्विषोऽनेशन् , | कांदिशीका दिशोदिशम् ॥२९०॥ कौतुकात्कारयामास, स तटाकमिदं महत् । मानसस्य प्रतिच्छंद-मिव भांसाऽम्भसापि यत्॥२९१ ॥ अनाजमध्यतोऽन्येद्युः, शिरः कुंडलमंडितम् । निर्गत्य बुडतीत्युच्चै-स्त्रिरुदीर्य ममज तत् ॥२९२ ॥ नित्यमित्यभिधायैव, तस्मिन् याति जनाननात् । तन्मत्वा स्वयमायासी-भृजानिर्मकरध्वजः ॥ २९३ ॥ अरिष्टवत्स तद् दृष्ट्वा, भयभ्रांतमना मनाक् । विद्वत्तमान् समाकार्य, किमेतदिति पृष्टवान् ॥ २९४ ॥ ते सर्वे वाङ्मयांभोधि-पारीणधिषणा अपि । न किंचन विदांचक्रु-स्तस्य तत्त्वं जडा इव ॥२९५॥ तानूचे नृपतिः कोपा-द्रे मूर्खा ! द्रविणं मम । दारवेणैव खड्ड्रेन, भुंग्ध्वे वित्थ न किंचन ॥ २९६ ॥ इंद्रनीलधिया यूयं, काचा एव मयाऽऽदृताः। यदेकमपि संदेहं, न भक्तुं प्रभविष्णवः॥ २९७ ॥ अस्योत्तरं प्रदास्याम–श्चतुर्मास्येति तं नृपम् । सांत्वयित्वा मिलित्वा च, मंत्रयांचक्रिरेऽथ ते ॥२९८॥ | “यदेकः स्थविरो वेत्ति, न तत्तरुणकोटयः" । इति प्रसिद्धवर्षीयां-स्तत्त्वमेतस्य पृच्छ्यते ॥ २९९ ॥ वर्षीयांसः पुनः प्रायः, श्रूयंते मरुमंडले । गत्वा तस्मादितो विप्राः!, मारवः कोऽपि पृश्यताम् ॥३००॥ पोलोच्येति चत्वारो, ब्राह्मणाः प्रस्थिता इतः। प्रपन्ना मरुदेशं तं, कार्यमिष्टं नृणां ननु ॥ ३०१॥ [त्रिभिर्विशेषकम् । तत्रत्ये विक्रमपुरे, बहुभिर्बुद्धिलिप्सुमिः। सेव्यमानं समीपस्थै-राचार्यमिव शैक्षकैः ॥ ३०२॥ वहतं काससंकाशा-नधिमूर्ध शिरोरुहान् । अमानेनान्तरूञप्तान , मूर्तान् बुद्धिभरानिव ॥ ३०३ ॥ शंतन्यशीतिषष्ट्यष्टा-त्रिंशंदादिशरन्मितैः । अनेकैः पुत्रपौत्रायै
१ कान्त्या-शोभया, २ अतिशयेन वृद्धः-( वृद्ध-ईयसुन् वर्षादेशः ) वर्षीयान्. ३ तत्र ते, प्र,
RESOCUPACARE
क.पा.च.१०
Page #160
--------------------------------------------------------------------------
________________
कुमारपालच०
॥५५॥
'हंसैरिव सरः श्रितम् ॥ ३०४॥ वार्धकेऽपि बलिष्ठेन, 'वयस्थमिव' वर्मणा । विप्रं सविंशतिर्शत"--देश्यमलोकयन् ॥ ३०५ ॥ चतुर्भिः कलापकम् ॥ सप्रश्रयं नमस्कृत्य, ते निविष्टास्तदंतिके । सोऽथापृच्छत् कुतो यूयं ?, किमर्थ वा? समागताः ॥ ३०६ ॥ शीर्षव्यतिकरं ते तं, सर्वमावेद्य मूलतः । किं वाच्यमस्य ? ब्रूहि त्व-मित्यपृच्छंस्तमुत्सुका॥३०७॥ बाहुँश्रुत्येन निश्चित्य, तद्रहस्यं विरस्य सः । बभाण भुज्यतां पूर्व, वक्ष्येऽमुष्योत्तरं ततः॥ ३०८ ॥ भुजिक्रियोट्वं तत्तेषु, प्रश्नयत्सु द्विजातिषु । वृद्धोऽभ्यधत्त वक्ष्यामि, परं कुरुत मद्गिरम् ॥ ३०९॥ वस्तु तत्किंचिदादद्ध्वं, शुद्ध्येन्मार्गव्ययो
यतः। आदद्महे किमित्युक्तः, स तैर्भूयो बभाण तान् ॥ ३१० ॥ कट्यामारोप्य गृह्णीध्वं भषणांश्चतुरो लघून् । दुर्लभत्वादद्भवद्देशे, लप्स्यतेऽमी घनं धनम् ॥ ३११ ॥ लोलुपत्वेन तैर्विप्रै-स्तदादेशे तथा कृते । स्मयमानः स वक्ति स्म, मारवः
सारवाक्क्रमः ॥ ३१२ ॥ श्वानगर्दभचांडाल-मद्यभांडरजस्वलाः । देवार्चकं च संस्पृश्य, संचेलः स्नानमाचरेत् ॥३१३॥ इत्यन्येषामपि नृणां, श्वानस्पर्शोऽपि वारितः । यूयं द्विजाः कथममू-न्यवीविशत वर्मणि ॥ ३१४ ॥ भवदादेशतो लोभा-दित्युक्ते तैर्जरजगौ । यद्येवं तर्हि लोभेन, जगन्मजंत्यघांबुधौ ॥ ३१५ ॥ यन्नीचाश्रयणं, यदुग्रभुजगव्याघ्र द्विपा| दिग्रहो, यत्पाथोधिविगाहनं, गिरिमहाकांतारचारोऽपि यत् । यन्मातापितृबांधवादिहननं, चौर्यादिदुष्कर्म य-त्तल्लोभस्य गुणोघमेघपवनस्यात्यूंर्जितं स्फूर्जितम् ॥ ३१६ ॥ क्रोधादेर्जनको लोभो, लोभः सर्वोपदास्पदम् । दोषाणामाकरो लोभो,
१ सविनयम्, २ अर्थः-प्रयोजनम्, ३ बुडतीति वचनस्य ४ बहुश्रुतत्वेन. ५ खाद्य-ज्ञात्वा इत्यर्थः ६ हसन् सन्, ७ देवार्चकमिति-देवलक-"देवकोशोपजीवी च नाना देवलको भवेत्" इत्युक्तं विप्रं. ८ सवस्त्रः. ९ मन्चत्यथांबुधौ, प्र.१० पराक्रम्.
॥५५॥
Page #161
--------------------------------------------------------------------------
________________
लोभः प्राणप्रणाशकः ॥ ३१७ ॥ ततो यदि शिरो ब्रूते, ब्रुडतीति वचस्तदा । यूयं ब्रूध्वं पुरस्तस्य लोभादित्युत्तरं द्विजाः 1 ॥ ३१८ ॥ एतन्निशम्य भूयोऽपि न निर्यास्यति तच्छिरः । अथ निर्यात्यहं ज्ञाप्यो, यथाऽऽगत्य निवारये ॥ ३१९ ॥ अथ | ते विस्मिता विप्रा - स्त्यक्तश्वानास्तमूचिरे । सर्वज्ञस्येव ते प्रज्ञा, धत्ते सर्वपथीनताम् ॥ ३२० ॥ अपारे संशयावारेपारेऽस्माकं निमज्जताम् । भवत्प्रज्ञैव संजज्ञे, तरीवोत्तारकारणम् ॥ ३२१ ॥ अभिष्टुत्येति तं तेन, विसृष्टा ब्राह्मणास्ततः । अंतिमेऽहि चतुर्मास्याः, स्वं कांचीपुरमांचिषुः ॥ ३२२ ॥ नृपेण प्रातराहूता, विप्रास्ते प्रणिगद्य तम् । मारवद्विजवृत्तांतं, तद्युक्ता भेजिरे सरः ॥ ३२३ ॥ निर्गते मस्तके विप्रैः प्रोक्ते तत्रोत्तरे सति । स हसित्वाऽवदत्साधु, परिज्ञातो ममाशयः ॥ ३२४ ॥ ततः शीर्ष नृपोऽपृच्छत्, कस्त्वं ? वक्षीति वा कुतः १ । तदूचे व्यंतरः शीर्ष-स्थायी केलीकिलोऽस्म्यहम् ॥ ३२५ ॥ भवन्मेधाविनां दाक्ष्यं दिदृक्षुरिदमूचिवान् । अद्य चास्योत्तरं प्राप्य ।, नागमिष्याम्यतः परम् ॥ ३२६ ॥ तस्मिन्नंतर्हिते विप्रान्, सत्कृत्यैतत्पुरीश्वरः । शिरोवार्ताप्रसिद्ध्यर्थ - मिदं चैत्यमचीकरत् ॥ ३२७ ॥ अतिष्ठिपञ्च चैत्येSस्मिन्नाश्मं निर्माप्य मस्तकम् । तदेतदर्च्यते लोकै-र्नृपाज्ञा हि बलीयसी ॥ ३२८ ॥ तच्छिरश्चरितं श्रुत्वा कुमारो विस्मितांतरः । प्राप्तः कांचीपुरीमध्यं, केसरीव वनांतरम् ॥ ३२९ ॥ तत्र प्रमोदमापन्नो, नानाकौतुकलोकनात् । महीश इव सौस्थ्येन, कियत्कालमवास्थितः ॥ ३३० ॥ ततोऽपि प्रस्थितो मल्लि - नाथदेशैकभूषणम् । निर्विलंबः स कोलंबपत्तनं प्राप पापमुक् ॥ ३३१ ॥ कृतकांतारसंचारः, स श्रांतः सरसी तटे । उल्लसत्पादपच्छाये, विशश्राम द्विपेंद्रवत् ॥ ३३२ ॥
१ समुद्रे २ प्राप्तवंतः ३ राजयुक्ताः ४ मस्तकः ५ युष्मत्पंडितानाम्.
Page #162
--------------------------------------------------------------------------
________________
सर्ग.३
कुमारपालच०
कलापिनां तांडवयन् कलापां-स्तन्वन्मुहुर्वारिकणोक्षणानि । तस्यानयन् सौरभमातिथेयीं,तद्वायुराचारविदाचचार॥३३३॥ तस्यामेव निशि स्वप्ने-ऽभ्येत्य सोमेश्वरोऽभ्यधात् । नाम्ना प्रतापसिंहाय, कोलंवधरणीभृते ॥ ३३४ ॥ एता कुमारपालोऽत्र त्वत्पुरोपवनं प्रगे । आस्थानमिव सत्त्वस्य, स भावी गुजरेश्वरः॥ ३३५॥ तस्य त्वं सन्मुखं गत्वा, कृत्वा प्रावेशिकं महम् । विनयाद्वामनीभूय, भूयसी भक्तिमाचरेः॥ ३३६ ॥ प्रतापसिंहः स. प्रात-श्चक्रीवादैन्यसैन्यभृत् । गतः संमुखमैक्षिष्ट, तं चौलुक्यं सरस्तटे ॥ ३३७ ॥ बहुमानात्समानीय, स्वं सद्माच्छाधीनृपः । तमग्रजमिव स्फारैः, सत्कारैः पर्यतूतुषत् ॥ ३३८ ॥ तत्र सौष्ठवतस्तिष्ठन् , कुमारः पृष्टवान्नृपम् । अदृष्टचरमप्येवं, त्वं मां सत्कृतवान् कथम् ? ॥३३९॥3 तस्मिन् सोमेश्वरादेशे, प्रोक्ते कोलंबभूभुजा । देवमानेन मेने स्वं, कुमारः पुण्यवत्तरम् ॥ ३४० ॥ प्रतापसिंहमानेन, स्थितः कत्यपि वासरान् । सूत्रयामास तन्मैत्री, सतां कर्मेदमादिमम् ॥ ३४१॥ तमनुज्ञाप्य चौलुक्यो, वक्रितग्रहवत्ततः। व्यावृत्त्य शिप्रादीप्राऽन्तां, प्रापदुजयिनी पुरीम् ॥ ३४२ ॥ वियोगानलसंतप्तं, कामं मानसमात्मनः । कुटुंबसंगमांभोभिः,15 सेसिच्यामास तत्र सः॥ ३४३ ॥ स्वर्देश्यां तां पुरीं पश्यन् , कुमारः स्फारसंमदः। कुंडगेश्वरनामानं, प्रासादं दिव्यमासदत् ॥ ३४४ ॥ मध्यनिष्क्रांतवामेय-मूर्तिसर्पफणोच्छ्रितम् । नमस्यामास माहेशं, तत्र लिंगं स रंगतः॥ ३४५॥ लिंगांतरस्थितां पार्श्व-प्रभोमूर्ति निभाल्य सः। जिनध्यानपरं शंभु-मप्यमन्यत मानसे ॥ ३४६ ॥ स विश्वानंदिनी लक्ष्मी, प्रासादीयां विलोकयन् । तत्र प्रशस्तिमद्राक्षी-दिव्यकाव्यावलीमयीम् ॥ ३४७ ॥ वाचयित्वा कुमारस्तां, तत्र श्रीविक
१ मयूराणां २ सेचनानि, ३ कुमारपालस्य ४ सरः वायुः, ५ एण्यति. (अदृष्टे चरतीति अदृष्टचरस्तम्, ७ सोमेशसत्कारेण,
॥५६॥
Page #163
--------------------------------------------------------------------------
________________
ACCOR
माग्रतः। श्रीसिद्धसेनभणिता-मार्यामेतामवाचयत् ॥ ३४८॥ पूर्णे वर्षसहस्रे,शतेऽपि शरदां च नवनवत्यधिके(११९९)। भावी कुमारभूप-स्तव विक्रमराज! तुल्यश्रीः॥ ३४९॥ विमृश्यार्थ मनस्यस्याः, जातराज्याप्तिनिर्णयः, । ज्ञानं सातिशयं | | मेने, जैनेषु स महामतिः ॥३५०॥ स्वकुटुंबं सहादाय, तौ च बोसरिसजनौ । कुमारः प्रस्थितोऽवत्या-श्चित्रकूटाचलं ययौत ॥३५१॥ तत्र श्रीशांतिचैत्यस्थं, मुनि श्रीरामनामकम् । नत्वा स प्रश्नयामास, चित्रकूटनगोद्भवम् ॥३५२॥ यतिर्जगावितः क्रोश-त्रये सुरपुरीसमा । संज्ञया मध्यमाऽप्यासी-त्पुरी श्रीभिरमध्यमा ॥ ३५३ ॥ चित्रितत्रिजगच्चित्तः, पवित्रैश्चरि-18 तैनिजैः। तत्र धान्येकसूत्रामा-ऽभवच्चित्रांगदो नृपः॥३५॥ असदेकमनेकेभ्यो, वैरिभ्यो वितरन् भयम् । विदधे दान-16 शौंडाना-मपि यो विस्मयं हृदि ॥३५५॥ सुमति म तस्यासी-दमात्यः सत्यमंदिरम् । क्षमापलक्ष्मीलतोल्लासे, वारिदामास यन्मतिः ॥३५६॥ आस्थान्यामास्थितं भूपं, सुधर्मायां सुरेंद्रवत् । भूतानंदोऽन्यदा योगी, समागच्छविक्षया ॥ ३५७॥ अद्भुतानि फलान्यग्रे, ढौकयित्वा स कानिचित् । वार्तयित्वा च तं भूपं, क्षणमेकं पुनर्ययौ ॥ ३५८ ॥ फलान्यन्यान्युपादाय, द्वैतीयीकेऽपि सोऽहनि । सुखगोष्ठया कियत्कालं, विलंब्याश्रयमाश्रयत् ॥ ३५९ ॥ फलैर्नवनवैरेष, षण्मासी तमसे-12 वत । नृदेवं देववन्नित्यं, कार्य नोचे च किंचन ॥ ३६०॥ षण्मास्यंते तमप्राक्षी-तुष्टश्चित्रांगदः स्वयम् । त्वं सेवसे| किमर्थ ? मां, स्वार्थमाचक्ष्व कंचन ॥ ३६१ ॥ स महीशं रहस्येवं, स्माह प्राप्तो गुरोर्मया । क्लेशेन महता मंत्रः, स्वर्णपूरुष
१ पुण्णे वाससहस्से, सयंमि वरिसाण नवनवइ कलिए । होही कुमरनरिंदो, तुह विक्कमराय ! सारिच्छो॥ २ आर्यायाः, ३ दुर्गों (किलो) त्पत्तिम्,. ४ इंद्रः. ५वारिद इवाचरतीति वारिदति, परोक्षे वारिदामास, ६ स षण्मासीमसेवत, प्र. ७ खप्रयोजनम्.
RECALCCASICALCARICA
Page #164
--------------------------------------------------------------------------
________________
सर्ग.३
तस्तवनांतरे । कृशानी हो, पार्थिव ! त्यामतोमागदोऽतिदाक्षिण्या
मानो नृप
कुमार
साधकः ॥ ३६२ ॥ विदघे तस्य षण्मासी, पूर्वसेवा यथाविधि । अधुना तव साहाय्या-द्विधित्साम्युत्तरक्रियाम् ॥३६॥ पालच० सा च कृष्णचतुर्दश्यां, निशि प्रेतवनांतरे । कृशानी होमनिर्माणात् , सिद्धिमभ्येति नान्यथा ॥ ३६४ ॥ सत्त्वोपकारदाक्षि
टूण्य-शौर्यादिगुणशालिनाम् । अधुना त्वं धुरीणोऽसि, पार्थिव ! त्वामतोऽर्थये ॥३६५॥ धृत्वा कृपालुतां चेत्त्वं, भवस्यु॥५७॥
त्तरसाधकः । त्वत्साहाय्यात्तदा मंत्रः, फलवान् मम जायते ॥ ३६६॥ चित्रांगदोऽतिदाक्षिण्या-दोमित्यंगीचकार तत् । परोपकारमाधातुं, व्यसनं हि महात्मनाम् ॥ ३६७ ॥ तत्कथंचित्परिज्ञाय, मंत्री स्वमतिवैभवात् । शंकमानो नृपापायं, तं जगौ विजने स्थितम् ॥ ३६८ ॥ देवो यद्यपि वेत्त्येव, देववत्सकलं स्वयम् । तथापि प्रोच्यते किंचि-स्नेहाकुलतया मया
॥ ३६९ ॥ योगिने प्रतिपेदे यत्, साहाय्यं न्याय्यमप्यदः । आयतौ नैव पश्यामि, श्रेयसे ते स्वबुद्धितः ॥ ३७० ॥ कायदमी योगिनो दुष्टाः, स्वेष्टसिद्धिविधित्सया । पिशाचा इव हिंसंति, वंचयित्वोत्तमान्नरान् ॥ ३७१॥ किंच निष्करुणा:
कामं, धूमोर्णारमणादपि । न जंतुघातजाताघात्, वधका इव बिभ्यति ॥३७२॥ अयं च याचते स्म त्वां, स्वर्णपूरुषसिद्धये । सा तु स्याद्यदि हूयेत, द्वात्रिंशल्लक्षणः पुमान् ॥ ३७३ ॥ तत्त्वां सुलक्षणं प्रेक्ष्य, विदधीतैष दुष्टधीः। अनिष्टं कर्हिचित्तेन, वारयाम्यहमादरात् ॥३७४॥ बभाषे भूभृदज्ञाना-दंगीचक्रेऽस्य गीर्मया । करोमि तां कथंकारं ?, नीचवत् स्वयमन्यथा ॥ ३७५ ॥ मंत्री जगाद यद्येवं, तोहं भवता सह । अंगरक्षवदेष्यामि, छन्नः कुर्वे यथोचितम् ॥ ३७६ ॥राज्ञि तत्प्रतिपेदाने, कृष्णे चातुर्दशेऽहनि । पूजोपकरणान्वितो, भूतानंदस्तमभ्यगात् ॥ ३७७ ॥ चित्रांगदः समं तेन, कृपाणं पाणिना
१ षण्मासी यावतू. २ पूर्वक्रियाम्. ३ धूमोर्णा-यमपत्नी, तस्याः रमणः-पतिः-यमस्तस्मादपि.
तिपेदे या कायद्यपि वेत्त्येव, देवकथाचित्परिज्ञाय, गोऽतिदाक्षिण्य
SRSRSRSRSRSRESAS
॥ ५७
Page #165
--------------------------------------------------------------------------
________________
AttrrHRRY
वहन । प्रतिष्ठते स्म तत्पृष्ठे, श्रेष्ठधीः सचिवोऽपि सः॥ ३७८ ॥ भयंकरं श्मशानं स, प्राप्य निर्भयमानसः। अखंडं हतभकंड, मंडयामास मंडले ॥ ३७९ ॥ निवेश्य ज्वलनं तत्र, खादिरैः शकलैर्धनैः । स्वयं स्वमिव निर्दग्धं, ज्वालयामास योगिराट् ॥ ३८० ॥ जिघत्सुरिव तं दुष्टं, जज्ञे ज्वालावलिच्छलात् । हुताशः सप्तजिह्वोऽपि, तदा जिह्वाशताकुलः॥३८१॥ अभ्यर्च्य मंडलं सम्यग् , रक्तपुष्पाक्षतादिभिः। मंत्रं स्मर्तु समारेभे, योगी ध्यानैकतानहृत् ॥ ३८२॥ कृपाणपाणिभूपोऽपि, पराक्रम इवांगवान् । अकुतोभयचित्तः सं-स्तद्रक्षाप्रवणोऽभवत् ॥ ३८३ ॥ पृष्ठरक्षकवत्पृष्ठे, राज्ञः प्राज्ञशिरोमणिः। अमात्योऽप्यवधानेन योगिकृत्यं व्यलोकत ॥ ३८४ ॥ जपं मंत्रस्य होमं च, विरचय्य यथाविधि । त्रिःप्रदक्षिणयामास, वह्निकुंडं स योगभृत् ॥ ३८५॥ ततो योगी जगौ दुष्टः, मापं क्षेप्तुं हविर्भुजि । त्रिःप्रदक्षिणयार्चिष्म-कुंडं देव ! त्वमप्यदः ॥३८६॥ यथा मद्वत्तवापि स्यात्, सिद्धिः काचित्करस्थिता । भजेक्लेशोऽपि साफल्य-मसौ सद्व्यवसायवत् ॥३८७॥
वाचा तयैव विज्ञाय, तस्यारेरिव दुष्टताम् । स्मृत्वा च मंत्रिणः शिक्षा, चित्रांगदनृपोऽवदत् ॥३८८॥ असौ सिद्धिस्तवैवास्तु, दकिं तया कृत्यमस्ति मे? । सफलश्च ममायास-स्त्वदीप्सितविधानतः॥३८९॥ आचचक्षे स रक्ताक्षो, भूत्वा रे त्वं न मद्वचः।
कुरुषे किं ? रुषेदानी-मेव त्वां भस्मयाम्यहम् ॥३९०॥ इति ब्रुवंतमेवामुं, योगिनं दारुखंडवत् । उत्पाव्य चिक्षिपे वह्नि| कुंडे सुमतिमंत्रिराट् ॥ ३९१॥ स तत्र क्षिप्तमात्रोऽपि, भूत्वा द्रागेव भस्मसात् । सुवर्णपुरुषो जज्ञे, मांत्रो हि महिमाद्भुतः ॥ ३९२ ॥ योगिनाऽध्यायि यद्भूपे, तत्तस्यैव हहाऽभवत् । यद्वा यचिंत्यतेऽन्यस्य, तत्स्वस्यैव भवत्यहो ॥ ३९३ ॥ वह्नि
१ योगिनम्. २ एकाप्रतया-सावधानतया.
CROGRASSASSESASSICALSEX
Page #166
--------------------------------------------------------------------------
________________
सर्ग.३
कुमार
|कुंडांतरे दीप्रं, तं प्रेक्ष्य स्वर्णपूरुषम् । चित्रांगदोऽतिविस्मेर-चेताः सचिवमूचिवान् ॥ ३९४ ॥ अहो ते दीर्घदर्शित्वपालच० महो ते मतिवैभवम् । अहो ते स्वामिभक्तत्व-महो ते सावधानता ॥ ३९५ ॥ मया सह भवानत्र, नायास्यद्यदि पुण्य-18
तवत् । अक्षेप्स्यन्मां तदा योगी, जातवेदसि हव्यवत् ॥ ३९६ ॥ हृणीयमानो भूपोप-लोकनात्सचिवोऽवदत् । देव ! त्वं ॥ ५८॥
सुकृतेनैव, सर्वत्र क्षेमवानसि ॥ ३९७ ॥ अरिमित्रं, वार्धिः स्थलमनलकीलाऽम्बुलहरी, तमस्तेजोऽरण्यं नगरमुरगो दाम भवति । रणः क्रीडास्थानं, विषममृतमस्त्रं सरसिज, विपत्तिः संपत्तिः, स्फुरति सुकृते प्राग्भवकृते ॥ ३९८ ॥ कुंडादादाय तं स्वर्ण-पुरुषं पौरुषाधिकः । भूपतिर्मत्रिणा सार्ध तत्रैवातीतवान्निशाम् ॥ ३९९ ॥ प्रातर्निजगृहं प्राप्तो, नृपस्तं हेमपूरुषम् । |अर्चित्वा स्थापयामास, कोशे स्वे स्वर्णराशिवत् ॥४०॥ संपन्नमभिस्तस्मात्, साक्षात्सिद्धरसादिव । चक्रे चित्रांगदो राज्यं, स्वाराज्यश्रीविजित्वरम् ॥ ४०१॥ कोशरक्षाचिकीः सोऽथ, कृती दुर्गकृते भ्रमन् । एतं चित्रगिरेः पार्थे, कूटाख्यं शैलमैक्षत ॥ ४०२॥ उच्चैः शिलोच्चयेऽमुष्मिन् , मेरोः प्रतिकृताविव । नृपः सुदुर्ग्रहं दुर्ग, लग्नः कारयितुं हठात् ॥ ४०॥ यावन्निष्पाद्यते घने, तावत्पतति तनिशि । षण्मास्येवं गता भूप-स्तथापि स न तिष्ठति ॥४०४॥ अथ कूटगिरिस्वामी, कूटसंज्ञोऽवदत्सुरः। किं ताम्यसि ? क्षितीशात्र, दुर्ग कर्तुं न कोऽप्यलम् ॥४०५॥ चित्रांगदोऽभ्यधादेत-त्प्राणांतेऽपि करोम्यहम् । देवो जगाद यद्येवं, कुरु चित्राद्रिमूर्धनि ॥४०६॥ दद्याः मन्नाम चामुष्य, यथा स्यां रक्षकोऽनिशम् । तद्वाक्ये स्वीकृते राज्ञा, मुदितः सोऽगमत्सुरः॥४०७॥ अभ्रंकषेऽत्र निष्पन्ने, दुर्गे चित्रांगदस्ततः । चित्रकूटेतिनामादात्,
१ भमौ. २ स्तवनात्. ३ अमिशिखा. ४ संग्रामः ५ खर (खर्ग ) राज्यश्रीविजित्वरम्. ६ पर्वते. ७ निष्पद्यते, प्र. ८ दुर्गम्, नपुसकेऽपि दुर्गशब्दोऽस्ति.
५८॥
Page #167
--------------------------------------------------------------------------
________________
तत्ख्यातं मेरुनामवत् ॥ ४०८ ॥ आवासान् सरसीवाप्या - रामांश्चातिमनोरमान् । विधाप्य स महीजानि - र्निजं राज्यमतिष्ठित् ॥ ४०९ ॥ चतुर्दशशती कोटी - ध्वजावासास्तदाऽभवन् । उपरिष्टादधस्ताच्च, लक्षनाथाः सहस्रशः ॥ ४१० ॥ चित्रकूटश्रियं दृष्ट्वा तदा सर्वर्द्धिवर्धिनीम् । स्वर्गलुंटाकतां को न दध्यौ चित्रांगदे नृपे ? ॥ ४११ ॥ अन्येद्युः कन्यकुनेशः, शक्तिकुलितशात्रवः । शंभलीशाभिधोऽश्रौषीत्, स्वर्णमर्त्यकथां जनात् ॥ ४१२ ॥ ततश्चित्रांगदात्स्वर्ण - पुरुषादित्सयोत्सुकः । शंभलीशो निजस्थाना—दभिषेणयति स्म तं ॥ ४१३ ॥ समुद्रैरिव कल्पांत-भ्रांतैः प्रौढबलैर्बलैः । प्लावयन् क्ष्मातलं सोऽस्था - चित्रकूटगिरेरधः ॥ ४१४ ॥ दृष्ट्वाऽपि कन्यकुनेश - मधःस्थं सैन्यसागरम् । दिविष्ठ इव दुर्गस्थः, सुखं चित्रांगदः स्थितः ॥ ४१५ ॥ चित्रकूटस्थिता लोका, अपि शोकापवर्जिताः । परिचिक्रीडिरे स्वैरं, विमानस्था इवामरा: ॥ ४१६ ॥ अथा भटाः कन्य – कुब्नेशादेशलेशतः । खंडिं पातयितुं दुर्गे, लग्ना मत्तद्विपेंद्रवत् ॥ ४१७ ॥ ते टंकैरुत्किरंतोऽपि, दलंतोऽप्यश्मगोलकैः । तद्वज्रनिर्मितमिव न भक्तुं प्राभवन् क्वचित् ॥ ४१८ ॥ अनिर्वेदः श्रियो मूलमिति नीतिं विदंस्ततः । रोधयित्वोद्धतैर्योधै— दुर्ग तस्थौ स शत्रुराट् ॥ ४१९ ॥ गते घनतैरे काले, प्रहिताः शत्रुभूभुजा । दुर्गस्वरूपं विज्ञातुं, चराश्चतुरतांचिताः ॥ ४२० ॥ ते दुर्गमध्यमाविश्य, स्वर्गस्येवातिशायिनीम् । विष्वे॑द्रीचीं श्रियं तस्य, पश्यंतो विस्मिता हृदि ॥ ४२१ ॥ इतस्ततो भ्रमंतस्ते, द्विषद्भेदविधित्सया । सुमतेमंत्रिणः प्रापु-मंदिरं स्फुरदिंदिरम् ॥ ४२२ ॥ तदा च स्वगवाक्षस्थं, तातं सुमतिमंत्रिणम् । पुत्री रत्नवती प्राप सपुत्रा प्रणिनंसया ॥ ४२३ ॥ नत्वा पितर१ दुर्गम्. २ अखेदः - खेदाभावः ३ षोडशवर्षरूपे ४ सर्वदिग्व्यापिनीम्.
Page #168
--------------------------------------------------------------------------
________________
कुमार
पालच०
॥ ५९ ॥
मूर्ध्वस्था, दुर्गाधःस्थं द्विषद्वलम् । पश्यंती तेषु शृण्वत्सु, चरेष्वाचष्ट सा ( स ) ऋजुः ॥ ४२४ ॥ दुर्गस्याधः स्थितास्तात !, कुतोऽमी व्यवहारिणः । अद्यापि न प्रहीयंते, कालोऽमीषां महान् गतः ॥ ४२५ ॥ स्मेरः स्माह स तां मंत्री, नैवामी व्यवहारिणः । किंत्वसौ कन्यकुनेशो, दुर्गं रुद्धा बलैः स्थितः ॥ ४२६ ॥ त्वज्जन्मदिवसेऽत्रैत्य, तिष्ठत्यस्मिन्महीश्वरे । त्वं पर्यणीयथाः पुत्रि !, पुत्रवत्यप्यजायथाः ॥ ४२७ ॥ तन्निशम्वातिविस्मेरा, दुर्गादुत्तीर्य ते चराः । तां मंत्रितनयावार्ता, | स्वनृपाय न्यवेदयन् ॥ ४२८ ॥ हर्षचित्रविषादादि - श्लिष्टः सोऽपि द्विषत्पतिः । ईदृग्दुर्गं कथं ग्राह्य – मिति चिंतां चिरं व्यधात् ॥ ४२९ ॥ अन्यदा दुर्गपार्श्वस्थं, कन्यकुजेश्वरं जगौ । चित्रांगदस्य मान्योच्चै - वैश्या बर्बरिकाह्वया ॥ ४३० ॥ आरोहत्यचलेश्वरं किमु शिशुः ? पोतोज्झितः किं तर - त्यंभोधिं ? किमु कातरः सरभसं संग्राममाक्रामति । शक्येष्वेव तनोति वस्तुषु जनः प्रायः स्वकीयश्रमं तद् दुर्गग्रहणग्रहे ग्रहिलतां त्वं शंभलीश ! त्यज ॥ ४३१ ॥ वेश्यावाक्येन तेनांतः, खिन्नः प्रत्यर्थिपार्थिवः । मर्माविधांकुशेनेव, विद्धो हस्तीव मम्लिवान् ॥ ४३२ ॥ ततोऽरिभूभृता सैव, भिन्ना बर्बरिका धनैः । जगौ दुर्गग्रहोपाय - मित्येकांते सुमित्रवत् ॥ ४३३ ॥ अयं नृपः सदोद्घाट्य, द्वाराणि निखिलान्यपि । क्षुधार्तान् प्रीणयित्वैव, भुंक्ते धर्मतनूजवत् ॥ ४३४ ॥ गवाक्षस्था यदा केशान् विवृणोमि तदा त्वया । द्वारोद्घाटं परिज्ञाय, प्रवेष्टव्यं झटित्यपि ॥ ४३५ ॥ ततो वैश्योदितोपायाद्, दुर्गे दुर्गतवेश्मवत् । शंभलीशोऽविशत्तूर्ण - मुद्धतैः सह सैनिकैः ॥ ४३६ ॥ चित्रांगदोऽभ्यमित्रीणो भूत्वा तेन द्विषा समम् । शराशरि चिरं युद्धं विदधे शक्रविक्रमः ॥ ४३७ ॥ शंभ१ज्ञा, प्र. २ शत्रुराजः ३ युधिष्ठिरवत् ४ अमित्रं अभिगच्छतीति अभ्यमित्रीणः ईदृग् चित्रांगदो भूत्वा.
सर्ग. ३
॥ ५९ ॥
Page #169
--------------------------------------------------------------------------
________________
%%**
लीशशरासारै – दुर्वारैराकुलीकृतः । स पलायिष्ट शक्तोऽपि, शंडवद्वारिदोपलैः ॥ ४३८ ॥ हेमपूरुषमादाय, कोशाच्चित्रांगदस्ततः । क्षीरकूपे ददौ झंपां भीतः कुर्यान्न किं जनः १ ॥ ४३९ ॥ शंभलीश भटैस्तस्मिँ - न्नन्विष्टोऽपि सहस्रधा । साधि धानतया स्वर्ण - पुरुषोऽलंभि नैव सः ॥ ४४० ॥ तल्लक्ष्मीसारमादाय तद्राज्ये तत्तनूरुहम् । वाराहगुप्तं न्यस्यागा - |च्छंभलीशो निजं पुरम् ॥ ४४१ ॥ चित्रकूटन गोत्पत्ति - मित्यावेद्य मुदा मुनिः । विरराम स रामाख्यः, कूजित्वा कलंकंठवत् ॥ ४४२ ॥ अथासन्नं प्रभुप्रोक्तं, राज्याप्तिदिवसं विदन् । कुमारः सकुटुंबोऽपि भेजेऽणहिल्लपत्तनम् ॥ ४४३ ॥ तत्र श्रीकृष्णदेवेन, भग्नीकांतेन गौरवात् । नीत्वा स सदनं सम्यकू, सच्चक्रे सपरिच्छदः ॥ ४४४ ॥ भग्या प्रेमलदेव्याऽथ कुमारे स्नपिते स्वयम् । तस्य स्नानजले सस्तो, दुर्गा कृतवरस्वरा ॥ ४४५ ॥ शकुनं तत्तथा प्रेक्ष्य, कश्चिच्छाकुनिकोडन| वीत् । सप्तदिन्या कुमारैत - द्राज्यं भावि तव ध्रुवम् ॥ ४४६ ॥ एवमस्त्विति तद्वाक्य - मूरीकृत्य स कृत्यवित् । विद्वां - समिव सच्चक्रे, तं द्रव्यादिप्रदानतः ॥ ४४७ ॥ तदैव दैवयोगेन, चिरं भुक्त्वा महीमिमाम् । जयसिंहमहीजानि - देव भूयं | समासदत् ॥ ४४८ ॥ इति निःशेषसामंता - मात्यसभ्यैकमत्यतः । उभौ राजसुतावन्यौ, कुमारं तं च सत्तमम् ॥ ४४९ ॥ स्वपितालंकृतान् कृत्वा, दिव्याश्वानधिरोप्य च । अमात्यैः सममानैषीत्, कृष्णदेवो नृपालयम् ॥ ४५० ॥ युग्मम् ॥ एतेषु कोऽस्ति राज्यार्ह, इति सम्यक् परीक्षितुम् । आदिक्षन्मंत्रिमुख्यास्ता - नधिष्ठातुं नृपासनम् ||४५१॥ तत्रैको विनयानम्रः, संयोज्य करपंकजे । नत्वा च कृष्णदेवादीन्, निषसाद नृपासने ॥ ४५२ ॥ विनीतोऽयं कर द्वंद्वं, स्वभृत्येभ्योऽपि योज१ चित्रांगदः २ वषभवत्. ३ करकेः ४ जलकूपे ५ कूपे, ६ देवताऽधिष्ठितत्वात् ७ कोकिलवत् ८ अथ, प्र.
Page #170
--------------------------------------------------------------------------
________________
R
कुमारपालच०
॥६
॥
कुमारपाला॥४६० ॥ कृपाणं पाणिना पुन्नाभवनोत्तरम् । संतुष्टाः कृष्णदेवाद्या,
यन् । निःस्थामेव कथं स्थाना, विजेता दुर्जयारिपून् ॥ ४५३ ॥ अर्यमेव यदोजस्वी, महीजानिः प्रशस्यते । तदयं निष्प्रभत्वेन, वैभवं नेदमर्हति ॥४५४॥ ध्यात्वेत्यमात्यमुख्यास्त-मासनादुदतिष्ठिपन् । गुणोऽपि कल्प्यते दोषो, दैवे हि प्रातिकूलिके ॥ ४५५॥ [त्रिभिर्विशेषकम्] । द्वैतीयीकस्ततः स्तवस्त्रश्चंचललोचनः । विवृतांगः शून्य इव, सिंहासनमशिश्रियत्8 ॥४५६॥ आवरितुं न शक्नोति, निजमप्यंगमेककम् । आवरिता कथमयं, सप्तांगं राज्यमूर्जितम् ॥४५७॥ तदयं हृदये शून्य|श्चलाचलविलोचनः । काकवचूतमंजर्या, न योग्यो राज्यसंपदः॥ ४५८ ॥ इति ते राजवीणा-स्तमप्युत्थाप्य तत्क्षणम् । |कुमारपालमादिक्षन् , क्षमापासनमलंकुरु ॥४५९॥ ततःस्कंधद्वयन्यस्त-संव्यानो विकसन्मुखः। प्रतापतापितादित्यः, स्फारा|लंकारभासुरः॥४६०॥ कृपाणं पाणिना धुन्वन् , गृहीत्वोद्धं समीरणम् । स सिंहासनमध्यास्त, साक्षात्सिंह इवोद्धतः ॥ ४६१ ॥ युग्मम् ॥ तच्चेष्टासौष्ठवं तस्य, विभाव्य भुवनोत्तरम् । संतुष्टाः कृष्णदेवाद्या, राज्या)ऽयमितीरिणः ॥४६२ ॥
अथ संवन्नवनव-शंकरे मार्गशीर्षके । तिथौ चतुर्थ्यां श्यामायां वारे पुष्यान्विते रवौ ॥ ४६३ ॥ सर्वग्रहबलोपेते, मीनहा लग्ने शुभे क्षणे । पुरोधसं पुरस्कृत्य, ब्रह्मवद्ब्रह्मपारगम् ॥ ४६४ ॥ कृष्णदेवप्रभृतयः, सामंता मंत्रिणोऽपि च । अभ्यर्षिचंत
तं राज्ये, कुमारं चक्रवर्तिवत् ॥ ४६५ ॥त्रिभिर्विशेषकम् ॥ ततः प्रेमलदेव्याद्या, भगिन्यो भाग्यभासुराः । मूर्त जयमिवोदाम, मांगल्यं तस्य तेनिरे ॥ ४६६ ॥ उपायनानि हस्त्यादी-न्यपादाय सहस्रशः। सामंतास्तं नमश्चक्रु-नेवेंदुमिव संम
निर्बलः, २ अर्यमा-सूर्यः. ३ कल्पते, प्र. ४ द्वितीय एव-खार्थे ईकक्. ५ श्रस्त, प्र. ६ खाम्यमास-सुहृत्-कोश,-राष्ट्र-दुर्ग-बलानि च, इत्यमरः, कस्य| चिन्मतेऽष्टांग, अष्टम-प्रजाः, ७ अतिचपललोचनः, ८ उचारिणः, * ११९९, ९ वेदपारगम्. १० द्वितीयाचंद्रवत्.
otortrag
ANCHORMALAMSASEASE
॥ सर्वग्रहबलोपेते, मीन
॥
६
॥
Page #171
--------------------------------------------------------------------------
________________
PRECARROGRESEARCALCRec
दात् ॥ ४६७ ॥ तदा वैतालिकाः पेठु-जगुर्गान्धर्वकोविदाः । नर्तक्यो ननृतुर्जज्ञे, हर्षेणेव महो महान् ॥ ४६८ ॥ रेणुर्मगलतूर्याणि, ज्ञापयंतीव दिक्पतीन् । पंचमो लोकपालोऽयं, नवः प्रादुरभूदिति ॥ ४६९ ॥ रंजिताः कुंकुमांभोभिः, पुरमागभुवो बभुः । प्राप्य कांतं नवं कांतं, व्यक्तरागा इवाभितः॥४७०॥ विकीर्णा राजमार्गेषु, रेजिरे कुसुमोत्कराः। हासा इव | महीदेव्या, नवीनं स्वपतिं प्रति ॥४७१॥ पुरमप्यस्फुरत्तस्य, राज्ये राज्यदिवाभितः । प्रत्यर्ट्स मंजुमांजिष्टे-पताकाकोटिकूटतः ॥ ४७२ ॥ उल्लासयन सुहृत्पद्मान् , हरन् द्विट्कैरवश्रियम् । आश्चर्यकारणं कस्य, स राजाँ न व्यजंभत ॥ ४७३ ॥ ततः। कुमारपालोऽदा-त्फलवत् प्रीतिवल्लरेः । स्वयं भोपलदेपल्यै, पट्टराज्ञीपदं मुदा ॥ ४७४ ॥ दौस्थ्योपकृतितः कृत्वो-दयनं 8 मंत्रिपुंगवम् । अमात्यं तत्सुतं चक्रे, वाग्भट स प्रभोद्भटम् ॥ ४७५ ॥ अन्येऽपि ज्ञातिमान्या ये, स्वकीया गौरवोचिताः। तान्नियुक्तान् व्यधाद् भूपो-ऽभ्युदयस्य फलं ह्यदः॥ ४७६ ॥ पुरजनपदग्रामत्राणं भटनजसंग्रहः, कुनयदलनं नीतेवृद्धि-| स्तुलार्थमितिस्थितिः । व्रतिषु समता चैत्येष्वर्चा सतामतिगौरवं, प्रशमनविधि नव्ये राज्ये व्यधादिति स प्रभुः॥ ४७७ ॥ अथाग्रे नृपतेः प्रेक्ष्य, स्फुरतः सचिवानवान् । चुकुपुः प्रथमेऽमात्या, जाति जातिरसासहिः॥४७८॥ मिथस्ते मंत्रयामासुनीतिः काऽप्यस्य भूपतेः। हित्वा यद्राज्यधुर्यान्नः, पुरश्चके नवानसौ ॥४७९॥ यदा किं वेत्त्यसौ राज्य-सूत्रं जाल्मैकशेखरः। क्षीरनीरविवेके हि, बकोटो न पटुः स्फुरम् ॥ ४८० ॥ अथ स्वाम्यनुमानेन, भृत्यवर्गो विवेल्गति । यन्मूर्खान सचि
१ नवीनः-अपूर्वः. २ मनोहरम्. ३ पतिम्. ४ रज्यतू-प्र. ५ रक्तवर्णा. ६ समूहात. . चंद्रपक्षे-वैपरीयादाश्चर्यकारणम्. ८ (विधिर्नव्ये.) ९ राज्य-व्यवस्थाम्. १.क्रूरैकशेखरः. ११ खाम्यनुसारेण. १२ऽपि, प्र.
HOCACHORRORGHE
कु.पा.च.११
Page #172
--------------------------------------------------------------------------
________________
सर्ग. ३
कुमार
नवीचक्रे, स्वयं मूर्खाग्रणीरसौ ॥ ४८१॥ जडोऽभ्युदयमासाघ, निरस्यति गुणोज्वलान् । किमुत्तोऽधिनीरोपो, बहिः पालच० क्षिपति नो मणीन् ॥ ४८२ ॥ अद्याप्यवद्धमूलत्वा-त्तदमुं सुखनिग्रहम् । घातकैर्घातयित्वाऽद्य, नवीनः स्थाप्यते नृपः
18/॥ ४८३॥ यथाऽस्मत्स्थापितत्वेन, सोऽस्मदुक्तं न लंघते । अन्यथाऽयं निकारोऽस्मान् , पीडयिष्यति शल्यवत् ॥४८४॥ ॥६१॥
Fषभिः कुलकम् ॥ अथ ते हंतुमात्मान-मिव भूभृजिघांसया । सांधकारे गृहद्वारे, घातकान्निश्यतिष्ठिपन् ॥४८५॥ अवेत्य
कश्चिदाप्तस्त-त्सर्वमूर्वीभृतेऽभ्यधात् । पुण्ये प्रगल्भमाने हि, सेत्सु न स्यादरीप्सितम् ॥ ४८६ ॥ तदैव भूपतिर्भूत्यैमंगयित्वा गृहांतरात् । आनाययद्भटान् शस्त्रो-टांस्तान यमदासवत् ॥ ४८७ ॥ युष्मान् कः प्रजिघाँयेति, चौलुक्ये परिपृच्छति । राजवृद्धकृतं ते त-द्विरुद्धं सर्वमभ्यधुः॥४८८॥ तानाकार्य क्रुधा भूपः, स्वयं स्वीकृतदूषणान् । तैरेव घातयामास, क स्याद्राजद्रुहां शिवम् ॥४८९॥ हंतेहंते महांतं ये, हंतु ते स्युर्महापदः। गिरिं विदारयंतः किं, भग्नदंता न दंतिनः ॥४९०॥ हतेषु तेषु भीतास्तं, परे साधु सिषेविरे । न झुग्रतां विना लोकः, प्रायेण स्याद्वशंवदः॥४९१॥ कृष्णदेवः पुनः श्याल-भावाद्राज्यार्पणादपि । निम्मिमाणोऽनिशं नर्म, तदाऽऽज्ञां मन्यते स्म न ॥४९२॥ सभायांराजपाव्यां च, दुःस्थावस्था पुरातनीम् । स नृपं श्रावयामास, नर्मणा मर्मवन्महः ॥ ४९३ ॥ तस्य ममोविधाऽनन, नर्मणाऽपि महीपतिः। दंभोलिनेव शिखरी, द्नस्तं प्रोचिवान् रहः ॥४९॥ हास्यास्पदं यदप्यस्मि, श्यालभावादह तव । तथाऽप्यसमये तद्धि, सर्वथा ऽश्यति नौचितीम ॥ ४९५॥ यच्च त्वं भाषसे मर्म. सर्वथापि तदप्यसत् । अतः शल्यायते नृणा, यत्त
* किमुद्धत्तः, प्र. १ तिरस्कारः. २ सजनेषु-३ प्रेषितवान, ४ घातकैः. ५ इंत ईहते, इतिच्छेदः, ६ हास्यम्.
॥६१॥
Page #173
--------------------------------------------------------------------------
________________
R
HAUSSURROSTALO45 *****
दुद्घाटनं खलु ॥ ४९६ ॥ यः स्वस्येव परस्यापि, स्थगयत्येव दूषणम् । विश्वं विश्व वशीकर्तु, स एवात्र प्रगल्भते॥४९७॥ किंच दौःस्थ्यं न कस्यासी-न्महतोऽपि स्वकर्मणा । अवस्था मामिकां यत्त्वं, खलवंदापसे मुहुः ॥४९८॥ संपदं विपदं चापि, महानामोति नेतरः । हानि वृद्धिं च लभते, चंद्रमा नोडुमंडलः ॥ ४९९ ॥ एकांते कांतमन्यद्वा, ब्रूयास्तत्त्वं यह च्छया । सदोमध्ये तु सन्मुद्रा-माद्रियेथा? महात्मवत् ॥५०॥ क्षमापतेरिमा शिक्षा, दुःशैक्ष इव सद्गुरोः। राज्यदानातिहप्तात्मा, कृष्णदेवोऽग्रही (हि)टन ॥५०१॥ अथानुचिततद्धास्य-क्रुद्धश्चौलुक्यराड् जगौ । अस्माद् अहिलवस्कस्मा-निषिद्धोऽपि न तिष्ठसि ॥५०२॥ यतो हास्यात्प्रवर्धिष्णुः, क्रोधो वातावाग्निवत् । दुमानिव नयत्यंत, बांध
वानपि तत्क्षणम् ॥ ५०३ ॥ तस्मात्कामयसे कामं, यदि जीवितमात्मनः। तर्हि हास्यानिवर्तस्व, कुकृत्यादिव भावुकः। F॥५०४ ॥ कृष्णदेवस्ततोऽवादी-नरदेवं वमन्निव । क्रूराक्षरवचोव्याजात्, कोपवहिकणान् बहिः ॥५०५॥ मयैव |रंकतां भक्त्वा, त्वमैश्वर्ये न्यवेश्यथाः । इदानीं तेनै मत्तः सन् , मामेवमवमन्यसे ॥ ५०६ ॥ अभ्रमीयंत्र भिक्षार्थ, भिक्षु|वत्प्रतिमंदिरम् । व्यस्मार्षीः किमु तद्दौस्थ्य-मरे मदुपकारवत् ॥५०७॥ परं गुरुकृतोऽपि स्वं, नीचः सात्म्यं न मुंचति ।
उच्चासनस्थितोऽपि स्या-न्न काको हंसचेष्टितः॥५०८ ॥ दुर्जनश्च कृशानुश्च, द्वाविमौ सदृशौ मतौ। नयेते यत्क्षयं सद्यः,
स्वस्याप्युल्लासकारणम् ॥ ५०९॥ विब्रुवाणेऽपि तत्रेत्थं, साहित्थो महीपतिः। नादीदृशन्निजं मध्यं, क्षुभितोऽपि पयोदधिवत् ॥ ५१०॥ विब्रुवन् खलवन्नैष, स्थाता शिक्षा विना ध्रुवम् । विचार्येति निजे चित्ते, व्यनाक्षीत्तं तदा नृपः ॥५११॥
१ समप्रम्, २ जगत्. ३ भव्यजनोऽथवा भगिनीपतिः. ४ ऐश्वर्येण. ५ खभावम्. ६ भवहित्यया-हृद्तभावेन सहितः,
ECEMCHORRORS-
त्यो महीपथ, दाविमौ सदस्य, नीचः सासमक्षार्थ, भिक्षु-
X----
"
Page #174
--------------------------------------------------------------------------
________________
3
कुमारपालच०
॥६२॥
धर्मपुत्रोऽथ, भट
SARICHARSASARAKASAMA
अथ सेवार्थमायातं, कृष्णदेवं रहःस्थितम् । पूर्वसंकेतितैर्मलै-रत्यूर्जस्वलवर्मभिः ॥५१२ ॥ धारयित्वाऽखिलांगानि, मोटयित्वा च संधितः । दृशौ जीवितसर्वस्व-मिवास्याचीकृषत्प्रभुः ॥ ५१३ ॥ युग्मम् ॥ सज्जयित्वा पुनर्देह-माक्रोशंतं मुहुर्मुहुः। उपायनमिव प्रैषी-भाता तं स्वसवेश्मनि ॥ ५१४ ॥राज्यश्रीस्थापनाचार्ये, पूज्ये भग्नीपतित्वतः। कृष्णदेवे|ऽन्धिते तस्मिन् , सामंताः सकलाः परे ॥ ५१५ ॥ पोषितोऽपि पयसा सरीसृप-स्तर्पितोऽपि नवसर्पिषाऽनलः । सत्कृतोऽपि शतधाऽपि दुर्जनः, स्थापितोऽपि न महीपतिर्निजः॥५१६॥ इति सूक्तं स्मरंतोऽन्त-नीतिरीतिविशारदाः। देवेंद्रमिव देवास्तं, चौलुक्यं पर्युपासत ॥ ५१७ ॥ त्रिभिर्विशेषकम् । सिद्धेशधर्मपुत्रोऽथ, भटश्चारभटो बली । चौलुक्या-15 ज्ञामवज्ञाय, भेजेऽर्णोराजभूभुजम् ॥ ५१८ ॥ इत्थं निष्कंटकं राज्यं, कृत्वा देशे समंततः। मूर्ध्नि शेषामिव न्यास्थनिजामाज्ञां महीपतिः ॥ ५१९ ॥ कृतज्ञत्वेन स स्मृत्वा, विधातुं प्रत्युपक्रियाम् । जनैराजूहवत्स्वोप-कर्दस्तान् हालिका, दिकान् ॥ ५२० ॥ न्यस्यांतर्बदरीपत्रं, येनानायि दयालुना। सत्कृत्य भीमसिंह तं, स्वांगरक्षं नृपो व्यधात् ॥ ५२१॥ त्र्यहं बुभुक्षितो मार्गे, यया वद्धा दयाया। अध्यारोपि निजं यान-मभोजि च महादरात् ॥ ५२२ ॥ भग्नीभावेन तां मत्वा, निर्माप्य तिलकं तया । तस्यै देवश्रिये ग्राम, सोऽदात्सत्या हि वाक् सताम् ॥५२३॥ युग्मम् ॥ येनांतरिष्टकापाकं, | क्षिप्त्वा ऽरक्षि स सज्जनः । सामंत्यकारि भूपेन, चित्रकूटाह्वये गिरौ ॥५२४॥ मार्गे सहचरीभूय, यः कष्टं सोढवान् मुहुः । तस्मै बोसरिमित्राय, स ददौ लाटमंडलम् ॥ ५२५ ॥ ऊचे च जागरोद्विग्नौ, यदतं युवां वचः । तत्सत्यं जातमेतत्त्वं,
सर्पः. २ धवलकम्. ३ असामन्तः सामन्तः अकारि इति सामंती अकारि,
१२० ॥ न्यस्यान ॥ कृतज्ञत्वेन सम्मानिष्कंटकं राज्य,
Page #175
--------------------------------------------------------------------------
________________
COPACABANAISAIRAUGAIRAISHISHIGA
पित्रोः सज्जन भो! वदेः ॥ ५२६ ॥ चणकान् यो मुधाऽदत्त, तस्मै स वटपद्रकम् । कटुकायार्पयत्को हि, नोपकारमं चति ॥ ५२७ ॥ उपकारव्रतस्यास्य, कथमन्यद् व्रतं समम् । इह लोकेऽपि यत्सद्यः, फलत्येव कलैः फलैः॥ ५२८ ॥ नीचस्यापि भवत्युच्चै-रुपकारः फलेग्रहिः । महीयसां कृतज्ञानां, स तु किं प्रणिगद्यते ॥ ५२९ ॥ एवं निजोपकर्तृस्तान्, सच्चके सकलानृपः । हेमाचार्य विमुच्यैकं, धर्मप्राप्त्यंतरायतः॥५३० ॥ अथ कर्णावतीपुर्या, धर्मधुर्यान् प्रमोदयन् । राज्यावाप्तिं कुमारस्य, हेमसूरिः स शुश्रुवान् ॥ ५३१॥ निमित्तोक्तिक्षणे जैन-धर्मेऽहं भक्तिमद्भुताम् । करिष्या-16 मीत्यसौ पूर्व, प्रत्यौषीन्मदग्रतः॥ ५३२॥ स्मरत्येतन्न वेत्यस्य, चित्तजिज्ञासया ततः। व्यहार्षीत्पत्तनं सूरि-मानसं राजहंसवत् ॥५३३॥ युग्मम् ॥ आगत्योदयनामात्यः, संमुखं संघसंयुतः । अत्युत्सवेन सूरींद्रं, पुरमध्यमवीविशत् ॥५३४॥3 पप्रच्छोदयनं सूरि-विजनेऽसौ नृपस्तव । मम स्मरति किं नो वा १, संप्रति प्राप्य वैभवम् ॥ ५३५ ॥ उवाच सचिवः
सर्वा-नुपकर्दन स्वबंधुवत् । उदारः सच्चकारायं, सस्मारापि प्रभुं न तु ॥५३६॥ सूरिः शशंस तर्हि त्वं, ब्रूयाः क्षितिपतिं । बारहः । त्वयाऽद्य नैव स्वप्तव्यं, नव्यराज्ञीगृहे निशि ॥५३७॥ केनोक्तमिति पृच्छेच्चे-प्रातर्जातचमत्कृतिः। अत्याग्रहे तदा
नाम, मम तस्मै निवेदयेः॥ ५३८ ॥ ओमित्यभ्युपगम्यैतां, वाचं सचिवपुंगवः । शंसति स्म विशां पत्ये, सोऽपि चक्रेत तथैव तत् ॥ ५३९ ॥ निशि विधुन्निपातेन, दग्धे तस्मिन्नवे गृहे । मृतायां नव्यपत्न्यां च, चमच्चक्रे महीपतिः ॥ ५४॥ प्रभाते पृष्टवान् भूभृ-मंत्रिन ! केनेदमद्भुतम् । आचख्ये ज्ञानमाचक्ष्व ? । जीवातुमिव तं मम ॥ ५४१॥ व्यजिज्ञप
१ फलल्यविकलैः, प्र.
Page #176
--------------------------------------------------------------------------
________________
सर्ग.३
कुमारपालच०
RECORRECRUSSROO
SARDAROSAROSAGAR
नृपं मंत्री, नायं तत्कथनक्षणः । न पारयति यद्देव-स्तं श्रोतुं राज्यलीलया ॥ ५४२ ॥ जगाद सादरं स्वामी, सचिवैतकिमुच्यते । प्राणवाणकरो यो मे, न शृणोमि तमप्यहम् ॥ ५४३ ॥ निर्बधेऽभिदधे सैष, स्तंभतीर्थपुरे पुरा। कर्हि मे भविता ? स्वास्थ्य-मिति देवस्य पृच्छतः॥ ५४४ ॥राज्याप्तिपत्रिकाऽदायि, लेखित्वैकाऽपरा मम । येन तेनेदमावेदि, ज्ञानं श्रीहेमसूरिणा ॥ ५४५॥ युग्मम् ॥ इत्युक्त्वाऽदीदृशन्मंत्री, पत्रीं तां भूभृते तदा । सोऽपि तां वाचयित्वा द्राग्विस्मेरः सूरिमस्मरत् ॥ ५४६॥ ऊचे च सचिवं कीदृक्, सूरीयं ज्ञानमद्भुतम् । प्रत्याययन्मनो यन्मे, राज्याप्तिदिवसेऽद्य च ॥५४७ ॥ स वास्तीत्यनुयुक्तः सन् , जगादोदयनो मुदा । अधुनाऽत्राप्तवानस्ति, तवाशीर्वितितीर्षया ॥ ५४८॥ मंत्री ततस्तदादिष्ट-स्तदुक्तं प्रणिगद्य तत् । हेमाचार्य सहादाय, नृपास्थानीमुपास्थित ॥ ५४९ ॥ दृष्ट्वा सूरींद्रमायांतं, विनयैकावनिर्नृपः । अभ्युत्तस्थौ यथा शुक्ला-पांगो वार्षिकवारिदम् ॥ ५५० ॥ मूर्ते स्वभक्तिप्राग्भार, इव हेमासनेऽद्भुते । निवेश्य तं नमश्चक्रे, विधिवत्स विनेयवत् ॥ ५५१॥ प्रांशुदंतांशुरोचिर्भि-र्दिशो धवलयन्निव । इत्याशीर्वादयामास, भूवासवमथ प्रभुः ॥ ५५२ ॥ न तामस्यः स्फूर्ति दधति न वरं यस्य पुरतः, श्रियस्तैजस्योऽपि त्रिजगदवगाहैकरसिकाः। अचक्षुः संलक्ष्यं परिहृतपथं वाङ्मनसयो-महस्तद्राजंस्ते शमयतु समंतादपि तमः॥ ५५३ ॥ गुर्वस्मरणरूपेण, प्रमादेन ततो नृपः । अपराधीव लज्जावान् , प्रांजलिर्जल्पति स्म तम् ॥ ५५४ ॥ कृतघ्नत्वेन भगव-नहं त्वां प्रति संप्रति । न दर्शयितुमीशोऽस्मि, मुखं वंचकवन्निजम् ॥ ५५५ ॥ तामलियां तथा त्रातः, प्रभुणाऽहं द्विषद्ग्रहात् । आश्वासितश्च
विनयाद्वितीयाधारः २ शुक्लः मांगः-नेत्रप्रान्तभागो यस्य स-मयूर इत्यर्थः. ३ मूर्तिमति. ४ तेजसः ५ प्रभाः. ६ स्तंभतीर्थे.
MSEX
L GAR
Page #177
--------------------------------------------------------------------------
________________
राज्याति - दिनपत्री समर्पणात् ॥ ५५६ ॥ ऐश्वर्ये जातवत्यस्मिन्, दूरेऽस्तु प्रत्युपक्रिया । अस्मार्षमपि नाहं त्वां कृतज्ञत्व - महो मम ॥ ५५७ ॥ उपकारैर्भवत्कृतैः पुराऽपि ऋणवानहम् । प्राणसंत्राणतोऽद्याप - मृणांर्णमधमर्णवत् ॥ ५५८ ॥ अकृत्रिमोपकर्तॄणां त्वमेको ग्रामणीरसि । यत्कृतघ्नेऽपि मय्येवं, वात्सल्यं तव वर्गेति ॥ ५५९ ॥ कृतज्ञादुत्तमो नान्यः, कृतनादधमोऽपि न । यदाद्यः स्तूयते लोकै- निद्यते चांतिमोऽनिशम् ॥ ५६० ॥ अहो संप्रत्ययासिष्टां, परां कोटिमुभावपि । उपकारधुरीणेषु, त्वं कृतघ्नेष्वहं पुनः ॥ ५६१ ॥ निःशेषमपि मे मंतु, तत्क्षमित्वा क्षमाधन ! | अनुगृह्णीष्व मामद्य, राज्यलक्ष्मीपरिग्रहात् ॥ ५६२ ॥ अथ भूभृन्मुखोद्भूत-भक्तिभंगितरंगितैः । प्रीणितात्मा प्रभुः प्रोचे, सिंचन्निव सुधारसैः ॥ ५६३ ॥ इत्थं विकत्थसे कस्मात् ? स्वं मुधा वसुधाधव ! । उपकारक्षणो यत्ते, संप्रत्यस्ति समागतः ॥ ५६४ ॥ त्वमेव मौलिमाणिक्यं, कृतज्ञानां कृतिन्नसि । स्वपूर्वज इवाभाति, यस्येदृग्गौरवं मयि ॥ ५६५ ॥ यच्चार्थयसि राज्यार्थ, तत्त्वके कियत्किल । परं न युज्यते देव !, तन्मे चारित्रचारिणः ॥ ५६६ ॥ सर्वसंगपरित्याग श्चारित्रं जगदे जिनैः । तत्प्रणश्यति राज्येन, जलयोगेन चित्रवत् ॥ ५६७ ॥ संयमश्रीर्नृपश्रीश्च विद्विषाते परस्परम् । यदेकस्याः प्रवेशेऽन्या, सपजीव पलायते ॥ ५६८ ॥ कृतज्ञत्वेन चेद् भूप !, त्वं प्रत्युपचिकीरसि । आत्मनीने तदा जैने, धर्मे घेहि निजं मनः ॥ ५६९ ॥ मदतस्त्वया प्राग-प्येतदस्ति प्रतिश्रुतम् । उक्तं सत्याप्यतां तत्स्वं, महतां न हि गीर्मृषा ॥ ५७० ॥ अलोलुपत्वं सूरींदो -
आलम्भने चौरादिकधातोर्णिजभावे लङिरूपम् १ ऋणोपरि ऋणणार्णम्, ऋणाधिकं ऋणम् २ अमेसरी ३ प्रेम. ४ चेष्टते. ५ अपराधम् ६ स्वीकारात् ७ निंदसि ८ आत्मानम् ९ खद्भतेरमे तत्-राज्यं कियन्मात्रमस्तीत्यर्थः १० चारित्रम् ११ आनहिते. १२ स्वकीयम्.
Page #178
--------------------------------------------------------------------------
________________
कुमार
पालच०
॥ ६४ ॥
निःस्पृहस्येव वीक्ष्य तत् । कुमारपालो विस्मेर - स्तमूचे विनयांचितः ॥ ५७१ ॥ भवदुक्तं करिष्येऽहं सर्वमेव शनैः शनैः । कामयेऽहं परं संगं, निधेरिव तव प्रभो ! ॥ ५७२ ॥ भवत्संगाद्यथा किंचि - त्तत्त्वं बुध्ये स्वचेतसि । सत्संग एव यत्तत्त्वप्राप्तावौपयिकं विदुः ॥ ५७३ ॥ तदुरीकृत्य सूरीशो, यथासमयमेत्य च । क्षमाभुजे समाचख्यौ धर्ममर्मांतरांतरा ॥ ५७४ ॥ निर्मली भवितुं लग्नो, जलाशय इवाशयः । नृपतेर्गुरुवाग्भंगी कतकक्षोदयोगतः || ५७५ || रक्षाऽऽयव्ययचिंतनं १ पुरजनान्वीक्षा २ सुराचऽशने ३, कोशान्वेषण ४ मन्यनीवृतिचरप्रेषो ५ यथेच्छं भ्रमिः ६ । हस्त्यश्वादिशरासनादिरचना ७ जेतव्यचिंता समं, सेनान्येति ८ कृतिः क्रमेण नृपतेर्घस्रस्य भागाष्टके ॥ ५७६ ॥ एकांते परमाप्तवाक् श्रुति १ रति: प्रौढार्थशास्त्रस्मृति २- स्तूर्यध्वानपुरस्सरं च शयनं ३ निद्रा च भागद्वये ४-५ । बुद्धा वाद्यरवैरशेषकरणेध्यानानि मंत्रस्थिति ७ - विप्राशीर्भिषगादिदर्शन ८ मिति स्याद्रात्रिभागाष्टके ॥ ५७७ ॥ इति राजनीतिगदितां यशस्करीं, स्थितिमाश्रयन्नवहितो दिवानिशम् । स चुलुक्यवंशतिलको नरेश्वरो निजवेश्मवत् क्षितितलं समन्वशात् ॥ ५७८ ॥ त्रयाणां सर्गाणां मीलने ॥ १८७७ ॥
६
॥ इति श्रीकृष्णर्षीयश्रीजयसिंहसूरिविरचिते परमाईत श्रीकुमारपालभूपालचरिते महाकाव्ये कुमारपालहिंडिराज्याप्तिवर्णनो नाम तृतीयः सर्गः ॥
१ उपायः २ जानन्ति ३ प्रेक्षणम्. ४ क्रिया करणम् ५ कर्तव्यचिन्तनानि. ६ मंत्रिप्रभृतिभिर्गुप्तविचारः ७ सावधानः,
सर्ग. ३
॥ ६४ ॥
Page #179
--------------------------------------------------------------------------
________________
RSS
॥ अथ चतुर्थः सर्गः॥ अथ पाइगुण्यवित् सिद्ध-शक्तिसिद्धयुदयत्रयः । कुमारपालो भूपालः, कामयामास दिग्जयम् ॥१॥ स्वस्योपचयमालोक्य, परेषामितरं पुनः । राज्ञा जिगीषुणा भाव्यं नीतिरीतिरितीयंती ॥२॥ ततः श्रेष्ठग्रहे लग्ने, सप्तश्रीभिरिव स्वयम्। स्वगोत्रवृद्धनारीभिः, कृतप्रस्थानमंगलः ॥ ३ ॥ पिंडीकृतं यश इव, छत्रं बिभ्रत्सितद्युति । मूर्तिमंतं जयमिवा-ध्यारूढः। प्रौढसिंधुरम् ॥ ४॥ वंदिवृंदसमुत्कीर्त्य-कीर्तिकल्लोलकेलिभिः । वाचालीकृतदिग्चक्रः, प्रतस्थे दिग्जयाय सः॥५॥ त्रिभिर्विशेषकम् ॥ स्वर्णभूषणदंभेन, वपुष्मद्भिरिवाभितः। तेजःस्तोमैः समाक्रांताः, सामंतास्तस्य निर्ययुः॥६॥ प्रक्षरप्रस्फुरत्पक्षाः, प्रसरन्मदनिर्झराः। जंगमक्ष्माधराकारा, द्विरदेंद्राः प्रतस्थिरे ॥७॥ ताा इवान्यरूपेण, समीरा इव चाक्षुषाः । चेलुश्चलाचलायांहि-दत्तरंगास्तुरंगमाः॥८॥ सौवर्णध्वजदंडोद्य-कांतिचंडतडिजुषः । निरुद्धवर्त्मव्योमानः, प्रातिष्ठंत रथांबुदाः ॥९॥ अनेकरूपतां प्राप्ता, मूर्ता वीररसा इव । खड्गव्यग्रकरोदग्राः, पत्तयो निरयासिषुः ॥१०॥ युद्धश्राद्धतया योधाः, पारवश्येन सेवकाः। रसिका प्रेक्षकत्वेन, लुटाका लुटनेच्छया ॥११॥ निर्धनाः कर्मक
षट्गुणाः-राज्ञा राज्यरक्षणे उपायाः षट्-ते एव पाइगुण्यं, यदुक्तं-पाइगुण्यमिति यत्प्रोक्तं, तन्निबोध युधिष्ठिर ! । संधायासनमित्येव, यात्रासन्धानमेव च, ॥१॥ विगृह्यासनमित्येव, यात्रा संपरिगृह्य च । द्वैधीभावस्तथाऽन्येषां, संश्रयोऽथ परस्य च ॥२॥ संधायासनं-संधि कृत्वाऽवस्थितिः १,यात्रासंधानं-यानं युद्धाय २, विगृह्यासन-वैरं कृत्वाऽवस्थानम् ३, यात्रा संपरिगृह्मासनं-शत्रोर्भयप्रदर्शनार्थ यानं प्रदय स्वस्थानेजस्थानम् ४, द्वेधीभावः-उभयत्रसंधिकरणम् ५, परस्यान्यस्याश्रयो दुर्गादेमहाराजस्य वा ६.२ ईयत्प्रमाणा, ३ सप्तांगराज्यलक्ष्मीमिरिव, सत्यश्रीमिः, प्र.४ युद्धाय श्राद्ध-श्रद्धा तद्भावस्तता तया
54RECCACAUSA
Page #180
--------------------------------------------------------------------------
________________
कुमारपालच०
सर्ग.४
॥६५॥
त्वेन, भट्टा द्रव्यादिलिप्सया । वाणिजा व्यवहारेण, भूपसैन्ये निरैयरुः ॥ १२॥ युग्मम् ॥ गर्जत्तूर्यघनास्तस्य, प्रस्थानपट-16 हस्वनाः । सत्त्वानि कंपयांच-ईयोनामपि भूभृताम् ॥ १३ ॥ तुरंगमखुरोत्खाताः, सांद्रिताः स्पंदनवजैः । घना इव रजःपुंजा, रोदसी पर्यपूपुरन् ॥ १४ ॥ सैन्यांधकरणान् रेणु-कणान् दूरप्रसृत्वरान् । द्विपेंद्राः शमयामासु-र्दययेव मदोदकैः॥ १५॥ हास्तिकाश्वीयमानुष्य-कौक्षकौष्ट्रकसंकुलम् । जनस्तच्चक्रमालोक्य, मेने मिलितवजगत् ॥ १६ ॥ पूर्व ते चौलुक्यचंद्रं तं, स्वपूर्वजमिवादरात् । उपायनैरुपास्ते स्म, जावालपुरनायकः ॥ १७॥ देशं सपादलक्षाख्यं, क्रमाक्रामन् स राजघः। अपूजि भग्नीकांतेना-र्णोराजधरणीभुजा ॥ १८॥ बलोच्छलितधूलीभि-रुभयानपि भूभृतः । स्थगयन 8 गूर्जरक्ष्मापः, प्रपेदे कुरुमंडलम् ॥ १९॥ कुरुनाथोऽरिमाथोग्रं, तं विज्ञाय जनाननात् । स्वगोत्रदैवतमिव, प्राणमद्विनया-| वनिः॥ २०॥ तदर्थितो नृपोऽध्यास्य, तत्पुरं हस्तिनापुरम् । तत्र देत्रिमया की, गंगाद्वैतमसूत्रयत् ॥ २१॥ ततो मंदाकिनीतीरा-निवृत्तो गुर्जरेश्वरः । साधयन्मध्यनृपतीन् , प्रतस्थे मालवान् प्रति ॥ २२॥ अवगम्य तमासन्नं, चित्रकूटपतीकृतः । कृतज्ञः सज्जनोऽभ्येत्य, निजभक्तिमदीदृशत् ॥ २३ ॥ अवंतीदेशमासाद्य, स्वर्गदेशमिव श्रिया । कुमारपालदेवेन, तदध्यक्षो व्यगृह्यत ॥ २४ ॥ विचार्य गूर्जरैः पूर्व, पूर्वजानिर्जितान्निजान् । उपास्त मालवेंद्रस्तं, बलिष्ठे हि नतिनेयः ॥ २५ ॥ अथ प्रस्थितवान् भूपो-ऽपरनैदाघभानुवत् । शोषयन् द्वेषिजंबॉल-मासदन्नर्मदा नदीम् ॥२६॥ ६ जंबूकदंबजंबीर-रसालादिगुमाकुले । मालतीमल्लिकाकुंद-पाटलामोदमेदुरे ॥ २७॥ वातोच्छलत्पयोलेश-शीतली
१ समूहाः, २ शत्रुराजाना, पर्वतानां च. ३ मौक्षकः-वृषभसमूहः, ४ स्थित्वा-आधिप, ५ दान निर्धत्तया. ६ गंगा. . कर्दमम्.
CARRAScoot
॥६५॥
Page #181
--------------------------------------------------------------------------
________________
CARROR
भूतभूतले । रेवातीरवने सैन्यं, गूर्जरेशो न्यवेशयत् ॥२८॥ युग्मम् । केचित्तरुतले तस्थुः, केचित्सिकतिले तटे । आईदुः
वणे केचि-त्पथश्रांताश्चमूचराः॥२९॥ जननीमिव तां दृष्ट्वा, नर्मदां शर्मदायिनीम् । तत्पयःपानपुष्टाः प्राग , द्विपा मुमुदिरेतमाम् ॥ ३०॥ वन्येभदर्शनोत्सर्प-न्मदवारिविवर्धिनि । तजले सुचिरं केलिं, चक्रिरे कुंजरेश्वराः ॥ ३१ ॥ श्रोतस्तटे परिक्षुण्णै-धनसारैरिवांचिते । सादिभिः श्रमनाशाय, वेल्लयामासिरे हयाः ॥ ३२ ॥ स्नात्वा स्थिताः सरित्तीरे, रेजिरे सैन्यवाजिनः । तत्कालोदेवदुत्तीर्णा, घना हरिहया इव ॥ ३३ ॥ पक्कामादिफलान्येऽपि, रेवाप्रांतवनांतरे । शमीष्वेवौष्ट्रकं रेमे, प्रायः स्वेष्टं हि तुष्टये ॥३४॥ स्वादु पीयूषवत्पीत्वा, नांदेयमुदकं वृषाः। मृदुला हारहूरावद्दूर्वा जग्ध्वा च निवृताः ॥ ३५॥ तापातः पृतनालोकः, स्नात्वा शीते सरिजले । सुधाभिषेकसंपाद्य-मुपासामास संमदम् ॥३६॥गलत्पंकजकिंजल्क-पुंजपिंजरितांतरम् । मन्दमंदानिलोन्मील-लोलकल्लोलसंकुलम् ॥३७॥वंतीमध्यमध्यास्य, वयस्यैः कलभैरिव । सहितः परिचिक्रीडे, गूर्जरेंद्रो गजेंद्रवत् ॥ ३८ ॥ युग्मम् ॥ हगंजनांगश्रीखंड-लेपक्षालनया क्षणम् । अस्थानेऽपि वितन्वत्यो, यमुनास्वर्धनीभ्रमम् ॥ ३९ ॥ परस्परेण व्यात्युक्षीं, सृजत्यः स्मेरनीरजैः। रमावतमिरे नद्यामंतःपुरपुरंध्रयः॥४०॥ युग्मम् ॥ सुमनोमालभारिण्यः, पल्लवोत्तंसपेशलाः । चमूचर्यश्चिरं चेरु-देवीवत्तीरकानने ॥४१॥ तां तीर्वाऽऽभीरविषये, प्रकाशानगरीश्वरम् । चौलुक्यनृपतिश्चक्रे, विक्रमेण स्वसेवकम् ॥ ४२ ॥ अथ व्यावृत्त्य विंध्याद्रेः,
वाझुकायुक्तदेशे. २ प्रवाइतटे. ३ चूर्णकृतैः. ४ कपूरैः (बरास ). ५ समुद्रोतीर्णाः. ६ सूर्याश्वा इव. ७ नदीसंबंधि. ८ कोमलाः. ९ द्राक्षावत्. १० सुस्थाः. 19 सेनाजनः, १२ केशरा-पुष्परेणुः, १३ नदीमध्ये स्थित्वा, १४ जमुनागंगाश्रमम्, १५ परस्परसेचनरूपां जलक्रीडां. १६ पर्णभूषणमुन्दराः.
A
KAR
Page #182
--------------------------------------------------------------------------
________________
कुमारपालच०
पल्ली वल्लीमिव द्विपः । क्रांत्वा तत्पतितो दंड-मुइंडमयमग्रहीत् ॥ ४३ ॥ पारदेशिकमाश्वीय, क्षौमाय चोपदां वहन् । गूर्जरेंद्रस्य संजग्मे, लाटेशो बोसरिद्विजः॥४४॥ वशीकुर्वस्ततस्तीर-भुवं लावणसैंधवीम् । चौलुक्यस्तीर्थनिलयं, सुराष्ट्राविषयं ययौ ॥४५॥ स्फुरद्विषमबाणस्य, तस्य संगरसंगतः। पत्नीव तत्पतिः सद्यो, द्रवति स्म किमद्भुतम् ॥४६॥ प्रभासविहितस्त्रानो, नत्वा चंद्रप्रभ प्रभुम् । उसिक्तमत्सरान् कच्छा-नरौत्सीत्स रविच्छविः॥४७॥ भुजोष्मलतया कच्छाः, संवर्मितचमूवृताः । परासिरे परानीकं, घनौघमिव वायवः॥४८॥ भग्नं स्वचक्रमालोक्य, चौलुक्यः शक्रविक्रमः । शरासारैः सुदुर-दुर्दिनं वार्दवव्यधात् ॥४९॥ तद्बाणैर्दक्षिणेर्माणः, सवर्माणोऽपि निर्मिताः। शेखरीचक्रिरे शीर्षे, तदाज्ञा कच्छनायकाः॥५०॥ तस्मात्पंचनदाधीश, नौसाधनसमुद्धतम् । नौभिरारूढसैन्याभि-य॑गृहीद गूर्जराधिपः॥५१॥ तद्योधा विस्फुरत्क्रोधाः, शराशरि भुजाभुजि । चिरं कृत्वा व्यपद्यंत, निर्विण्णा इव जीविते ॥५२॥ स्वसैन्यभंगे प्रारब्ध-युद्धं पंचनदाधिपम् ।जित्वा कथंचिच्चौलुक्य-स्तदहंकारमाकृषत् ॥५३॥ तस्य दिग्विजये लक्ष्मी-रवर्धिष्ट दिने दिने। विश्वविस्मापिका ग्रीष्मे, यथा वेला पयोनिघेः॥५४॥ वलितः सिंधतटिनी-तटात्परिणतद्विपात् । मूलस्थानपति मूल-| राज राजाऽभ्यषेणयत् ॥ ५५ ॥ स राजकुंजरो भक्त्वा , तद्देशं पद्मखंडवत् । विसृष्टवान् निसृष्टार्थ, दूतं तं प्रति तत्क्ष| १लवणसमुदसंबंधिनीम्. २ संगर-युद्ध-संगतः-प्राप्तः, पझे संगरसं गतः. ३ पलायते स्म, पक्षे द्रवीभूतो भवति स्म. ४ उद्धत्तमत्सरान् . पराजिग्यिरे ५ कृतव्रणयुक्तदक्षिणांगकाः. ६ रेधतेस्म, प्र. ७ "तिर्यक् दंतप्रहारस्तु, गजः परिणतो मतः' इति, परिणतद्विपाः संति यस्मिन् स तस्मात्. मूलतान इत्यस्य राजानम्.* उभयो षमुन्नीय ( ज्ञात्वा ), खयं वदति चोत्तरम् । संदिष्टः कुरुते कर्म, निस्टार्थस्तु स स्मृतः ॥ १॥ इत्युक्तलक्षणम्,
KESARGAMACHAL
॥६६॥
Page #183
--------------------------------------------------------------------------
________________
COCESSACRECENSEECHECCC
Pणम् ॥ ५६ ॥ यमास्थानीमिव तदाऽs-स्थानीमास्थाय तं प्रति । दतो वाचाटकोटीरो, वक्तुमेवं प्रचक्रमे ॥ ५७ ॥ दीपः|सर्गावशेषः, स्फुरदरुणमणीदीप्तिराभासलेशः, पर्यायः सप्तजिह्वः, प्रतिकृतिरुचिरज्योतिरोर्वो विवर्तः । पाखंडं चंडरश्मिः, स्मरहरनयनोदर्चिरुच्चैरहस्य, राजन्नाभाति सद्यः, कषितरिपुततेर्यत्प्रतापस्य पश्य? ॥५८॥ (स्रग्धरा) शत्रवः स्वनिवासेऽपि, पश्यन्त इव यं पुरः । निद्रां नाध्यासते जातु ?, भीतिविद्राणमानसाः ॥५९॥ न काश्मीरः स्मेरं स्मरति रतिमंतने भजते, | विदेहः स्वं गेहं कलयति कलिंगोऽपि न कलिम् । न राष्ट्रे सौराष्ट्रो वसति मगधो ध्यायति धियं, न कांचित् दिग्यात्रां विरचयति यत्रोर्जितबले ॥६०॥ (शिखरिणी) रिपुचक्रेषु विक्रांतं, यद्भुजस्य भृशौजसः । चित्रं विज्ञायते तत्स्त्री-वर्गवैधव्यलक्ष्मभिः॥६१॥ स गूर्जरक्षितिपति-श्चौलुक्यो जगतीं जयन् । मन्मुखेन यदाचष्ट, सकर्णाऽऽकर्णयाऽऽशु तत् ॥ १२॥ अखंडं दंडमानीय, स्वर्णाश्वीयधनादिकम् । प्रसादयस्व मां सद्यो, निनंदिषसि चेच्चिरम् ॥१३॥नो चेदालेख्यशेषत्वं, नीत्वा त्वां सपरिच्छदम् । अरण्यश्रीशरण्यत्वं, नेष्याम्येतत्पुरं तव ॥ ६४ ॥ इत्युक्तिश्रवणादेव, सभा सर्वाऽपि चुक्षुमे । प्रासादध्वजमालेव, प्रकंपनविकंपनात् ॥ ६५॥ अथोद्यद्रकुटीदंभाद, धूमस्तोममिवोत्थितम् । दधत् क्रोधहुताशस्य, मूलराजो जजल्पिवान् ॥६६॥ किमबद्धं वचःप्रोचे ?, दूत ! रे भूतवत्त्वया । तद्विर्ना न परः कश्चि-निश्चितं वदतीदृशम्
६७ ॥ जडो यदि तव स्वामी, तदाऽभूस्त्वं कथं जडः। यद्वा यादृग् भवेत्स्वामी, परिवारोऽपि तादृशः॥ ६८॥ न्यषेधीत्कोऽपि नो मंत्री, किं कुकर्मसु कर्मठम् । भवत्प्रभुं यदग्नौ स, विनिपित्सति तुच्छधीः॥ ६९॥ वशीकरोति
१ चन्द्रः, २ वडवानलः, ३ परिणामविशेषः, अमे इतिशेषः, ४ वायुः, ५ असंबद्धम्. ६ भूतं विना. . कुशलम्,
कु.पा.च.१२
Page #184
--------------------------------------------------------------------------
________________
सर्ग. ४
कुमार
टू को मत्तं, द्विपेंद्र विपिनांतरे ? । उत्थापयति कः सिंह, प्रसुप्तं गिरिगह्वरे ? ॥ ७० ॥को वज्रकठिनं शैलं, संचूर्णयति पालच०
मुष्टिना ?। कः कूलमुदहजलं, दोभा तरति वारिधिम् ? ॥७१॥ अनिवार्यैः स्वशौंडीय-स्तर्जितोजितशात्रवम् । को
साविग्रहीतुमीष्टे मां ?, पटिष्ठोऽप्यवनीपतिः॥७२॥ केयं कथा तवेशो यद्, विग्रहिष्यति मामयम् । सहस्राक्षोऽपि नाघीष्टे, वक्र॥६७॥
दृष्ट्या विलोकितुम् ॥ ७३ ॥ ततः शंस निजेशं त्वं, तव दंडः प्रदास्यते । प्राणप्रयाणकरणो, न पुनः श्रीमयो मया ॥४॥ इति व्याहृत्य तं दूतं, निष्कास्य च सभांतरात् । मूलराजः समुत्तस्थौ, तत्कालं रणकेलये ॥ ७५ ॥ निर्गत्य नगराच्चाभूद्, अभ्यमित्रः ससैनिकः । गंधसिंधुरवन्नान्यं, सहते हि महस्विनः ॥७६॥कोदंडमंडितोइंड-दोर्दडाः प्रौढतेजसः। कटीनिबद्धतूणीराः, स्फुरद्विकटकंकटाः ॥ ७७ ॥ उच्चैरोषारुणीभूत-मुखाः क्रूरविलोचनाः । अनुभावा इवाध्यक्षा, रौद्रस्य रसरूपिणः ॥ ७८ ॥ युगांतक्षुब्धपाथोघे-विश्वद्यश्चः इवोर्मयः । प्रत्यनीकभटव्यूहाः, समदृश्यंत गूर्जरैः ॥ ७९ ॥ त्रिमि
विशेषकम् ॥ संरब्धे योद्धमन्योन्यं, तस्मिन् सैन्यद्वये तदा । अश्वेभसुभटध्वानः, सांराविणमजुंभत ॥ ८०॥ अथ ते मूल-18 दराजीया, भटाः प्रधनलंपटाः। हंतुं चौलुक्यशौंडीरा-नुप्रवेशं दधाविरे॥८१॥ कोदंडचंडदोर्दडैः, खंडिताखंडलप्रभैः।
अमंडि रणकंडूलैः, कांडीः कांडेतांडवम् ॥ ८२ ॥ विपक्षप्रेरिताः पत्र-वाहा हृदयभेदिनः। गूजेराणां सह प्राणः, स्पर्धेडायव तिरोऽभवन् ॥ ८३॥ चूर्णपेषमपिष्यंत, परैः केचन मष्टिभिः। ॐर्द्धपूरमपूर्यत, केचिद्वाणैररुंतुदैः॥ ८४ ॥ केचि
१ कूलम् आपूर्ये वहति इति कूलमदहस्तम. २ गई: अमित्रं अमिगतः इत्यभ्यमित्रः. ४ विशालकवचाः, ५ रूपं यस्यास्यसौ रूपी. रसधासौ रूपी च. तस्य M६ कोलाहलं जातम् , ७ गर्वान्वित. ८ बाणधरैः.९ बागनाट्यं. १० वाणाः, ११ चूर्ण पिनष्टीतिचूर्णपेषं तद्यथास्यात्तथा. १२ कई पूर्यते इति ऊईपूरम्.
ACASSACREASSACREAS
॥६७॥
Page #185
--------------------------------------------------------------------------
________________
रविष
न् । आववार रापुरः । गुर्जरेवः परदुधिरपूरिताः
जगृहिरे जीव-ग्राहं तैर्विग्रहाग्रहात् । चक्रबंधमबध्यन्त, केचित् स्वभुजलाघवात् ॥ ८५ ॥ अरातिशरवात्याभि-रविषह्याभिरीरिताः। नेशुः खगा इवोड्डीय, चौलुक्यसुभटा रणात् ॥ ८६ ॥ खड्गक्षतशिरःश्रेणि-क्षरद्रुधिरपूरिताः। रणादद्रेरिवोद्भूताः, सवंत्यः कूलमुगुजाः॥ ८७॥ अथ पूर्वप्रसन्नश्री-विश्राणितवरोद्धरः। गुर्जरेंद्रः स्वयं योर्बु, डुढौके हस्तिमलवत् ॥ ८८॥ अनुस्यूतं शरासारं, स सृजन् वार्षिकोब्दवत् । आववार द्विषद्वार-शौंडीर्यार्यममंडलम् ॥ ८९ ॥ न स तूणी न सन्नाही, न धानुष्को न खागिकः । न पत्कौषी न सांदी च, चिच्छेदुः (द) तच्छरानयम् ? ॥९०॥ केशंग्राहमुरस्पेष, शिरश्छेदं च विद्विषाम् । युज्यमानो न कस्यासी-न्मृत्युकारी स मृत्युवत् ॥ ९१॥ एकाक्यपि स चौलुक्यः, परेषामखिलं बलम् । सहसोजासयामास, दैत्यानां वासवो यथा ॥ ९२ ॥ नेशुः केचिद् द्विषः केचित् , त्रेसुर्मम्लुश्च । केचन । बभूवुः खंडशः केचित् , तच्छरैर्विशरीरवः ॥९३ ॥ चणकानां घरट्टेऽथ, स्थितानां यादृशी दशा । वैरिणां तादृशी जज्ञे, जैन्ये गूर्जरभूभुजः॥९४॥ ततः स्वबलमालोक्य, विशीर्ण जीर्णपर्णवत् । अंधभविष्णुः क्रोधेन, मूलराजोऽभ्यधावत ॥ ९५॥ बहुशः स शरश्रेणिं, मंथाय प्रतिपंथिनः । मुंचन पयोदवच्चक्रे, निस्तंभं व्योम्नि मंडपम् ॥ ९६॥ शराकर्षणसंधान-मोक्षभेदादिकाः क्रियाः। तस्येक्षांचक्रिरे नूनं निर्निमेषदृशोऽपि न ॥ ९७ ॥"किरीटीव क्षिपन् क्षिप्रं,
१ तुषा-प्र. २ कूउमेदकाः. ३ सर्ग०३ श्लो०२७१-२७२.४ ऐरावणवत्, ५ सततसंबंधम्, * बाणधारापातम्, ६ वर्षसु भवः. ७ शत्रुसमूहप्रचंडसूर्यमंडलम्. | ६.८ पत्तिः. ९ गजारोही, अश्वारोही, रथारोही च. * कुमारपालबाणान्, १० केशान् गृहीत्वा इति केशग्राहं, एवं उरः पिष्ट्वा, शिरश्छित्त्वा. ११ त्रासयामास
१२ विशीर्यन्ते इत्येवं शीला:-नाशशीलाः. १३ युद्धे. १४ अर्जुन इव.
Page #186
--------------------------------------------------------------------------
________________
कुमार
क्षुरप्राण्यरिभूपतिः । मनोऽपि बिभिदे वीरं-मन्यानां विग्रहं किमु ? ९८ ॥ चौलुक्योऽपि द्विषद्वाणा-निर्वाणैः परापालच० सिवान् । प्रतिवादीव दुर्वादि-वचांसि प्रतिभाषितैः॥ ९९ ॥ आस्फलत्सु पृषत्कानां, शल्याग्रेषु परस्परम् । प्रादुर्बभूवु
राग्नेयाः, कणास्त्रासितसैनिकाः ॥ १०॥ भंजंतमंतरे च स्वान् , विशिखान् वीक्ष्य भूधवम् । मूलराजः क्रुधा तस्य, धनु॥६८॥
18|बोणेन लूनवान् ॥ १०१॥ तत्क्षणं गूर्जरेंद्रोऽपि, गर्जतस्तस्य विद्विषः । साकं तदाशया दर्भ-च्छेदं चिच्छेद कार्मुकम्
|॥ १०२ ॥ अपरं चापमादाय, यावत्संघित्सते रिपुः । तावद्दीप्रक्षुरप्रेण, क्षिप्रं तदपि सोऽच्छिदत् ॥१०॥ एवमन्यान्यको| दंड-च्छेदनिर्वेदमेदुरः। मूलराजोऽतिलज्जालु-श्चौलुक्यं प्रत्यदोऽवदत् ॥ १०४॥ देव ! त्वद्धजशौंडीर्य-जलधिः कस्य नो मुदे । सहसा यत्र मजति, महीयांसोऽपि भूभृतः॥ १०५॥ येन निर्नामतां नीता, वैरिणो वारिबिंदुवत् । मत्प्रतापरवेस्तस्य, त्वमस्ताद्रीयसेऽधुना ॥ १०६ ॥ इयच्चिरं मयाऽन्येभ्यो, दंडोऽग्राहि भुजोष्मणा । सोऽधुना दास्यते तुभ्यं, दैवं हि बलवत्तरम् ॥ १०७॥ तस्माद्रणान्निवर्तस्व, कुरुष्व मदुदीरितम् । प्रक्षीणमरणातका, जीव्यासुः सैनिका द्वये ॥ १०८॥ इत्युक्तः प्रतिभूपेन, चौलुक्यः प्रतिपद्य तत् । संप्रहारायवर्तिष्ट, मानसाध्या हि मानिनः॥ १०९ ॥ उच्चैजेयजयारावाश्चौलुक्यकटकेऽभवन् । उद्वेलस्य प्रमोदाब्धेः, कल्लोलतुर्मुला इव ॥ ११०॥ अवाद्यंत च वाद्यानि, न्यबध्यन्त ध्वजा घनाः। प्रावेशिकोत्सवायेव, प्राप्ताया विजयश्रियः॥१११॥ तदानीं सुभटंमन्या, गूर्जरा हृदयेऽस्फुरन् । न बलस्य प्रतीतिः स्याद्, विनोजेस्विद्विषज्जयम् ॥ ११२ ॥ दत्त्वा लघुश्रवस्त्वेन, जितोच्चैःश्रवसो हयान् । मूलस्थानपतिनेयो, गूर्जरेंद्रमतोषयत्
१ प्रक्षीणो मरणातको ( मरणभयं ) येषां ते. २ अन्योन्यसंघर्षजन्याः शब्दाः. ३ ह्रस्वकर्णत्वेन. ४ जिता उच्चैःश्रवसः-इन्द्रस्याश्वा यैस्ते तथा तान् .
SACROILIACROSSRUSSL
।
Page #187
--------------------------------------------------------------------------
________________
॥ ११३ ॥ अन्यानपि महंमन्या - नहंमन्यांश्च भूपतीन् । औत्तराहान् विजिग्येऽसौ, सामंतानिव हेलया ॥ ११४ ॥ शकैदेशाद् विनिवृत्य, स धर्मविजयी नृपः । जालंधरजयशल्य - मेरुमुख्यानसाधयत् ॥ ११५ ॥ कुमारपालभूभर्तु-श्चतुर्दिग्विजयेऽप्यदः । प्रोचे प्रमाणं श्रीवीर - चरित्रे हेमसूरिणा ॥ ११६ ॥ आगंगमैन्द्रीमाविंध्यं याम्यामासिंधु पश्चिमाम् । आतु रुष्कं च कौबेरीं, चौलुक्यः साधयिष्यति ॥ ११७ ॥ इत्थमासूत्र्य दिग्जैत्रीं, यात्रां यंत्रितशात्रवः । कुमारपाल क्षितिभृद्, ववले स्वपुरं प्रति ॥ ११८ ॥ अवेत्य पत्तनोपांते, प्राप्तं चौलुक्यनायकम् । राजलोको ययौ द्रष्टुं भूरिप्राभृतशोभितः ॥ ११९ ॥ अथ द्विपेंद्रमारूढो, दिव्यशृंगारभंगिभिः । ऐरावतस्थितं नाकि-नायकं तुलयन्निव ॥ १२० ॥ पूर्णेदुसुंदरो|द्दामाss - तपवारणधारणात् । चतुर्दिग्विजयोद्भूतं, यशोव्यूहं वहन्निव ॥१२१॥ अभितो वीज्यमानोरु - श्वेतचामरयोगतः । दिवाऽपि वक्र चंद्रोद्यज् - ज्योत्स्नौघौ दर्शयन्निव ॥ १२२ ॥ तारहारस्फुर्रत्स्फार - माणिक्यद्युतिदंभतः । जनं प्रति स्वचि - | तोरु - रंगं प्रत्यक्षयन्निव ॥ १२३ ॥ सर्वाङ्गरंगदुत्तुंग - प्रभाप्राग्भारकैतवात् । रज्यज्जयरमारामा -संश्लेषं कलयन्निव ॥ १२४ ॥ | दैवनिर्मितदारिद्र्य – लिपीलोपविधित्सया । भ्रूक्षेपदापितैः स्वर्णै - र्याचकान् श्रीदयन्निव ॥ १२५ ॥ वाद्यमानसदातोद्यध्वानसंतानवर्धिभिः । मागधस्तुतिकल्लोलैः, पुष्करं पूरयन्निव ॥ १२६ ॥ वातवेत्पताकाग्र—च्छलात् स्वामिसमागमे । हर्षेण नृत्यतीवोच्चै— चौलुक्यः पत्तनेऽविशत् ॥ १२७ ॥ अष्टभिः कुलकम् । अथात्तस्फार शृंगार - प्रथितप्रौढविभ्रमाः ।
१ वयं महान्त इति मन्यमानान् २ अभिमानिनः ३ शकः म्लेच्छविशेषः इति शब्दकल्पद्रुमे तस्य देशात् ४ विनिर्ऋत्य-प्र. ५ मेरु, प्र. ६ पूर्वाम्. ७ कृत्वा ॐ उभयतः ८ मौक्तिकहारमध्ये दीव्य दबृहद्रतमणिद्युतिच्छलेन, ९ आकाश १० कंत्र. ११ सप्तम्येकवचनम् १२ विख्यातगाढविभ्रमाः.
Page #188
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ ६९ ॥
स्त्रीराज्यं नरराज्येऽपि, दर्शयत्य इव श्रिया ॥ १२८ ॥ आकृष्टा इव वादित्र - मांत्रिकध्वनिहुंकृतैः । तदा दधाविरे पौरप्रमदास्तद्विक्षया ॥ १२९ ॥ युग्मम् ॥ काश्चिदर्घकृताहाराः, काश्चित्त्यत्तरुदत्सुताः । काचिन्यूनात्तनेपथ्या -- स्तन्मार्ग शिश्रियः स्त्रियः ॥ १३० ॥ एका गवाक्षमारुक्ष - न्नन्या राजपथं ययुः । कुड्याग्रमपराः प्रापुः, पौर्यस्तद्दर्शनोत्सुकाः ॥ १३१ ॥ चंद्रशालागवाक्षस्थ— स्त्रीणामाकंठवीक्षितैः । आस्यैस्तदाऽभवन्नूनं शतचंद्रं नभस्तलम् ॥ १३२ ॥ काश्चिज्जिगीषयेवाब्धि - पिबस्य चुलुना मुनेः । हगंचैलेन चौलुक्य - लावण्यांबुनिधिं पपुः ॥ १३३ ॥ काश्चित्प्रेमरसैधतान्, कटाक्षांस्तत्र चिक्षिपुः । किरंत्य इव लाजौघान् राट्रप्रवेशमहोचितान् ॥ १३४ ॥ यद्यशोऽपि न संमाति, विश्वेऽपि स महीपतिः । चित्रं ममौ मृगाक्षीणा - मणावपि मनोंतरे ॥ १३५ ॥ लोचनांजलिभिः प्रौढै - स्तत्सौंदर्यामृतं मुहुः । पिबंतीनां पुरस्त्रीणां बभूवान्नाशितंभवः ॥ १३६ ॥ चौलुक्यदर्शनोत्पन्नः, प्रमोदोऽन्तरमानिव । आविर्बभूव सुभ्रूणां, बहिः पुलककैतवात् ॥ १३७ ॥ इत्थं नगरनारीभि- वक्ष्यमाणः पदे पदे । प्राप चौलुक्यभूपः स्वं मंदिरं माद्यदिंदिरम् ॥ १३८ ॥ तत्र सिंहासनासीनं, तं नमश्चक्रिरे जनाः । उदयाचलचूलस्थं, वालिखिल्या इवारुणम् ॥ १३९ ॥ हेमाचार्यस्तदा गत्वा, चौलुक्यं दिग्जयागतम् । इत्युपश्लोकयामास, कृपाणं प्रेक्ष्य तत्करे ॥ १४० ॥ सैन्योद्भूतरजोत्रजैर्मलिनयन् द्यावापृथिव्यंतरं, शत्रुक्षत्र कलत्रनेत्र नलिनेष्वश्रूणि विश्राणयन् । चित्ताभिज्वलदुग्रकोपहुतभुग्निष्क्रांतधूमभ्रमं श्रीचौलुक्यपते ! दधाति समरे
१ शोभया. "तस्य द्रष्टुमिच्छया २ विध-प्र. ३ चक्षुः प्रान्तभागेन, ४ उत्तेजितान् प्रक्षालितान् ५ भृष्टतंदुलसमूहान् ६ अन्नतृप्तिः संजाता. ७ न मातीत्यमान् ८ मायति इन्दिरा - शोभा लक्ष्मीर्वा यस्मिंस्तत् ९ सूर्योपासका : सूर्याप्रगामिन अष्टाशितिसहस्रपरिमिता ऋषिविशेषाः
सर्ग. ४
॥ ६९ ॥
Page #189
--------------------------------------------------------------------------
________________
कौक्षेयकोऽयं तव ॥ १४१ ॥ ( शार्दूलं) कौमुद्यस्तमदेव देव ! मलिनच्छायेव मुक्तावली, साशंकेव शशांकशेखरतनुर्मन्देव मंदाकिनी । क्षौमं क्षाममिव प्रहीणमहिमेवोच्चै हिमानीगिरिः, श्यामश्रीरिव कैरवाकरवनी त्वत्कीर्तिकांतेः पुरः ॥ १४२॥ ( शार्दूल०) विसृज्य भूपेसामंतान्, सहायातान् कुमारराट् । सुभगंकरणी राज्य- श्रियं शक्र इवाभुनक् ॥ १४३ ॥ पार्थिवः स पुमर्थेषु, चतुर्ष्वयति साधुषु । मित्रेष्विवानुवर्तिष्णुः, नाऽवामन्यत कंचन ॥ १४४ ॥ श्रीहेमसूरि संसर्गाद्, धर्मरंगो दिने दिने । तस्य चेतस्यवर्धिष्ट, वारिसेकादिवांकुरः ॥ १४५ ॥ प्रभुत्वशक्तिसारण्या, तथा न्यायतरुं नृपः । सेसिच्यामास लक्ष्मीभियथा पंफुल्यते स्म सः ॥ १४६ ॥ चौराः परस्वव्यावृत्ता-स्तद्राज्ये साधवोऽभवन् । साधवस्त्वतिसाधुत्वं, सुखमायामिवाश्रयन् ॥ १४७ ॥ अन्यायिनो निगृह्णतं दृष्ट्वा चौलुक्यभूभुजम् । अन्यायो नेशिवानात्म-स्थानभ्रंशादिव ध्रुवम् ॥ १४८ ॥ तस्य कल्पद्रुमस्येव, प्रसादात् श्रीमये जने । अनाप्नुवदिव स्थानं, दारिद्र्यं क्वचिदद्रुवत् ॥ १४९ ॥ इतः शाकंभरीपुर्या, चौलुक्यभगिनीपतिः । भूजानिस्तनुते राज्य - मर्णोराजोऽरिदुर्जयः ॥ १५० ॥ देवलदेव्या चौलुक्य - भगिन्या सह सोऽनिशम् । शच्या यथा शचीनाथो, भोगान् भुंक्तेऽतिनिर्भरान् ॥ १५१ ॥ तौ दंपती मिथः प्रीतौ, रतिकामाविवोच्चकैः । सारिद्यूतमनुस्यूत- मारेभाते मुदाऽन्यदा ।। १५२ ॥ द्वेत्रि के द्वेचतुष्के च, द्विपञ्चेत्यभिलापिनी । तयोः क्रीडा गतव्रीडा, सख्योरिव समैधत ॥ १५३॥ सारा विरेजिरे द्यूते, कामिवत्केऽपि रागिणः । परे च पापिवत्केऽपि, कृष्णभावविभाविनः ॥ १५४॥ भूपाच ते सामंताच तान् २ पुनः पुनरतिशयेन वा फलति स्म ३ परधननिवृत्ताः ४ सुषमायां, प्र. ५ अक्ष ( पाशकादिगुटिका ) ६ सतत संबद्धम् ७ द्वि-प्र.
* अस्तमदा इव इति छेदः १ द्यूतम् ( सोगठावाजी इति भाषा )
Page #190
--------------------------------------------------------------------------
________________
4
कुमारपालच.
॥७॥
एकादिसङ्ख्यासंकेत-बिन्दुच्छद्मस्फुरत्तिथी। अक्षौ पक्षाविव द्यूत-मासस्य किल रेजतुः ॥१५५॥ अशिरोवेष्टशीर्षत्वात्, गूर्जरान्मुण्डितान्नृपः। उक्त्वा प्राह प्रियां शारान, मुण्डितान्मारयेरिति ॥१५६ ॥ स्वकान्तं गूर्जरानेवं, हसन्तं देव्यथा-16 वदत् । मुक्त्वैव देव ! मद्देश्य, हास्यं कुर्याः समं मया ॥ १५७ ॥ प्रेयस्यैवं निषिद्धोऽपि, प्रियस्तत्कोपहेतवे । वाक्यं तदेव हास्येन, बालवन्मुहुरालपत् ॥ १५८ ॥ रुष्टा साऽचष्ट रे जाल्म!, न विचार्य प्रजल्पसिन पश्यसि च ममाग्रे य-त्त्वं | निन्दसि गूर्जरान् ॥ १५९ ॥ क्वामी जना भवद्देश्याः?, पीनाः कोपीनचीवराः । विवेकविकलाः क्रूर-गिरो रौद्राः पिशाचवत् ॥ १६०॥व च ते गूर्जराः स्फूर्ज-दंगाः शृंगारसंगताः। विविक्ता मधुरालापा, भूमिष्ठास्त्रिदशा इव ॥ १६१॥ स्वप्रियात्वेन मैत्तस्त्वं, मैत्तो यदि बिभेषि न । राजराक्षसतः साक्षान् , मद्रातुरपि किं? नरे!॥१६२॥ तवान्तकरमेतं चेद्, | उदन्तं ज्ञापयामि तम् । तदा वद ? कमाश्रित्य, त्रायेथास्त्वं स्वजीवितम् ॥ १६३ ॥ अर्णोराजोऽभ्यधात् क्रोधाद्, रे मुधा मानशालिनि ! । किं मां भीषयसे क्लीब-मिव भ्रातृबलोक्तिभिः॥ १६४ ॥ किं मया त्वं न दृष्टाऽसि ?, सोदर्यः किमु वा न ते ? । भिक्षामाजन्म यो भ्रांत्वा, कथञ्चिद् राज्यमाप्तवान् ॥१६५ ॥ उच्छलन्नपि चौलुक्यो, न भनक्ति स मां जडे ! । न माद्यन्नपि हस्तीन्द्रो, हिनस्ति हरिणाधिपम् ॥ १६६ ॥ प्रभविष्णुर्न मे मृत्यु-रपि कस्तव सोदरः । शीडीर्य किं न मे वेत्सि ?, निस्सीम श्रीपतेरिव ॥१६७॥ गत्वाऽधुनैव रे दासि !, पूत्कुरु स्वबान्धवम् । ससैन्यः सोऽपि मामेतु, ज्ञास्यते तद्बलं रणे ॥१६८॥ उक्स्वेति नृपतिः कोपा-चलनेन जघान ताम् । दरक्तं क्षमते मानी, न बन्योरपि किं स्त्रियाः
१ स्फुरनिधीः, प्र. स्फुरत्विषी, प्र. २ मत्सकाशात्. ३ मदोन्मत्तः. ४ राजराजकृतः साक्षात् , प्र. ५ पराक्रमम्.
ज्ञापयामि तम् । तदा यस कीव-मिव भ्रातृबलोक्तिम
SAGARCANKARSAGAR
उच्छलन्नपि चौलुक्यामोदरः । शौंडीर्य
Page #191
--------------------------------------------------------------------------
________________
४॥ १६९ ॥ पदाघातेन बाह्येति, दूनाऽन्त-ओतृनिन्दया । देवल्लदेवी पत्यग्रे, प्रत्यौषीदिति क्रुधा ॥ १७॥रे त्वयोचे
यया दुष्ट, तां जिह्वां कंधराऽध्वना । आकर्षयामि नाहं चेन्, न चौलुक्यस्वसा तदा ॥ १७१॥ उदीर्येत्यभिमानेन, कोपात्पत्याऽत्युपेक्षिता । वारिताऽपि महामात्यै-निरयासीत्तदैव सा ॥१७२॥ अपमानपरिम्लाना, हिमदूनेव पद्मिनी । उपेत्य पत्तनं सा त-चौलुक्याय न्यवेदयत् ॥१७३॥ रोषाद् भ्राताऽवदद् भग्नि !, मा विषादं दधा मुधा। अत्यल्पेनापि कालेन, विधास्ये त्वत्प्रतिश्रुतम् ॥१७४॥ जिज्ञासुरथ चौलुक्योऽ-र्णोराजनृपतिस्थितिम् । प्राहैषीन् मंत्रिणं कंचित् , स्वजीवितमिवापरम् ॥ १७५ ॥ शाकंभरी पुरीं गत्वा, स मंत्री धूर्तवत्वचित् । गृहीत्वा च गृहं गुप्तं , तत्र स्वास्थ्येन तस्थिवान् ॥१७॥ ज्ञातुं शाकंभरीशस्य, वृत्तं तत्परिचारिकाम् । असौ भोग्यां धनस्तेने, किमसाय मनीषिणाम् ॥१७७ ॥ कृत्रिमं प्रेम चक्रेऽसौ, तया साकं विरक्तवान् । सा तु स्वमेव तं मेने, स्त्रीणां हि कियती मतिः॥ १७८ ॥ विश्वस्तामथ तो मत्वा, तद्भप. चरितं रहः । पृष्टवान् सततं मंत्री, साऽप्याचख्यौ यथास्थितम् ॥ १७९ ॥ उच्छूरेण समायासीत् , सा दासी कर्हिचिनिशि । मंत्री भ्रूभंगुरास्योऽथ, तामुपालब्धवानिति ॥ १८० ॥ त्वदर्थमियती व्यर्थ, रात्रि जागर्मि निर्ममे ! । त्वमन्यत्र भ्रमन्ती तु, सवेलें नैषि कर्हिचित् ॥ १८१॥ धिङ्मां यत्त्वय्यपि प्रेम, स्थेमानमवलम्बते । चेपलायामचापल्यं, कदापि
किम ? दीप्यते ॥ १८२ ॥ यःप्रीतिस्थिरतां स्त्रीषु, सम्भावयति मुग्धधीः। विषवल्लीषु पीयूषो-त्पत्तिं स खलु वीक्ष्यते ॥ ॥१८३॥ कृतकृत्रिमकोपस्य, सचिवस्येति वागूरसैः ।भिन्नेव हृदयेऽत्यन्तं, प्रीता दासी जगाद सा ॥ १८४ ॥ अहं नैवास्मि
१ प्रतिज्ञातवती. *ऽप्यु, प्र. २ विरक्तवत्-प्र. ३ खकीयम्. ४ भृकुटि विकृतमुखः, ५ विद्युति.
4MCN-SCIENCESSORSCOCCCESCANCE
|
Page #192
--------------------------------------------------------------------------
________________
कुमार
EXTERI
निःस्नेहा, त्वदन्योऽस्ति न मे प्रियः । किन्तु दास्यभवं पार-वश्यमत्राऽपराध्यति ॥ १८५ ॥ सेवाकृतामहो काचित्, पालच०18 चातुरी प्रतिभाति मे । यत्पारवश्यनरकात् , कामयन्ते सुखान्यमी ॥ १८६ ॥ परमद्यविलम्बस्य, त्वं निमित्तमवेहि मे।
नीराद्वह्निरिवाहाय, कोपः शाम्यति ते यतः॥ १८७ ॥ मयि स्तंभान्तरस्थाया-मोराजोऽधुनाऽऽकुलः । निर्व्याज ॥७१॥
व्याघ्रराजाख्य, व्याजहार भटं रहः॥१८८॥ मत्प्रिया हास्यतः क्रुद्धा, स्वैरिणी वैरिणीव मे। कर्तुं विरूपं प्राप्ताऽस्ति, भ्रातृचौलुक्यसन्निधिम् ॥१८९॥ तत्प्रेरितोऽत्र नायाति, स यावद्दाववह्निवत् । तावत्त्वं तत्र गत्वा तं, यमप्राघूर्णकीकुरु ॥१९॥ न भवन्तं विनाऽन्यस्तं, कोऽपि हन्तुं प्रगल्भते । मृगेन्द्र एव नागेन्द्र-मविहंस्तो हिनस्ति यत् ॥१९१॥ हेमलक्षत्रयं तुभ्यं,
दास्येऽहं पारितोषिकम् । तेनेत्युक्तोऽवदत्सोऽपि, तं हनिष्यामि हेलया ॥१९२॥ मेरुशृंगमिवाऽऽनाय्य, तावत्स्वर्ण तदैव ६ सः । नृपस्तं पृष्टवान् वैरी, कथं घातिष्यते वद ? ॥१९३ ॥ स स्वर्णदर्शनप्रीतः, प्रोचे सोमदिने ध्रुवम् । चौलुक्यो याति
वन्दारुः, कर्णमेरुस्थितं शिवम् ॥ १९४ ॥ जटाभृद्भूय तत्राहं, देवशेषार्पणच्छलात् । कृपाण्या कंकमय्या तं, नेष्यामि | यममन्दिरम् ॥१९५॥ तेनोपायेन हृष्टात्मा, साधु साध्विति तं वदन् । व्यस्राक्षीत् कनकं दत्त्वा, तदानीमेव मन्नृपः ॥१९॥ भवन्निवेदनायैव, वृत्तमेतन्मम प्रिय ! । शृण्वत्याः समभूत्काल-क्षेपस्त्वं मा कुपस्ततः॥ १९७ ॥ तन्निशम्य मया लब्धं, साधु मर्माधुना द्विषः । इत्याप्ततत्त्ववन्मंत्री, जज्ञे हर्षप्रकर्षभाक् ॥ १९८॥ श्रूयते यन्न शास्त्रेऽपि, यल्लोकेऽपि न दृश्यते। तत्कल्पयन्ति लोलाक्ष्यो, जल्पन्ति स्थापयन्ति च ॥१९९॥ तत्कल्पितमिदं सर्व, त्वयैवेत्यादिभाषितैः।तामसत्यां व्यधान्
१ अव्याकुलः सन्. २ वन्दनशीलः.
O SASTOSAS
॥७
॥
Page #193
--------------------------------------------------------------------------
________________
RE
C
है। मंत्री, तच्चितभ्रान्तिशान्तये ॥ २०॥ युग्मम् ॥ प्रहित्य तत्क्षणं सोऽथ, चतुरश्चतुरश्चरान् । चौलुक्योर्वीभृते सर्व, तत्स्व-|
रूपं व्यजिज्ञपत् ॥२०१॥ गूर्जरेन्द्रोऽपि तं ज्ञातुं, वीरकोटीरवेष्टितः। ययौ सोमदिने कर्ण-मेरु मेरुमिवोच्छ्रितम्॥२०२॥ तत्रेश्वरं नमस्कृत्य, नृपेऽवहितचेतसि । जटीभूयाययौ व्याघ्र-राजा व्याघ्र इवाऽदयः॥२०३॥ नेदीयान् स भवेद् यावत् , शेषापुष्पप्रदित्सया । तावल्लिखितसंकेतै-श्चौलुक्यः पर्यवेष्टितम् ॥ २०४॥ दृष्ट्या संकेतितैर्मल्लै-बद्धा दस्युवदुच्चकैः । अन्विष्टेऽस्मिन्नूपोऽपश्यत् , कंकपत्रमयीं भुरीम् ॥२०५॥ तस्या निभालनान् मत्वा, तं जिघांसुमसंशयम् । सहास्यमाऽऽस्यकमलं, कुर्वन्नुर्वीपति गौ ॥२०६॥ कस्त्वं ? कस्यानुजीवी च?,प्रहितोऽस्यत्र केन च। सर्वमेतत्समाचक्ष्व, जिजीविषसि यद्यरे! M॥ २०७॥ कांदिशीकेन तेनाथ, यथावृत्तं निवेदिते।बभाषे भूपतिर्मा स्म, भैषीस्त्वमवसांनतः ॥२०८॥ कर्मणैवं भवेज्जीवः,
स्वामिना सेवकः सदा।पराधीनोऽपराधी नो, भवान् मे घटते ततः॥२०९॥कुकर्मप्रेरितः साधो-र्यथा कोऽप्युपसर्गकृत्। तथा त्वं स्वामिनुन्नो मे, घातकः समुपागतः ॥ २१० ॥ उपसर्गकरं मुक्त्वा , कर्म हन्ति यथा मुनिः । त्वां घातक तथा हित्वा, त्वन्नाथं हन्मि सम्प्रति ॥२११॥ इत्युदीर्य स शौंडीर्यो, गुजरेन्द्रोऽद्भुतांबरे। परिधाप्य मुमोचैन-महो चातुर्यमूर्जितम् २१२॥ स्वसुः प्रतिज्ञापूर्त्यर्थ, पार्थिवोऽथ चमूचयैः । प्रतिविष्णुं यथा विष्णुः, प्रतस्थेऽरिनृपं प्रति ॥२१॥ मयि सत्यपि शूरेऽसौ, किं कर्तेति रुषेव किम् । चौलुक्यस्तिरयामास, शूरं सैन्यरजोभरैः ॥ २१४ ॥ यदि तत्पृतनाऽऽक्रान्तै-भूभृद्भिरचलैरपि । कम्पितं तर्हि किं चित्रं, चलैस्तैश्चेत्पलायितम् ॥२१५॥ व्यामुवत्सुभटैोलैः, कल्लोलैरिव भूतलम्। स चलन्
दक्षश्चतुःसंख्याकान् , १ पर्यवेष्टतम् प्र, चौलुक्यपर्य चेष्टितम्, प्र. (पर्यवेष्टिष्ट ). २ मरणतः, ३ कर्मणेव, प्र.४ पराक्रमी, ५वे वस्त्रे.
RUGRESERECASCIES
Page #194
--------------------------------------------------------------------------
________________
सर्ग.४
कुमार
बलपाथोधिः, कस्य क्षोभाय नाभवत् ॥ २१६ ॥ अभिरामं प्रतिग्राम, ग्रामणीभक्तिवैभवम् । स्वीकुर्वन् प्राप चौलुक्यः, पालच० क्रमाञ्चन्द्रावतीं पुरीम् ॥ २१७ ॥ तत्र विक्रमसिंहोऽस्ति, नाम्ना धाम्ना च ठक्कुरः। महाधरतया ख्यात-श्चौलुक्यस्यैव
|| सेवकः ॥ २१८ ॥ नृपस्यास्यैव सेवार्थ, यातायातेन पत्तने । रंभाग सगर्भागः, सपाक् खिन्नोऽभवत्तमाम् ॥ २१९॥ ॥७२॥
ततश्चौलुक्यमालोक्य, प्राप्तं चन्द्रावतीपतिः । तद्बोहाय स्वसामंतान , मेलयित्वेत्यमंत्रयत् ॥२२०॥ असौ जटाधरः पूर्व, मिक्षित्वा निखिलामिलाम् । केनापि दैवयोगेन, जज्ञेऽस्माकमधीश्वरः ॥ २२१॥ मूर्खवन्न विशेषज्ञो, बद्धमुष्टिः परासुवत् । अहंमन्य इव स्तब्धः, क्वाऽपि पृच्छति नैष नः ॥२२२॥ तदेतस्य नमस्याऽपि, शोच्या सेवाऽस्तु दूरतः। न हि श्मशानशुलस्य, शक्रस्तंभार्चनोचिता ॥ २२३ ॥ क्वाऽयं भिक्षाचरः शश्वत् , व वयं राजसूनवः । विडम्बनं ततोऽनेन, पत्याऽस्माकं न मंडनम् ॥ २२४ ॥ उपलस्यापि कस्यापि, वरं नम्रीकृतं शिरः । अप्राज्ञस्याकृतज्ञस्य, न त्वेतस्य पशोः पुरः॥ २२५ ॥ निहत्य तैदमुं मुग्धं, चौलुक्यः कश्चनापरः। राज्ये निवेश्यते यूयं, मन्यध्वं चेदिदं वचः॥ २२६ ॥ कर्णप्रविष्टा इव तद्वाचः ता मूर्धधूननात् । दूरयन्त इवारुच्या, सामन्तास्तं बभाषिरे ॥ २२७ ॥ किमेतत्प्रोच्यते शोच्यं ?, स्वामिन्ने तत्तवोचितम् । न हि पीयूषरश्मेः स्यात्, कदाचिद्विषवर्षणम् ॥ २२८ ॥ न कश्चिदाचरत्पूर्व, स्वामिद्रोहं भवत्कुले । तमिदानी वितन्वंस्त्वं, तत्कलंकयिता खलु ॥ २२९ ॥ त्वत्तुल्या अपि चेत्कुल्याः, स्वाकुल्याजलनिर्मलाः। विदधीरन् प्रभुद्रोह, वाच्यास्तयधमाः किमु ? ॥ २३०॥ यस्माद् भस्मीभवति महिमा दाववढेरिव दु-र्येन श्याम भवति च कुलं कज
ॐ महाभूभृत्तया १ तद्विनाशाय, अनिष्टचिंतनं-द्रोहः, २ कृपणः ३ मृतवत्. ४ शौच्या. प्र. ५ श्मशानशूलायाः, प्र. ६ तदिमं दुष्टम् , प्र.
GEISLISTESSOUSTUS
दा॥७२॥
Page #195
--------------------------------------------------------------------------
________________
कु.पा.च. १३
लेनेव वस्त्रम् । यस्योदर्कः प्रथयति मुनेः शापवत्तापमन्त - वैरात्स्नेहादपि न कृतिभिस्तद्विधेयं विधेयम् ( मन्दाक्रान्ता ) ॥२३१॥ किश्च स्वामी च वप्ता च, यादृशस्तादृशोऽपि वा । कुलीनैः सेव्य एवैतन्मतं मतिमतां मतम् ॥ २३२ ॥ असौ चौलुक्यवंशीयः, श्रीसिद्धाधिपतेः पदे । वर्तिष्णुर्गुणहीनोऽपि, निषेव्यो देवतेव नः ॥ २३३ ॥ मोक्तमप्युचितो नैव, कुलीनानां | स्वनायकः । किं ? पुनर्हननीयोऽय - महो जाड्यविजृम्भितम् ॥ २३४ ॥ कथं वाऽसौ नृपो वध्यो, बहुशक्रपराक्रमः । हन्तुं न शक्यतेऽन्योऽपि, किं पुनः सैन्यभाक् प्रभुः ॥ २३५ ॥ ततः स्वस्य कुलस्यापि, यदि क्षेमं समीहसे ? । निजद्रोहमिव स्वामिद्रोहं मा स्म विधास्तदा ॥ २३६ ॥ वाचमाचम्य सामन्त-गदितामिति तामथ । ऊचे विक्रमसिंहस्ता - नस्तारिप्रौढविक्रमः ॥२३७॥ युष्माभिर्मृत्युभीत्यैष, सदोषोऽपि नृपः स्तुतः । भुजालानपि घिग् युष्मान्, कातरत्ववशंवदान् ॥ २३८ ॥ मयि जाग्रत्युदग्राभे, युष्माकं कैव मृत्युभीः । निस्तन्द्रे हि करीन्द्रे किं, कलभानां पराभवः १ ॥ २३९ ॥ घातिष्यते सुखेनैव, शक्तोऽप्येष मया छलात् । न बलं फलवद् यत्र, छलं तत्रोपयोक्ष्यते ॥ २४० ॥ सिंहादयोऽपि हन्यन्ते, छलेन स्वाधिकौजसः । किं वाच्योऽयं तु निःसार-तया बहुतृणं हि यः ॥ २४९ ॥ विधापयत मद्गेहे, वह्नियंत्रमयं गृहम् । स यथाऽऽकार्य चौलुक्योऽ-ध्यास्यते तत्र भुक्तये ॥ २४२ ॥ अधस्ताज्जाज्वलज्ज्वाल - जालभाजा हविर्भुजा । गृहे प्रदीप्ते तत्काष्ठ-वदेष प्रज्वलिष्यति ॥ २४३ ॥ अनेनौपयिकेनास्मिन् हतेऽन्यं स्ववशंवदम् । राज्ये निवेश्य चौलुक्यं, निर्वेक्ष्यामोऽद्भुतं सुखम् ॥ २४४ ॥ इति विक्रमसिंहोक्त-मपथ्यमपि पथ्यवत् । प्रत्यपद्यन्त सामन्ताः, स्वाम्यादेशोऽयमित्यमी ॥ २४५ ॥ व्यचारयंश्च चित्ते स्वे, यत्स्वा - वासप्रदीपनम् । कारयत्येष साऽस्यैव, सूचा भाविमहापदः ॥ २४६ ॥ परं भवति नो नाशो, भवितव्यस्य कर्हिचित् ।
"
Page #196
--------------------------------------------------------------------------
________________
कुमारपालच०
॥७३॥
ध्यात्वेति वह्नियंत्रार्थ-मुपासत ते द्रुतम् ॥ २४७ ॥ ते श्रीविक्रमसिंहस्य, सौधमध्ये रहः क्वचित् । कृत्वाऽधो यंत्रमाग्नेयं, ज्वलज्ज्वलनसंकुलम् ॥२४८॥ तस्यो तैलनिर्भिन्नो-दारदारुविनिर्मितम् । तिलसर्पपलाक्षादि-द्रव्यैर्गुप्तैः प्रपूरितम् ॥२४॥ व्योमेव चन्द्रोदययुक्, तारमुक्तावलम्बि च । उद्यानमिव सच्छायं, स्मेरपुष्पोपशोभि च ॥२५० ॥ सौगन्धिकापणमिव, |स्फारसौरभवैभवम् । विमानमिव भूमिष्ठ-माप्तैः सौधमचीलपत् ॥ २५१॥ चतुर्भिः कलापकम् ॥ दृष्ट्वा विक्रमसिंहोऽथ, दतत्ताहकारितं गृहम् । कृतकृत्य इव माप-निमंत्रणकृते ययौ ॥ २५२ ॥ व्यजिज्ञपच्च भूपाल!, मत्तपोभिः पुरातनैः। प्रेरि
तोऽत्र समायासीद, देवो देवेंद्रवत् स्वयम् ॥ २५३ ॥ अद्य मद्गृहमभ्येत्य, कुरुषे यदि भोजनम् । तदा स्वमेव मन्येऽह|मग्रण्यं पुण्यशालिनाम् ॥ २५४ ॥ मारवेषु न विश्वास्य-मिति जानञ् जनश्रुतिम् । भक्त्वा तदाग्रहं भोक्तुं, पाहैषीत् स्वजनं नृपः॥२५५॥ भक्त्या विक्रमसिंहेन, भोजितो नृपतेर्जनः । इतस्ततः परिभ्राम्यन् , वेश्मलक्ष्मीनिरीक्षया ॥२५६॥ अधस्ताद ध्मायमानाना-मंगाराणां मुहुमुहुः। जेघीयमाणमामोदं, वृद्धं कंचिद्व्यलोकत ॥ २५७ ॥ युग्मम् ॥ कोऽयं गंधो जरन् कस्मा-जिघ्रतीति वितर्कतः। गूर्जरेंद्रजनेनापि, तत्र दृष्टं समंततः ॥२५८॥ वहिच्छद्ममयं सद्म, तज् ज्ञात्वा चतुरत्वतः। स तदैवैत्य संभ्रांत, इव राज्ञे व्यजिज्ञपत् ॥२५९॥ तदा विक्रमसिंहोऽपि, समेत्य सदनात्पुनः । वैवाहिक इवात्यर्थ, भुक्त्यै पार्थिवमार्थयत् ॥ २६० ॥ स्वजनात् प्रागपि ज्ञात-स्वरूपो निश्चिकाय सः। अत्याग्रहेण दृश्यादि-चेष्टितेनापि तन्मनः॥२६१॥ अविदन्निव चौलुक्य-स्तं निवाशनादरात् । सत्कृत्य च गृहे प्रेषीत्, स्वहितैषी चचाल च ॥२६२॥
१ आत्मानम्. २ शोभा. ३ दाक्ष्यात् , ४ कन्यापुत्रयोः श्वशुर इव. ५ निवार्य-प्रतिषिध्य, निवृत्या, प्र..
Page #197
--------------------------------------------------------------------------
________________
प्रयाणैरनवच्छिन्न-र्गिमुल्लंघयन्नृपः । निवेशमिव लक्ष्मीणां, प्राप देशं विरोधिनः ॥ २६३ ॥ चौलुक्यकटकैर्देशः, कृतः शिवशंवदः । निर्माथवत् पलाय्य द्राग, ब्रजति स्म यतस्ततः ॥२६४॥ ग्रामान सपादलक्षीया-नाक्रमन् विक्रमाधिकः । शाकंभरीपुरीपार्थे, तस्थिवान् गूर्जरेश्वरः ॥२६५ ॥ प्रकाशकं निजस्फूर्तेः, काव्यमेकं करोदरे । दत्त्वा प्रैषीच्च वापूतं, दतं शत्रुनृपं प्रति ॥२६६ ॥ सर्वस्वमिव विस्फूर्ते-श्चाहुमाननृपास्पदम् । सोऽधिगम्य जगादेवं, ध्वानयन्निव तत्सदैः
२६७ ॥ उइंडांतकदंडचंडिमचितः कल्पांतकालानल-ज्वालागर्वमुषो विषोग्र जगफूत्कारसारढुंहः । व्याधामोद्धेत धामनाम (१) निपुणा दोःकांडकंडूतयो, यस्यारीन् युधि निदलंति 'मुशलाः शालीनिवोदूखले ॥२६८॥ (शार्दूल.) यस्मिन् | दिग्विजयोद्युक्ते, चलद्बलरजःकणाः।शिरश्चूडामणीयंते, महतामपि भूभृताम् ॥२६९॥ सेवाहेवाकिनो यस्य, नरदेवा दिवानिशम् । स्वमौली लालयंत्याज्ञा, 'वप्नुस्खनुरुहा इव' ॥२७०॥ स चौलुक्यप्रभुर्भग्नी–प्रतिज्ञापूर्तिहेतवे । अत्रायातो भवद्योग्य, काव्यमेतत् प्रजिग्धिवान् (प्रजिध्मिवान् )॥ २७१ ॥ उक्त्वेति स ददौ काव्य-मुपदामिव भूभुजे । अमात्यस्तन्निदिष्टोऽथ, वाचयामासिवानिति ॥ २७२ ॥ रेरे भेक! गलद्विवेक! कटुकं किं रारटीष्युत्कटो ?, गत्वैव कचनापि कूपकुहरे त्वं तिष्ठ निर्जीववत् । सर्पोऽयं स्वमुखप्रसृत्वरविषज्वालाकरालो महान् , जिह्वालस्तव कालवत्कवलनाकांक्षी यदाजग्मिवान् । |॥२७॥ (शार्दूल०) दूतवाक्यं तदाकर्ण्य, काव्यभावं विभाव्य च । अवज्ञया हसन्नों-राजो व्याहरति स्म तम् ॥२७४॥18 | १ असंकुचितैः-महद्भिरित्यर्थः २ स्थानमिव, ३ निजपराक्रमस्य. ४ वाचा पूतः-संस्कृतस्तम् , वाक् पूता वा यस्य स तम्. ५ सभाम्. ६ प्राप्य, ७ तत्सभाम् प्रचंडयमदंडोनवव्याप्ताः ९ फणभृत्-प्र. १० ग्रहः-प्र. ११ व्याधामः-वजः, १२ माद्धत्त, प्र.
SESSRESASSASSERRXA16*
x
Page #198
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ ७४ ॥
रे
दूत ! भवताऽस्तावि, वंदिवत् किं स्वनायकः ? । पुत्रस्तुत्या पितेव स्याद् भृत्यस्तुत्या न राड् महान् ॥ २७५ ॥ ब्रूषे च त्वं मदीशोऽरीन् पिनष्टि कणवद् रणे । तन्मिथ्या तेन पिष्टाः स्यु- दौंःस्थ्ये यदि परं कणाः ॥ २७६ ॥ बहुधाऽपि मुधा स्तौषि, तच्छौंडीर्यं परं मया । आजन्म भिक्षुतां मुक्त्वा, तस्याश्रावि न किंचन ॥ २७७॥ आचक्षीथाश्च तं पूज्ये, मयि भेकत्वरोपणात् । त्वया विवेकवाक्पत्यं, स्वदेश्यं साधु दर्शितम् ॥ २७८ ॥ एकं त्वयोचितं चक्रे, यत्स्वस्मिन्नहितीssहिता । नो चेत्परं खली कर्तुं कुतस्ते स्याद् द्विजिहता १ ॥ २७९ ॥ परं त्वं ज्ञास्यसे सम्यक् संग्रामे स्वमहिं प्रति । भेकत्वमथ तार्क्ष्यत्वं मम निस्सीमविक्रमैः ॥ २८०॥ इत्युदित्वाऽर्पयित्वा च काव्यं प्रत्युत्तरोचितम् । दूतं विसृष्टवांश्चाहूमानवंशाब्धिचंद्रमाः ॥ २८१ ॥ तदैव च समादिश्य, सेनान्यं समवर्मयत् । चमूसमूहं प्रत्यूह - मिव मूर्त विरोधिनाम् ॥ २८२ ॥ समुन्नतैर्द्विपवरै - जंगमैः पर्वतैरिव । वेगिभिर्वाजिभिः शक्र - वाजिनः सोदरैरिव ॥ २८३ ॥ आकारैरिव शौर्याणां सन्नद्धांगैः पदातिभिः । साकं शाकंभरीनाथो, निर्ययौ नगरान्निजात् ॥ २८४ ॥ युग्मम् ॥ अभ्रमभ्रं कषाग्राभिः, पताकाभिः पिवन्निव । सैन्योद्भूतरजः पूरै —र्भास्करं स्थगयन्निव ॥ २८५ ॥ पादातप्रौढहकाभि - विश्वं बधिरयन्निव । चौलुक्यकटकादेव - गणराजः स तस्थितवान् ॥ २८६ ॥ युग्मम् ॥ दूतोऽपि तावदागत्य विनिवेद्य रिपूदितम् । तत्काव्यं ददिवान् राज्ञे, सोऽप्येवं तदवाचयत् ॥ २८७ ॥ रे रे सर्प ! विमुंच दर्पमसमं किं स्फारफूत्कारतो, विश्वं भीषयसे ? क्वचित्कुरु बिले स्थानं चिरं नंदितुम् | नो चेत्प्रौढगरुत्स्फुरत्तरमरुद्व्याधूतपृथ्वीधर - स्ताक्ष्यों भक्षयितुं समेति
१ महत्त्वम् पराक्रमम् वा २ सर्पता स्थापिता ३ दुर्जनी कर्तुम् ४ श्लो० २८८. ५ निकटं, पूर्व वा.
सर्ग. ४
॥ ७४ ॥
Page #199
--------------------------------------------------------------------------
________________
झगिति त्वामेष विद्वेषवान् ॥२८८॥ (शार्दूल०) तत्काव्यश्रवणादेव, कल्पांतपवनादिव । चुक्षुमे तत्सदःसर्व, मकराकरनीरवत् | |॥२८९॥ सैन्यद्वयेऽपि शौंडीरा, द्वंद्वप्राप्तिप्रमोदिनः। व्यावहासी वितन्वाना, देवेनाद्यैरदेविषुः॥२९०॥ नालिकेरीफलान्या- वन् , केऽपि केऽप्यपिवन सुराम् । अवलगन्मल्लवत्केऽपि, केऽपि श्रममसज्जयन् ॥२९१॥ अवाहयन् हयान केचित् , केचि|दभ्रमयन्निभान् । शितान्यकारयन् केचि-च्छस्त्राणि पृतनाचराः॥ २९२॥ युग्मम् ॥ अथ प्रौढिं दृढां प्रेक्ष्य, चौलुक्यकटकेऽखिले । शाकंभरीधराधीशो, मनसैवं पराऽमृशत् ॥ २९३ ॥ द्विपैरिव द्विपेंद्रोऽय-मुद्भटैः सुभटैर्वृतः । चौलुक्यः स्वयमायासीत्, कथं युद्धे विजेष्यते ॥ २९४ ॥ हुं ज्ञातं यो विरज्याऽऽगा-चौलुक्यादतिकं मम । पूर्व चारभटो नाम,
कुमारः सोऽस्ति मर्मवित् ॥२९५॥ तं पृच्छामीति सध्यात्वा, समाकार्य च पृष्टवान् । रिपोस्त्वमसि मर्मज्ञ-स्तज्जयोपयिकं वद? 18॥ २९६ ॥ अथ चारभटोऽभाणीद्, वाणी विनयवामनः। उभाकर्णि मयाऽऽकर्णि, देवाद्याऽऽप्तमुखादिति ॥२९७॥ कृपण-16
श्चाकृतज्ञश्च, प्रायश्चौलुक्यनायकः। विरक्ताः संति तेनास्मिन् , सामंताः केल्हणादयः ॥२९८ ॥ दत्त्वा स्वर्णानि ते तूर्ण, क्रियते स्ववशंवदाः। धनमेवादिमं यस्माद् , वशीकरणवस्तुषु ॥ २९९ ॥ ततो हास्यंत्यमुं ते द्राक्, तातं द्विष्टाः सुता इव । तत्त्यक्तोऽसौ गलच्छक्ति-भविता निर्विषाहिवत् ॥३०॥ प्रायो मुक्तः स्वसामंतैः, पलाय्यैष प्रयास्यति । योत्स्य-| तेऽथ मदात्तर्हि, क्लीबवनिहनिष्यते ॥ ३०१॥ किंचाहं त्वत्प्रसादेन, जानामि भगदत्तवत् । इभं भ्रमयितुं सिंह-नादान
१ तस्य सभा. तच्च तत् सदश्चेति वा २ अहंकारिणः ३ द्वन्दं युद्धम्. ४ परस्परहसनम्. ५ पाशकादिक्रीडनैः क्रीडयामासुः. ६ मनस्येवम् . प्र. ७ उभौ कणों ४. यस्मिन् तत् ८ त्वक्ष्यन्ति.९ महाभारतप्रसिद्धः कामरूपदेशाधिपो नृपः,
EARSARY
Page #200
--------------------------------------------------------------------------
________________
सगे.
कुमारपालच०
॥७५ ॥
यामहे न हि ॥ इदम् ॥ २०७॥ यमदुत् ॥ ३०६ ॥ लो २०५ ॥ अर्णोराजस्त
ARHII NISO ORARIA
मोक्तं च संयुगे ॥ ३०२॥ तेनेभभ्रमणेनोच्चैः, सिंहनादैश्च तैर्घनैः । सांयुगीनोऽपि चौलुक्य-करी दूरं प्रणश्यति ॥३०॥ | उपायेन प्रभोऽनेन, नूनं निर्जित्य शात्रवम् । त्वं कर्ताऽसि करे लग्नां, कन्यामिव जयश्रियम् ॥ ३०४ ॥ एवं चारभटी
मार-भटीभावभृतं गिरम् । निशम्य सम्यगस्तावीत्, साधु साध्विति तं नृपः॥ ३०५ ॥ अर्णोराजस्ततो रात्रा-वाप्तान द सकेनकोत्करान् । प्रेष्य चौलुक्यनाथीयान् , सामंतांस्तानबीभिदत् ॥ ३०६ ॥ लोलुपत्वेन भिन्नास्ते, चाहुमानमहीभुजे।
आप्तैर्निवेदयामासुः, स्वाभिप्रायमिति स्फुटम् ॥ ३०७ ॥ त्वद्र्गृह्याः स्मो वयं सर्वे, परं सन्नह्य संयुगे । अवस्थास्यामहे स्वस्मिन् , सैन्ये योत्स्यामहे न हि ॥ ३०८ ॥ बलीयानपि चौलुक्यः, संग्रामेऽस्मदुपेक्षितः । त्वया सिंहेन हस्तीव, लीलयैव दलिप्यते ॥ ३०९॥ प्रत्यर्थिपार्थिवीयानां, सामंतानां मनस्तथा । मत्वा शाकंभरीशस्त-ममस्त विजितं द्विषम् ॥ ३१०॥ अलंचके प्रभातेऽथ, भानुमान पूर्वपर्वतम् । वीरभोगीणबाहूनां, रणोत्साहश्च मानसम् ॥ ३११ ॥ लक्ष्मीभराभिरामत्वं, बिभरांचक्रिरे तदा । जलाशये सरोजानि, सैन्ये भटमुखान्यपि ॥ ३१२॥ स्फुरद्वैरितमःस्तोम-तिरस्कारचिकीर्षया। शूरप्रकाशः संजज्ञे, व्योम्नि सैन्यद्वयेऽपि च ॥ ३१३ ॥ अथ प्रत्यर्थिपृथिवी-नाथोन्माथसमीहया । सैन्यं सन्नाहयामास, गुर्जरक्षितिवासवः ॥ ३१४ ॥ कातरान् कंपयन् काम, हर्षयन् वीरकुंजरान् । सैन्यसन्नहनोत्ताल-तुमुलो व्यानशे दिशा ॥ ३१५ ॥ अंगानि स्फायमानानि, रणनाम्नाऽपि योधिनाम् । कथंचन न मांति स्म, विस्तृतेष्वपि वर्मसु ॥ ३१६ ॥
१ युद्धे. २ युद्धकुशलः, ३ शत्रसमूहम् शर्बुवा, ४ आरभटी-रचना. ५ सत्क. प्र. चौलक्यनाथस्य इमे तान, त्वित्पक्षाश्रिताः, ७ वीराणामुचितो भोगः वीरभोगस्तस्मै हिताः बीरभोगिणा, ईदृशाः बाहवो येषां ते वीरभोगिणवाहवस्तेषाम्. ८ शोभा. शूरः-सूर्यः पो सुभटः १० कवचसज्जनजन्यमहदव्यक्तशब्दः,
॥७५॥
Page #201
--------------------------------------------------------------------------
________________
हामहाः ॥ ३२०मानं पट्टहस्तिनम् ॥ ३० ॥ ३१८ ॥ ततो भिस्कुंभान् कर-5
केचित स्वजीवितव्येऽपि, निरपेक्षतया भटाः। नेदिष्ठान्यपि वर्माणि, नैव वर्मसु पर्यधुः॥ ३१७ ॥ अंभस्कुंभान् करं-1 भांश्च, प्रगुणीकृत्य तत्क्षणम् । अन्वेतुं स्वप्रियान् प्रीत्या, ससजे सुभटीजनः ॥ ३१८ ॥ ततो द्विपक्रियानिष्ण-श्याम-18 लाधोरणाश्रितम् । श्रित्वा कलभपंचास्य-नामानं पट्टहस्तिनम् ॥ ३१९ ॥ तत्कालकल्तिानल्प-समराकल्पभासुरः।
चापादिशस्त्रसंपर्क-तळमाणमहामहाः ॥ ३२० ॥ सामंतैर्विक्रमाक्रांत-रन्वितः केल्हणादिभिः । रणस्थलमलंचक्रे, है जिष्णुवद् गुर्जरेश्वरः ॥ ३२१॥ त्रिभिर्विशेषकम् ॥ अर्णोराजोऽपि निार्ज-भ्राजिष्णुभुजवैभवः । कुंभिकुंभस्थलारूढः,
प्रौढसैन्यसमन्वितः ॥ ३२२ ॥ शत्रुसामंतभेदेन, जिंतकाशीव चेतसि । प्राविक्षत्प्रर्धनावन्यां, दुर्योधन इवोद्धतः ॥३२३॥ युग्मम् । पूर्व रजस्ततस्तूर्य-शब्दस्तदनु सैनिकाः। अन्योन्यमिति सैन्ये ते, संजग्माते उभे अपि ॥ ३२४ ॥ सैन्यद्वयेऽपि तूर्याणि, रणंति स्म सहस्रशः। अन्योन्यमाह्वयंतीव, योधान् युद्धार्थमुद्धतान् ॥ ३२५ ॥ नवरं रणतूर्याणां, श्रवणात् पुलकैः सह । योधा युधे (पि) समुत्तस्थुः, किंतु तन्मूर्धजा अपि ॥३२६॥ वीराणां विक्रमक्रीडां, स्तुवंतो वन्दिनस्तदा । कातराणामपि स्वांते, रणप्रौढिमेददृढन् ॥ ३२७ ॥ वीरंमन्यास्तमासाद्य, हृत्प्रियंकरणं रणम् । बुभुक्षिता इवाहारं, जज्ञिरे 5 प्रमदोद्धराः ॥ ३२८ ॥ कादंबिनीकदंबाभे, प्रसर्पति रजोभरे । पद्गानां खड्गलेखाभि-र्दीप्राभिर्विधुदायितम् ॥ ३२९॥ परस्परेण वृण्वन्तो, विवृण्वन्तो निजोर्जितम् । अथाग्रसैनिकाः सैन्य-द्वये योद्धं डुढौकिरे ॥३३०॥ धनुषां च परेषां च,
१ अति निकटस्थानि. २ देहेषु. ३ श्यामलनाना हस्तिपकेन आश्रितम्. ४ तत्कालरचितानल्पयुद्धवेषदीप्यमानः, ५ अर्जुनवत्, ६ निर्व्याजो निष्कपटः, है. जितेन-जयेन काशते-प्रकाशते इति. जितकाशी तद्वत, ८ युद्धभूमौ, ९ महत्ताम्, १० मेघमालासमूह सदशे. ११ मीलंतः, ११ शत्रुणाम्.
CAHAHAHARLAOS
Page #202
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ ७६ ॥
| जीवाकर्षणकोविदाः । शरासारैर्धनुर्वेदं, धानुष्काः स्वंमदीदृशन् ॥ ३३१ ॥ नाथेन दूरं निक्षिप्तः, सरलोऽपि शरोत्करः । विपक्षे लब्धलक्षोऽपि, ह्रियेवाभूदधोमुखः ॥ ३३२ ॥ क्षुरप्रकिरणा दीप्रा, धनुर्मार्तडमंडलात् । पेष्टुं द्विषत्तमः स्तोमं, निर्ज - | ग्मुस्तिग्मवेगतः ॥ ३३३॥ लोहवर्मणि संश्लिष्टाः, खड्गघाता वितेनिरे । खाट्कारान् क्षितिभृद्वप्रे, दंतिदंता इवासकृत् ॥ ३३४॥ तदा शाक्तीक याष्टीक - पारश्वधिकपाट्टिशाः । दर्शयांचक्रिरे सैन्य - द्वयेऽपि लघुर्हस्तताम् ॥ ३३५ ॥ उत्योत्त्य शौंडीरैः, पनैरपि तथा युधि । विचक्रमे यथाऽभूव - न्नश्ववारा द्विधाऽप्यधः ॥ ३३६ ॥ प्रेरितः पृतनामध्ये योद्धुं द्विट्तरवारिणा । छिन्नक्रमोऽपि जात्योऽश्वः, स्वामिनं बहिरानयत् ॥ २३७ ॥ प्रोतोऽरिणाऽश्वपृष्ठेन, सह शल्यनिवेशनात् । सादी कोऽपि प्रमीतोऽपि जीवन्निव न पेतिवान् ॥ ३३८ ॥ स्वारोढुः पदिकक्षिप्ता - नसिघातानसंजयन् । श्रीवृक्षकीहयश्चक्रे, स्वोच्चत्वं सार्थकं रणे ॥ ३३९ ॥ अर्धव्योम्नि मुहुः फालान्, कारयंतस्तुरंगमान् । जघ्नुर्हस्तिस्थितानुच्चा-नीचा अपि तुरंगिणः ॥ ३४० ॥ कोपादुत्पाव्य हस्तेन, भटं कंदुकवद् रणे । द्विपो दातुं यमायेव, दूरमृर्द्ध निचिक्षिपे || ३४१|| प्रहरन् दंतयुग्मेन, 'वज्रेणेव' परासिना । छिन्नहस्तोऽपि नो हस्ती, विहस्तोऽजनि कौतुकम् ॥ ३४२ ॥ योद्धुमूद्धितगुंडाग्रा - न्योन्यबंधेन वारणौ । तेनतुस्तोरणमिव, प्रवेशे विजयश्रियः ॥ ३४३ ॥ मृहन्तः पादघातेन, भटान् कमलखंडवत् । अन्योन्य
१ प्रत्यंचाऽऽकर्षणविशारदाः, पक्षे-प्राणाकर्षणकोविदाः २ खं खकीयं धनुर्वेदं धनुर्ज्ञानम्. ३ पर्वतदुर्गे-पर्वतप्रान्तभागे. शक्तियोद्धृयष्टियोद्धृपरश्वध (परशु ) यो पट्टिशयोद्धारः ४ हस्त क्रियाचातुर्यम् ५ पादाभ्यां जग्मे ६ उत्सेधात् क्रमणाच ७ शत्रुखङ्गेन. ८ छिन्नपादः ९ बाणप्रवेशनात्. १० मृतोऽपि ११ अधारयन् १२ हृदयस्थ श्वेतलोमयुक्तः अश्व विशेषः, १३ झुण्डया. १४ हस्तरहितो, व्याकुलो, वा १५ कमलदंडवत् प्र.
सर्ग. ४
॥ ७६ ॥
Page #203
--------------------------------------------------------------------------
________________
सैन्यकासारौं, वारणेद्रा व्यलोडयन् ॥ ३४४ ॥ शस्त्रक्षये मिथो जाते, प्ररूढप्रौढविक्रमाः। भुजाभुजि न्ययुध्यंत, मल्लवकेऽपि सैनिकाः॥ ३४५ ॥ प्रहारप्रसरद्रत-रक्तांगाः सुभटा बभुः। शौर्यलक्ष्मीसमाश्लेष-लग्नकाश्मीरजा इव ॥ ३४६॥ यायांवरैर्निजप्राणैः, क्रीत्वाऽतिस्थायुकं यशः। भटाः प्रकटयांचक्रुः, केचिद्वाणिज्यनिष्णताम् ॥ ३४७॥ इह स्वस्वामिनां मान-मैंमानं च यशोभरम् । प्रेत्य स्वर्ग च शौंडीराः, शौर्येणेकेन लेभिरे ॥ ३४८॥ रणक्षेत्रात्मसर्पत्यो, दधिरे रुधिरापगाः । वृष्टिद्रवद्धातुरसो-न्मिश्रशैलनदीभ्रमम् ॥ ३४९ ॥ कृतांततर्पणे जाग्र-त्येवमुग्रे रणे मिथः । सुभटैश्चाहमानीय-शूर्णयांचक्रिरे परे ॥ ३५०॥ परैः पश्चात्कृतास्त्रस्ता, गुर्जरा घातजर्जराः। चौलुक्यक्षितिशक्रं तं, शरणीचक्रिरे रयात् ॥ ३५१॥ अथाश्वास्य स्वशौंडीरां-श्चौलुक्यो रणकर्मणि । सामंतान प्रेरयामास, केल्हणप्रभृतीन् स्वयम् ॥३५२॥ आदिष्टानप्युदासीनान , दृष्ट्वा तान् स्वनिषादिनम् । पप्रच्छ श्यामलं भूमा-नमी कस्मादुदासते ? ॥ ३५३ ॥ स तन्मंत्रविदाचष्ट, विरक्ताः प्रागमी त्वयि । त्वद्वैरिणा निशि स्वर्ण-दानेन स्ववशीकृताः॥३५४ ॥ स्थेयं युद्धाय सन्नह्य, नैव योध्यं परैः समम् । इति मंत्रादुदास्यैते, तिष्ठति द्रोहकारिणः॥ ५५ ॥ पुनस्तं पृष्टवान् भूभृ-त्तर्हि त्वं वद कीदृशः। स प्रोचे त्वमहं चाय, द्विपश्चैते त्रयः स्थिराः ॥ ३५६ ॥ द्विपस्त्वं चापरावयौं, यदि तर्हि जितं मया । एनं नय द्विषसैन्यं, तमित्युक्त्वा नृपोऽवदत् ॥ ३५७ ॥ हलं साहसिना युक्तं, देवमूर्ध्नि वहत्यहो । कीलाढालयमानास्ते, भंगश्चेन्नैर्व भक्ष्यते (2)॥ ३५८ ॥ सूक्तमेतत्समाकर्ण्य, प्रोक्तं चौलुक्यभूभृता। चारणः कश्चिदाचष्ट, तं प्रत्यवसरोचितम् ॥ ३५९ ॥ १ कासारो, प्र. २ प्रवृद्धमहद्विक्रमाः. ३ अतीवगमनशीलैः-नश्वरैः, ४ ष्णुतम्-अ.टताम्-प्र. ५ सत्कारम् , * प्रमाणातिगम्. ६ हसम्-प्र. ७ देव, प्र. ८ चेनेव, प्र.
SAUSIOSTASISSA
Page #204
--------------------------------------------------------------------------
________________
सर्ग.४
कुमारपालच.
SEARCCCCCC
कुमारपाल ! मा कापी-चिंतां स्यान्नैव चिंतितम् । येन तुभ्यं ददे राज्यं, चिंता कर्ता स एव ते ॥ ३६०॥ तामेवोपश्रुतिं लात्वा , द्विषजयपटीयसीम् । सहस्रभटयुग् वैरि-प्वपतद् गुजरेश्वरः ॥ ३६१ ॥ आचकर्ष च कोदंडं, सह प्राणैविरोधिनाम् । आरोपयच्च तत्रेषु, समं निजजयाशया ॥ ३६२ ॥ स मुमोच शरश्रेणी-रेणीरिव विदारयन् । संहता अपि दुर्वार-वैरिवीरपरंपराः ॥३६३ ॥ अपश्यतोऽतितूर्णत्वा-त्तस्येषुग्रहणादिकम् । अविद्धमपि विद्धं स्वं, मेनिरे | रिपवो मिया ॥ ३६४ ॥ अमी विरोधिभिः सार्ध, मिलिता इति मा स्म भूत् । सामंतानामिवास्माक-मपि लोके विकत्थ-17 नम् ॥ ३६५ ॥ध्यात्वेतीव निशांतास्याः, सर्वे चौलुक्यायकाः। द्विषतां हृदयं भित्त्वा, बहिरमयासिषुः ॥ ३६६ ॥ युग्मम् ॥ सर्वांगीणैस्तदिषुभिः, पूरिता रेजिरे भटाः । वीरलक्ष्मीपरिरंभाद्, भृशमुत्कर्टका इव ॥ ३६७ ॥ बलोच्छललिभरैः, कल्पिते मेघमंडले । धाराभ्रमं व्यधुस्तस्य, पतंत्यः शरपंक्तयः॥३६८ ॥ निषादिनो यथा चित्तं, संचरन् राजकुंजरः । यथानृपाशयं हस्ति-पकस्तं प्रेरयन् रणे ॥ ३६९॥ यथादृष्टं शरैर्मश्नं-श्चौलुक्यः प्रतिपंथिनः । त्रयोऽप्यमी न कस्यासन् , स्मेरैविस्मयदायिनः॥ ३७० ॥ युग्मम् ॥ सध्वजान् खंडयन् दंडान , मभन् वाहान् ससादिनः । इष्वासान् | सगुणांश्छिदन् , हरन् बाहून् साहुलान् ॥ ३७१ ॥ वान्वितानि वाणि, स्नापयन् भूरिशोणितैः । पातयन्नुत्तमांगानि, शिरस्त्राणयुतान्यपि ॥ ३७२ ॥ बलं निष्काशयन् देहा-जीवं निर्वासयन् हृदः। धानापेषं पिपेष द्विट्-सैन्यांश्चौलु- G
१ शकुनम्. २ मीलिताः. निंदा, ३ तेजिताननाः, ४ बाणाः. ५ सर्वाण्यङ्गानि व्याप्नुवन्तीति सर्वाशीणास्तैः. ६ रोमाञ्चिता इव. ७ अतीवाश्चर्यदायिनः, ८ नाशयन. ५ धषि. १. हस्तवर्मसहितान्-स्फुरकसहितान् हस्तान्.
॥७७॥
Page #205
--------------------------------------------------------------------------
________________
EARCH
है क्यनायकः॥३७॥ त्रिभिर्विशेषकम् ॥ एवं दूरीकृते वैरि-चक्रेऽभ्र इव स प्रभुः । पुरः स्फुरंतं भास्वंत-मिवार्णोराजमै
क्षत ॥ ३७४ ॥ लोकातिशायिनीं स्फूर्ति-मन्योन्यं पश्यतोस्तयोः। जजागार परं वैरं, रामरावणयोरिव ॥ ३७५ ॥ तदैव सफलीकर्तु-मिव तत्तौ महौजसौ । गजेंद्रौ स्वनिषादिभ्यां, प्रेरयामासतुस्ततः॥३७६॥तौ चाहुमानचौलुक्यौ, भावुकश्यालकाविति । हासेनेव रुषाऽनाष्टा-मुक्तिप्रत्युक्तिकौतुकम् ॥३७७॥ हंहोश्याल! तपस्विवत् स्वशिरसि क्षिप्त्वा जटा प्राक्त्वया, भिक्षित्वा प्रतिमंदिरं प्रतिपदं नंष्ट्वा च नीतं जनुः । प्राप्तं पुण्यवशेन राज्यमधुना निःस्वेन चिंताश्मवत्, भग्नीप्रेरणया कुतोऽद्य समरे व्यापद्यसे ! मत्करे ॥३७८॥ (शार्दू) भग्नीवल्लभ! यजटादिधरणं शक्तस्य वा वैभवं, रामादेरिव तद्विधिर्वितनुते तेत्तस्य नो दूषणम् । आजन्माऽपि परं त्वयाऽद्भुततमे राज्ये प्रवर्तिष्णुना, दुःसाधं किमु साधितं कथय मे? यद्दपमुत्सर्पसि॥३७९॥(शार्दू)अमी ते मदाणाः पटुरिपुनृपोत्पेषनिपुणा, हणीयंते श्याल! त्वयि निपतितुं तापेसचरे । भृशोन्मत्तस्तंबेरमदमनमाहात्म्यविदिता, भवेयुर्गोमायौ किमु सरंभसाः केसरिनखाः? ॥३८०॥ (शिखरिणी) भवद्वाणक्षुण्णः प्रतिनृपतिरेकोऽपि न मया, श्रुतःप्राक्प्रागल्भी प्रथयसि वृथा भावुक! किमु । अथेयं सत्या ते समदनृपतिप्राणहरण-प्रवीणान् मद्वाणान् यदि युधि निरोद्धा कथमपि ॥३८१॥ (शिख०) अथ तौ भूधवौ यावद्, युयुत्सामासतुर्मिथः। तावद्योद्धं डुढौकाते, |दुर्मत्ती तद्गजेश्वरी ॥ ३८२ ॥ चौलुक्यगजमालोक्य, संप्राप्त प्रेजिहीर्षया । शाकंभरीशितुर्हस्ति-पकश्चारभटामिधः॥३८३॥
१ पराक्रमम्. वैरम् , २ भावुकश्च-भगिनीपतिः, स्यालकच-पत्नीभ्राता, तो.३ प्रक्षिप्य-स्थापयित्वा. ४ तस्मात्. ५ पूर्व भूतस्तापस इति तापसचरस्तस्मिन्. ६ स्तंबे कक्षे रमते इति स्तंबेरमो-हस्ती ७ सवेगाः, ८ पिष्टः. ९ प्रागल्भी-महत्ता, १० निरोधयिता. ११ युद्धं कर्तुमिच्छतः स्म. १२ प्रहार कर्तुमिच्छया.
Page #206
--------------------------------------------------------------------------
________________
कुमारपालच.
सर्ग.४
॥७८॥
AUSAGARMANESAUGUSAMADHANGA
भ्रमयन्निभनाथं स्वं, वात्या चक्रमिवोच्चकैः । महाबलेन विदघे, सिंहनादं मृगेंद्रवत् ॥ ३८४ ॥ युग्मम् ॥ सिंहनादः स तन्मुक्तो, नादयन्नद्रिकंदराः । सिंहनाद इवाभैत्सी-दैन्येभानां मदोदयम् ॥ ३८५ ॥ तेन नादेन गंधर्वा-स्त्रेसुस्त्रोटि
तबंधनाः। मूर्छालतां जगृहिरे, क्लीवाः शूराश्चकंपिरे ॥३८६॥ तस्मादिभभ्रमात् सिंह-नादाच्च भयभंगुरः। महाबलोऽपि साववले, गजेंद्रो गुर्जरप्रभोः॥ ३८७ ॥ आधोरणप्रणुन्नोऽथ, प्रणिहंतुं द्विषद्विपम् । तन्नादेन पुनीतः, स तथैव न्यवर्तत PI॥ ३८८ ॥ चौलुक्यस्तं तथा दृष्ट्वा, द्विपं श्यामलमालपत् । अयं पशुर्मुहुः कस्माद्, वलते संपरायतः ॥ ३८९ ॥ स तं
व्यजिज्ञपद्देव !, भवद्राज्याप्तितो रुषा । निर्गत्यैनं रिपुं भेजे, यः प्राक् चारभटो भटः॥३९०॥ स द्विपं भ्रमयन् सिंहनादं वितनुते मुहुः । तेनायं सांयुगीनोऽपि, भयानश्यति भीरुवत् ॥३९१॥ तदैवोत्पन्नधीभूपः, करिणः कर्णकोटरे । विदार्य द्विपंटी क्षुर्या, श्यामलेन न्यवेशयत् ॥ ३९२ ॥ ततो मुद्रितकर्णत्वा-दशृण्वंस्तद्धनिं द्विपः। अरीभं प्रत्यधाविष्ट, वधाविष्टमतियुधे(धि)॥३९शाउभांवतिविनिम्नंती, भ्रमंती चक्रवन्मुहुः। अन्योन्यं पुष्कराग्रेण, दिधीर्षतावमर्षतः॥३९॥ मद्यपानभृशोन्मत्तौ, रक्तरक्तविलोचनौ । चिराय युयुधाते तौ, पितृवैरादिव द्विपौ ॥ ३९५ ॥ युग्मम् ॥ तयोः प्रहरतोरेवं, तद्भूपावपि कोपतः। वर्षतौ विशिखश्रेणिं, चक्रतुयुद्ध मुद्धतम् ॥३९६॥ तत्संग्रामं भृशोद्दाम, पश्यतः कौतुकाद्भटाः । केचिच्चौ-18 लुक्यतोऽभूवन , केचिच्छाकंभरीशतः॥३९७॥ मन्येऽन्तस्तत्पृषत्कानां, घनत्वेन प्रसर्पताम् । शूरोऽपि छेदभीत्येव, स्वकरान
१ अकृत्रिमसिंहनाद इव. सै० प्र, २ अश्वाः. ३ मूर्छामित्यर्थः. ४ कातराः. ५ युद्धात्. ६ युद्धकुशलोऽपि, ७ उत्तरीयं वस्त्रम् (दुपटो), | ८ उभाविति, प्र. ९ शुण्डाग. १० बाणपंक्तिम्. ११ तयोः बाणानाम्. १२ सूर्यः, पक्षे शूरः-वीरः.
4%KCARRANGACARE
Page #207
--------------------------------------------------------------------------
________________
कु.पा.च. १४
क्षिपति स्म न ॥ ३९८ ॥ शरवर्षममर्षेण, धारालं तन्वतोस्तयोः । बहुबाणतयाऽधातां, तूणावक्षय्यतामिव ॥ ३९९ ॥ परस्परेण निर्मुक्तः, खंडितश्चाननालवत् । मध्ये तद्धस्तिनोर्हस्ति - द्वैयसो ऽभूच्छरोत्करः ॥ ४०० ॥ चापं च ज्यां च वाणं च, छिंदतौ तौ मुहुर्मुहुः । कर्णार्जुनाविवाध्यक्षौ, चित्रीयांच॑क्रतुश्चिरम् ॥ ४०१ ॥ अन्यान्यपि च शस्त्राणि, शस्त्रैर्नन्तौ यथोचितैः । सुचिरं तावरंसातां, शाराञ् शरैरिवाक्षकांः ॥ ४०२ ॥ अथास्त्रैश्चाहुमानीयै - र्निजास्त्राण्यंतरा मुहुः । निःस्वैस्य वांछितानीव, भज्यमानान्यवेक्ष्य सः ॥ ४०३ ॥ चौलुक्यः कोपदुष्प्रेक्षी, गजादुत्प्लुत्य सिंहवत् । विद्युदुत्क्षेपकरणेनारोहद्वैरिकुंजरम् ॥ ४०४ ॥ युग्मम् ॥ आरूढमात्रस्त्रोटित्वा कृपाण्या रज्जुमायताम् ॥ सोऽपातयद् द्विपाद् भूमौ सपल्याणमपि द्विषम् ॥ ४०५ ॥ वीक्षमाणेऽपि तत्सैन्ये, क्रमेणाक्रम्य तस्य हृत् । कृपाणीं कंपयन् पाणौ, चौलुक्यस्तमवोचत ॥ ४०६ ॥ रेरेऽनात्मज्ञ ! वाचाट !, द्यूते हास्यात्त्वया मुहुः । यया निवेदयांचक्रे, गुर्जरा मुंडिता इति ॥ ४०७ ॥ तां जिह्वामनयाऽऽकृष्य, कृपाण्याऽवर्दुवर्त्मना । संगेरं पूरयाम्यद्य, सद्यः स्वभगिनीरितम् ॥ ४०८ ॥ उदीर्येति स शौर्येण, स्फूर्जन् यम इव स्वयम् । तजिह्वाकृष्टये शस्त्रीं, व्यापारयितुमाहतः ॥ ४०९ ॥ त्रिभिर्विशेषकम् । क्रांतश्चौलुक्यनाथेन, सोऽरिष्टस्तथा जनैः । पुरा मुरारिणाऽऽक्रांतो, यथा कंसो नृशंसधीः ॥ ४१० ॥ पश्यंतोऽपि स्वनाथस्य, तां दशां तद्भटा भिया । नाक्रामंति स्म चौलुक्यं, मरणं हि महद्भयम् ॥ ४११ ॥ केसरिक्रमणाक्रांत — मृगवन्मृत्युसंमुखः । चाहु
1
ॐ हस्तिप्रमाणः .. १ चित्रं कुरुतश्चित्रीयत इति चित्रीयाञ्चक्रतुः २ पाशकैः क्रीडां कर्तारः ३ धनरहितस्य ४ क्ष्यः, प्र. ५ क्ष्य. प्र. ६ पादेन ७ जिह्वया, ८ कंधराध्वना ९ प्रतिज्ञां १० ईरितं कचितम् ११ वल्गनू, १२ कृतादरः संजातः १३ क्रमणः पादः.
Page #208
--------------------------------------------------------------------------
________________
सर्ग.४
कुमार
पालच०
॥७९॥
AAORAKASTORY
मानस्तमूचेऽथ, रक्ष रक्ष शरण्य ! माम् ॥ ४१२ ॥ अवस्थया तया वाचा, तया च सपो नृपः। हृदयात्पादमुत्तायें, कथयामास तं प्रति ॥ ४१३ ॥ कृपया त्वं विमुक्तोऽसि, जीवन् परमिदं त्वया । अवटौ रसनाऽऽकृष्टि-चिहं धार्य स्वनीवृति ॥ ४१४ ॥ इयच्चिरं भवद्देशे, शीर्षाच्छादनमबरम् । वामदक्षिणतो जिह्वा-युगास्तेऽतः परं पुनः ॥ ४१५॥ पश्चा-| दपि स्फुरजिह्व, तत्कार्य मन्निदेशतः। यथा भग्नीप्रतिज्ञायाः, पूतिः प्रख्यायते क्षितौ ॥ ४१६ ॥ चतुर्भिः कलापकम् ॥ | तदंगीकृतवंतं तं, चाहुमानं महीपतिः। दारवे पंजरे क्षित्वा, मध्येसैन्यं समानयत् ॥ ४१७ ॥ तदा चौलुक्यसैन्येऽभूञ्चित्तानंदी जयोत्सवः । वादित्रध्वनिमिरि-कर्णकीर्णपृथुव्यथः॥४१८ ॥ तच्चौलुक्यबलं दृष्ट्वा, सामंतास्ते ललजिरे। चकपिरेच किं चित्रं, भयं स्वामिदुहां हृदि ॥४१९॥ परं न गुर्जराधीश-स्ताञ् शीर्षच्छेदि(द)कानपि । उँपालभत तादृक्षा, गंभीरा हि महाधिवत् ॥ ४२०॥ त्रिरात्रं पृतनामध्ये, संस्थाप्य परिधाप्य च । दत्त्वा राज्यं स्वसृपति, तं चौलुक्यो विसटवान् ॥ ४२१॥ सोऽपि स्वस्थानमागत्य, जीवन्मृत इवोच्चकैः। मानम्लानिं वहश्चित्ते, चिंतयांचकृवानिति ॥ ४२२॥ अहो हास्यान्ममायासीत्, कियान् व्यसनवारिधिः। जीविताऽन्वयराज्यानि, यत्र मज्जति लोष्टवत् ॥ ४२३ ॥ यदुच्यते जनहोस्य-मर्धवैरं वृथैव तत् । इदं हि वैरं संपूर्ण-मंते प्राणांतकारणात् ॥ ४२४ ॥ अथ हास्येन किं कृच्छं, पल्यैवैतत्कृतं मम । मन्येऽहमंगना एव, मूलं व्यसनभूरुहः॥४२५॥ अनर्थमूलं संसार-द्वारोद्घाटनकुंचिका(काम्)। कले स्थानं विपत्तीना, निधानं घिङ नितंबिनीम् ॥४२६॥ लंकासमीपे कुरुमंडले च, समुत्कटोद्यद्भटकोटिनाशात् । रामायणंभार
खदेशे. २ सैन्यस्य मध्य इति मध्येसैन्यम् . ३ कर्णस्थापित.. ४ उपालंभत, प्र. ५ परिणामे. ६ भूरुहाम्. प्र.
॥७९॥
Page #209
--------------------------------------------------------------------------
________________
तमप्यभूद् यत् , तत्र ध्रुवं लोलदृगेव हेतुः॥४२७॥ (उपजातिः)राक्षसीभिरिवैताभि-स्तादृशास्ते महाशयाः।रावणाद्याःक्षयं ते नीता, जीवन्मुक्तोऽस्म्यहं वरम् ॥ ४२८ ॥ सप्तभिः कुलकम् ॥ ततः शासनमातन्वं–श्चौलुक्यस्य दिवानिशम् । अर्णोराजोर व्यधाद् राज्यं, विधेः को हि बली खलु ? ॥४२९॥ कृतकृत्योऽथ चौलुक्यो, व्यावृत्य स्ववशे व्यधात् । आक्रम्य मेडतस्थानं, पल्लीकोटं च सैनिकैः ॥४३०॥ चैत्यानि पिंडितानीव, पुण्यान्यनुपदं नृपः । विलोक्य प्रश्नयामास, वाग्भटं निजमंत्रिणम् ॥ ॥ ४३१॥ अस्मद्देशं समासाद्य, मालवेंद्राः स्वकीर्तये । चैत्यानि पातयंत्यात्म-सत्कर्माणीव पापिनः ॥ ४३२ ॥ पितृध्वंस-1 | मिवाधातुं, स्वस्यैतत्कर्म नोचितम् । इह स्फूर्तिमभिव्यक्तुं, किमंत्र क्रियते वद?॥४३३॥ विमृश्य वाग्भटोऽवादीद्, देव! पुण्यौघपुष्टये । तिलपीलनयंत्राणि, सैन्यैः कारय खंडशः ॥ ४३४ ॥ मूर्त्तानि पातकानीव, तानि सर्वाणि सैनिकैः । चूर्णयन्नाप चौलुक्य-चंद्रश्चंद्रावर्ती पुरीम् ॥ ४३५ ॥ तत्र वहिमयं यंत्रं, सज्जयित्वैव पूर्ववत् । दुष्टो विक्रमसिंहोगा। गुर्जराधीशसन्निधिम् ॥ ४३६ ॥ अत्यर्थमर्थनात्तस्य, भुक्त्यर्थ पार्थिवः पुनः । तं क्रूरं ज्ञातवान् विज्ञा, विदंते हि परा-1 शयम् ॥ ४३७ ॥ मल्लैस्तं बंधयित्वा द्राग, वह्नियंत्रविलोकनात् । प्रकाश्य तत्कृतं छद्म, तत्सद्माज्वालयन्नृपः ॥ ४३८॥ उत्तार्याऽगानि सर्वाणि, मल्लेरास्तरणोज्झिते । अनस्यारोप्य च स्वामी, तं सहाचालयत्ततः॥४३९॥ स तथा शकटस्थास्नुः, पर्यटन स्थपुटे पथि । खाट्कारप्रस्फुरेन्मूर्धा, निस्सीमामन्वभूद् व्यथाम् ॥४४०॥ तारपूत्कारतः शंके , सेवकान् सोऽन्वशा-13 दिति । मा कुरुध्वं पतिद्रोह, वीक्ष्येमां दुर्दशां मम ॥ ४४१ ॥ दध्यौ च दुर्धियं धिग् मां, स्वलोकारितोऽप्यलम् ।।
१ आज्ञाम् . २ किमन्यत्. प्र. ३ शकटे. ४ विषमोन्नतप्रदेशे. ५ प्रस्फुटत् , प्र. ६ कविराह-अहमेवं शंके-शंकां करोमि-एवं मन्ये इत्यर्थः.
Page #210
--------------------------------------------------------------------------
________________
सर्ग.४
कुमारपालच.
॥८०॥
40 SEGREPASSOSIALISAS
स्वस्यानर्थ इव स्वामि-ध्वंसो येन विधिसितः॥४४२ ॥ इदं कष्टं प्रभुद्रोह-दुमस्य सुममस्ति मे । अतः परं फलं किं नु, भवितेति न संविदे ॥ ४४३ ॥ इति ध्यायन रुजा ग्लायन् , कात्या म्लायन रुरोद सः । इहापि नारकी पीडां, घनाघोत्थां वहन्निव ॥४४४ ॥ त्रिभिर्विशेषकम् ॥ तथा तं दुःस्थमालोक्य, भटाः केऽपि कृपालवः । नृपं विज्ञाप्य विदधुस्तस्याधस्तात्तृणास्त॒तिम् ॥ ४४५ ॥ अथ सोत्सवमभ्येत्य, पत्तनं गुर्जरप्रभुः । अपूरि त्वत्प्रतिज्ञेति, स्वस्वसारमरञ्जयत् ॥ ॥ ४४६ ॥ कृतकृत्येव देवल्ल–देवी हर्षमयी तदा । स्वबंधुं बंधुराशीर्भि-स्तोषयामास भूरिभिः ॥ ४४७ ॥ प्रहिताऽप्यभिमानेन, प्रेयोधाम जगाम न । तप्यमाना तपः किंतु, सा तस्थौ बंधुसन्निधौ ॥ ४४८ ॥ अथास्थानीस्थितो नाथो, मल्ले: सज्जितविग्रहम् । ऊचे विक्रमसिंह तं, सामंताञ् श्रावयन्निति ॥ ४४९ ॥ वद रे क्रूरकोटीर!, केनाप्तेनासि शिक्षितः । हंतव्या वह्नियंत्रेण, नृपाः सामंतका ने हि ॥४५०॥ अहं चेत्त्वत्कृते तत्र, वह्नियंत्रे जुहोमिरे । पशुवत् सकुटुंबं त्वां, तदा तव भवेत् किमु? ॥ ४५१॥ हक्कयित्वेति चौलुक्यः, स्थापयामास तं रुषा । नरकावासवत्क्लेश-मये कारागृहांतरे ॥४५२॥ तदैव तस्य भ्रातृव्यं, रामदेवसुतं प्रभुः। यशोधवलनामानं, चक्रे चंद्रावतीपतिम् ॥ ४५३ ॥ केल्हणादींश्च सामंतानिग्राह्यान् विनिगृह्य सः । ऐश्वर्यकमलास्वाद, पुष्पर्धय इव व्यधात् ॥ ४५४ ॥ कदाचन सभासीने, श्रीचौलुक्ये समागमत् । भट्टः कोंकणदेशेश-मल्लिकार्जुनभूभुजः॥ ४५५॥ अनेकवाक्पतिश्रीद-पुरुषोत्तमसेविताम् । सभा निभालयन् सोऽभूद्, दिवेऽपि विगतस्पृहः ॥ ४५६ ॥ तदाशीर्वादतुष्टेन, निवेश्याग्रे महीभृता । कस्त्वं ? कस्येति ? पृष्टः सन् , भट्टः
विधातु-कर्तुमिष्टः. २ तीनपापोत्थाम् . ३ विज्ञप्य, प्र. ४ स्तृत-प्र.५न किं,प्र. ६ भानुषपुत्रम् . ७ लक्ष्मीः, पक्षे, कमलमू. ८ अमरः. ९दी.
॥
o
Page #211
--------------------------------------------------------------------------
________________
HISTORIASISUSTUS
|स्पष्टमवोचत ॥ ४५७ ॥ भक्त्वा प्रौढकलानिलापतिवरान् दुर्वारदोर्विक्रमै-रात्मीयान् विरचय्य चानवरतं तान् पालयन् । पौत्रवत् ।धत्ते राजपितामहेति विरुदं यो विश्वविश्वे श्रुतं, सोऽयं राजति मल्लिकार्जुननृपः कोदंडविद्यार्जुनः॥४५८॥(शार्दूल०) देव ! तस्य नरेंद्रस्य, भट्टोऽहं भट्टकीर्तिताम् । विवंद्रीची भवत्कीर्ति-स्फूर्ति श्रुत्वा समागमम् ॥ ४५९ ॥ मल्लिकार्जुनराजस्य, श्रुत्वा तद्विरुदं महत् । भूपः कोपेन जज्वाल, सर्पिस्तर्पितवह्निवत् ॥ ४६० तस्य तद्विरुदं छेत्तुं, भूपे पश्यति । पर्षदम् । व्यधादुदयनामात्य-सूनुराम्रभटोऽञ्जलिम् ॥४६॥ दृष्ट्वा तदंजलिं चित्राऽऽ-क्रांतश्चौलुक्यभूमिभुक् । तमाकार्य रहः प्रीत्या, पप्रच्छाऽञ्जलिकारणम् ॥ ४६२ ॥ बभाणाम्रभटो देव !, त्वया तद्विरुदे श्रुते । सभा न्यभालि कोऽप्यस्ति, सुभटस्तं हिनस्ति यः॥४६॥इमं त्वदाशयं मत्वा, त्वदादेशसहिष्णुना । मया बीटक(वीटिको)मादातुं, रचितस्ते पुरोऽञ्जलिः॥ ॥ ४६४ ॥ स्वाभिप्रायपरिज्ञाना-चौलुक्योऽतिचमत्कृतः। तमस्तावीत्स्वचित्तझं, गुणज्ञं स्तौति को हि न ? ॥ ४६५॥ दत्त्वा तदैव राज्यश्री-चिहं छत्राद्यमद्भुतम् । नृपीचक्रे च तं स्वामी, तुष्टो हि स्वतरूयते ॥ ४६६ ॥ अर्पयित्वा चमूचक्रं, दुर्वारं चक्रिचक्रवत् । मल्लिकार्जुनभंगाय, प्रैषीदाघभटं प्रभुः॥ ४६७ ॥ स्तब्धान भंजन्नतान् रक्षन , सिंधुर्पूर इव दुमान् । कलापिनी नदी तीवा, कोंकणांतिकमाप सः॥४६८ ॥ विकट कटकं तत्र, निवेश्यामभटः सुधीः । निसृष्टं। प्राहिणोद् दूत-मुपश्रीमल्लिकार्जुनम् ॥ ४६९ ॥ स दूतः प्राप्य तद्धाम, विश्राममिव संपदाम् । मल्लिकार्जुनकीर्ति तं,द
१ जित्वा प्राग् निखिलान् , इत्यन्यत्र, २ निरन्तरम् . ३ विश्वविश्वश्रुतम्. प्र. ४ सर्वदिग्गामिनीम्. ५ प्रतिज्ञायै सज्जिततांबूलम् , प्र. ६ कल्पवृक्षायते, ७ उच्छेदाय. ८ नदीपूरः. ९ विशालम्, १० चक्र-सैन्यम्, ११ तमामानम्, १२ मल्लिका (मालति) च. अर्जुन ( श्वेतवर्ण ) च तयोरिव उज्वला कीर्तिर्यस्य तम्.
Page #212
--------------------------------------------------------------------------
________________
सर्ग.४
कुमारपालच०
॥८१॥
SALAMAUGUSHANKARACT
मल्लिकार्जुनमानमत् ॥ ४७० ॥ नेत्राभ्यां सप्रसादाभ्यां, समानंद्य महीभुजा । कस्त्वमित्य युक्तः सन्, दूतोऽनुस्यूतमूचिवान् ॥ ४७१॥ न हस्त्याचं सैन्यं न निशिततमः शस्त्रनिवहो, न लौहः सन्नाहो न गुरु मणिमंत्रौषधबलम्। यदुग्राऽसेस्त्रातुं सहमिति विहायैतदखिलं, तृणं वक्रेष्वेकं दधति रिपवस्त्राणनिपुणम् ॥४७२(शिख०) निर्दहन विद्विषईशान्, यत्प्रतापदवानलः । तन्नारीनेत्रनीरौघैर्यदि निर्वाति कर्हिचित् ॥ ४७३ ॥ गुर्जरेंद्रः स चौलुक्यः, सभायां मागधाननात् । शुश्राव बिरुदं प्रौढं, तव 'राजपितामहम् ॥ ४७४ ॥ कुंजेरारिरिवाब्दस्य, गर्जितं भृशमूर्जितम् । तेत्सोढुमसहिष्णुस्ते, स★ चुकोप कृतांतवत् ॥४७॥ प्रैषि तेन क्षितीशेन, नृपतीकृत्य तत्क्षणम् । कणवत्तव निष्पेष्टुं, श्रीमानायभटोऽधुना ॥४७॥ स भवद्देशसीमांत-मागतः सैन्यसागरः । तुभ्यं हितोपदेशाय, न्यायवान् प्रजिघाय माम् ॥४७७॥ उत्कंठुलोऽसि चेन्न त्वं, यमास्थानीमवेक्षितुम् । तदा स्वं बिरुदं त्यक्त्वा, भज चौलुक्यभूभुजम् ॥ ४७८ ॥ तदादेशं सुरादेश-मिव शीर्षेऽवतं-| सय । दंडं ददस्व च त्यक्त-मत्सरः प्रतिवत्सरम् ॥ ४७९ ॥ नो चेदामभटः सोऽयं, विपक्षक्षोददीक्षितः। वहिरिंधनवद् द्राक् त्वां, सकुलं भस्मयिष्यति ॥४८॥ करोष्येतन्मदुक्तं चेत् , सुचिरं तर्हि जीवसि । अन्यथा नियसे सद्यो, दर्पण देशकंठवत् ॥४८१॥ श्रुत्वा तत्कोंकणेशोऽन्त-चलत्कोपहविर्भुजः । ज्वालामिव वचोमाला-माललाप प्रतापभाक् ॥४८२॥ बिरुदं मे निराकर्तु, शक्रेणापि न शक्यते ।रे कः कुमारपालोऽयं १, रंकोऽस्त्यानभटश्च कः ॥ ४८३ ॥ किं फेरंडेन |फेत्कारै-स्वास्यमानोऽपि केसरी । विमुंचते मृगेंद्रेति, नाम स्वं शौर्यतोऽर्जितम् ? ॥४८४॥ किंच त्वन्नायकोऽयं य-मया
१ पृष्टः सन्, २ सततसंबद्धम्. ३ समर्थम्. ४ सिंहः, ५ बिरुदम्. ६ तुभ्यम्. ७ सैन्येन सागर इव, ८ नियमवान्. ९ रावणवत्, १० शृगालेन, ११ (फूत्कारैः)
Page #213
--------------------------------------------------------------------------
________________
सेवां समीहते । कुकूलानलयोगेन, शीततां तचिकीर्षति ॥ ४८५ ॥ दंडं ग्रहीतुमाप्तोऽस्ति, सोऽयमावभटस्तव । तं दातुमेव संग्राम - मागच्छन्नस्मि पश्य माम् ? ॥ ४८६ ॥ तं दूतमिति संतर्प्य, विसृज्य च तदैव सः । चमूसमूहरोचिष्णुः, प्रतस्थे मल्लिकार्जुनः ॥ ४८७ ॥ तच्चक्रेण समाक्रांता, मेदिनी खेदिनी भृशम् । रजोव्याजेन नंदेव, धनाश्रयमशिश्रियत् ॥ ॥ ४८८ ॥ कियत भूमिमाक्रम्य, स नृपः पुरतो निजात् । निवेश्य कटकं तस्थौ । चौलुक्यानीकसन्निधौ ॥ ४८९ ॥ दूतः सोऽपि समभ्येत्य, श्रीमदाभटाग्रतः । मल्लिकार्जुनवाक्यानि तान्यशेषाण्यचीकथत् ॥ ४९० ॥ प्रातर्द्वे अपि सैन्ये ते, योद्धुमुद्यद्भटोर्मिके । रणाग्रमापतुः प्राच्य - प्रतीच्यावर्णवाविव ॥ ४९१ ॥ प्रौढद्विपवरारूढौ, नानाशस्त्रभयंकरौ । धैर्यसंवर्मितावंत - बहिः सन्नाहधारिणौ ॥ ४९२ ॥ तौ श्रीआम्रभटश्रीम-न्मल्लिकार्जुनभूभुजौ । संजग्माते तदोद्दाम-स्थामानौ शरभाविव ॥ ४९३ ॥ युग्मम् ॥ संपरायोचितां काय - स्फूर्त्तिं वाक्यप्रलंघिनीम् । तौ पश्यंतौ मिथश्चित्ते, चित्रीयामासतुः क्षणम् ॥ ४९४ ॥ भाणाम्रभटो राजन्!, योधयित्वा भटानिमान् । विधीयते कथं व्यर्थ, मर्त्यकीट विकुट्टनम् ॥ ॥ ४९५ ॥ अर्जितं बिरुदं येनं, त्वया 'राजपितामहम्' । ऊर्जस्वि तद्भुजाशौर्य, दिर्हक्षेऽहं तवाधुना ॥४९६ ॥ तदावां कुर्वहे युद्धं, पश्यंत्वेते चमूचराः । विदंतु चोभयोरद्य, माद्यदोर्विक्रमावधिम् ॥ ४९७ ॥ शशंस कौंकणेशोऽथ, साधु साधु महाभट ! | तुष्टोऽस्म्यहं भृशं धैर्या — वैष्टमेन तवामुना ॥ ४९८ ॥ अवश्यं दर्शये तुभ्यमभ्युद्यद्भुजविक्रमम् । परं स्फूर्जन्नसो
१ तुषानलयोगेन २ दीप्तिशीलः ३ गगनम्, ४ नगरात् ५ युद्धाप्रम्, पक्षे उच्चशब्दम्. ६ मृगेन्द्र विशेषौ ७ भुजाशौर्येण ८ द्रष्टुमिच्छामि, ९ धैर्यावलंबनेन, १० चेष्टमानः, ११ भुजविक्रमः,
Page #214
--------------------------------------------------------------------------
________________
सर्ग. ४
कुमार
हंतुं, त्रपते त्वां वणिक्सुतम् ॥ ४९९ ॥ क्षोणीक्षोदक्षमक्षोणि-भृत्पक्षक्षपणोल्वणः । दंभोलिः किं ? ससंरंभो, भवेत्पेष्टुं पालच० हर्षत्कणम् ॥ ५००॥ पुनरावभटः प्रोचे, नैकांतः कांत एष ते । यत्तरेस्वी स्फुरत्क्षत्र-पुत्रो नैव वणिक्सुतः ॥५०१॥
क्षत्रियोऽपि भवेत्कोऽपि, तृणभंगेऽपि न क्षमः । वणिक् कोऽप्यद्रिभेदेऽपि, वज्रवत् प्रौढविक्रमः॥ ५०२॥ क्षत्रता वा
वणिक्ता वा, ज्ञायते नैव वाक्यतः। यावन्न जन्यते जन्यं, शौर्यस्वर्णकषोपलम् ॥५०३॥ क्लीबस्येवोरुशौर्येण, तस्य धार्थेन ६ तेन सः। कौंकणेशोऽतिविस्मेरः, पुनराचष्ट तं प्रति ॥ ५०४ ॥ चिकीर्षसि सरीसृपेश्वरशिरःशिखाकर्षणं, जिहीर्षसि ४
गजांतकृतिकृ (वृ) तवक्रदंष्ट्रांकुरम् । दिधीर्षसि समीरणप्रबलकीलदावानलं, जिगीषसि यदद्य मां बलनिधि वणिकजापुत्र ! रे ॥ ५०५ ॥ ( पृथ्वी ) कोपादाम्रभटोऽवोचद्, वाचालस्येव ते वृथा । इयं वाक्छ्रता शूर-शक्तिश्चेच्छस्त्र
माश्रय ॥ ५०६ ॥ यद्दीपः शलभे, हलं क्षितितले, दावानलः कानने, तिग्मांशुस्तिमिरे, मरुज्जलधरे, पशुश्च कारस्करे । Mकामायुर्भुजगे, 'हरिः करिवरे, ग्रीष्मतुरंभश्चये, वज्रं क्षोणिधरे, करोति तदहं कुर्वे वणिग्भूस्त्वयि ॥ ५०७ ॥ (शार्दूल.)
उदित्वेति शरव्यूह, मुंचत्याम्रभटे रुषा । प्रतिचिक्षेप तं" बाणै-लीलया मल्लिकार्जुनः ॥ ५०८ ॥ यदृच्छया प्रसपंतः, खेतले भूतलेऽपि च । कंकपत्रास्तयोश्चक्रुः, पत्रितोचितमात्मनः ॥ ५०९॥ध्रुवं युयुधिरे तद्वत्, तद्विमुक्ताः शरा अपि । परस्परेण यत् खंडी-कृतास्ते न्यपतन रणे ॥५१०॥ सांद्रयाऽप्यन्दवृष्ट्या श्रीः, शूरस्यैकस्य नश्यति । नष्टा
१ सोत्साहः, २ शिलालवम्. ३ निर्णयः, ४ शोभनः, ५ शूरः, ६ प्रागल्भ्येन-उद्धतत्वेन-निःशंकत्वेन, ७ आश्चर्यान्वितः, ८ शेषनाग०, ९ जेतुमिच्छसि १० शूरस्य-सिंहस्य शक्तिरिव शक्तिर्यस्य स शूरशक्तिः, ११ किंपाकवृक्षे, १२ गरुडः, १३ सिंह; १४ प्रतिचिक्षेपि, प्र, १५ शरव्यूहम् , १६ बाणाः, १७ पक्षितोचितम् .
Page #215
--------------------------------------------------------------------------
________________
तद्वाणवृष्ट्या सा, शूराणां भूयसामपि ॥ ५११॥ कृतहस्ततयोद्दाम-लघुहस्ततयाऽपि च । रिपुराम्रभर्ट मेने, द्रोणमेवापरं करणे ॥५१२॥ स्वधानुष्कतया वीरं-मन्यानपि मुदं नयन् । वणिग्जातेस्तदा क्लैब्य-दोषमायभटोहरत् ॥५१३॥
शतशः स शरान मुंचन, कौंकणेशश्च खंडयन् । न मनागपि तौ श्रांती, वज्रसंहननाविव ॥५१४ ॥ शस्त्राणि प्रतिशस्त्रैस्तै-रेवं चूर्णयतोस्तयोः । जेन्यमत्यूजितं जज्ञे, देवदानवयोरिव ॥५१५॥ स्वकुंजरादथोत्प्लुत्य, वनौका इव पादपम् (पात् )। लीलयाऽऽनभटः शत्रु-द्विपमारुक्षदक्षतः ॥ ५१६ ॥ पूर्व प्रहर मामिष्ट-दैवतं वा स्मराधुना। वणिक्सुतोऽपि त्वामेष, क्षात्रोत्तंसं निहन्मि रे ॥५१७॥ ब्रुवन्निति स खड्ड्रेन, मस्तकं कोंकणेशितुः । निल्यापातयद्भूमौ, दंडेन फलवत्तरोः॥५१८ ॥ युग्मम् ॥ अंहिते निहते तस्मिन्, व्यधुर्जयजयारवम् । हर्षेणाघभटोत्तंसं, स्तुवाना इव |सैनिकाः ॥ ५१९ ॥ निर्नायकतया दीना, इव शत्रुचमूचराः । तमेवाघभटं भेजु-स्तेषां ह्येतत्किलोचितम् ॥ ५२०॥
मल्लिकार्जुनभूजाने-मूर्धा सार्ध महर्द्धिकम् । कोशसर्वस्वमादाय, तामुद्दामा चमूमपि ॥ ५२१॥ श्रीचौलुक्यप्रभोराज्ञां, | तत्र देशे निवेश्य च । सहसाऽऽयभटस्तस्मात् , प्राप्तः स्वस्वामिसन्निधिम् ॥५२२॥ युग्मम् ॥ अनेकाऽमात्यसामंता-ध्यक्षं चौलुक्यभूभुजः। मल्लिकार्जुनशीर्षाजे-नाभ्यर्च्य चरणद्वयम् ॥ ५२३ ॥ शाटी भंगारकोव्याख्यां, पटं माणिक्यनामकम् ।
१ कृतो-ऽभ्यस्तो हस्तो-बाणादिनिक्षेपलाघव [शैध्य ] रूपा शिक्षा येन स कृतहस्तः-कृतपुंखः-सुशिक्षितशरमोक्षयोधादिस्तस्य भावस्तत्ता तया. तथा उद्दामश्च-उत्कटः लघुहस्तक्ष-लघु:-क्षिप्रकारी हस्तो यस्य स लघुहस्तः-शीघ्रवेधी, तयोर्भावस्तत्ता तया च. २ द्रोणाचार्यम्, ३ खधनुर्धरतया. ४ सुचंदयन् , प्र. ५ युद्धम्, प्र. ६ वानरः, ७ शत्री, ८ मारिते.
Page #216
--------------------------------------------------------------------------
________________
कुमार
सर्ग. ४
पालच०
॥८३॥
AAAAACANC
हारं पापक्षयं योग-सिद्धिं शुक्किं विषापहाम् ॥५२४॥ हैमान् द्वात्रिंशतं कुंभान्, मनु (१४)भारान् प्रमाणतः। षण्मूटकानि मुक्कानां, स्वर्णकोटीश्चतुर्दश ॥५२५॥ विशं शतं (१२०) सुपात्राणि, चतुर्दतं च दंतिनम् । उपायनीचकाराम-भटः कोश निजद्विषः॥ ५२६ ॥ चतुर्भिः कलापकम् ॥ वीक्ष्य तत्प्राभृतं तस्य, चौलुक्यो मनसाऽमृशत् । पार्श्वरत्नाकरानेक-लक्ष्मीलुंटाकतामरौ ॥ ५२७ ॥ स्फूर्तिमाम्रभटीयां तां, पश्यतोऽपत्रपिष्णवः । अधो विविक्षयेवाद्य-सामंता ददृशुः क्षितिम् ॥ ॥ ५२८ ॥ प्रीतस्तेनावदातेन, तदैवानभटे प्रभुः । विद्विषो बिरुदं “राज-पितामह' इति व्यधात् ॥ ५२९ ॥ तेनैव बिरुदेनोच्चैः, स्तूयमानः स मागधैः । दारियं द्रावयन् कल्प-द्रुमवत्स्वं पेदं ययौ ।। ५३० ॥ एवं विधाय वसुधाजयमा| त्मधाम्ना, जंबालवद् रिपुकुलं सकलं विशोष्य । ग्रीष्मोहिमांशुरिव मांसलितप्रतापो, राज्यं चकार सुचिरं स कुमारपाल: ॥५३१ ॥ (वसंततिलका) चतुर्णा सर्गाणां मीलने ग्रंथाग्रम् २४०८ - इति कृष्णषीयश्रीजयसिंहसूरिविरचिते परमाईतश्रीकुमारपालभूपालचरित्रे
महाकाव्ये दिग्विजयवर्णनो नाम चतुर्थः सर्गः॥ १ विंशतितुलापरिमाणमेको भारो-ऽष्टसहनतोलकपरिमाणमेको भारः. २ विंशतिरधिका यस्मिन् तद् विंशं , "शदन्तविंशतेश्व" ५। २।४६ ॥ इति ड.. ३ 'श्वेतं | सेदुकनामानं, दत्त्वा नव्यं नवग्रह'मित्यन्यत्र. ४ पराक्रमम् . ५ खभावेन सत्रपाः-लज्जाशीलाः. ६ वेष्टुं-प्रवेशं कर्तुमिच्छा विविक्षा तया विविक्षया.. शुद्धन(चरितेन) • कोटिद्रव्यं सौवर्णकलशत्रयं चतुर्विशतिजाल्यतुरंगाध (पारितोषिके दत्तवान् राजा) तेन च सौवर्णकलशत्रयं विहाय खगृहादाक् सर्व भट्टेभ्यः प्रदत्तम्, [प्रबंधे.] ९ गृहम्. १० तेजसा-प्रभावेण. ११ पंकवत्. १२ प्रीष्मसंबंधिसूर्य इव पुष्टप्रतापः.
॥८३॥
Page #217
--------------------------------------------------------------------------
________________
॥ अथ पंचमः सर्गः॥ अथांगीकृतभंगार-रंगद्युतिभरोऽभजत् । चौलुक्यः प्रातरास्थानी, सुधर्मामिव वासवः ॥ १॥ पौरुषोन्नतमध्यास्त, तन्मध्ये हैममासनम् । सुवर्णाचलभंगाग्रं, विहंगांधिपतिर्यथा ॥२॥ शुशुभे नृपतेर्मूर्ध्नि, श्वेतमातपवारणम् । साक्षादिबमिव स्वोरु-यशोराशिसितधुतेः ॥३॥ चामरद्वितयं तस्य, वीज्यतेऽस्माभितः सितम् । स्वकीर्तिजितसेवार्थ-प्राप्तगंगौघुसन्निभम् ॥४॥ स्मेरयंतः स्वकोटीर-किरणैस्तत्पदांबुजम् । मंत्रिसामंतसेनानी-मुख्याः सेवाभृतोऽभवन् ॥ ५॥ कविव्यासादिभिर्माहा-राजिकै रपरैरपि । सा सभा शोभयामास, सरसीव सरोरुहैः॥६॥ तदा श्रीसोमनाथीया, देवपत्तनवासिनः। अर्चकाः केचिदभ्येत्य, तं राजेंद्र व्यजिज्ञपन् ॥७॥प्रासादः सोमनाथस्य, जीर्णकाष्ठत्वतोऽधुना । पतन्नस्त्यब्धिकल्लोलैः, खातमूलस्तटदुवत् ॥ ८॥ भवात् स्वोद्धारवद्देव ! तदुद्धारः क्रियेत चेत् । तदा कोषे वसेत्पुण्यं, लोके कीर्तिश्च शाश्वती ॥९॥ तदुक्तमुररीकृत्य, प्रेष्य पंचकुलं निजम् । चैत्यमाश्मं नृपस्तत्र, सूत्रधारैरमंडयत् ॥ १०॥ पृष्टवांश्च समीपस्थं, हेमाचार्य महाग्रहात् । चैत्यमेतत्कथं शीघ्र, भवेद्वांछितवन्मम ॥११॥ सूरिविमृश्य तं स्माह, किंचिदादीयतां व्रतम् । पुण्यर्द्धिवर्धते तेन, तया चैतत् प्रसिध्यति ॥१२॥ यावन्निष्पद्यते तत्ते, तावद्ब्रह्मव्रतं भज । इदं चेद् दुर्धरं वेत्सि, तर्हि मांस निषेधय ॥१३॥ न विना जीवघातेन, मांसं भवति कुत्रचित् । जीवघातस्तु न श्रेयां-स्तस्मान् मांसं परित्यजेत् ॥१४॥ सति
१ प्रसरत् . २ उपविष्टः, ३ गरुडः, ४ गांगौघः, प्र. ५ महाराजस्य इमे. महाराजिकास्तैः. ६ कल्लोलो-त्खात०, प्र. ७ संसारात , भवान् . प्र. ८ आत्मोद्धारवत् ..
Page #218
--------------------------------------------------------------------------
________________
कुमारपालच.
सर्ग.५
॥८४॥
भोज्येऽद्भुतेऽन्यस्मिन् , मांसं कोऽश्नाति निष्णधी विषं समीहते को हि, पीयूषे सविधस्थिते ॥१५॥ भारते शांतिपर्वादौ, श्रूयते मांसवर्जनात् । नभोगाद्यैर्नृपतिमि-धारासाद्यत भूरिभिः॥१६॥ महाभारतवत्तीनि, भीष्मप्रोक्तान्यनेकशः। मांसवर्जनवाक्यानि, वर्तते देव ! तद्यथा ॥ १७॥न भक्षयति यो मांसं, न हन्यान्न च घातयेत् । स मित्रं सर्वभूतानां, मनुः स्वायंभुवोऽब्रवीत् ॥ १८॥ धनेन क्रायको हंति, झुपभोगेन खादकः। घातको वधबंधाभ्या-मित्येष त्रिविधो वधः॥ ॥ १९ ॥ ऑहर्ता चानुमंता च, विशस्ता क्रयविक्रयी । संस्कर्ता चोपभोक्ता च, खादकाः सर्व एव ते ॥२०॥ हिरण्यदानगोदान-भूमिरत्नादिदानतः । मांसस्याभक्षणे धर्मो, विशिष्टः स्यादिति श्रुतिः॥ २१॥ चतुरो वार्षिकानं मासान्,8 यो मांसं परिवर्जयेत् । चत्वारि भंद्राण्यानोति, "कीर्तिमायुयशो बलम् ॥२२॥ यथा मांसं तथा मद्यं, वैकल्याधुग्रदूषणम् । ज्ञात्वा "ते वर्जयेत् प्राज्ञः, प्रेयःश्रेयःसमीहया ॥२३॥ तस्मात् स्वेप्सितसिद्ध्यर्थ, मद्यं मांसं च वर्जय । इत्युक्तो गुरुणा भूप-स्तदभिग्रहमग्रहीत् ॥ २४ ॥ नृपोऽसौ वीरकोटीरः, स्वर्णकोटीरनेकशः । कर्मस्थायेऽनिशं प्रैषीत्, स्वारब्धे को हि नोद्यमी? ॥२५॥ अब्दद्वयेन तच्चैत्य-निष्पत्त्या नंदितो नृपः। नियमं तं परित्यक्तुं, सूरींद्रमनुयुक्तवान् ॥२६॥ स जगाद यदप्यासी-चैत्यं पूर्ण तथापि ते । नियमः शिवयात्रीयां, मोक्तुं युक्तस्तदग्रतः॥ २७ ॥ तदंगीकृत्य चौलुक्यो, १ समीपस्थिते. २ स्वर्गः. ३ खयंभुवोऽपत्यं पुमान् खायंभुवः-मनुः. ४ आयोजकः, ५ हिंसाकारकः. ६ उपभोगकारकः, ७ विशस्ता-शब्दे शब्दकल्पद्रुमेऽयं
पो श्लोकोऽस्ति. हिरण्य-सुवर्णम्. ९ वर्षासु भवा वार्षिकास्तान यावत्, १० श्रेष्ठानि. ११ एकदिग्गामिनी-कीर्सि.१२ सर्वदिग्गामुक-यशः. १३ मांसमवे. १४ इष्टकल्याणेच्छया. १५ प्रतिज्ञाम्. १६ कर्मस्थाने इत्यर्थः, कर्मस्थाया,प्र, तत्र कर्मणि तिष्ठतीति कर्मस्थः,-कार्यवाहकस्तस्मै, *वर्षद्वयेन. १७ पृष्टवान्.१८ कृतायां सल्याम, इतिशेषः,
ESSAISOCRUSA
॥४॥
Page #219
--------------------------------------------------------------------------
________________
LCANCERESCROCHERSCIENCRE
हेमाचार्ये समुत्थिते । सभायां तद्गुणग्राम, तुष्टस्तुष्टाव भक्तवत् ॥ २८॥ तां निशम्य स्तुति सूरे-रसहिष्णुः पुरोहितः। जज्वालेवाऽऽशिखं युक्त-मेतत्खलजनस्य हि ॥२९॥ ऊचे च देव ! त्वच्चित्तं, वशीकर्तुमयं शठः । त्वदिष्टं वक्ति धर्म ते, द्विष्टवन्नैव रज्यति ॥ ३०॥ न यद्येवं तदेषोऽपि, श्रीसोमेशं नमस्यितुम् । देवेन सममायातु, परमुक्तोऽपि नेष्यति ॥३१॥ तन्निवेश्य हृदि प्रात-हेमाचार्य समागतम् । श्रीसोमनाथयात्रार्थ, प्रार्थयामास पार्थिवः ॥ ३२॥ तत्कथंचित् परिज्ञाय, दुरात्मत्वं पुरोधसः । चौलुक्यमाहतीकर्तु, कथयामास सूरिराट् ॥३३॥ बुभुक्षितोऽपि किं राजन् !, भोजनाय निमंत्र्यते ? । महात्माऽपि किमत्यर्थ, यात्रार्थ क्वचिदर्थ्यते ? ॥ ३४ ॥ इदमेवास्ति मे कृत्यं, यत्तीर्थपरिशीलनम् । क्षणोऽपि व्यथते मां तद्, विना द्यूतंगतार्थवत् ॥३५॥ सूरिराजे वदत्येवं, भूभृताऽभिमुखेक्षितः । मषीलिप्त इव श्यामाऽऽ-ननोऽजनि पुरोहितः ॥३६॥ भूभुगू जगाद यद्येवं, तद् गृहाण सुखासनम् । सूरिणोक्तं ममानेन, किं कार्य पादचारिणः ॥३७॥ गृहस्थोऽपि विविक्तात्मा, विना यानेन गच्छति । तीर्थयात्रां यतिः किं तु, यः शश्वत्पादचारकः ॥ ३८ ॥ आपृच्छय तदिदानी स्वार स्तोकस्तोकप्रयाणकृत् । नत्वा शत्रुजयं तेऽहं, संगंस्ये देवपत्तने ॥ ३९॥ ततः पृष्टा महीनाथं, हेमाचार्यस्तदैव सः। प्रतस्थ तीर्थयात्रार्थ, संतो ह्यवितथोक्तयः॥४०॥ स्वयं कुमारपालोऽपि, यात्रार्थ प्रस्थितस्तदा । विस्मापयन् जनं प्रौढ-संपत्याला चक्रवर्तिवत ॥४१॥ दिनैः कतिपयैर्देव-पत्तनं समुपेत्य तत् । बहींव वारिवाहस्य, सुरेरागममैहंत ॥ ४२ ॥ युग्ममा
१ 'इव' अत्रोत्प्रेक्षायाम् . २ धर्मे ते, प्र. ३ इष् गतौ दिवादिः लट्, नै, प्र. ४ तीर्थपरिशीलनं विना. ५ छूते नष्टधनवत्. ६ पवित्रात्मा-विवेकी. ७ किंपुनरि त्यर्थः. ८ इच्छति स्म.
कु.पा.च.१५
Page #220
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ ८५ ॥
यावत्प्रतिष्ठते भूपः, सोमनाथनमचिकीः । तावत् सूरिः समागत्य, संजग्मे स्निग्धबंधुवत् ॥ ४३ ॥ दर्शने हेमसूरींदो - चौलुक्यानंदवारिधिः । उद्वेतां यदाद, तत्किं नौचित्यमंचति ? ॥ ४४ ॥ स्मित्वोवाच नृपो वाचं, वाचंयमशिरोमणे ! । परिणेत्रेव वेलेयं भवता साधु साधिता ॥ ४५ ॥ अतिप्रीत्या सहादाय, तमाचार्य महीपतिः । सोमनाथं नमस्कर्तु, महेन महताऽचलत् ॥ ४६ ॥ पारेवाग्वर्तिचारुत्वं तच्चैत्यं स्वेन कारितम् । दृष्ट्वा विमानवद् भूमान् हर्षेण न ममौ हृदि ॥ ४७॥ उन्मीलत्पुलकांकुर - पक्ष्मलीकृतविग्रहः । महेश्वरं नमश्चक्रे, चौलुक्यो विनयांचितः ॥ ४८ ॥ जैना जिनं विना नान्यं, नमंतीति जनोक्तिविद् । नृपोऽवोचत् प्रभो ! युक्तं, यदि तद् वंद्यतां शिवः ॥ ४९ ॥ राजन् ! वाच्यं किमत्रायं, श्रमः सर्वोऽपि तत्कृते । हेमसूरिर्निगद्येति, तारस्वरमदोऽवदत् ॥ ५० ॥ भवबीजांकुरजनना, रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा, महेश्वरो वा नमस्तस्मै ॥ ५१ ॥ (आर्या) यत्र तत्र समये यथा तथा, योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद्भवा-नेक एव भगवन्नमोऽस्तु ते ॥५२॥ (रथोद्धता) इत्यादिस्तुतिभिर्हेम - सूरिस्तं शंकरं स्तुवन् । श्रीवीतरागमेवाऽऽत्म| देवमस्तुत वस्तुतः ॥ ५३ ॥ विज्ञाय स्तुतिकुल्यां तां परमात्माब्धिगामिनीम् । निर्विरोधतया सूरे-श्चमच्च क्रेऽवनीधवः ॥५४॥ ततो यात्रोचितं कृत्यं, सर्वमासूत्रय भूपतिः । देवगर्भगृहं प्राप्तः, समं श्रीहेमसूरिणा ॥ ५५ ॥ जगाद च प्रभो ! देवो, महादेवसमोऽस्ति न । महर्षिर्न भवतुल्य - स्तत्त्वार्थी च न मादृशः ॥ ५६ ॥ तीर्थेऽस्मिन् रंगदुत्तुंग - प्राच्य पुण्यवशादसौ । त्रिवेणी संगम इव, त्रिकयोगोऽद्य जातवान् ॥ ५७ ॥ मिथो विरुद्धसिद्धांत-भ्रान्तवाग्भरकर्करैः । तिरोऽधीयंत सद्धर्म -
१ वाचः पारं पारेवाक् पारेवागू वर्तते इति पारेवाग्बर्ति पारेवाग्वर्ति चारुत्वं यस्य तत् २ विनययुक्तः ३ नदीम्. ४ उद्गच्छत् प्रादुर्भवदित्यर्थः,
सर्ग. ५
॥ ८५ ॥
Page #221
--------------------------------------------------------------------------
________________
S
यान-शस्तस्वस्तटिना
, वस्तुनोऽनवलायगोष्ठीभि-विरु
ASHARIPOSASAUCE
देवतत्त्वानि रत्नवत् ॥५८॥ तद् विमृश्योच्यतामस्मि-स्तीर्थे निद्वेषभावतः। को धर्मो? दैवतं किं? च, मोक्षलक्ष्मीप्रसाधकम् ॥ ५९॥ यथैकतानतद्ध्यान-शस्तस्वस्तटिनीजलैः । प्रक्षालयेऽहमात्मानं, मलिनीभूतवस्त्रवत् ॥ ६० ॥ गुरौ त्वादृशि |लब्धेऽपि, यदि तत्त्वस्य संशयः । उदितेऽपि तदा सूर्ये, वस्तुनोऽनवलोकनम् ॥ ६१॥ कथयित्वेति तूष्णीके, चौलुक्ये 8 सूरिराट् ततः। ध्यात्वा हृदंतरे किंचि-दवोचदुचितं वचः॥ १२॥ अलं शास्त्रीयगोष्ठीभि-विरुद्धाभिः परस्परम् । अहं प्रत्यक्षयाम्येन-मेव देवं पुरस्तव ॥ ६३ ॥ धर्म वा दैवतं वापि, यदयं वक्ति शंकरः। तदुपास्तिस्त्वयाऽऽधेयाँ, मृषा न खलु देवगीः॥ ६४॥ अहं मंत्रं स्मरन्नस्मि, स्मरारिव्यक्तिहेतवे । उत्क्षेप्तव्यस्त्वया सारो, घनसारस्तदग्रतः॥६५॥ चौलुक्यं शिक्षयित्वेत्थं, मंत्रस्नानं विधाय च । सूरिरुरिव स्थान, मंत्रं ध्यातुं प्रचक्रमे ॥६६॥ अहो शिवोऽपि किं साक्षात्, स्यादिति स्मेरेविस्मयः। गुरूपदिष्टमातन्वन् , नृपस्तस्य पुरः स्थितः॥ ६७॥ क्षणोद्धे चंडमार्तड-बिंबलक्ष्मीविडंबकः। प्रादुरासीन्महांस्तेजो-राशिरीश्वरलिंगतः॥६८॥ तन्मध्यादभवद् व्यक्को, भास्वरश्रीमहेश्वरः । गंगाजटाशशिकलाहक्त्रयाद्युपलक्षितः॥ ६९॥ ध्यानं मुक्त्वाऽवदत्सूरि-नृप ! पश्य पुरः शिवम् । एनं प्रसाद्य पृष्ट्वा च, सम्यक् तत्त्वं विदांकुरु ॥ ७० ॥ सद्यस्तदर्शनोद्भूत-प्रभूतप्रमदो नृपः। अष्टांगस्पृष्टभूपृष्ठ-स्तं नत्वा प्रांजलिर्जगौ ॥ ७१॥ सर्वदाऽपि दुरालोक-स्त्वमध्यात्मस्पृशामपि । किं पुनर्मादृशां चर्म-लोचनानां? जगत्पते ! ॥७२॥ परमस्य गुरोर्ध्याना-दवन्योऽसि | | १ गंगाजलैः. २ प्रक्षालयामि खात्मानम्, प्र.३ न बिलोकनम् , प्र. ४ कर्तव्या. ५ शंकरप्रकटनाय. ६ श्रेष्ठः, ७ कर्पूरः (धूपः). ८ अतिस्थिरः. ९ विकसिताश्चर्यः, 11. अनुसर्ता-तिरस्कारकता वा. ११ शिवः, प्र. १२ अध्वानमलं गच्छतीत्यध्वन्यः-पथिकः नेत्रविषयं गतोऽसीत्यर्थः,
-CORESCORRECRACHECK
Page #222
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ ८६ ॥
दृशोर्मम । सिद्धांजनस्य साहाय्या - दिव लोकोत्तरो निधिः ॥ ७३ ॥ दरिद्र इव कल्पद्रु, तृषातुर इवामृतम् । दिशा दृष्ट्याऽद्य दृष्ट्वा त्वा-मात्माऽयं नृत्यतीव मे ॥ ७४ ॥ उक्त्वेति गूर्जरेशेन पृष्टः प्रष्टव्यमीश्वरः । उवाच ध्वनिना चैत्यमध्यं निध्वनियन्निव ॥ ७५ ॥ त्वं धन्यस्त्वं विवेकज्ञ - वौलुक्यनृप ! संप्रति । यस्येदृग्धर्मजिज्ञासा, मुमुक्षोरिव वल्गति ॥ ७६ ॥ नो चेद् राज्यं समासाद्य, माद्यंति प्रायशो नृपाः । स्वैवैरिण इव प्राप्त - मपि धर्मं न कुर्वते ॥ ७७ ॥ नाचरंति सदाचारं न शृण्वंति हितं वचः । न पश्यंति पुरः पूज्यं, क्षीबी इव महीधवाः ॥ ७८ ॥ सुप्ता इव गरग्रस्ता, इवाचारच्युता इव । शृण्वंत्यपि नृपा नैव, धर्म कुर्वति तत्कुतः १ ॥ ७९ ॥ अवश्यं यस्य भद्रौघ-भैव्यो भावी महोदयः । स एव सेवते धर्म, धनार्थी श्रीपतिं यथा ॥ ८० ॥ भुक्तिमुक्तिप्रदं धर्म, निर्मायं चेत् त्वमिच्छसि ? । सेवस्वैनं ततः सूरिं, परब्रह्मेव मूर्त्तिमत् ॥ ८१ ॥ सर्वदेवावतारोऽय -- मजिह्मब्रह्म मंदिरम् । आबाल्यादपि चारित्र - पात्रं वाङ्मयपारदृक् ॥ ८२ ॥ करामलकवत् सम्यग् ज्ञानेज्ञातमनःस्थितिः । ऋषिर्ब्रह्मेवं तत्त्वज्ञो, जयति क्ष्मातलेऽधुना ॥ ८३ ॥ युग्मम् । नृप ! त्वमेतदादिष्टं तन्त्रन् स्वष्टमवाप्स्यसि । इत्यादिश्य तिरोऽधत्त, धूर्जटिः स्वप्नदृष्टवत् ॥ ८४ ॥ विस्मेरः सूरिमूचेऽथ, चालुक्यो भगवन् ! ध्रुवम् । त्वमेवासीश्वरो यस्य, वश्यः सोऽपि महेश्वरः ॥८५॥ पचेलिमानि पुण्यानि, मयैव प्राग् वितेनिरे । त्वाहशस्तत्त्वदर्शी मे, यस्य जागर्त्ययं गुरुः ॥ ८६ ॥ अतः प्रभृति मे देवो, गुरुस्तातः सवित्र्यैपि । सहोदरो वयस्यश्च त्वमे
१ लोक उत्तम. २ भाग्येन. ३ 'इव' उत्प्रेक्षायाम् ४ प्रतिध्वनियुक्तं कुर्वन्. ५ आत्मवैरिणः ६ मत्ताः * भद्राणामोघस्तेन भव्यः - श्रेष्ठः, ७ परब्रह्मैव प्र. ८ निष्कपटब्रह्मचारी ९ ज्ञानेन ज्ञाता मनःस्थितिः [ अन्येषां] येन सः १० ब्रह्मैव, प्र. ११ स्वयंपक्कानि पक्वशील. नि वा. १२ माता.
सर्ग. ५
॥ ८६ ॥
Page #223
--------------------------------------------------------------------------
________________
|वैकोऽसि नापरः ॥ ८७ ॥ इहलोकः पुराऽदायि, मह्यं जीवितदानतः । शुद्धधर्मोपदेशेन, परलोकोऽद्य दीयताम् ॥ ८८ ॥ गुरुर्जगाद यद्येवं, तर्हि संप्रति पापवत् । मुंच मांसाद्यभक्ष्यं त्वं, धर्म संबोधये ततः ॥ ८९ ॥ आमे (मि) त्युदीर्य चौलुक्यस्तदैव मुदिताशयः । पुण्यऽहमिव पुण्याप्ते — रभक्ष्यनियमं व्यधात् ॥ ९० ॥ प्रस्थाय नृपतिस्तस्मा – ঊमाचार्यसमन्वितः । पताकापीतगगनं, पत्तनं समुपेयिवान् ॥ ९१ ॥ ततः सोमेश्वरीं वाणीं, स्मरन् सूक्तिमिवानिशम् । सूरेस्तस्य पदांभोजं, भजति स्म स हंसवत् ॥ ९२ ॥ कर्हिचिद्वसतिं गत्वा सदस्याकार्य कर्हिचित् । सूरिवक्रांबुजाद्धर्म - रसं सोऽपाद् द्विरेफैवत् ॥ ९३ ॥ सूरेः पीयूषदेशीय - देशनारसपानतः । नश्यति स्म शनैस्तस्य, मिथ्यात्वं विषवेगवत् ॥ ९४ ॥ क्रमाच्चौलक्यभूपालः, स्वधर्मं रचयन्नपि । नैवश्रावकवत् किंचि -ज्जैने धर्मे दधौ मनः ॥ ९५ ॥ इतश्चाभूद् भृगुक्षेत्रे, पिनकीव महांव्रती । भगवान् संज्ञया देव- बोधिः शोधितमानसः ॥ ९६ ॥ स स्नातुं पर्वणि क्वाऽपि, जगाम त्रिदशापगाँम् । कलावान् | भगवांस्तत्र, दीपकोऽपि तदाऽऽगमत् ॥ ९७ ॥ दीपकः कथयामास, तीर्थे तारतरस्वरः । सारस्वतं सुवर्ण च मत्तो गृह्णीत भो जनाः ! ॥ ९८ ॥ स्वर्णमाकर्ण्य तत्तूर्ण, जना जगृहिरे घनाः । सारस्वतं तु नैकोऽपि, विश्वं हि कमलास्पृहम् ॥ ९९ ॥ मन्ये वर्णमयी वाणी, श्रीः सुवर्णमयी ततः । वर्णहीनां विहायैवाss - दत्ते वर्णाधिकां जनः ॥ १०० ॥ अथायुरंतं विज्ञाय, मुमुक्षुर्मानुषीं तनुम् । दीपको ध्यातवान् कस्मै, कलाद्वयमिदं ददे ॥ १०१ ॥ सारः सारस्वतो मंत्रः, स्वर्णसिद्धिश्च निश्चला । | पात्राभावान्मया सार्ध, नूनमेतौ प्रयास्यतः ॥ १०२ ॥ विज्ञाय देववोधिस्तद् दीपकं पर्युपास्य च । सारवत् सविधिं सार -
१ पुण्यदिन मित्र . २ सुन्दरवचनमिव. ३ भृङ्गवत्. * नवीन ० ४ शंकर इव. ५ सातिशयव्रती. ६ संन्यासी ७ गंगाम्. ८ वचनम् ९ वृत्तान्तम्,
Page #224
--------------------------------------------------------------------------
________________
सर्ग.५
कुमार
स्वतमंत्रं ततो ललौ ॥ १०३ ॥ देवबोधिस्ततः प्राप्य, भृगुकच्छमतुच्छधीः । प्रविश्य नर्मदानीरे, मंत्रं ध्यातुं प्रचक्रमे पालच० ॥१०४ ॥ एकतानमनस्त्वेन, स ध्यायन् वागधीश्वरीम् । स्थिरः स्थाणुरिवाज्ञासी-न्न किंचित् क्षुत्तृषादिकम् ॥ १०५॥
लक्षजापेऽपि वाग्देवी-मप्रसन्नां विलोकयन् । भूयो भूयोऽभियोगेन, पंचलक्षी स जप्तवान् ॥१०६॥ तथापि देव्यतोषेण, ॥८७॥
देवबोधिरतिक्रुधा । पुष्पमालामिवाःप्सी-दक्षमालां नभस्तले ॥१०७॥ स्तंभितामिव तां व्योम्नि, तारामालामिव स्थिराम् । दृष्ट्वाऽतिविस्मयाविष्टो, भगवान् ध्यातवानदः॥ १०८ ॥ मंत्रः सारस्वतोऽयं चे-दसत्यः स्यात्तदा कथम् ? । पक्षिणीवाक्षमालेयं, निरालंबाऽम्बरे स्फुरेत् ॥ १०९॥ परं ममैव दुर्दैवं', यदयं न फलेग्रेहिः । अमुष्मिन् प्रतिकूले हि, सकलं निष्फलं यतः॥ ११०॥ वागुवाच ततो दिव्या , किं ध्यायसि? महाशय ! पश्चात्पश्य यथा वेत्सि, मंत्रासिद्धिनिबंधनम्॥१११॥ ततः संतमसश्याम-वऋविग्रहचीवराः। पिशाचीरिव रौद्रीः षट्, स्त्रीः स्वपृष्ठे स दृष्टवान् ॥ ११२॥ दध्यौ च किमिमाः प्राच्यो, मूर्त्ता मे पापसंपदः । अथ दुर्ध्यानधोरण्यो, राक्षस्यो वाऽत्तुमागताः॥११३॥ दिव्यभाणीत् पुनर्वाणी, देवबोधे। त्वया पुरा । चक्रिरे पडिमा जीव-हत्याः पापविपाकिमाः॥११४ ॥ स्थितासु तासु कात्स्न्येन, त्वदात्मनि तमास्विव ।। कथं वागीश्वरीमंत्र-प्रसादौकः प्रकाशताम् ॥ ११५॥ एकैकलक्षजापेन, पृथग्भूतास्तवाऽऽत्मनः। पृष्ठे षड्जीवहत्यास्ताः, स्त्रीरूपेणावतस्थिरे ॥ ११६ ॥ कुपितेन त्वया क्षिप्ता-ऽक्षमालेयं मयाऽम्बरे । स्तंभिता स्वप्रभावेण, त्वत्प्रत्यायनकाम्यया
देवबोधितः. १ उद्योगेन-आग्रहेण, २ अक्षाणां-रुद्राक्षाणां माला तां-जपमाळामित्यर्थः, ३ दुर्भाग्यम्, ४ मंत्रः.५ सफलः. ६ भाग्ये. ७ परंपरा:-श्रेणयः, 15. आकाशे. ९ वाग्देवी. १० पूर्वभवकृतपापविपाकेन निर्वृत्ताः. ११ रात्रीपु. १२ सूर्यः,
AGRAAGRIGANGANA
GALORECAESCOPERAGRAT
दध्याच
॥११३॥ दि
कमाः ॥ ११
॥
७
॥
Page #225
--------------------------------------------------------------------------
________________
AGRAACARDASHAMACROR
4॥११७ ॥ अतःपरमिमं मंत्रं, स्वल्पं जप यथा तव । वाणी प्रसीदतीत्युक्त्वा, देवी वाग्विरराम सा ॥११८॥ करे कृत्वा HIsक्षमालां तां, देवबोधिः सुधीः पुनः। तं मंत्रं ध्यातुमारेभे, निःसंदेहः सम्प्रीहिते ॥ ११९ ॥ ततः पर्वेदुगर्वेक-दस्युदेह
द्युतिच्छलात् । प्रत्यक्षं जनयंतीव, शब्दब्रह्ममयं महः ॥ १२०॥ वर्षतीव प्रसादा-दृग्यो प्रीतिसुधारसम् । प्रादुरासी
त्पुरस्तस्य, देवबोधेः सरस्वती ॥ १२१ ॥ युग्मम् । कलानां विद्यानामपि सरभसानामुपकृता-'वपाराणां वारां जलनिधिपरिव' त्वं पदमसि । श्रुताधीशे ! स्तोत्रं तव कियदिदं यत् त्रिभुवने,श्रवःप्रत्यक्षं यत्तदखिलमपि त्वत्परिणतिः॥१२२॥(शिख०)
विरज्य त्वय्युच्चैरिह महिममात्रप्रणयिनी, पशुप्रायो लोकः कलयतु मां ब्रह्मतनये!। परं सर्वो विद्वास्त्रिदिवशिवशर्मंकजननी, विहाय त्वामेकां वहति न परं किंचन हृदि॥१२३॥ (शिख०) उपश्लोक्येति वाग्देवी, देवबोधिरयाचत । मातर्मह्यं वितीयंतां, भारतीभुक्तिमुक्तयः॥१२४ ॥ कल्पद्रुममहिम्नेव, मद्वरेण त्वदीप्सितम् । सिध्यत्विति तमादिश्य, तिरोऽधाद् वागधीश्वरी ॥ १२५ ॥ देवीप्रसादतः सोऽभूत् , सद्यस्वैविद्यशेखरः। किं दोहंदवशान्न स्या-दकालेऽपि द्रुमः फली ?॥१२६॥ | अन्या अपि कला धन्या-स्त्रिजगत्प्रमदप्रदाः। देवबोधिरुरीचक्रे, सितपक्षशीतांशुवत् ॥ १२७ ॥ स देवबोधिरौषीत् , तदा जनमुखांबुजात् । हेमाचार्येण यच्चके, चौलुक्यो जिनवर्त्मनि ॥ १२८॥ ध्यातवांश्च कलोदग्रे, गुरौ जाग्रति मादृशे । भ्रांतवत् किमयं भूपः, स्वकुलममुज्झति ॥ १२९ ॥ फलाकुलास्तदैवैताः, सकला मत्कलालताः। भूयोऽपि वैष्णवे धर्मे,
१वाग्देवी. २ शब्दज्ञानमगम्. ३ यस तू. ४ कर्ण०. ५ त्वदयस्थान्तरप्राप्तिः. ६ लक्ष्मीम. . स्तुत्वा. ८ तिम्रो विद्याः-ऋम्म जुःसामरूपाः समाहृतानि विद्यम्तदधीते वेद वा त्रैविद्यः-वेदत्रयाभिज्ञः. ९ (खस्य वृक्षस्य) दोहदवशात्-श्रीपादस्पर्शादितोऽकालेऽपि फलवान् भवति. १० निजवर्म नि-प्र. ११ ख कुलसंबंधिधर्मक्रम
Crice
Page #226
--------------------------------------------------------------------------
________________
.५
कुमारपालच०
॥८८॥
MARCL ECCAM
शायदैव स्थापयाम्यमुम् ॥ १३० ॥ ततोऽहंकारकीलेन, कीलिताऽऽत्मेव तत्क्षणम् । देवबोधिः समायासी-चौलुक्यनृपपत्तनम् | P
॥ १३१ ॥ स तस्मिन्निंद्रजालीव, नानाकौतुकदर्शनात् । संमोहयितुमारेभे, नागरान् गुणसागरान् ॥१३२॥ विद्यां वश्यादिकां तां तां, देवबोधिः प्रकाशयन् । सिद्धवद् विस्मयस्मरैः, पौरैः शश्वदुपास्यत ॥ १३३ ॥ निष्कलोऽपि व्रती मान्यः, कलावांस्तु विशेषतः । स्वभावतः प्रियं हेम, किं वाच्यं रत्नरोचितम् ?॥ १३४ ॥ कलावतां प्रसंगेन, देवबोधिं रतुवन्नथ । | निस्सीम तत्कलावत्त्वं, चौलुक्याय जनो जगौ ॥ १३५ ॥ 'बहींव वारिदं देव-बोधिं द्रष्टुं समुत्सुकः । गुर्जरेशो निजानाप्तां-स्तमाह्वातुंजिग्धिवान् (प्रजियिवान् )॥१३६॥नलिनीनालदंडाढ्यं, रंभापत्रमयाऽऽसनम्। आमतंतुभिरानद्धं, बाप्पच्छेद्यैरिवाणुभिः ॥१३७॥ शिशूनामष्टवर्षाणां, स्कंधन्यस्तं सुखासनम् । अध्यास्य प्रस्थितःप्रात-देवबोधि पालयम् ॥१३८॥ युग्मम् ॥ तत्तादृगद्भुतालोक-विकसन्नयनांबुजाः । आकृष्टा इव मंत्रेण, पौरास्तं परिवबिरे ॥१३९ ॥ तथैव स वृतः पौरैः, स्वामीव निजसेवकैः । विस्मापयन् सभालोकं, चौलुक्यास्पदमासदत् ॥ १४०॥ निभाल्य तं तथा भूपो-ऽध्यासीत् कायं पिचंडिलः । वेदं सुखासनं रांभ-मस्य काऽपि कलाऽद्भुता ॥ १४१॥ सुखासनादथोत्तीर्णः, सुवर्णासनमाश्रितः । देवबो
धिर्नृपं नम्र-माशास्ते स्मेति निस्तुषम् ॥१४२॥ निष्कामोऽपि महाव्रती प्रमथितानंगोऽपि देहेऽङ्गनां, बिभ्रत् प्रेतवने वससन्नपि शुचिर्भीमोऽपि शांतात्मकः । पार्श्वस्थैकवृपोऽपि वाजिगंजतायुहामलक्ष्मीप्रदो, दुर्लक्षोरुचरित्रभृद् भवतु ते श्रीशंकरः
१पत्तने. २ आश्चर्यविकसितैः. ३ रत्नेः प्रकाशितम्.७ प्रजिग्घिवान् , प्र. प्रजिग्ध्यिवान् , प्र. ४ हि-गती वृद्धौ चेति खादिधातोः कसुः. ५ चौलुक्यसभाम् तुन्दिल:-बृहत्कुक्षिः.७ कदलिमयम्. ८ अनिर्वचनीया. ९ शान्त आत्मा यस्य सः.१० वाजिगजानां समूहः वाजिगजता.
॥८८॥
Page #227
--------------------------------------------------------------------------
________________
RECESSAGAR
शंकरः॥१४३॥ (शार्दू०)शंके पंकेरुहमिति परित्यज्य पद्मं स्वसद्म,श्रीस्त्वत्पाणौ सुरगुरुबुधाद्यर्चनोच्चै पवित्रे शश्वद्वासं कलयति महीपाल! चौलुक्य ! नो चेद्, दत्तेऽत्यर्थ कथमयमिति प्रार्थकेभ्योऽर्थमिष्टम् ॥१४४॥(मंदा०) ततस्तत्तत्कलाढ्याभिगोष्ठीभिः सूक्तसूक्तिभिः । स चिरं रंजयांचके, भूधवो देवबोधिना ॥ १४५ ॥ याममात्रे दिने याते, भगवान् नृपमूचिवान् । द्रक्ष्यतेऽद्य मया देव!, देवताऽवसरस्तव ॥१४६॥ तदंगीकृत्य भूपालः, स्नात्वाऽऽत्तशुचिचीवरः । देवबोधिं सहादाय, देवताऽगारमागमत् ॥१४७॥ निवेश्य कांचने पट्टे, शंकरप्रमुखान् सुरान् । विधिवत् पूजयामास, स रावण इव स्थिरः॥१४८॥ | देवबोधिरथावादीद्, देव! त्वं केन हेतुना । एतान् क्रमागतान् देवान्, भूर्भुवःस्वस्त्रयीश्वरान् ॥ १४९ ॥ स्वर्गापवर्गदं श्रीतं, धर्म चातिप्रियंकरम् । विहाय हा जिनोपज्ञ-मज्ञवद् भजसे मतम् ? ॥ १५० ॥ युग्मम् ॥ अवेदस्मृतिमूलत्वाजिनधर्मो न सत्तमः । अत एव न तत्त्वज्ञैः, सूरिभिः सोऽयमीप्यते ॥ १५१॥ अयं मुक्तिपुरस्य स्या-जैनोऽध्वा सरलो यदि । संचरेरन् पथाऽन्येन, तदा त्वत्पूर्वजाः कथम् ॥१५॥ तस्मात् त्वमात्मनीनं चेद्, यथाकामं समीहसे? मास्म हासीस्तदा पूर्व-धर्ममेनं निरेनसम् ॥ १५३ ॥ अथाऽऽचष्टे स्म चौलुक्यः, श्रीतो धर्मोऽस्त्ययं महान् । परं हिंसामयत्वेन, न प्रत्येति मनो मम ॥१५४॥ वाचः षड्दर्शनानां च, सुदुर्धरविरोधतः।सपल्य इव नकाऽपि, संगच्छंते परस्परम् ॥१५५॥ देवबोधिः पुनः प्रोचे, यद्येवं तर्हि दर्शये । तुभ्यं देवान् विधात्रादीन् , पूर्वजानपि पृच्छ तान् ॥ १५६ ॥ उक्त्वेति मंत्र___ *शं-सुखं कर्ता, १ पंके जातम् , 'इति हेतोः' देवगुरुपंडितादिपूजनेन. २ तव हस्तः. ३ वार्तामिः, ४ सुष्टु कथितकथनयुक्ताभिः. ५ श्रुतिविहितम्-वेदोदितम्. |६ जिनकथितम्. ७ उत्तमः, ८ निर्दोषम्. ९ न विश्वसिति.
Page #228
--------------------------------------------------------------------------
________________
कुमार
सामर्थ्यात् , स तदैव तदग्रतः । आकृष्टवान् समस्तांस्तान , पूर्वसंकेतितानिव ॥ १५७ ॥ ब्रह्मविष्णुहरान मूल-राजादीन् पालच० पूर्वजानपि । दृष्ट्वा पुरः स्फुरदूपान् , राजाऽऽश्चर्यमयोऽनमत् ॥ १५८ ॥ किरन्निव सुधापूर, वेदोगारेण कर्णयोः । अजि
हा ब्रह्मभूर्वेधा, द्वेर्धाऽपि चतुराननः ॥१५९॥ अंतःस्थश्रीमुखोयोत-मिव स कौस्तुभं हृदि । वहन् शंखादिसंरुद्ध-चतुष्पा-18 ॥८९॥
Pाणिजनार्दनः ॥१६०॥ त्रिविष्टपी स्फुटं द्रष्टु-मिव त्रिनयनीं श्रयन् । शूलपाणिर्जटाधारी, भालबालशशी शिवः
॥ १६१॥ एते त्रयोऽपि संभूय, देहोद्दामद्युतिच्छलात् । दर्शयंत इव ज्योति-परं चौलुक्यमूचिरे ॥ १६२ ॥ चतुर्भिः कलापकम् ॥ विदांकुरु नरेंद्रास्मान् , ब्रह्मविष्णुमहेश्वरान् । त्रयाणां जगतां सृष्टि-स्थितिसंहारकारकान् ॥ १६३ ॥ वयमेव स्वभक्तेभ्यः, कृतकर्मानुमानतः । भवं शिवं च संचिंत्य, दद्महे छद्मवर्जिताः॥ १६४ ॥ उपास्यास्मदुपज्ञं च, श्रोतं धर्म सुनिर्मलम् । स्वर्गापवर्गनिस्सीम-श्रियमा(म)शिश्रियन्न के? ॥१६५॥ तन्निरस्य चिरस्य त्वं, भ्रांतिमस्मान् सुरोत्तमान् । धर्म च वैदिकं शुद्ध्या(द्धं), समाराधय मुक्तये ॥ १६६ ॥ अस्मत्प्रतिकृतिश्चैप, देवबोधिर्यतीश्वरः । एतदुक्तमुरीकृत्य, कृत्यं स्वं सर्वमाचर ॥१६७ ॥ अथैनं प्रोचिरे पूर्वे, वत्स! त्वत्पितरो वयम् । सप्ताऽपि मूलराजाद्याः, पश्य त्वां प्रत्युपागताः
मूलराज (1) चामुंडराज (२) बाहभराज (३) दुर्लभराज (४) भीमदेव (५) कर्णदेव (६) सिद्धराजेति सप्त (७). २ की दशेन स्वरूपेण प्रकटीदभूताः इत्याह. किरनित्यादि. ३ निष्कपटज्ञानोत्पतिस्थानम्. ४ शरीरेण, ज्ञानेन च वेदापेक्षया. ५ अन्तःस्था चासौ श्रीश्च तस्या मुखं तस्य उदद्योतः-प्रकाशः तमित्र-18Ineen
मध्यस्थलक्ष्मीमुखप्रकाशमिवेत्यर्थः. ६ कौस्तुभस्तु महातेजाः, कोटिसूर्यसमप्रभः' । इत्युक्तलक्षणं (विष्णोर्वक्षःस्थं ) मणिम्. * उत्पादभुवनाशकर्तृन् . ७ अनुसारतः. ८ तस्मात्. ९ दीर्घकालं यावत्. १० अस्मत्रतिबिम्. ११ खकीयम्. १२ पूर्वजाः,
Page #229
--------------------------------------------------------------------------
________________
I॥ १६८ ॥ त्वयाऽसौ पूर्वजक्षुण्णः, पंथाः कस्माद्विमुच्यते । रथानामिव तत्त्यागो, नृणां भंगाय निश्चितम् ॥ १६९ ॥ इमान् देवानिदंप्रोक्तं, मार्ग चाश्रित्य भावतः । इमां विष्टपी लक्ष्मी, निर्विशामोऽनिशं वयम् ॥ १७०॥ यथा वयं स्वपूवेषां, नातिचक्रमि म क्रमम् । तथा त्वमपि वत्सैतं, माऽतिक्रामस्व सत्यवत् ॥ १७१ ॥ ततस्तेषु प्रयातेषु, भूपो मनोऽद्भुताऽम्बुधौ । सोमेशोतं तदुक्तं च, स्मरञ् जड इवाजनि ॥१७२॥ कुर्वे त्वदुक्तमित्युक्त्वा, देवबोधि विसृज्य तम् । चौलुक्यश्चक्रवर्तीव, बुभुजेऽशनमद्भुतम् ॥१७३॥ गत्वाऽथ वाग्भटामात्यो, हेमाचार्याय तत्क्षणम् । देवबोधिकृतं तत्तनिगद्येति व्यजिज्ञपत् ॥ १७४ ॥ भगवन् ! भगवानेष, कोऽपि लोकोत्तरः पुमान् । येनाचकृषिरे मंत्रः, संयम्येव शिवादयः॥ १७५ ॥ अद॑सीयः प्रभावोऽय-मयस्कांत इवायसम् । आचकर्ष प्रकर्षेण, नृपचित्तमसंशयम् ॥ १७६ ॥ तस्मातथा विधातव्यं, प्रभुणा भूपतिर्यथा । स्वधर्मे भवति स्थेयान् , नीलीराग इवांशुके ॥ १७७ ॥ आचार्यस्तं जगौ कार्या, त्वया चिंता न काचन । परं कथंचिदानेयो, व्याख्यायां क्षमापतिः प्रगे ॥१७८ ॥ प्रभोर्विभाव्य तां प्रौढिं, गाढं हृषितहृत् ततः । सायंतनक्षणे राज-समाज भजते स्म सः ॥ १७९ ॥ जगाद गुर्जरेंद्रस्त, देवबोधेर्महात्मनः । सामर्थ्यमीश्वर|स्येव, मंत्रिन् ! दृष्टं त्वया? वद ॥१८०॥ मंत्री विज्ञपयामास, स्वामिन्नस्य वदामि किम् ? । शिष्या इव वितन्वंति, यदादेशं सुरासुराः ॥ १८१॥ विधोः कलामयस्यापि, षोडशैव कलाः किल । भूयस्यः संति तास्त्वस्य, रंजितत्रिजगज्जनाः ॥ १८२ ॥ वाग्भटं पृष्टवान् भूभृत् , कलाकौशलमीदृशम् । हेमाचार्ये निजगुरौ, किं जागर्ति न वा ? वद ॥ १८३ ॥ १ एमिः प्रोक्तः- इदं प्रोक्तस्तम्. २ भुंजामहे. ३ उलंघनं न चम. ४ अमुष्यायमिखदतीयः. ५ आयसं-लोहजं वस्तु. ६ सामर्थ्यम्. ॐ दिनान्तसमये.
Page #230
--------------------------------------------------------------------------
________________
कुमारपालच
सर्ग.५
१८९ ॥ युग्मम् ॥ सरीया उच्छुस्य चासनात्किंचिद् , पारि सतगप्तिकमासनम् । अध्या
स्वामिस्वांते निजगुरा-वित्युक्त्याऽपि महादरम् । हेमसूरौ परिज्ञाय, हृष्टोऽभाषिष्ट धीसखः ॥ १८४ ॥ प्रायः संभाव्यते सर्व, सूरावस्मिन् कलादिकम् । रत्नाकरे हि रत्नस्य, न स्यादस्तित्वसंशयः॥१८५॥ प्रातः प्रक्ष्यामि तं गत्वे-त्युक्त्वा | राड् विससर्ज तम् । सोऽपि तत् सूरये सर्व, निवेद्य स्वपदं ययौ ॥ १८६ ॥ प्रभातेऽथ प्रभुः प्रोचे, शिष्यं व्याख्याक्षणे 181 सति । भूपाद्यध्यक्षमाकृष्यं, त्वया मामकमासनम् ॥१८७ ॥ अध्यास्य भित्तितो दूरे, सप्तगप्तिकमासनम् । अध्यात्मवि-ज द्यया रुद्धाऽऽ-न्तरान् पंचापि मारुतान् ॥ १८८ ॥ उच्छुस्य चासनात्किंचिद् , भूपादौ मिलिते जने । प्रभुाख्यातुमारेभे, सुधानिःस्वंदसुंदरम् ॥ १८९ ॥ युग्मम् ॥ सूरीयां देशनां शृण्वन् , परमार्थसमर्थिनीम् । सभाजनः परब्रह्माऽs स्वाद-1 मासेदिवानिवे ॥ १९० ॥ सूरिवाक्यसुधासेकाद् , युक्तं क्षेत्रे सभासदाम् । पुलकच्छद्मतः प्रादु-भूताः पुण्यांकुरोत्कराः ॥ १९१ ॥ दत्तशिक्षस्तदा शिष्यः, समुत्थाय सभास्थितैः । दृश्यमानो अहिलवत्, प्रभोरासनमाकृषत् ॥ १९२ ॥ आकृप्टेऽप्यासने तिष्ठन् , निराधारः सुपर्ववत् । अस्खलद्वचनत्वेन, तथैव व्याकृत प्रभुः ॥ १९३ ॥ तं तथाऽऽलोक्य चौलुक्यमुंख्यो लोकोऽतिविस्मयात् । चित्रन्यस्त इव स्थित्वा, क्षणं चेतस्यचिंतयत् ॥ १९४ ॥ देवबोधिः पुरा दृष्टो, यः कलाकेलिमंदिरम् । रांभं सुखासनं तस्या-प्यासीदाधारकारणम् ॥ १९५॥ किंच मौनेन तस्यै स्युः, सुजयाः कायवायवः । व्याख्यां वितन्वतस्त्वस्य, स्थितिरेषाऽतिकौतुकम् ॥ १९६॥ किं सिद्धः किमयं बुद्धः, किं विरंचिः किमीश्वरः । अन्यथा
१ सप्तगदिकम्-प्र. सप्तगब्दकम्-प्र. "हदि प्राणो, (१) गुदेऽपानः (२) समानो नाभिसंस्थितः (३)। उदानः कंठदेशे स्वाद, (४), म्यानः सर्वशरीरगः (५). |२ प्राप्त इव संजात इत्यर्थः. ३ शरीरे. ४ देववत्, ५ वि आ अकृत व्याकृत-लुङ्. व्याख्यां कृतवान्. (चौलुक्यप्रभृतिः. ७ देवबोधः,
Page #231
--------------------------------------------------------------------------
________________
****
कथमेताहक्, शक्तिरस्य व्यवस्यति ॥ १९७ ॥ निरालंबस्थितिकला, गुरावास्ते न वेति नैः । संदेहं छेत्तुमेवैता-मसौ दर्शयति स्वयम् ॥ १९८ ॥ चंकासतीह सूरींदौ, कला एव न केवलम् । सर्वज्ञत्वमपि व्यक्तं, परचित्तावधारणात् ॥१९९॥ तदा तथैव सूरींदु-वर्षन्निव सुधाभरम् । सार्धं यामं विधत्ते स्म, व्याख्यां रेसतरंगिणीम् ॥ २०० ॥ अथासनं तमध्यास्य, गुर्जरेशोऽवदत् पुरः। स्मितपूरच्छलात्पुष्प-प्रकरं विकिरन्निव ॥२०१॥ कलावानपरस्तावत् , कलाशालीदुवत् प्रभो।
भवान् प्रद्योतनो याव-द्विद्योद्योतेन न स्फुरेत् ॥२०२॥ कलावतां कलाः सर्वा-स्त्वत्कलाभिस्तिरोहिताः। सरसां स्फा|तयोऽम्भोधि-लहरीभिरिव ध्रुवम् ॥ २०३ ॥ ततः सूरिर्महीपं तं, निन्येऽपवरकांतरे । देवताऽवसरं देव, मम पश्येत्युदीरयन् ॥ २०४॥ स तत्र मंत्रशक्त्या तान् , नाभेयप्रमुखाञ् जिनान् । पूर्वजांश्च चुलुक्यादीन् , कृष्ट्वा पश्येति तं जगौ
२०५॥ मणीमये महीभागे, परतीर्थकुरंगकान् । त्रासं नेतुमिव स्वर्ण-मृगेंद्रासनमाश्रितान् ॥२०६॥ धर्म चतर्विधं लोकां-श्चतुर्दिक्समुपागतान् । समकालं समाख्यातु-मिव क्लैप्तचतुर्मुखान् ॥ २०७॥ भवस्थत्वेऽपि निष्कर्म तयारी मुक्तिं गतानिव । द्वेधाऽत्रापि महानंद-संदोहैस्तुंदिलानिव ॥ २०८ ॥ वर्यत्रिजगदैश्वर्य-याञ्चां कर्तुमिवाग्रतः । सेव्यमानान सुरस्तोमै-श्शुलुक्याद्यैश्च भूधवैः ॥२०९ ॥ श्रीनाभिनन्दनप्रैष्ठान , श्रीवीरचरमाञ् जिनान् । यथाश्रुतस्फुरद्रूपान्,
१चेष्टते-प्रयतते. २ अस्माकम् . ३ निरालंवस्थितिकलाम् . ४ शोभन्ते-दीप्यन्ते. ५ अमृतनदीम् . ६ अन्तर्भूतणिजर्थप्रयोगोऽयं तेन 'तं सूरि स्थापयित्वा' | इति व्याख्येयम् . . ईषधास्यसमूहमिषात् . ( सूर्यः. ९ स्फातयः-युद्धयः. १० सिंहासनम् . ११ रचितचतुराननान् . १२ भवस्थकेवल्यवस्थापेक्षया. १३ घातिकर्मा(पेक्षया. १४ महाश्चासौ आनन्दच, तथा-मोक्षश्च.१५ प्रमुखान्,
कु.पा.च.१६
Page #232
--------------------------------------------------------------------------
________________
*-%
कुमारपालच०
सर्ग.५
॥९१॥
दृष्टवान् गुर्जरेश्वरः॥२१॥पडिः कुलकम् ॥ तद्दर्शनेंदुनोद्वेल-प्रमोदक्षीरनीरधौ। निमजन्निव भूजानिः, क्षणं नाज्ञास्त किंचन ॥ २११॥ ततश्चौलुक्यमादाय, हेमसूरिः सगौरवम् । नमस्कृत्य जिनाधीशां-स्तेषामग्रे निषेदिवान् ॥ २१२॥ राजानं ते जिनाःप्रोचुः, कुर्वाणा इव कर्णयोः। माधुर्यवर्यया वाण्या, सारसारप्रसारणीम् ॥ २१३ ॥ बहवोऽपि विवेकारः, संति स्वर्णादिवस्तुषु । धर्मतत्त्वे विवेक्ता तु (न), कोऽपि क्वाप्यतिनिष्णधीः ॥२१४॥ एकश्छेकस्त्वमेवासि, येन धर्म |वधात्मकम् । हित्वाऽश्मानमिवादद्रे, दयामूलः से रत्नवत् ॥ २१५ ॥ हृत्प्रियंकरणी संपद्, दीप्यते या नृपादिषु । धर्मदुमस्य सा पुष्पं, फलं मुक्तिरमाऽऽस्पदम् ॥ २१६ ॥ नृपत्वचक्रवर्तित्व-शक्रत्वाहत्त्ववैभवम् । न दूरे तस्य यस्य स्याद्, धर्मचिंतामणिः करे ॥ २१७ ॥ अभंगुरा तवैवेदृग, भाग्यभंगी विजृभते । हेमाचार्यो ययाँ प्राप्त-स्त्वया तत्त्वनिधिगुरुः ॥ २१८ ॥ अथ पूर्वे चुलुक्याद्या, हेमसूरिं प्रणम्य तम् । समालिंग्य च चौलुक्यं, प्रमोदादिदमूचिरे ॥२१९ ॥ बभूविम |वयं वत्स!, त्वयैव ननु पुत्रिणः । यः कापथं परित्यज्य, भेजे सत्पथपाथताम् ॥ २२० ॥ जिनधर्म विहायैनं, न कृतज्ञा प्रभुः परः। यो दत्ते नैतिमात्रेण, स्वभृत्येभ्यः परं पदम् ॥ २२१॥ खेलत् संशयदोलायां, स्थिरीकृत्य मनस्ततः। गुरोः पुरोऽस्य निर्माहि, निर्मायं कृत्यमात्मनः॥ २२२॥ गतेषु तेषु सर्वेषु, भूभृद् दध्यौ शिवादयः। तथाऽवद जिनास्त्वित्थं, तत् सत्यमिदमेव वा ॥२२॥ उत्पन्नचित्तसंशीति-वल्लिस्तत्तद्वचोंऽबुभिः । कुमारपालः सूरींद्र, किमेतदिति पृष्टवान्॥२२४॥
१ उत्तमजलसारणीम् (नीक), सरसारघसारणीम्, प्र. २ पृथक्कर्तारः-परीक्षकाः. ३ अतिकुशलः. ४ धर्मः, ५ मुक्तिरेव रमा मुक्तिरमा. मुक्तिरमाया आस्पदस्थान-तीर्थकरत्वादि. ६ रचना. ७ भाग्यभंग्या.८ पूर्वजाः. ९ पुत्रवन्तः. १० समर्थः-खामी. ११ अन्यः. १२ नमस्कृतिमात्रेण, १३ छवित.प्र,
॥९
॥
Page #233
--------------------------------------------------------------------------
________________
तेन न्यगादि यद् देव - बोधिनाऽदर्शि किं नु तत् ? । प्रत्यूचे भूपतिर्वेद्मि, न तदप्येतदप्यहम् ॥ २२५ ॥ शशंस सूरिराङ्ग राज - निंद्रजालमयी कला । एकाऽस्ति निस्तुषा तस्य, पार्श्वे मम तु सप्त ताः ॥ २२६ ॥ तच्छक्त्या स्वमवत् सर्व - मावाभ्यां दर्शितं तव । न प्रत्येषि तदाऽऽचक्ष्व, विश्वमप्यत्र दर्शये ? ॥ २२७॥ पैरं न किंचिदेवैतत् कूटनाटकपाटवात् । सत्यं तदेव यद् देव !, सोमेशस्त्वां तदाऽऽदिशत् ॥ २२८ ॥ एवं प्रभुवचोवीचि — सेचनेन हृदंतरात् । निष्क्रांतभ्रांतिसंतापः, क्ष्मापः प्राप स्वमालयम् ॥ २२९ ॥ अथोपदेशपीयूष - पानार्थं समुपागतम् । कुमारपालं प्रत्यूचे, सूरिर्धाराधरध्वनिः ॥ २३० ॥ क्षाराब्धेरमृतं धनाद्वितरणं वाणीविलासाहेतं, शलात् सत्फलमंगकादुपकृतिर्वंशाच्च मुक्तामणिः । मृत्स्नायाः कनकं सुमात् परिमलः पंकात् पयोजं यथा, निःसारात् पुरुषायुषः सुचरितं सारं तथाऽऽकृष्यताम् ॥ २३१ ॥ ( शार्दूल०) तत्पुण्यमेव नैपुण्या - जगदे जगदीश्वरैः । प्रवर्धते श्रियः स्मेरा, यस्मात् कंदाल्लता इव ॥ २३२ ॥ यत्र वा तत्र वा यातु, यद्वा तद्वा व्यवस्येतु । अश्रुंते पुण्यवाँ लक्ष्मीं, वीरांगदकुमारवत् ॥२३३॥ द्वीपोऽत्र जंबूद्वीपोऽस्ति, पद्मायाः सद्मपद्मवत् । लवणोदजलै
लैः, परितोऽपि परिष्कृतः ॥२३४॥ तदीये भरतक्षेत्रे, मध्यदेशैकभूषणम् । स्वर्गश्रीविजयेनेव, नाम्नाऽऽसीद् विजयं पुरम् | ॥ २३५॥ निशांतमौलिविश्रांत-वात भ्रांतध्वजत्रजे । लीनेव लोलता यंत्र, श्रीषु स्त्रीषु च नैक्ष्यत ॥२३६॥ शूरः शूरांगदस्तत्र, बभूव क्षितिवल्लभः । शिक्षिता (तं) यत्कृपाणेन, प्रणाशं वैरिणो रणे ॥ २३७॥ क्षीरांभोधिरधोंऽशुकं सुरसरित्संव्यानलीलाऽऽस्पदं,
१ सूरिणा. २ निर्मला. ३ कूटनाटकपाटवात् परम्-अन्यत् ४ निष्क्रान्तः भ्रान्तेः संतापो यस्मात् सः ५ सत्यम्. ६ वृक्षात् ७ पुष्पाद् गंधः ८ श्रेष्ठाचरणम्. ९ उदयच्छतु १० प्राप्नोति ११ व्याप्तः - भूषितः, १२ गृहशिखरस्थितेन वायुना भ्रान्तध्वज समूहे. १३ विजयपुरे,
Page #234
--------------------------------------------------------------------------
________________
सर्ग.५
कुमारपालच०
॥१२॥
NCREACHECK
६ कासः ( काशः) कंचुलिकोरुतारकततिर्मुक्ताकलापः किल । वक्रश्रीपरिवीक्षणे तुहिनरुग्बिंब मणीदर्पणः, श्वेतांभोजवनं च
केलिकमलं यत्कीर्तिवामभुवः ॥२३८ ॥ ( शार्दूल०) तस्य वीरमतीत्यासीत् , प्राणेभ्योऽपि प्रिया प्रियो । आसेदुत्रिदिवं देव्यो, यत्कांतिविजिता इव ॥२३९॥ अमात्यो मतिसारोऽभूत्, तस्य राज्यधुरंधरः। मिलित्वेवैकतो विश्व-बुद्धिर्यन्मनसि स्थिता ॥ २४०॥ तस्मिन् धुर्य इव न्यस्य, राज्यं शूरांगदप्रभुः। वीरमत्या समं रेमे, रोहिण्येव निशाकरः ॥२४१॥ वीरमत्यन्यदा वन्य-दावाग्निप्रतिमप्रभम् । तनयं जनयामास, रत्नं रत्नखनी यथा ॥ २४२॥ शूरांगदः समासूत्र्य, यथामहिम तन्महम् । तस्य नाम गुणोद्दाम, वीरांगर्दै इति व्यधात् ॥ २४३ ।। अमात्यो मतिसारोऽपि, तदा प्राप्योत्तम सुतम् । आइतवान् प्रमोदेन, सुमित्रेत्यभिधानतः॥२४४॥ वीरांगदः सुमित्रश्च, तावुभावधिकौजसौ । कुलोद्योतकरी जाती, सूर्याचंद्रमसाविव ॥२४५॥ स्वच्छत्वं सरलत्वं च, दधतो र्दीर्घदर्शिनोः । आशैशवात् तयोरासीत्, प्रीतिर्लोचनयोरिव ॥ २४६ ॥ न विधुकैरवयोर्घनकेकिनो-स्तपनपंकजयोः प्रतिभाति तत् । हृदयहृत्सुहृदामपि सौहृदं, यदभवन्नृपमंत्रितनूजयोः॥२४७॥(दुतवि०) तावधीत्य कलाः सर्वो, बुद्ध्या सर्वपथीनया । तद्विदां गर्वसर्वस्वं, लीलयैवापजहतुः ॥२४८॥ लब्ध्वा च यौवनं विश्व-युवतीजनजीवनम् । स्रयोरपि रूपश्री-हारिणौ तौ बभूवतुः॥२४९॥ वक्षोऽभूद्विपुलं घिया सह कृशं मध्यं सहारिश्रिया, पुष्टं वर्म सहोदयेन च सह श्मश्रद्तं तेजसा । पीनं बाहुयुगं सहैव यशसा स्कंधौ समभ्युन्नतो,
तृणविशेषः (बरु). २ वालभा. ३ स्त्री. ४ प्राप्ता-ताः. ५ जगताम् बुद्धिः, ६ वषमे इव.. वीरेषु-शूरेषु. अंगदं-बाहुभूषणम् इव, अथवा-वीरेषु अंगं | ददातीति. ८ दर्शनस्पन्दननिद्राजागरणादिषु यथा लोचनयोः प्रीतिः-सहचरत्वं तथाऽनयोः, ९ कलाविदाम्. १. अश्विनीकुमारयोः, ११ देहः.
SENACEAEGAUNSAARAA
|॥९२॥
Page #235
--------------------------------------------------------------------------
________________
माहात्म्येन सहांगजस्य नृपतेस्तारुण्यमासेदुषः ॥२५०॥(शार्दूल०) पाणिमात्रममुना विभूष्यते,स्वर्णकंकणमिति त्यजन् कैरे। श्रीकरं स्वपरयोर्नुपांगजः, स द्विर्धाप्यधित दानकंकणम्॥२५॥ (रथोद्धता)वीरांगदः समित्रोऽपि, सवसंत इव स्मरः। हृद्यमुद्यानमन्येद्युः, श्रयति स्म रिरंसया ॥२५२॥ तस्मिन् स्मेरसुमस्तोमे, क्रीडित्वा स्वेच्छया चिरम् । स्नात्वा च सारसे नीरे, ववले स्वगृहं प्रति ॥ २५३ ॥ मृत्युक्रांत इव भ्रांत-स्वांतः कोऽपि पुमान् पथि । ब्रुवन् मां रक्ष रक्षेति, कुमारं शरणं श्रितः॥२५४॥ मा भैषीरिति वाक्येना-श्वासयंस्तं नृपात्मजः । दृष्टवान् करवालोग्रा-नग्रतो राजसेवकान् ॥२५५॥ कोऽयं पुमान् ? किमागोऽस्य ?, पृष्ठे यूयं किमागताः । इति पृष्टाः कुमारेण, ते कृप्ताऽञ्जलयो जगुः ॥२५६॥ स्वामिन्नयं परास्कंदी, पुरस्कंदी तवामितः। जहे धनानि लोकानां, जीवितव्यानि मृत्युवत् ॥ २५७ ॥ प्रविशन्निष्पतश्चापि, स्वेच्छयाऽयं पुरांतरे । आत्मेव लोकै लोकि, विलोकनपरैरपि ॥ २५८ ॥ हृत्वाऽद्य कोशं मापस्य, नश्यन् दस्युरयं रयात् । दः स्थित्वाऽभितोऽस्माभि-जन्मीव निजकर्मभिः ॥ २५९ ॥ शूरांगदनिदेशेन, हंतुं प्रस्थापितस्ततः । नंष्ट्वा शशकवत्
सोऽयं, चक्रे त्वां शरणं गुणिन् ! ॥ २६० ॥ तदयं दीयतां स्वामि-नये दृष्टिनिधीयताम् । एनं स्तेनं यथा हत्वा, दसतां शांतिं वितन्महे ॥ २६१॥ श्रुत्वेति तानथावादीद्, दयालुपनंदनः। शीर्षच्छेद्यो यदप्येष, मया देयस्तथापि न ॥
१ प्राप्तवतः. २ स्वर्णकंकणेन. ३ हस्ते. ४ पुण्येन लक्ष्म्या च-खस्य पुण्येन परस्य लक्ष्म्या चेत्यर्थः, ५ उद्याने. ६ सरस इदं सारसं तस्मिन्-सरोवरसंबंधिनीत्यर्थः 8. परानास्कन्दतीति-चौरः, 6 तव नगरचौरः, ९ विलोकितपरैः.प्र. १० पश्चाद्वधस्थानाद्वा. ११ नीती.
KAAS
Page #236
--------------------------------------------------------------------------
________________
सर्ग.
कुमारपालच०
SWARA
॥ २६२ ॥ यथा चंदनतश्चंद्र-स्तपैनात्तपनो यथा ।क्षतात् त्राणात्तथा क्षत्र-शब्दोऽन्वर्थों जने श्रृंतः॥२६३ ॥ एतमत्रायमाणस्य, क्षत्रशब्दो भवेन्मम । इंद्रगोपेति नामेव, कीटस्य व्यर्थताऽऽस्पदम् ॥ २६४ ॥ कोऽभिमानो भवेत्तस्य, यदीयशरणागतः । स्वैरं बंभ्रम्यते नैव, निभीको मत्तहस्तिवत् ॥ २६५॥ अचेतनास्ते तरवोऽपि वा-स्तापापेतं प्रतिपालयंतः। सचेतनास्ते न पुनः पुमांसो-ऽप्यति भीतेर्न जनं श्रितं ये॥२६६॥(उपजातिः) शरणार्तपरित्राण-व्रतं
मे रक्षितुं ततः । चौरोऽयं दयया न्याय-हीनोऽपि त्यज्यतां भटाः! ॥२६७ ॥ अवोचस्ते पुनः स्वामि-खातेऽस्मिन् P स्वस्य किं फलम् । मुक्त एव पुनर्लोक-मयं क्लेशयिताऽरिवत् ॥ २६८ ॥ स्तेनो व्याधिः खलोऽरिश्च, चत्वारोऽमी शुभेप्सुना । उन्मूल्याः कंदवन्मूलाद्, रक्षिताश्चेद्विकुर्वते ॥ २६९ ॥ दुर्जनोच्छेदतः साधु-लोकं पालयति प्रभुः । यथा विश्वं तमोध्वंसात् , प्रकाशयति भास्करः॥ २७० ॥ यच्चौरपक्षपातेन, साधुक्लेशप्रवर्धनम् । तद् दृषल्लोलुपत्वेन, चिंतामणिविचूर्णनम् ॥ २७१ ॥ किंचान्याय्यमिदं ज्ञात्वा, न्यायी भूपः पिताऽपि ते । असूयिष्यति तत्कालं, घातयिष्यति चास्मकान् ॥ २७२ ॥ अंतःस्फुरत्कृपाकुल्या-लहरीमिव दर्शयन् । दंतांशदंभेतो वीरां-गदस्तानवदत्पुनः ॥२७३ ॥ भवद्भिायसर्वस्वं, यदुदाहारि हॉरि तत् । परं क्षत्रियधर्मोऽपि, वीक्ष्यतां क्षत्रियाः स्थ चेत् ॥ २७४ ॥ क्षत्रियाणामयं धर्मः, शास्त्रे १हादनात्. २ तापतः, ३ नाशात्. ४ यथार्थः-सत्यार्थः ५ प्रसिद्धः, ६ आगतम्. ७ वधपीडितस्य रक्षणमेव व्रतं-नियमतत् . ८ शुभम् आप्तुम् इच्छतीति शुमेप्सुस्तेन. विक्रिया यान्ति-मदोन्मत्ता भवन्तीत्यर्थः. १० विचारशून्यम् . ११ दोषान् आरोपयिष्यति. १२ दन्तकान्तिमिषतः. १३ अकथि-कषितमित्यर्थः. १४ मनोहरम्,
ACCESSESCLOSURESTM
Page #237
--------------------------------------------------------------------------
________________
৬+96
लोके च विश्रुतः । यदार्त्तस्य परित्राणं, धनैः प्राणैरपि ध्रुवम् ॥ २७५ ॥ शेषः स्वशेखरमाणं, रमणीं विवोढां, स्तंबेरमो द्विदशनीं, मृगराट् स्वशौर्यम् । साधुर्ब्रतं, भटजनः शरणागतं च, जीवन्न मुंचति परं म्रियते कदाचित् ॥२७६॥(वसंत ० ) विश्वे चात्ममैयेऽस्मिन् कः, पाल्यते कश्च हिंस्यते । कृपैव केवलं जन्या, सार्वर्जन्याऽऽश्रिते जने ॥ २७७ ॥ तद्यात यूयं राज्ञश्चेद् : बिभीथ बूथ मद्गिरा । बलाद् देवसुतोऽस्मत्तो, मलिम्लुचममुमुचत् ॥ २७८ ॥ इत्युक्त्वा प्रेष्य योधांस्तान्, स्तेनं वीरांगदोऽ | वदत् । अन्वभावि न वा चौर्य-सुखमेतत्त्वयाऽधुना ॥ २७९ ॥ दुर्ध्यानोदकसिक्तस्य, कुकर्मद्रोर्वधादिकम् । पुष्पमत्र फलं | प्रेत्य नारकी यातना घना ॥ २८०॥ सत्सूपायेषु धर्म्येषु, चौर्य कुर्वीत कः सुधीः ? । प्राप्तेष्वात्रेषु कोर्पु, कोऽद्यान्निंबफलोकरम् ॥ २८९ ॥ मया कृत्वा कियत्क्लेशं त्वमिदानीममोच्यथाः । पुनर्मोचयिता कस्त्वां, चरंश्चौर्य धृतो यदि १ ॥ २८२ ॥ प्राणापहारि तच्चौर्य, वर्जयित्वा विषोपमम् । साधो ! सुधोपमं धर्म, सेवस्व स्वप्रियंकरम् ॥ २८३ ॥ ततः प्रबोधपीयूष - | पानोन्मीलितचेतनः । वीरांगदं प्रणम्योच्चैः, प्रोचिवान् स मलिम्लुचः ॥ २८४ ॥ स्वामिंस्त्वं मे पिता माता, भ्राता प्राणप्रदोऽसि च । येन वैय ( वै व्य ) सनादस्मात्, कीनाशादिव रक्षितः ॥ २८५ ॥ भवेऽस्मिन्न भवेयुश्चेत्, साधवस्त्वादृशा धनाः । विपत्तनूनपात्ताप-तप्ता पृथ्वी कथं ? भवेत् ॥ २८६ ॥ निःस्त्रोऽहं जीवजीवातो—स्तव स्यामनृणः कथम् ? । चौर्यवर्जनमेवास्तु, मद्भक्तिस्त्वयि तत् स्थिरा ॥ २८७॥ ब्रुवतमिति चौरं तं सर्वांगीणस्वभूषणैः । सत्कृत्य स कृती प्रैषी-दहो वत्सलता
१ परिणेता. २ हस्ती. ३ रक्षानिमित्तमागतम्. ४ आत्मतुल्ये, ५ उत्पाया. ६ सर्वजनानां हिता. ७ धर्मादनपेतेषु ८ मनोहरेषु ९ तस्मात् १० चौरः. ११ संसारे - जगति. १२ प्रचुराः, पक्षे मेघाः १३ विपत् एव ( तनूं न पाति-न रक्षतीति ) तनूनपात्- अभिः, तस्य तापस्तेन तप्ता. १४ भूमिः .
Page #238
--------------------------------------------------------------------------
________________
सर्ग.५
कुमारपोलच.
॥ ९४॥
सताम् ॥ २८८ ॥ श्रुत्वैतन्मत्कृतं कृत्यं, तातः कुप्यति में न वा । इति जिज्ञासया तस्थौ, क्षणं तत्रैव भूपभूः ॥ २८९ ॥ शूरांगदोऽथ भृत्येभ्यः, श्रुत्वा तत्पुत्रचेष्टितम् । विकटभृकुटिव्यक्त-क्रोधस्तानभ्यधादिदम् ॥ २९० ॥ कुतोऽयं रेऽथ संजात-स्तनयोऽस्तनयो मम । पाटच्चरपरित्राणात्, प्राणहृद् योजनेऽजनि ॥ २९१ ॥ अन्यायी यदयं जातो, मत्तो न्यायैकजीवितात् । किमंगारमयी वृष्टिः, सा न सोमात्सुधामयात् ॥ २९२ ॥ मया निग्राहितं स्तेनं, रक्षन्नेष विशेषतः। अहो मामप्यवामस्त, तदयं द्विद सुतच्छलात् ॥ २९३ ॥ पितुः परोऽपि मान्यः स्या-नयी पुत्रोऽपि नानयी । भानोः शनिरसन् द्वेष्यः, कोकः सन्निति वल्लभः ॥ २९४ ॥ तद्भटा ! यात रे यूयं, प्रणिगद्य ममोदितम् । ममादेशेन तं देशा-निर्वासयत चौरवत् ॥ २९५ ॥ एत्य भूपभटास्तेऽथ, कुमाराय भयाकुलाः । कथंचित् कथयामासुः, सर्वमुवीपजल्पितम् ॥ २९६ ॥ निशम्य तद् भृशं तुष्टो, भूपभूर्लब्धराज्यवत् । यथेच्छमधुना धात्री, द्रक्ष्यामीति महोत्सवात् ॥२९७॥ तदाऽवादीत् सुमित्रस्त-महो देवस्य दौष्टवम् । गुणोऽपि दूषणीचक्रे, दुर्जनेनेव येन ही ॥२९८॥ गुण एव भवेत् प्रायः, प्राणिनां क्लेशहेतवे । वक्तृत्वमेव बंधाय, शुकानां यत् प्रगल्भते ॥ २९९ ॥ ततो वीक्ष्य निजं मित्रं, म्लानवकं दिनेंदुवत् । उन्निद्रपद्मवत् | स्मेर-मुखो वीरांगदोऽवदत् ॥ ३०० ॥ सखे !मा खिद्यथाः संतः, परस्योपचिकीर्षया । सहते दुस्सहं क्लेशं, पथिस्थफलितद्वत् ॥ ३०१॥ सतः परोपकारोत्था, विपत्तिरपि सुंदरा । गीर्वाणप्रीणनोत्पन्ना, क्षीणतेवामृतधुते ॥ ३०२॥ उत्कं
१ मह्यम् . २ विकटा-विकृता-विकराला. ३ चौररक्षणात् . ४ पुत्रोऽपि असन्-दुर्जन इति हेतोः पापमहत्वात् . ५ चक्रवाकः. ६ आनन्दात् . . देवेन. - निःशंकतया चेष्टते. ९ चंद्रस्य,
BANGLA
॥९॥
Page #239
--------------------------------------------------------------------------
________________
ठुलं पुराऽप्यासी-न्मच्चित्तं देशदर्शने । ताताऽऽदेशस्तु योऽत्रायं, स दुग्धे शर्करोपमः ॥३०३॥ प्रौढा श्रीश्चतुरैः समं परिचितिर्विद्याऽनवद्या नवा, नानाभाषितवेषलिप्यधिगतिः कुंदावेदातं यशः। धीरत्वं मनसः प्रतीतिरपि च स्वीये गुणौधे | सतां, मॉनात् को न गुणोदयःप्रसरतिक्ष्मामंडलालोकनात्॥३०४॥(शार्दूल०)अचेतनोऽपि वातश्चेद्, वने भ्राम्यन् ससौरभः।
सचेतनः पुमांस्तर्हि, भुवि क्रीडन्न किं गुणी? ॥ ३०५॥ तन्मित्र ! गच्छ गेहं त्वं, मार्गस्ते माऽस्तु दुःखदः। अहं देशांतरं Mयामि, पित्रादेशवशंवदः॥ ३०६ ॥ सुमित्रः प्राह किं स्वामिन् !, गच्छेत्युक्तमसईचः। विहाय देहिनं देहः, किं निः
स्नेहः प्रयाति हि ॥३०७॥ नावाऽपि दुःखकृद्भावी, त्वत्सेवारसिकस्य मे । दारिद्योपद्रवः किं स्यात्?, कल्पद्रुमजुषोऽ| गिनः ॥३०८॥ सप्रैतिष्ठं प्रतिष्ठस्व, यद्येवं तर्हि सत्वरम् । इत्युक्त्वा स समित्रोऽपि, कुमारः प्रस्थितस्ततः॥३०९॥ मुखश्रीः सदने याऽऽसीद् , दासीकृतसितद्युतिः । तयोः सैव प्रवासेऽपि, धीरिमाऽहो महात्मनाम् ॥ ३१० ॥ उत्सवे व्यसनेऽपि स्यात्, समं रूपं महीयसाम् । पूर्व मंथस्य पश्चाच्च, सैव मुद्रा महोदधेः॥ ३११ ॥ ज्ञात्वा तौ प्रस्थितौ संतो, तद्गुणग्राम-15 मोहिताः। उपेत्य बंधुवत् पृष्ठे, लोकाः शोकाद् व्यजिज्ञपन् ॥३१२॥ परोपकारिणां धुर्यः, शरण्यः शरणैषिणाम् । नयना. नंदनः क्वाऽसि, प्रस्थितो? नृपनंदनः॥३१३ ॥ प्रज्ञालस्याऽपि राज्ञोऽस्य, कुतोऽद्य जडिमाऽजनि । यत्त्वां देहादिवात्मानं, निर्वासयति मंदिरात् ॥ ३१४ ॥ सच्चक्रोल्लासके स्वामिन् !, प्रस्थिते त्वयि भास्वति । पुरे शोकमयं भावि, लोकांधकरणं
१ नवीना. २ ज्ञानम्. ३ उज्वलम्. ४ माननात् , मानोत्को, प्र. ५ वशीभूतः.६ अशोभनं वचः. ७ प्रतिष्ठया-मानेन सह यथा स्यात्तथा. धीरस्य भावः धीरिमाधीरत्वमित्यर्थः, शरणेषु साधुः शरण्य :, शरणागतत्राणकरणयोग्यः,
WARSASCIUGACARALIK
Page #240
--------------------------------------------------------------------------
________________
कुमार
सर्ग.५
पालच०
॥९५॥
Anortontonante
तमः॥३१५॥ अद्यास्मद्भाग्यभंगीभि-रंगीचक्रे किमु व्ययः । यदस्मत्पुरतो यासि, त्वं तात इव वत्सलः॥ ३१६॥ इति विज्ञापिनः पौरान , गुणश्रेणिवशंवदान् । कथंचिदपि संस्थाप्य, नगरात्तौ निरीयतुः ॥ ३१७॥ षडिः कुलकम् ॥ गोष्टया सुधासधर्मिण्याs-न्योन्यं संतन्यमानया । स्थानस्थाविव तौ मार्ग, नाज्ञासातां मनागपि ॥ ३१८ ॥ आक्रम्य कियती भूमि, तौ नृपामात्यनंदनौ । राजधानीमिव मिया-मरण्यानीमवापतुः॥ ३१९ ॥ तरूणां यत्र बही श्रीः, श्वापदानां स्वतंत्रता । अंधकारस्य साम्राज्यं, विपदां परमं महः ॥ ३२०॥ अल्पीयस्यामतीतायां, तस्यां ताभ्यां शनैः शनैः। ब्रुवन्निव भवास्थैर्य, दिनांतस्तावदापतत् ॥ ३२१॥ उदयाभ्युदयव्ययान-हं यदि सूरोऽपि लभेऽन्वहं ततः। कतरः स्थिर इत्युदीर-यन्निव तौ स्वेन रविस्तदास्तवान्॥३२२॥(गीतिः)पत्यावस्तमिते शूरे, तद्वियोगमसासहि दिनश्रीः प्राविशन्नूनं, सांध्यरागहुताशने ॥ ३२३ ॥ पित्रोरपि हृदि प्रीतिः, स्त्रीभावान्मद्वदस्थिरा । वदंतीवेति तो पत्रि-ध्वानैः संध्याऽप्यगात्वचित् ॥ ॥ ३२४ ॥ 'मित्रेऽस्तमितवत्याशु, तिमिरोत्करकैतात् । लोकः प्रसृत्वरास्तोक-शोकः स्थानेऽभितोऽभवत् ॥ ३२५ ॥ दृष्ट्वा पश्चिमपाथोधौ, नूनं तरणिमजनम् । तदुद्दिधीर्षयेवाभ्रे, तारकाः प्रदधाविरे ॥ ३२६ ॥ एवं प्रदोषे 'सोन्मेषे, न्यग्रोधस्य तले क्वचित् । सुप्तो वीरांगदो वस्त्र प्रस्तरे स्मृतदैवतः ॥ ३२७ ॥ नास्ति जागरतो भीति-रिति सन्नीति
१नाशः. २ वशीभूलान्. ३ भयानाम्. ४ महोत्सवः. ५ संसारानित्यत्वम् . ६ अतिशयेन सहते इत्येवं शीलः सासहिरिति त्रिलिंगे निपात्यते, न सासहिः| असासहिः, ७ उभी कुमारी.८ पक्षिशब्दैः. ९ सूर्ये. १० गतवति ११ मिषात् . १२ प्रकाशः. १३ स्थाने (अव्ययम् ) उचितमित्यर्थः, १४ उद्धर्तुमिच्छणा. १५ ईषप्रकाशयुक्त रात्रिप्रथमभागे,
Page #241
--------------------------------------------------------------------------
________________
रीतिभत । सुमित्रो यामिकत्वेन, तस्थौ तत्पारिपाश्चिकः॥ ३२८ ॥ अहं राजाऽस्म्ययं राज-सूनुः श्रांतः करामृतैः ।। इमं निर्वापयामीति, मन्ये सोमस्तदोदगात् ॥ ३२९ ॥ निष्कलंकः कुमारस्य, मुखेंदुर्मा कलंकिनम् । हसिष्यतीति भीत्येव, मंदमिंदुःखमुद्ययौ ॥३३०॥ अयं चन्द्रोदयेऽस्वाप्सीद्, विष्ण्येऽरण्येऽपि सोऽस्त्विति । नूनं व्यधाद्विधिस्तस्यो-परि चंद्रोदयं तदा ॥ ३३१॥ सांद्रैः प्रक्षालितं चांद्रे-ज्योत्स्नाजालै लैरिव । घटितं स्फटिकेनेव, तदा रोदोऽन्तरं बभौ ॥ ३३२॥ चंद्रातपेऽप्यतंद्रालु-द्युतिद्योतितदिङ्मुखः । अथाऽऽगत्य सुरः कोऽपि, सुमित्रमिदमूचिवान् ॥३३३॥ अत्रास्म्यहं वटे यक्षो, मदीयं स्थानमागतः। कुमारः पुण्यसारोऽय-मातिथेयीमतोऽर्हति ॥ ३३४ ॥ सुखं सोषुप्यमाणोऽस्ति, सखे ! वीरांगदोड-13 धुना । मया तथ्यं किमातिथ्यं, प्रथ्यं कथ्यं त्वया मम ॥ ३३५ ॥अहो मूर्तिरहो स्फूर्ति-रिति चित्रीयमाणहृत् । नत्वा तं महतीभक्तिः, सुमित्रः प्रोचिवान् वचः ॥ ३३६ ॥ भाग्यसौभाग्यसौराज्य-लक्ष्मीसुखसुतादयः । सर्वेऽपीपल्लभा भावा,
दुर्लभं देवदर्शनम् ॥ ३३७ ॥ तप्यते कतिचित्तपांसि कतिचिन्मंत्रान्मुदोपासते, विद्यां केऽपि जपंति केऽपिदहने मांसं निजं है जुह्वति । स्थित्वा प्रेतवने नयंति कतिचिध्यानेन सर्वो निशां,मयोनांन तथापि दर्शनपथं प्रायःश्रयंते सुराः॥३३८॥(शार्दूल०)
ततो निधिमिव प्राप्य, दुरापं तव दर्शनम् । देव ! संपन्नेवानस्मि, कृतार्थःप्रार्थये किमु॥३३९॥देहीति दानक्षण एव रम्यं, वचो न याचावसरे कदाचित् । अयेव भद्रंकरमिंद्रचापं, रात्री पुनदृष्टमरिष्टहेतुः ॥ ३४० ॥ (उपजातिः) तथापि
१ परिपार्श्व-पार्श्व व्याप्य वर्तते इति पारिपाश्विकः. २ गृहे. ३ भाग्यस्य सौभाग्य-सुन्दरता. ४ सुलभाः, ५ संपूर्णकामः, ६ त्वमस्मै देहीति खसेवकादेः पुत्रादेवी | कथनं सुन्दर-दानक्षणे दातृतया कथनं-वचनं सुंदर, न पुनः मां देहीति वचनं याचकतया उक्तमित्यर्थः,
Page #242
--------------------------------------------------------------------------
________________
कुमारपालच
किंचिद्याचस्वे-त्युक्तः स धुसदा पुनः। नायाचीत्सर्वथा स्वेष्ट-महो सत्पुरुषव्रतम् ॥ ३४१ ॥ स्वयं यक्षस्ततो दत्त्वा, नीलशोणं मणिद्वयम् । तमभाषिष्ट विस्पष्टं, श्रूयतामनयोर्महः॥ ३४२ ॥ अयं नीलमणिर्देय-स्त्वयाऽस्मै राजसूनवे । उपवासत्रयाराद्धो, वैभवं वितनिष्यति ॥३४॥ मायां सर्पणवां जप्त्वा, पूज्यः शोणमणिस्त्वया । अमितां कामितां चिंतामणिवद् दास्यति श्रियम् ॥ ३४४ ॥ उदित्वेति गते देवे, सुमित्रस्तम्मणिद्वयम् । रविबिंबवदुद्दाम-धाम दृष्ट्वा परामृशत् ॥ ॥३४५ ॥ अहो पुण्यस्य महिमा, नहि माति जगत्रये । चिंतामण्यादयोऽमी य-रसेवकस्यापि सेवकाः ॥ ३४६ ॥ लक्ष्मीमानयति, प्रियं प्रथयति, प्रत्यूहमुन्मूलति, द्वंद्वे द्विष्टबलं पिनष्टि, हरति व्याघ्रादिभूतं भयम् । कांतारे सह बंभ्रमीति, दिविषद्वर्ग विधत्ते वशं, पुण्यं पुण्यवतां न किं ? वितनुते प्राचीनमूर्जस्वलम् ॥३४७॥(शार्दूल०) सुमित्रे चिंतयत्येवं, जजा. गर्वान् नृपांगजः । क्षणं त्वमपि शेष्वेति, भणित्वा तमसूषुपत् ॥ ३४८ ॥ दोषोच्छेदकरं तिग्म-रुचिं मांत्रिकवत्ततः । मत्वेवागामिनं नंष्ट्वा, पिशाचीव निशा ययौ ॥ ३४९ ॥ निषेव्य वारुणी रागात् , कलंक प्रकटं वहन् । विधुर्द्विजाधि-| राजोऽपि, युक्तमेव निपेतिवान् ॥ ३५०॥ नभोवनांतरे यानि, निशायां व्यकसन्नलम् । तानि तारप्रसूनानि, प्राताली |किलाग्रहीत् ॥ ३५१॥ वर्तते मम सजाति-महसाऽयं महीपभूः। पश्याम्येनमितीवागा-दुदयादि दिवाकरः ॥ ३५२॥ उडीयमाना वृक्षेभ्यः, पक्षिणः स्वस्वरेस्तदा । पठदुवैतालिकीभूय. कुमारं प्रति भेजिरे ॥ ३५३ ॥ प्रभाते च नृपामात्य
१ महिमा. २ औपवस्त्रत्रयाराद्धः-प्र. ३ राज्यम् . ४ वितरिष्यति. प्र. ५ हींकारम् , ६ ओंकारयुताम् ७ बलवत् . ८ पश्चिमदिशाम्, पक्षे मदिराम् . ९ रंगात्. पक्षे मोहात् . १० चंद्रः, ११ प्रातःकालरूपो माली-मालाकारकः, १२ संज्ञातिः-प्र, १३ सिषेविरे.
यः, पक्षिणः स्वस्वरैस्तदा महसाऽयं महीपभूः । पश्याम्यकसन्नलम् । तानि तारप्रसूनानि, प्राजाधि
॥ ९६॥
Page #243
--------------------------------------------------------------------------
________________
ACCURACCAR
पुत्रौ ध्यात्वा स्वदैवतम् । प्रतस्थाते पुरो मार्गे, धत्ते तंद्रालुतां हि कः? ॥ ३५४ ॥ मणीव्यतिकरं नैश, वक्तुं योग्यमपि द्रुतम् । सुमित्रो नोचिवान् मित्रं, समये वैदितेतिधीः ॥ ३५५ ॥ दुरध्वेऽपि ब्रजंतौ तौ, प्राग्विपक्रिमपुण्यतः । माद्यद्भिरपि सिंहाचै-बबाधाते न सिद्धवत् ॥ ३५६ ॥ स ललाटंतपे शूरे, कुमारो मित्रमब्रवीत् । विलसत्यशनाया मे, किं भोज्यं भुज्यतां भण? ॥ ३५७ ॥ मणिप्रसादनाहेतो-रुपवासत्रयं स्वयम् । कुमारः सुकुमारत्वान्न करिष्यति कर्हिचित् ॥ ३५८ ॥ तस्मात् केनाप्युपायेन, तदहं कारयेऽमुना । विमृश्येति सुमित्रस्त-मूचे मतिमतां वरः॥३५९॥ युग्मम् ॥ स्वामिन्नानायि पाथेयं, शून्येऽत्रास्ति न किंचन । पचेलिमाऽपि ह्यज्ञाता, फलश्रेणिरिहत्यका ॥ ३६० ॥ अविज्ञातफला-13 स्वादा-दनर्थः कोऽपि माऽस्तु नौ । उपास्येति बुद्ध्या तं, सुहृत्स्वेनाप्युपाक्सत् ॥ ३६१॥ युग्मम् ॥ एवमन्यद् व्यह पुण्य-पोषितौ तावुपोषितौ । तुरीयेऽहनि कांतार-प्रांतं कांतमवापतुः ॥३६२॥ श्रीविशालं महाशाल-पुरोद्यानं प्रपद्य च । हंसवत् सरसि स्नात्वा, चिरं निर्ववतुस्तराम् ॥ ३६३ ॥ वीरांगदो जगादाथ, कृतोन्माथः क्षुधा सखे !। प्राणा मम प्रयांतीव, कुतोऽप्यानय भोजनम् ॥ ३६४ ॥ सुमित्रः प्राह निस्तीर्णो, विस्तीर्णो विपदर्णवः। प्रतीक्षस्व क्षणं येन, भोजये दिव्यभोजनम् ॥ ३६५ ॥ राजसूनुः पुनः प्रोचे, त्र्यहं प्रागुपवासितः। प्रतीक्षयसि चाद्यापि, तदाताऽसि न मेऽशनम् ॥ ३६६ ॥ दत्त्वा नीलमणिं तस्मै, प्रसूनान्युपढौक्य च । ऊचे सचिवपुत्रोऽयं, विधिज्ञ विधिनाऽयंतीम् ॥ ३६७॥ १ स्वेष्टदेवम् . २आलस्यम्. ३वदिष्यामि.*दुष्टोऽध्वा. प्रा०स०अच्. दुरध्वस्तस्मिन्. ४विपाकेन निर्वृत्तम्. ५अशनाया-क्षुधा. ६उपवासत्रयम् . ७ आवाभ्यां न आनायि. ८ निर्जनस्थले. ९ आवयोः. १० उपवास कारयित्वा. ११ दिनद्वयम् . १२ कृतोत्पीडः, १३ आवाभ्याम् उत्तीर्णः. १४ दिनत्रयं यावत् . १५ मणिः, १६ त्वया पूज्यताम् .
कु.पा.च.१७
Page #244
--------------------------------------------------------------------------
________________
कुमारपालच०
RECORRENA
एतदर्थ मया मार्ग, त्वमुपावास्यथाख्यहम् । यतस्तपो विना सिद्धि-र्न स्यात् पुण्यस्पृशामपि ॥३६८॥ तापयत्यपि तनूं गुरुतापैः, शोषयत्यपि रसांस्तपसीह । तापने कमलिनीव समस्ता, सिद्धिरेति रैतिमद्भुतमेतत् ॥३६९॥(स्वागता) असहित्वा च कः क्लेशं, जनः श्रीभाजनं भवेत् । कर्णी स्वर्णेन संपूर्णी, पश्य? वेधादिकष्टतः॥३७०॥अयं मणिः प्रसन्नश्च,राज्यं विश्राणयिष्यति। अचिंत्यो मणिमंत्रादे-र्यत् प्रभावो विज़ुभते ॥३७१॥ सोऽपृच्छत् स्वच्छधीर्मित्रं, विस्मेरो मणिवीक्षणात् । व्यश्रोणि तुभ्यं केनायं, राज्यदश्च कथं वद ॥ ३७२ ॥ वक्ष्याम्यवसरे सर्व, संप्रत्यभ्यय॑तामयम् । इत्युक्तः स वयस्येन, प्रारेमे मणिमर्चितुम् ॥ ३७३ ॥ तावद् रहः सुमित्रोऽपि, पुष्पैरभ्यर्च्य रूंच्यधीः। आरराध मणिं शोणं, यक्षाख्यातमनुजपन् ॥३७॥ रत्नाधिष्ठायकः प्रादुर्भूय तं प्रोचिवानिति । संतुष्टोऽस्मि स्मृतोऽभ्येत्य, सर्व कुर्वे त्वदीप्सितम् ॥ ३७५ ॥ तेन देवप्रसादेन, निदाघेनेव तत्क्षणम् । सुमित्रो मित्रवद् दीप्रो,नृपसूनुमुपागमत् ॥३७६॥ तावद् वीरांगदोऽप्युञ्चै-ाननिश्चलमानसः । अर्चयित्वा मणिं सम्यग, विररामाभिरामरुग् ॥ ३७७॥ अथाधिष्ठायकं शोण-मणेः स्मृत्वा सुरोत्तमम् ।। सुमित्रोऽर्थितवान् स्नान-प्सानप्रमुखमद्भुतम् ॥ ३७८ ॥प्रेरितास्तेन देवेन, दिव्यालंकारभासुराः । सहसा नभसाऽभ्येत्य, प्रणेमुस्ती सुरस्त्रियः ॥३७९॥ अंतर्वणं स्फुरच्छात-कुंभस्तंभ तयोः कृते । रत्नकुट्टिमरोचिष्णु, मंदिरं ता विचक्रिरे॥
१ सम्यक् पकस्य भुक्तस्य सारो निगदितो रसः, इत्युक्तः देहस्थभुक्तानादेः परिणामः धातुमेदः रसस्तं तथा वीर्यं विषं जलं रुधिरं शृंगाररस रागं च. २ सूर्ये:न्यत्र तपसि ३ आनंद-विकाशम्, ४ दास्यति. ५ अदायि. ६ सुन्दरबुद्धिः, ७ सूर्यवत्. ८ मनोहरकान्तिः. ९ प्सान-भोजनम्, १० वनमध्ये. ११ दीप्यमानसुवर्णस्तं- | भम् . १२ रत्नमयाऽधस्तनभूभागदीप्यमानम् . १३ विकुर्वन्ति स्म..
Page #245
--------------------------------------------------------------------------
________________
SARIUSSESARRIAGES
B॥ ३८ ॥ यत्रासनानि हैमानि, रानी चौऽमत्रमंडली । श्रृंगारवेदी माणिक्य-मयी चित्तं हरत्यलम् ॥ ३८१॥ मन्ये तस्याल श्रियं वीक्ष्य, स्वर्विमानापमानिनीम् । देव्योऽपि ताः स्वयं स्थातं. कामयांचक्रिरे चिरम् ॥ ३८२ ॥ देवीभिसत्र तौ नीती, पश्यंतौ त्रिदिवश्रियम् । नश्यन्निमेषदृक्त्वेन, क्षणं जातौ सुराविव ॥ ३८३ ॥ देव्यस्तौ तैलपिष्टाभ्या-मभ्यज्योद्वर्त्य च स्वयम् । देववत् स्पयामासु-नीरहेमघटोज्झितैः ॥ ३८४ ॥ निवास्य वाससी दिव्ये, गंगोर्मी इव निर्मले । लिप्त्वा च चंदनाद्यैस्ता, भूषणैस्तावभूषयन् ॥ ३८५॥ एवं तौ स्नातलिप्तालं-कृतांगौ त्रिदशोपमौ । इहापि समजायेतां, कुमारौ मणिवैभवात् ॥ ३८६ ॥ स्फारवर्षोपलमुखी, पक्काम्रशकलाधरा । मोदकोच्चकुचा मुद्ग-दालीनीलाभकंचुका ॥ ३८७ ॥ मंडकाच्छादना भक्त-क्षौमाऽऽनायि तयोः पुरः । दिव्या रसवती देव-स्त्रीभिर्वारवधूरिव ॥ ३८८ ॥ प्रागभुक्तां रसाढ्यां तां, स्वैरं रसयतोस्तयोः। रसज्ञाऽप्यरसज्ञाऽऽसी-दहो माधुर्यमूर्जितम् ॥ ३८९ ॥ वीरांगदं हसित्वोचे, सुहृत् स्वामिन् ! | दिनत्रयम् । क्षुद्वानाऽऽसीः कणेहत्य । ततोऽश्नीया यथारुचि ॥ ३९०॥ सम्यगाचम्य तांबूले, ताभ्यामास्वादिते सति । सुमित्रस्मरणादेव, देवः सर्व तिरोदधे ॥ ३९१॥ दृश्येऽप्यदृश्यतां याते, तस्मिन् जीमूंतजालवत् । वयस्यं तद्रहस्यं स, प्रश्नयामास भूपभूः ॥ ३९२॥ विश्रम्यतां क्वचिद् वच्मि, यथेति सुहृदोदितः। स विशश्राम चूतदु-तले निद्रां जगाम च ॥ ॥ ३९३ ॥ सुमित्रोऽपि निविश्यास्य, सन्निधौ धीनिधिहृदि । राज्यं भावि कथंकार-मिति ध्यायन्नवास्थित ॥ ३९४ ॥
१ भोजनपात्रसमूहः. २ आभूषणादि सज्जितुं वेदिका. *स्ववि०प्र. ३ अभ्यंगं कृत्वा. ४ परिधाप्य. ५ मणिसामर्थ्यात्. ६ अभिलाषातिशयं हवा. ७ मेघसमूहवत्. ८ स्थित्वा.९ तिष्ठति स्म.
Page #246
--------------------------------------------------------------------------
________________
सर्ग.५
पालच.
॥९८॥
ISROSAMSUNGARSAMSROSE
इतस्तस्मिन् महाशाल-पुरे राजा धनंजयः। पूर्वेधुर्गाढरोगा”, दैवादानंच पंचताम् ॥ ३९५ ॥ सुतस्तस्य न कोऽप्यासीदिप्ति संमंत्र्य मंत्रिभिः। संध्यायामध्यवास्यंत, पंचदिव्यानि भक्तितः ॥ ३९६ ॥ प्रातः स्फूर्जत्सु तुर्येषु, राजकीयैर्जनैः
सह । स्वयं प्रतस्थिरे तानि, राज्याधिष्ठायिवैभवात् ॥ ३९७ ॥ तेषु भ्रमत्सु सर्वत्र, पुरे पौराः परःशताः। पुरः पुरः स्फुरx
दूपा, राज्यार्थमवतस्थिरे ॥ ३९८ ॥ वासार्थ वसतिश्चतुष्करमिता, वेषद्वयं प्रावृतो, भुक्त्यै धान्यघृतोदकादि च कियत् ,
किंचिद् व्ययार्थ धनम् । एकैकं शयनासनप्रियतमा-दासीगवाश्वादिकं, भोगोऽयं नृपरंकयोस्तदपि ही राज्ये स्पृहावान् 8/जनः ॥ ३९९ ॥(शार्दूल०)परितोऽपि पुरं भ्रान्त्वा, पौरान सर्वानपास्य च । प्रक्रीडितुमिव स्वैरं, पुरात् तान्यगमन् बहिः॥ | ॥४००॥ आहूतानीव केनापि, गत्वा तानि द्रुतं ततः।वने तस्मिन्नृपामात्य-पुत्रोपांतं प्रपेदिरे॥४०॥स्वयंवरेव राज्यश्रीरापन्नेति मुदं वहन् । सुप्तं जागरयामास, सुमित्रो राजनंदनम् ॥ ४०२ ॥ तावत् कराग्रभंगार-पयोभिरभिषिच्य तम् ।। गर्जन् गजेश्वरो वीरां-गदं पृष्ठे न्यवीविशत् ॥ ४०३॥ हेषते स्म हयो हर्षाद, राज्यश्रीदेवतेन च । तस्य मूर्ध्नि धृतं | छत्रमवीज्येतां च चामरे ॥४०४॥ वीरांगदावलोकेन, लोकानां प्रीतयोऽन्तरी । अमांत्य इव रोमांच-व्याजतो निर्य-IN युबहिः ॥ ४०५॥ तदाऽध्यासीत् सुमित्रोऽन्त-भैजे राज्यं सुहन्मम । इतोऽयं मां पुरं नीत्वा, नियोगे क्वापियोक्ष्यते ॥ ॥४०६॥ स्वार्थप्रजार्थराजार्थ-सार्थसाधनचिंतया । नियोगः पारवश्याय, तंदवश्यं च दुःखदम् ॥ ४०७॥ योगादपि नियोगोऽयं, दुःसाधः सुधियामपि । योगे साध्यो यदात्मैव, नियोगे त्वखिलं जगत् ॥४०८ ॥ मणिश्चिंतामणिरिव, स्वार्थ
१ प्राप जगाम वा. २ वाद्यमानेपु. * तौ, प्र. ३ देवता एव दैवतम्. ४ मध्ये. ५ आशिवाय. प्राप-इत्यर्थः. ६ अधिकारे. ७ तादर्थे चतुर्थी. ८ पारवश्यम्.
CRICA%AAG
॥९८
Page #247
--------------------------------------------------------------------------
________________
संपादकोऽस्ति मे । तत्प्रसादात् कियत्कालं, रमे स्वैरममर्त्यवत् ॥ ४०९॥ उत्तार्य विपदंभोधि, राज्यं प्रापय्य चोजितम् । इदानीं मुंचतोऽप्येनं, स्वामिनं मे न दूषणम् ॥४१०॥ इत्यामृश्य सुमित्रोऽगाद्, वेगात् कुंजांतरे क्वचित् । नमल्लोकमुखाऽऽलोक-व्यग्रे वीरांगदे सति ॥४१॥ पडिः कुलकम् ॥ अथापश्यन् सुमित्रं तं, शब्दयित्वा मुहुर्नुपः । आसन्नानादिशन्मित्र-मत्र कुत्रापि दृश्यताम् ॥ ४१२॥ सुमित्रैहि सुमित्रही-त्युच्चरंतः पदे पदे । बभ्रमुस्तत्कृते तेऽन्त-र्वणं वनचरा इव ॥ ४१३ ॥ अदृष्ट्वा नष्टवत् ते तं, नास्तीति प्रोचिरे नृपम् । गतसर्वस्ववत् सोऽपि, मानसे दुःखमानंशे ॥४१४॥ विललाप च तत्कालं, सुमित्र ! त्वां विनाऽधुना । वैकल्यं कलयन्नस्मि, देहि वाक्यमुपेहि च ॥ ४१५॥ आजन्म प्रतिपाल्य
मैत्र्यमसमं तस्मिन् प्रवासक्षणे, पित्रोः स्नेहभरं धनं तनुसुखं मुक्त्वाऽखिलं मत्कृते । मैर्षित्वा व्यसनं मया सह महत् कां8 तारसंचारजं, राज्ये जातवतीह मे विमुखतां प्राप्तोऽसि कस्मात् ? सखे ! ॥४१६॥ (शार्दूल०)राज्यदायिमणीदाना-दुपकृत्य |ममाधुना। भीत्या प्रत्युपकारस्य, त्वमवश्यं पलायथाः॥४१७॥ स्थितिः सतां कॉप्युपकृत्य यत्ते,प्रयांति तत्प्रत्युपकारभीताः। | निर्वाप्य पृथ्वीं तपतापतप्तां, न वारिदा नेत्रपथे स्फुरंति ॥४१८॥(उपजातिः)वीरांगदस्ततोऽवोचद्, यूयं व्रजत मंत्रिणः!। न मित्रेण विना कार्य-मैश्वर्येणामुना मम ॥४१९॥ ते तं विज्ञपयामासुः, स्वामिन् ! मा स्मेदृशं वद । दुर्लभा खलु राज्यश्री, पुण्यैः पृथुतरैरपि ॥ ४२०॥ मित्रं तव सुमित्रोऽयं, नामतो नार्थतःप्रभो!। उत्सवेऽस्मिंस्तवागच्छत् , तुच्छबुद्धिःपलाय्य यः ॥ ४२१॥ भाँगधेये, तवामेये, जाग्रत्यन्येऽपि भाविनः। वयस्याः सरहस्यास्तत् , प्रसीद पुरमाश्रय ॥ ४२२॥ सचिवे
१ प्राप. २ विकलतां धारयन् . ३ सहित्वा. ४ मर्यादा. ५ अनिर्वचनीया. ६ सूर्यतापोष्णाम्. . भाग्ये. ८ भविष्यन्ति.
COACHCCCCCAGRA
Page #248
--------------------------------------------------------------------------
________________
कुमारपालच०
॥९९॥
GARIKAARAKA
रिति संबोध्य, कथंचित् स महीपतिः। उत्तोरणपताकाङ्क्ष, स्वपुरं प्रत्यनीयत ॥ ४२३ ॥ देहेन रूपगेहेन, लोकप्रीणैस्तथा सर्ग.५ गुणैः । पुरस्य पौरस्त्रीणां च, हृदयं प्रविवेश सः॥ ४२४ ॥ असौ नृपगृहे सिंहा-सनस्थः सुरबिंबवत् । महेन महतामात्यैः, सपौरैरभ्यषिच्यत ॥ ४२५ ॥ घनाघनोदके तस्मि-नृपे स्फुरति सर्वतः । तापव्यापविपन्मुक्तं, युक्तं जज्ञे महीत
लम् ॥ ४२६ ॥ भूमेरप्सरसो देव-स्त्रियो वा निमिषदृशः। कुमार्यः पर्यणीयंत, वीरांगदमहीभुजा ॥ ४२७ ॥ कमलाPIभोगभाजोऽपि, तस्य हुन् नीरधेरिव । और्ववच्छोषयामास, सुमित्रविरहोऽन्वहम् ॥ ४२८ ॥ अथास्ताचलचूलाग्र
चुंबिन्यंबुजबांधवे । पुरं कुंजरवत् कुंजा-निर्गत्यागात् स मंत्रिसूः॥ ४२९ ॥ निशम्य तत्र कस्माच्चिद्, रतिसेनेति नामतः। पुरुषद्वेषिणी पण्य-स्त्रियं स्त्रणकभूषणम् ॥४३०॥ तल्लावण्यरसास्वाद-सादरे लोचने वहन् । मार्रवत् स्फारशृंगार-सारस्तद्वारमार सः॥४३शा युग्मम् ॥ भूमिष्ठमिव देवं तं, कांतं दृष्ट्वाऽतिहृष्टहृत् । मध्येसौधं समाकार्य, रतिसेना पराऽमृशत् ॥ ॥४३२॥ आस्यं पर्वशशी, विलोचनयुगं विस्मेरमिंदीवरं, कंठः कंबुरुरश्च कांचनशिला, स्कंधौ च पूर्णी घटौ । वाहू |शौर्यगजेंद्रयंत्रणमहाऽऽलाने, करौ चाऽरुणाऽ-म्भोजे, वर्म सुधाञ्जनं नयनयोः, केनैष सृष्टो युवा ॥४३३॥(शार्दूल०)हेप
यंती रतिमपि, श्रिया तां प्रेक्ष्य सुंदरीम् । सुमित्रोऽप्युद्यदानंद-संदोहो ध्यातवान् हृदि ॥४३४॥ सेनैव रतिसेनेयं, स्मरस्य त्रिजगजये । यस्याः कटाक्षनाराचा, दुस्सहास्त्रिदशैरपि ॥ ४३५ ॥ नेयं स्त्री यदि वा किंतु, शृंगाररसवाहिनी । यस्या | SIM९९॥ लावण्यपूरेऽस्मिन् , मजति युवद्गजाः ॥४३६॥ तयोचिंतयतोरेवं, मिथो दर्शनमात्रतः। निस्सीमः समभूत् प्रेमा, पूर्व संग
१ वर्षणशीलमेघोदके (तज्जलतुल्ये ). २ चेष्टमाने-वर्तमाने. ३ वडवानलवत् . ४ सूर्ये. ५ स्त्रीणां समूहः स्त्रैणम् . ६ कामवत् . . प्राप. ८ सर्वलोहमयबाणाः
Page #249
--------------------------------------------------------------------------
________________
तयोरिव ॥ ४३७ ॥ स तयाऽत्यर्थमभ्यर्थ्य, निजाssवासे न्यवास्यत । चिंतामणिं स्वयं प्राप्तं, मंदिरे कोऽवमन्यते ॥ ४३८ || स्नानप्सानादिभिः कृत्यैः, स्वयं स रतिसेनया । तथाऽसेवि यथा मेने, तां तदैव वशंवदाम् ॥ ४३९ ॥ मणिमाराध्य स स्वैरं ददौ श्रीपतिवद् धनम् । भोगाभोगं तयोस्तेनं तद्वृद्धा पर्यपृपुरत् ॥ ४४० ॥ सवित्री रतिसेनाषा, याबद् धनमयाचत । तावलक्षं च कोटिं च सुमित्रो हेलया ददौ ॥ ४४१ ॥ तस्य कल्पद्रुमस्येव, दानावू वृद्धाऽतिविस्मिता । दध्यौ न दृश्यते पार्श्वे, धनमस्य न चार्जना ॥ ४४२ ॥ स्वेच्छं यच्छत्ययं द्रव्यं, यत्तदस्य विर्मृश्यते । चिंताश्माथ निधिः सिद्धो रसस्तुष्टं सुरादि वा ॥ ४४३ ॥ मया सम्यगिदं ज्ञेयं, जरतीति विमृश्य सा । दासीं प्रेष्य धनं किंचिद्, ययाचे सचिवामजम् ॥ ४४४ ॥ स द्रव्यात्यै रहः स्थित्वा मणिं येष्टुं प्रचक्रमे । विवरे वीक्ष्य तं वृद्धा, लास्यामीति हृदाऽमृशत् ॥ ॥ ४४५ ॥ सुमित्रोऽपि तदर्थाऽन्ते, तदधिष्ठायकार्पितम् । द्रव्यं कर्मकरीहस्ते, यथाकामं समर्पयत् ॥ ४४६ ॥ अन्येद्युः स्नातुमासीने, तस्मिंस्तद्वसनाऽञ्चलात् । तद्रलमग्रहीदक्का, कर्करं न्यस्य तत्पदे ॥ ४४७ ॥ स्नात्वा सुमित्रो वस्त्रांते, ग्रंथिं निर्वर्ण्य तादृशम् । मणिस्तथैव मेऽस्तीति, मुग्धधीर्न व्यलोकयत् ॥ ४४८ ॥ तया निर्वासनकृते, याचितः स पुनर्धनम् । अर्चाक्षणे मणि पश्य - नपश्यत् कर्करं किल ॥ ४४९ ॥ दध्यौ च शून्यवज्जज्ञे, मणिर्मे किमु कर्करः । किं वाऽऽदाय मणि कोऽपि, दुष्टधीर्वद्धवानिमम् ॥ ४५० ॥ ततः सुमित्रः प्रत्येकं, प्रोचे वृद्धापरिच्छदम् । आत्तं स्याद् यदि केनापि, रलं मे तर्हि दीयताम् ॥ ४५१ ॥ भवदाज्ञां न विद्मस्तेंद्, वदतीति परिच्छदे । तन्निशम्य सुमित्रं सा, वृद्धा क्रुधाऽभ्यधादिति ॥
१ भोगविस्तारम् . २ धनेन ३ तस्या- रतिसेनाया वृद्धा माता. ४ तर्क्यते ५ पूजयितुम् ६ मणिम् ७ तत्स्थाने ८ दृष्ट्वा ९ भवच्छपथः १० रत्नम्.
Page #250
--------------------------------------------------------------------------
________________
तयेति
ACCECAUSAM
CAMERRIAGRARIA
कुमार
॥ ४५२ ॥ त्वद्दत्त्या पूर्यतां चौर्या-न्माऽस्मल्लोकं कलंकय । अस्मद्गद्रेहेऽपि चेच्चौर्य, तमोऽरौ न हि किं तमः॥४५३॥ तयेति पालच. ४ हक्कृितस्तूष्णी-मपुष्णान्मंत्रिनंदनः। अतिधूर्तोऽपि घृष्टोऽन्य-च्छरणं कुरुते हि किम् ? ॥ ४५४॥ निःस्वेनानेन किं
कार्य-मिति ध्यात्वाऽथ कुट्टिनी । स्वदासीः प्रेरयामास, तदवज्ञाकृतेऽन्वहम् ॥ ४५५ ॥ अवामंसत दास्यस्तं, स्नानपाना॥१० ॥
दिकर्मसु । आदिष्टाश्चावदन् किं न, त्वं करोषीति रोषतः॥ ४५६ ॥रतिसेनामपास्यैका, सर्वेषामप्यनादरम् । पश्यन्नश्यतमानंदो, दध्यौ धीसखनंदनः ॥ ४५७ ॥ अनयाऽवज्ञया नूनं, वृद्धैव मणिमग्रहीत् । सिद्धेच्छा चापमानान्मां, निर्विवासयिषत्यतः॥ ४५८ ॥ अहो जातिरहो भौति-रहो स्थितिरहो मतिः। अहो वंचनचंचुत्वं, पण्यस्त्रीषु प्रर्सपैति ॥ ४५९॥3 |पश्यत्यर्थकृते सुरानिव गलत्कुष्टानपि प्राणिनो, निःस्वान् दासवदस्यति स्वसदनात् प्राग्दत्तवित्तानपि । न स्नेहेन न विद्यया न रमया न प्रज्ञयाप्यात्मसाद्, विश्वांधकरणीह पण्यरमणी धात्रा कुतो निर्ममे ॥४६०॥(शार्दूल०)मद्यमांसमदमत्सरमायामोहमंडनमनोभवमुख्यान् । आश्रिताऽपि बहुशोऽपि मकारान्, किं ममत्वमयते न पणस्त्री ॥ ४६१॥ (स्वागता) अनया
मणिमादाय, वंचितोऽहं न केवलम् । स्वात्माऽपि यद् विनाऽऽम्नायं. नायं दास्यति किंचन ॥४६२॥ यद्वा निंदामि किं वेश्यां, हैवं निंदामि न किं हहा । कामं कामान्धलोऽहं यः, कामये पण्यकामिनीम् ॥ ४६३ ॥ असल्लेश्या श्रिता वेश्या, येन
धर्मजुषाऽपि हि । गृहीतो नियतं तेन, नरकप्राप्तिलग्नकः॥४६४ ॥ तथापि पापिनीमेनां, विगोप्यं निखिले पुरे । गृह्णामि
चेन्न रत्तं स्वं, मतिर्मे तर्हि गर्हिता ॥ ४६५॥ उपकृत्युपकत द्रा-गपकर्तुं च वैरिणि । प्रभविष्णुनें यः प्राणी, जीवञ्चपि ८१ सूर्ये. २ रीतिः. ३ वचननिपुणत्वम्. ४ प्रवर्तते. ५ आत्माधीना न भवतीति शेषः. ६ कस्मात्कारणात्. ७ गच्छति-प्राप्नोति.८ अशुभाध्यबसाया.९ प्रतिभूः.१० जुगुप्स्य.
त्तमानदो. आदिष्टाश्चावदन किं न, त्वरा भारयामास, तदवज्ञाकृतेऽन्वहम न हि किम् ? ॥ ४५४ ॥ नि
A CARA
॥१०॥
Page #251
--------------------------------------------------------------------------
________________
मृतो हि सः ४६६ ॥ भस्माप्यहिहतं हंतृ-शिरो यद्यधिरोहति । निराकृतः कृती तर्हि, न तत्प्रतिचिकीः किमु ॥ ४६७॥ विमृश्यैवमनुक्त्वैव, निरीय च तदालयात् । स्वमणिग्रहणोपायं, सुमित्रो ध्यातवान् पुनः ॥ ४६८ ॥ वीरांगदोऽस्ति | मन्मित्र-मत्र धात्रीधवोऽधुना । तस्मै निवेद्य सद्योऽपि, कर्षये किमितो मणिम् ॥ ४६९ ॥ यद्वा तस्य वयस्यस्य, संगस्ये न्यकृतः कथम् । मित्राश्रयोऽपि यल्लज्जा-वहः स्याद्व्यसने सताम् ॥ ४७० ॥ वयस्यं न श्रयेद् दुःस्थो, महानिति मतिर्मम। कृशः शशी श्रयन्मित्रं, स्वं नामापि विलुपति ॥४७१॥ तस्माद् भ्रान्त्वा भुवं कांचित् , कलयित्वा कैलां कलाम् । वेश्यातो मणिमादास्ये, संगस्ये सुहृदस्ततः ॥४७२॥ ध्यात्वेति पुरतस्तस्मात्, प्रस्थाय सचिवात्मजः।क्रमात् क्रामन् महीचक्र, स्फुरत् प्राप पुरः पुरम् ॥ ४७३ ॥ अत्युच्चस्वर्णशालाढ्यं, रत्नोरुकपिशीर्षकम् । स्वर्गगंगायितैश्चैत्य-ध्वजचेलांचलैर्लसत् ॥४७॥ प्रेक्षमाणः पुरं दूराद्, रंगतो गोचरं गतः। सुमित्रोऽमंस्त तच्छून्यं, नृतिरश्चामसंचरात् ॥४७५॥ युग्मम् ॥ इदमीहक कुतः शून्य-मिति विस्मितमानसः । सोऽन्तर्विवेश पूर्लक्ष्म्या, कृष्यमाण इवोच्चकैः॥ ४७६ ॥ श्रीपंथे श्रीपेथे स्फारान् , मुक्तौघान् जवनालवत् । रैभारान् क्षुद्रगिरिव-न्मणीनुपलखंडवत् ॥ ४७७ ॥ कर्पूरादीन् लवणवत्, क्षौमराशीन् वराशिवत् । पश्यन् मानपश्यंश्च, भूपवेश्मनि सोऽविशत् ॥ ४७८ ॥ युग्मम् ॥ तस्मिन्नाद्ये कणस्फार-कोष्ठागारपरंपराम् । द्वितीये कांस्यताम्रादि-विचित्रामत्रमंडलीम् ॥ ४७९ ॥ तृतीये रूप्यरूमादि-पात्राढ्यं च महीनसम् । तुर्ये क्षौमादिवस्त्राणि
१ सूर्यम्. २ खकीयम्. ३ मनोहराम्. ४ राजमार्गे. ५ वीप्सायां द्वित्वम्. ६ प्रचुरान्, ७ जवधान्यवत्. ८ स्थूलवस्त्रवत् ९ सुवर्णादि. १० अन्नपचनगृहम्, |११ कोषेयादिवस्त्राणि.
सायन मानपश्यंभारान् क्षुद्रगिरिव पश पूर्लक्ष्म्या, न्य, ऋतिरश्चामसंचारतश्चत्य-ध्वजचेलान् महीचकं, करता
Page #252
--------------------------------------------------------------------------
________________
कुमार
सर्ग. ५
पंचमे श्रीसदासदः ॥४८०॥ षष्ठे रत्नादिसद्धस्तु-कोश निधिपतेरिव । पश्यन् प्रविष्टवान् मंत्रि-नंदनः सप्तमे क्षणे॥४८॥ पालच० 18| त्रिभिर्विशेषकम् ॥ स तत्र स्वर्णपल्यंक-विश्रांतं करभीयुगम् । हेमशृंखलनद्धांहि-द्वंद्वं दृष्ट्वा विमृष्टवान् ॥ ४८२ ॥ किं
मोहः, किमु कौतुकं, किमु मनःसंकल्पना, किं भ्रमः, किं स्वमः, किमु शांबरी, किमु कला काऽपींद्रजालं किमु । दृग्बंध: ॥१०१॥
किमु, किं मैतिव्यवसितं, किं वेषकृत्कैतवं, किं चित्रं, किमु देवताकृतमिदं, किं वा परं किंचन ॥४८॥ (शार्दूल०) सर्वशून्ये पुरेऽत्रैतुं, प्रभविष्णु रोऽपि न । किं पुनः करभीयुग्म-मुपर्यारोदुमक्षमम् ॥४८॥आनीयतेह केनेदं, पल्यंके केन चास्यत। समनह्यत केनेत्थं, श्रृंखलेनेशं किमु ॥ ४८५ ॥ शय्यासे१षि दासेरी-द्वंद्व किं सृजतीति सः । ध्यात्वा प्राप्तोऽन्तिकेऽद्राक्षीत् , तन्नेत्रे ससिताञ्जने ॥ ४८६ ॥ तयोः पार्थे च धवल-कृष्णाञ्जनसमुद्गके । स्वर्णाञ्जनशलाकाठ्ये, दृष्ट्वा मंत्रिसुतोऽमृशत् ॥४८७॥ इमे केचित् स्त्रियौ नूनं, श्वेताञ्जननियोजनात् । कोऽपि सिद्धः सुरो वाऽपि, करभीचकृवान भीः ॥४८८॥ कृष्णाञ्जनेन चानेन, जाने स्वमतिवैभवात् । इमे रूपं प्रपद्येते, सद्यः स्वाभाविक पुनः॥ ४८९ ॥ किमञ्जनं निवेश्यैत-टू नेत्रयोः करवै स्त्रियौ। स्वदाक्ष्यस्याञ्जनस्यापि, पश्याम्यतिशयं स्वयम् ॥४९०॥ पिशाच्यावथ राक्षस्या-वेते भूत्वाऽञ्जनात्किल । मामग्राच्चेद् ग्रसेयातां, कः स्यान्मे शरणं तदा ॥ ४९१॥ एवमेव विमोक्ष्ये चेत्, तीन्तर्मनसं मम । एतच्छल्यमिवातुल्यं, यावज्जीवं व्यथिष्यते ॥४९॥ प्रियं वाऽप्यप्रियं वाऽस्तु, करिष्याम्येव साहसम् । न हि कातर्यतः किंचिच, छ्रेष्ठं सिद्ध्यति । १श्रीः सीदति अस्मिन् तत् श्रीसद तदस्ति यस्मिन् सदसि तत् श्रीसदासदः-लक्ष्मीगृहस्थानं, तत्. २ कक्षायाम्-विभागे (माळे). ३ उष्ट्रीयुगलम् . ४ अज्ञानसू.। १५ मिथ्याज्ञानम्. ६ इन्द्रजालप्रकारामाया शाम्बरी. *मतिवंचनम्, ७ रूपान्तरकृतू. ८ ईदृक्किमस्ति. ९ उपविष्टम्. १० भयरहितः. ११ एततू-करभीयुग्मम्
SACROSSROSHDSASUR
॥१०१॥
Page #253
--------------------------------------------------------------------------
________________
कहिचित् ॥ ४९३ ॥ ततस्तन्नेत्रयोस्थित् , सुमित्रः कृष्णमञ्जनम् । करभ्यावप्यभूतां ते, देवकांते इव स्त्रियौ ॥ ४९४ ॥ वेगादुत्तीर्य पर्यका-दाश्चर्यमधिरुह्य च । उपावीविशतां तत्र, तं नत्वा विनयेन ते ॥ ४९५॥ पृच्छति स्म सुमित्रस्ते, प्रशस्ते ! तथ्यमुच्यताम् । कुतः शून्यं पुरं? के च, युवां? करभिके च किम् ? ॥४९६॥ तमाचष्ट तयोर्येष्ठा, गिरा माधुर्यधुर्यया । हेपयंतीव वीणाया, वेणोरपि च निक्कैणम् ॥ ४९७ ॥ उत्तरस्यां प्रशस्यश्री-सद्म पद्मवदन्वहम् । सुभद्रपुरमित्यस्ति, पुरं भद्रंकरं सताम् ॥ ४९८ ॥ स्वतातहिमवद्भांति, बिभ्राणेव सुरापगा। उन्नतं सेवते यस्य, शालमालंब्य सन्निधिम् ॥ ४९९ ॥ गंगादित्य इति श्रेष्ठी, तत्रास्त्यादित्यसद्युतिः। सच्चक्राणां मुदं दत्ते, यः पद्मोल्लासलालसः॥५०॥ आकालिकीव लोलाऽपि, कमला यस्य वेश्मनि । स्थेयसी प्रेयसीवासीत्, पुण्येन कृतकार्मणा ॥ ५.१॥ वसुधारेव विश्वस्य, परमानंददायिनी । तत्प्रिया वसुधाराऽऽस्ते, रूपाद् रतिरिवापरा ॥ ५०२॥ तयोर्निरुपमप्रेम्णोः , पुण्यनैपुण्ययोगतः। गाईस्थ्यद्रोः फलानीव, बभूवुनंदना घनाः॥ ५०३ ॥ तौ दंपती कदाऽप्येवं, दध्यतु? सुता घनाः । दुहितैकाऽपि नास्त्येषां, या स्यान्मंगलकारिणी ॥५०४॥ लोकस्याहो स्थितिः काऽपि, पुत्री पुत्री समीहते ॥ पुत्रीवानपि पुत्रं च, यद्वा जगदसत्मि| यम् ॥ ५०५॥ उपास्यत ततस्ताभ्यां, तदर्थ गोत्रदेवता । तद्वरं मुदिताऽदत्त, तुष्टा 'कामदुघेव' सा ॥५०६॥ तत्प्रभावात् तयोः पुत्र्यौ, बभूवतुरुभे शुभे । आद्या जया द्वितीया च, विजया विनयाऽऽस्पदम्॥५०७॥बहुपुत्रानुजातत्वाद्, भाग्यसौभाग्यतोऽपि च ।मातापित्रोः सँगर्भाणा-मप्यभूतामिमे प्रिये॥५०८॥क्रमात् कलासु सर्वासु, शारदावद् विशारदे । श्रियाऽ१ असु क्षेपणे-लुबिरूपम्. २ ध्वनिम्. ३ पद्मा-लक्ष्मीः पक्षे पञ-कमलम्. ४ विद्युदिव. ५ आवयोः.६ पुत्रवान्, ७ अविद्यमानवस्तुप्रियम्. “ भ्रातृणाम्. ९ शोभया.
५०४॥ लोकत्तागोत्रदेवता । तर
CREASk
नयाऽऽस्पदम
Page #254
--------------------------------------------------------------------------
________________
41.9CCESS-250
कृमार- त्यप्सरसौ जाते, चारुतारुण्यतः शुभे ॥ ५०९ ॥ येष्वंगेषु न लावण्य-मसंपत्त्या विधिय॑धात् । हेलयैवाहितं तेष्व-प्यहो पालच तेद्यौवनश्रिया ॥५१०॥ इतश्च गंगादित्यस्य, गंगातीरवनांतरे । सुशमोख्यः सुधमोऽस्ति, परिबाडू गुरुसत्तमः॥ ५११॥
तत्र गत्वा स्वयं श्रेष्ठी, तं नमस्कृत्य भक्तितः । अत्यर्थमर्थयामास, भुक्त्यर्थ स्वीयवेश्मनि ॥५१२ ॥ ऊचे सुशर्मा धर्मज्ञ,दा ॥१०२॥
भक्तस्यैतत् तवोचितम् । परं गृहिगृहं गंतुं, यतीनां नास्ति योग्यता ॥५१३॥ यतित्वं नाशयत्याशु, स्तोकोऽपि गृहिसंगमः। तृणौघं निर्दहत्येव, हुताशनलवोऽपि हि ॥ ५१४ ॥ द्वाविमौ पुरुषो नैव, स्वार्थसार्थसमर्थकौ । यतिः संगपरः शश्वद, गृहस्थः संगवर्जितः ॥ ५१५ वदंतमेवं निर्व्याजं, परिव्राजं बलादपि । बुभोजयिषया श्रेष्ठी, निग्ये स्वगृहमाग्रहात् ॥५१६॥ तं महेशमिवाध्यक्ष, कल्याणमिव मूर्तिमत् । दृष्ट्वाऽजनिष्ट तुष्ट्योच्चैः, पुष्टं श्रेष्ठिकुटुंबकम् ॥५१७ ॥ मूर्तभक्तिरसेनेव, |पयसा तत्पदौ स्वयम् । प्रक्षाल्य परमे स्थाने, श्रेष्ठी भोक्तुं न्यवीविशत् ॥५१८॥ सत्कवेः काव्यवद् वर्ण-नीयवर्ण सुसंस्कृतम् । रसाढ्यमशनं भोक्तुं, सुशर्मा स प्रचक्रमे ॥५१९ ॥ अनास्वादितपूर्व त-दमन्नानारसं व्रती। माधुयेंकरसां मेने, सुधां तस्य पुरस्तृणम् ॥ ५२०॥ सपुत्रः सकलत्रोऽपि, श्रेष्ठी तद्भक्तिमाचरन् । व्यजनानिलमाधत्तं, युवामि
त्यूचिवान् सुते ! ॥ ५२१॥ श्रृंगारयंत्यो श्रृंगार-मप्यात्मीयांगसंगतः । उद्वेलयंत्यौ वक्रंदु-कात्या स्नेहमहोदधिम् ॥ GIn५२२॥ मंत्राक्षतैरिव क्षिप्तै-चंचलैर्लोचनांचलैः। मोहयंत्यो प्रति मुह-मुनीनामपि मानसम् ॥ ५२३ ॥ परिव्राजः।
G ॥१०२॥ । १ अतिविभवाभावात्. २ लावण्यम्. ३ भोक्तुं प्रयुक्त इति भोजयति, भोजयितुमिच्छतीति बुभोजयिषतीति णिजन्ताद भुजः सन् ततो 'ऽप्रत्ययादि'त्यप्रत्ययस्तत 15 आए बुभोजयिषा तया. ४ रम्ये स्थाने तं, प्र. रहःस्थाने तं, प्र. ५ कुरुतम्. ६ पुत्र्यौ ! ७ शृंगारयत इति शृंगारयंत्यो. ८ शृंगाररसम्-आभूषणं च.
4584
Page #255
--------------------------------------------------------------------------
________________
कु.पा.च. १८
पुरः स्थित्वा, ते जयाविजये सुते । सकंकणझणत्कारं, चक्रतुर्व्यजनानिलम् ॥ ५२४ ॥ त्रिभिर्विशेषकम् ॥ तस्य तद्दर्शना - देव, शीतरश्म्युदयादिव । समुद्रस्येव हृदयं, तत्क्षणं चुक्षुमेतमाम् ॥ ५२५ ॥ पीयमानो मनोर्हत्य, तल्लावण्यसुधारसम् । भोज्यं विषान्नवन्नैव, सरवदे तापसेश्वरः ॥ ५२६ ॥ तद्दृष्टिधनवर्धिष्णौ, रागपूरे निमज्जतः । स्थानेऽभूत् तस्य नाऽऽधारो, दूरितैः शीलपादपः ॥ ५२७ ॥ अहो जितेन्द्रियस्यापि, कायारण्ये मनोमृगम् । प्रकाश्य स्त्रीमयं पाशं, कामव्याधो निय|च्छति ॥ ५२८ ॥ असीव्यद् देहे स्वे पशुपतिरुमां, कंसमथनो, विगुप्तो गोपीभि - र्दुहितरमयासीत् कमलभूः । यदादेशादेतजगदपि मृगीदृक्परवशं स वश्यः कस्य स्यादहह विषमो मन्मथभटः ॥ ५२९ ॥ ( शिखरिणी ) तत्प्राप्युपायं स ध्यात्वा, कंचिच्चेतसि शोच्यधीः । हित्वा कदन्नवद् भोज्य - माचम्य च समुत्थितः ॥ ५३० ॥ विमनस्कमिवालोक्य, गंगादित्योऽन्वयुक्त तम् । किं व्याधिर्बाधते वाऽऽधिः, सम्यग् नाभोजि यत् त्वया ? ॥ ५३१ ॥ स मायी तं रहः स्माह, विघ्नं वीक्ष्य भवद्गृहे । कथं भुंजे यतो याज्यं - स्नेहो मामपि बाधते ॥ ५३२ ॥ को विघ्नः कथ्यतां तथ्य — मिति श्रेष्ठिनि पृच्छति । आगच्छेर्मठमाख्यामीत्युक्त्वाऽगाद् गुरुराश्रमम् ॥ ५३३ ॥ गंगादित्योऽथ तत्पार्श्व, श्रित्वा प्रश्नयति स्म तम् । गुरो ! निगद्यतां सद्यः कः प्रत्यूहोऽस्ति मद्गृहे ? ॥ ५३४ ॥ सुशर्माऽऽचष्ट दुष्टस्तं, किमहं करवै वद । एकतो मे व्रतभ्रंशोSन्यतस्तव कुलक्षयः ॥ ५३५ ॥ गृहस्थचिंताकरणाद्, याति जीवितवद् व्रतम् । तां न मे तन्वतस्त्वेतत्, क्षीयते निखिलं
१ परिव्राजः. २ इच्छाप्रतिघातं कृत्वा ३ जग्धिवान्. ४ युक्तम्. ५ दूरं संजातं यस्य स दूरितः " तदस्य संजातं तारकादिभ्य इतच्”. ६ प्रकटयित्वा . बध्नाति ७ जुगुप्सितः ८ शोच्या शोचनीया धीर्यस्य सः ९ अपृच्छत् १० यजमान ( भक्त ) स्नेहः.
Page #256
--------------------------------------------------------------------------
________________
कुमारपालच०
॥१०॥
25
त्वं कृपालोचष्ट तं पुनमालितश्रीके, भनकी त्वं समागध्ये शांतिकं ततः याऽपि स वा
पाश्च, वद किं करवाए परेउवि चतुर्दश्यांत सत्र पुथ्यौ निजे न्यस्माताटम् ॥ ५४४ ॥ त्रि
कुलम् ॥ ५३६ ॥ तुष्टस्तथापि भत्त्या त्वां, वच्मि श्रेष्ठिन् ! सुते तव । सदूषणतयाऽत्यन्तं, त्वत्कुलं क्षपयिष्यतः॥५३७॥ यथाऽनयोस्तनावस्ति, निःसीमं कामनीयकम् । तथा दोषोदयोऽप्युच्चै, रत्नदूषी यतो विधिः॥ ५३८॥ परिणाय्याथ दत्से त्वं, यदि कस्यापि नंदने । तर्हि तत्कुलनाशोऽथ, पातकैरुपलिप्यसे ॥ ५३९ ॥ गंगादित्यस्तदाकर्ण्य, प्रमीत इव पृष्टवान् । त्वं कृपालुः कलावांश्च, वद किं करवाण्यहम् ? ॥ ५४० ॥ पंफुल्यामास मे नूनं, सद्योऽपि छद्मपादपः। इति दुष्टोऽतिहशामा सशर्माऽऽचष्ट तं पुनः॥५४१॥ परेद्यवि चतुर्दश्यां, श्यामायां दिनयौवने । दारव्यां नव्यपेटाया-मच्छिद्रायां समंततः॥ ५४२॥ दुकूलोन्मीलितश्रीके, भव्याभरणभारिते । तत्र पुत्र्यौ निजे न्यस्य, विनिवेश्य च तालकम् ॥५४३॥ तो पेट समपादाय, बलिपुष्पादिसंयुताम् । एकाकी त्वं समागच्छे, रहः स्वस्तटिनीतटम् ॥ ५४४ ॥ त्रिभिर्विशेषकम् ॥ तत्राहं स्वयमागत्य, बलिनिक्षेपपूर्वकम् । पेटां चाप्लाव्य गंगायां, करिष्ये शांतिकं ततः॥ ५४५ ॥ एवं कृते कृतिन् ! भावि, कुशलं त्वत्कुलेऽखिले । यदि क्षेममभिप्रैषि, तर्हि निर्माहि मा मुहः ॥५४६॥ इत्थं मिथ्याऽपि स स्वार्थी, तथाऽहो तदची(च)कथत् । गंगादित्यो यथा मेने, सत्यमेवातिमुग्धधीः॥५४७॥ कृत्वा स्वार्थसमर्थनाय विविधां मायामयीं चातुरी, विद्या. ज्ञानकलौषधादिविधिभिर्ये वंचयंते जगत्। अंतर्दुष्टहृदो बहिर्बतभृतः पाखंडिनस्तेऽपि चे-जायंते गुरवस्तदा कथमहो नामी बकोटादयः ? ॥५४८॥ (शार्दल०) श्रेष्ठ्यथागारमागत्य, न कस्यापि प्रकाश्य तत् । चतुर्दशीदिने प्राप्ते, तत्सामग्रीमतीतनत् ॥५४९॥ अन्याऽपि कन्या धन्याऽपि, स्यादन्यावासमंडनम् । अनयोर्दुष्टयोस्त्यागे, हानिः का नाम मे ननु ॥५५०॥ध्यात्वेत्य१ अतिशयेन पफाल-फलवान जात इत्यर्थः. २ निपातनात्-अव्ययम्-परदिवसे इत्यर्थः. ३ द्वारयंत्रम्. (ताल) ४ गंगातटं. ५ अन्तर्वृत्या दुष्टं हृदयं येषां ते.
॥१०॥
Page #257
--------------------------------------------------------------------------
________________
स्मत्कुले कन्या, नमत्येवं धुंनिम्नगाम् । इति मिथ्योत्तरेण स्वं, प्रत्याग्य च परिच्छदम् ॥ ५५१॥ सर्व गुरूक्तमादाय, पेटांत सतनयायाम् । उत्पाव्य च जनैः श्रेष्ठी, स्वःसरित्तटमाटिवान् ॥५५२॥ त्रिमिर्विशेषकम् ॥ तिब्रुवोऽपि तत्रैत्य, श्रेष्ठिभृत्यान् प्रहित्य च । आप्लावयत् स्वपुण्यालि-मिव पेटां नदीजले ॥५५३॥ कृत्वा च शांतिकं सम्यग् , गंगादित्यं गुरुर्जगौ। गच्छ त्वं त्वत्कुलेऽद्यासीत् , क्षेमं विघ्नविघातनात् ॥ ५५४ ॥ गत्वा गृहं जगौ श्रेष्ठी, गंगायां प्लाविता सती । सा पेटाऽगात पयोवेगाद्, धतु नाशाकि केनचित् ॥ ५५५ ॥ हा वत्से ! दर्पणस्वच्छे, युवयोः किमजायत । यन्नीते वंदितुं गंगां, तयैवापहते रयात ॥ ५५६ ॥ एवमादि विलप्योच्चै गादित्यः कुटुंबयुक् । तदीदेहिकं चक्रे, धिगहो कूटनाटकम् ॥ ५५७ ॥ युग्मम् ॥ शठोऽथ मठमभ्येत्य, परिव्राट् कूटकोटिभृत् । विप्रलंभयितुं शिष्यान् , मूर्खमुख्यानिदं जगौ ॥५५८ ॥ अद्याह स्म समाधिस्थ, शंकरो मां पुरः स्फुरन् । तुष्टस्तेऽस्मि यतिन् ! ध्याना-देकतानमनःकृतात् ॥ ५५९ ॥ हिमाद्रेः स्वयमानीतस्फीतदिव्यौषधान्विताम् । पेटा तुभ्यं प्रहेष्यामि, प्रवाहे सिद्धसैंधवे ॥५६॥ त्वया विनेयैरानाय्या, सा तदौषधयोगतः। विद्याः सेत्स्यति हृद्यास्ते-ऽवश्यं विश्वैकवश्यदाः॥५६१॥ तद्युष्माभिर्जवाद् यात्वा, स्वर्वापी प्रति संप्रति । पेटा झटित्यु|पानेया, नोद्घाव्या च कथंचन ॥ ५६२ ॥ अहो अस्मद्रोर्भाग्य-भंगीसंगीतकं महत् । प्रहिणोति हरो यस्मै, मंजूषां | मंजुलौषधाम् ॥ ५६३ ॥ इत्यमंदतमानंदा-स्ते शिष्यास्त्वरयातुराः । तुंगं गंगातटं श्रित्वा, तामायांतीं व्यलोकयन्
१ गंगाम्. २ अगमत्. ३ दुष्टो व्रती तिब्रुवः. ४ अधुना. ५ जातम्. ६ वृद्धo-महतू०, सिद्धसिन्धुः-गंगा. ७ गत्वा. ८ गंगाम्. ९ सम्यक्मानम्. १० अभीलाभार्थ विलंबासंहनेन-उत्सुकाः.
Page #258
--------------------------------------------------------------------------
________________
कुमार
॥ ५६४ ॥ युग्मम् ॥ अथ सा सहसाऽऽयांती, मंजूषा क्रीडितांभसि । एतन्महापुरेशेन, सुभीमेन न्यभाल्यत ॥ ५६५ ।। पालच. आनाग्य तो समुद्घाट्य, प्रतिकुंचिकया रयात् । स्वःकन्ये इव ते कन्ये, सुभीमस्तत्र दृष्टवान् ॥ ५६६ ॥ किमेते मूल
जातत्वाद् , विषकन्यात्वतोऽथवा । त्यक्त गंगाऽर्थनार्थ वा, मुक्के निर्दूषणे भपि ॥ ५६७ ॥ इत्याद्यनल्पसंदेहो, भूपस्तद्रूप॥१०४॥
मोहितः । ते स्त्रियौ जगृहे को हि, स्त्रीरत्नं हस्तगं त्यजेत् ? ॥५६८॥ युग्मम् ॥ तत्रान्यस्त्रीद्वयन्यास-मंत्रमेकस्य मंत्रिणः। मुक्त्वाऽन्याऽमात्यमंत्रेण, वनादानाय्य तत्क्षणम् ॥ ५६९॥ क्षिप्त्वा च मर्कटीयुग्मं, तालयित्वा च पूर्ववत् । सुभीमः प्लावयामास, पुनः पेटां सरिजले ॥ ५७० ॥ युग्मम् ॥ शिष्यास्ते तां समायांती, दृष्ट्वा कृष्ट्वा च वेगतः । मठापवरकेऽमुंचननर्थमिव देहिनम् ॥ ५७१ ॥ सुशर्माऽथ कृतोन्माथः, पृथुमन्मथहेतिभिः। दिनांतं दृष्टवान् स्वस्य, दिनांतमिव भूरिशः ॥ ५७२ ॥ कर्मसाक्ष्यपि सर्वेषां, तदा तत्कर्म पीक्षितुम् । अनीश इव तेत्पुण्य-मिवास्तं तरणिययौ ॥ ५७३ ॥ श्रेष्ठिकन्ये प्रति प्रौढं-स्तद्राग इव मूर्तिमान् ।रंजयन्निखिलं व्योम, संध्यारागोऽस्फुरत्सतः॥५७४॥ परिवाजोऽतिदुर्ध्यान-संजातैदुरितैरिव । तमोभिानशे लोकः, समुद्ग इव कज्जलैः॥ ५७५ ॥ स स्वशिष्यान् जगौ विद्या, साधयिष्याम्यहं निशि । युष्माभिस्तालयित्वोच्चै-रं स्थेयं मठाद्वहिः॥ ५७६ ॥ कोकूयमाना सो दुष्टा, द्वारमुद्घाटयेद् यदि । तथापि न तदुद्
१ स्वर्गकन्ये. २ मूलनक्षत्रजाता कन्या कुलनाशिनी भवति अतः. ३ पेटायाम्. ४ आरामात्. ५ उत्पादितोन्मादः. ६ शनैः. ७ आयुषो दिनान्तमिव-भाग्यान्त र ID मिव वा. ८ असमर्थः. तापसपुण्यमिव. १. उत्कट:. ११ तापसराग इव. १२ तापसस्स. ११ जगत. १४ भृशं पुनः पुनः वा कवते इति कोकूयते, इति ||DI
कोकूयमाना (कु-शन्दे-यबन्तं). १५ विद्या.
SUGGAGASASAASAASAASAASAS
॥१०४॥
Page #259
--------------------------------------------------------------------------
________________
घाट्यं, न भेतव्यं च चेतसि ॥ ५७७ ॥ शिष्यैस्तथा कृते रात्रौ परिव्राड् दूरितर्व्रतः । मंजूषाभ्यास॒मध्यास्य, वक्तुमेवं प्रचक्रमे ॥ ५७८ | आजन्माप्यप्रपंचेन, प्रपंचोऽयं मयाऽखिलः । भवन्निमित्तं विदघे, 'विधेयेन मनोभुवः ॥ ५७९ ॥ पूज्य| तादेवताऽवाप्ते - रिहामुत्र च यद्धितम् । युष्मत्कृते मयाऽमोचि, तृणवत् तदपि व्रतम् ॥ ५८० ॥ तत्प्रसद्यानवद्यांग्यौ ?, युवाभ्यां स्मरतापितम् । निजांगसंगमरसै - निर्वाप्यं मामकांगकम् ॥ ५८१ ॥ इत्याद्यालप्य पेटायाः, स द्वारमुदजीघटत् । रुषोत्कटे मर्कटिके, विकेटे निर्गते ततः ॥ ५८२ ॥ चतुर्भिः कलापकम् ॥ क्षुधिते ते तृषार्त्ते च, संकोचात् प्रच्युते चिरात् । तमसा द्वारमप्राप्य तमेवात्तुं विलेगतुः ॥ ५८३ ॥ आभ्यां निभाव्य स्त्रीरूपं, कर्मैतन्निर्ममेऽमुना । इतीव तस्य वानयप्राग्व्यदारयतां दृशौ ॥ ५८४ ॥ इदं दुष्कर्मलग्नस्य, परित्राजोऽस्य नोचितम् । ते तन्नक्रमतो नूनं, त्रोटयांचक्रतुः क्रुधा ॥ ५८५ ॥ अनेनैव सुशर्माऽयं दध्यौ दुष्टमिति ध्रुवम् । मर्कट्यौ खंडशस्तस्य, हृदयं परितेनतुः ॥ ५८६ ॥ परींगनापरिध्वंग - रंगोऽनेनाऽयमैहत । तस्येतीवाखिलं गात्रं, मुहुर्भक्षयतः स्म ते ॥ ५८७ ॥ इत्थं शाखामृगीभ्यां स भक्ष्यमाणाखिलांगकः । व्याकुलात्मा सपूत्कारं, स्वशिष्यानिदमूचिवान् ॥ ५८८ ॥ रेरे केनापि पापेन, मद्विषा मर्कटीर्जुषा । मंजूषा प्रेषिता ताभ्यां दार्यमाणोऽस्मि मेषवत् ॥ ५८९ ॥ द्वारमुद्घाट्यतां तूर्णं, गुरुणा कार्यमस्ति चेत् | नो चेदहं प्रेमीतो, ऽस्मि, युष्माकं तिष्ठतामपि ॥ ५९० ॥ गुरौ बुंबापरेऽप्येवं, शिष्यास्तद्वारिताः पुरा । तद्विद्याविकृतं मत्वा, द्वारं नैवोदजी
1
१ दूरितं दूरं गतं व्रतं यस्य सः २ वशंगतेन. ३ व्रतम्. ४ तस्मात् ५ महत्यौ ६ बन्धनात् छुटिते. ७ दृग्भ्याम् ८ नक्रं नासिका ९ हृदयेन. १० परख्यालिंगनानन्दः ११ गात्रेण. १२ युता, प्र. १३ मृतः.
Page #260
--------------------------------------------------------------------------
________________
सर्ग.५
कुमारपालच०
॥१०५॥
GANA GAR
घटन् ॥ ५९१ ॥ ततः स प्लवगीखंडी-कृतांगस्तिलचूर्णवत् । पापीयानिति मत्वेव, प्राणैः सद्योऽपि तत्यजे ॥ ५९२॥ दुष्टकर्मा सुशर्माऽसौ, रौद्रध्यानतया मृतः । बभूव राक्षसद्वीपे, राक्षसोऽतिनृशंसहृत् ॥५९३ ॥ मृषावादः प्रौढिं दृढयति, शुभं नश्यति, जने-प्रतीतिर्न वापि, स्फुरति मनसि ध्यानमशुभम् । अकीर्तिस्त्रैलोक्ये लसति, चिरमंते च कुगतिः, फलान्येतानि स्युर्ननु तनुभृतां वंचनतरोः॥ ५९४ ॥ (शिखरिणी) विज्ञायावधिना स्वस्य, सुभीमं मृत्युकारणम् । स कौणपोऽतिकोपेन, पुरमेतदुपागमत् ॥ ५९५॥ निर्भास्फाल्य च ग्राष्णि, निर्णेजक इवांबरम् । स तं जघान कःशक्तः, सहतेऽन्यपराभवम् ॥ ५९६ ॥ मुक्त्वा ते द्वे स्त्रियौ सर्वान् , पौरांश्च निरवासयत् । द्विषद्गृह्यो हि निग्राह्यो, द्विषत्क्षेपे नयो ह्ययम् ॥ ५९७ ॥ अहो भृशं दुरंतोऽसौ, परदारग्रहाऽऽग्रहः । न स्वस्यैव यतो नाशः, परेषामपि किंतु सः॥ ५९८ ॥ सा |जया विजया सा च, ते आवां श्रेष्ठिनःसुते । राक्षसोद्वासितमिदं, पुरं स्फुरति ते पुरः॥५९९॥ एतवृत्तं निजं सर्व, स एवा ख्याय राक्षसः । बभाषे माग्भवप्रेम्णा, परिणेष्ये युवामिति ॥ ६०० ॥ एकाकिन्यौ पुरे शून्ये, बिभेष्यत इमे इति । सृष्दै. तदंजनद्वंद्व-मुष्ट्रीत्वस्त्रीत्वकारकम् ॥ ६०१॥ कृत्वा श्वेतांजनेनावां, करभीभावभासुरे । स याति राक्षसद्वीपं, द्वित्रैर्घ
रुपैति च ॥ ६०२॥ युग्मम् ॥ त्वराहूतश्चिरादेति, चिराहूतश्च सत्वरम् । विपर्यस्ता स्थितिस्तस्य, वेधसाऽपि न बुध्यते है॥ ६०३ ॥ एवं व्यसनपाथोधा-वावां देवेन पातिते । न कोऽप्युद्धर्तुमेतस्मा-दस्ति निस्तुषविक्रमः ॥ ६०४ ॥ परमद्यापि नौ व्यापि, किंचिद्भाग्यं विजर्भते । दीनानाथैकजीवात-येनाकृष्टो भवानिह ॥ ६०५॥ चिंतयौपयिकं किंचिद, १ निर्दयहृदयः. २ विभंगेनेत्यर्थः. ३ सुभद्रपुरस्म राजानम्. ४ रजक इव वस्त्रम्. ५ शत्रुपक्षीयः. ६ नीतिः. ७ नाशः. * हृदि, प्र. घेते-विद्यते. ९ विचारय.
॥१०५॥
Page #261
--------------------------------------------------------------------------
________________
येनामात कोणपाधमात् । पंचाननात् कुरंगीव-दावां मोचयसे रयात् ॥१०६॥ परोपकाराहितराभसिक्या-स्वस्य कष्टं विमृशंति संतः । किमंगघर्षेण जगजनानां, न चंदनास्तापभर हरति ॥१०७॥(उपेन्द्रवज्रा) इत्युच्चैश्चाटुकोटिभि-स्ताभ्यां स्त्रीभ्यां स भारितः । सुमित्रश्चिंतयामास, दाक्षिण्यैकमहोदपिः॥६०८॥ एकतः क्रूरकोटीरः, स कीनाशो हरत्यसून् । अन्यतः शरणं प्राप्ते, त्राणार्हे स्त्रीतमे इमे ॥ ६०९॥ एतदर्थ वरं प्राणान् , मुंचे सत्वरगत्वरान् । न पुनः प्रार्थनाभंग, कृत्वा गच्छामि रंकवत् ॥ ६१०॥ अभ्यास्य धैर्यमूर्जस्वि, नयाम्येते पुरं निजम् । रक्षिता भविता कोऽपि, त्रयाणां पुण्यनैपुणात् ॥ ६११॥ राक्षसेनास्मि मुक्तश्चेत्, तदैते दयिते मम । अथ तेन हतस्तहि, परार्थाः सांधवोऽसवः ॥ ६१२ ॥ सुमित्रः पृष्टवान् कन्ये, स कदैष्यति राक्षसः। अद्येति ताभ्यामुक्तेऽसौ, स्माहाऽऽकार्यस्तदा द्रुतम् ॥ १३॥ स्त्रीभ्यां प्रोचे स गंधेन, ज्ञात्वाऽत्र त्वां हनिष्यति । अतोऽधः कोशसदने, स्थित्वैतां क्षपय क्षपाम् ॥ ६१४ ॥ एतां तन्मतिमाहत्य, करभीकृत्य च स्त्रियौ । सुमित्रः कोशमध्यास्य, निश्चेष्ट इव तस्थिवान् ॥ ६१५ ॥ विभावयाँ विभातायां, सुमित्रो निर्गतस्ततः। ते नारीकृत्य पप्रच्छ । नैशं कीनाशचेष्टितम् ॥ ६१६ ॥ ऊचतुस्ते निशि प्राप्तः, कन्याद् गन्धं नरोद्भवम् । लब्ध्वा कोऽपि नरोऽत्रेति, जल्पन् विश्वक्षिपद् दृशौ ॥ ६१७ ॥ गंधोऽयमावयोरेव, नार्यो न्योऽस्ति कश्चन । मुमूर्षुः कः समभ्येति, गुहागर्भ द्विपद्विषः ॥ ६१८ ॥ इत्यस्मद्वचसा सोऽति-प्रतीतो यामिनी स्थितः । पुनः शीघ्रं समागच्छे–रित्युक्तोऽगान्निजं
१रभसः (औत्सुक्यं ) प्रयोजनमस्येति रामसिकस्तस्य भावः राभसिक्यं तस्मात्. २ भारयुक्तः कृतः, प्रेरितः. ३ अवलंब्य. ४ धन्या भविष्यन्ति प्राणाः |५क्षपयेः क्षिपाम् , प्र. ६ आश्रित्य. रात्र्यां गतायाम्. ८ कव्यं-मांसमत्ति-भक्षयतीति क्रव्याद्-राक्षसः. ९ गुफामध्यम्. १० सिंहस्य.
MOCOCCACOCACROSA
Page #262
--------------------------------------------------------------------------
________________
कुमार- गृहम् ॥ ६१९ ॥ युग्मम् ॥ अथांजनद्वयं लात्वा, दासेरीकृत्य ते स्त्रियौ । कोशाऽऽत्तसगनभृते, गौण्यौ तत्र निवेश्य च पालच० ॥ ६२० ॥ अध्यास्य करभीमेकां, द्वितीयां च करे श्रयन् । सुमित्रः प्रस्थितो धीरो, महाशालपुरं प्रति ॥६२१॥ युग्मम् ॥
कौणपापातमीत्या स, क्रामन् मार्ग समीरवत् । मध्येकांतारमद्राक्षी-नरमेकं तरोस्तले ॥ ६२२ ॥ अयं रविरिवौजस्वी, ॥१०६॥
सोमवत् सौम्यदर्शनः। योगीव ध्यानबद्धात्मा, चित्रन्यस्त इव स्थिरः॥ ६२३ ॥ नूनं लोकोत्तरस्फूर्तिः, सिद्धः कश्चन 18 दीप्यते । रक्षिष्यति च मां भीत-मस्माद् राक्षसवैशंसात् ॥६२४॥ ध्यात्वेति करभीद्वंद्वं, बद्धाऽऽसन्नतरे तरौ । नमस्यामास | सोल्लासः, सुमित्रस्तं नरोत्तमम् ॥ ६२५॥ त्रिभिर्विशेषकम् ॥ ध्यानं भित्त्वाऽऽशिषं दत्त्वा, सिद्धस्तं पृष्टवान् वद । कस्माद् वत्स ! सचिंतोऽसि ?,सोऽथ प्रीतस्तमूचिवान् ॥ ६२६ ॥ दवज्वालेव मेऽस्त्युच्चै-चिंता संतापकारिणी । यदि तत्रांबुदायेथाः, संपृच्छेथास्तदा प्रभो ! ॥६२७॥ स्मित्वाऽभ्यधत्त सिद्धस्तं, संदिग्धिः केयमस्ति ते । शक्तिं चमत्कारकरी, शृणु कांचन मामिकाम् ॥ ६२८ ॥ भूतव्यंतरयक्षराक्षसकुलं स्तनामि हुंकारतः, सूर्याचंद्रमसौ करोमि च करे, श्रोतष्पति शोषये । आकर्षामि समं सुरैः सुरपति, नागेश्वरं सोरगं, विश्व चान्यथयामि, नास्ति मम भो! किंचित् क्वचिद् दुष्करम् ॥६२९॥ (शार्दूल०) तदवष्टंभसंतुष्टो, रक्षोवृत्तांतमादितः। विज्ञप्य तस्मादभयं, सुमित्रस्तमयाचत ॥६३०॥ तावदुद्घाटितद्वार-पुरवद् विवृताननः । ऊद्धीकृतभुजःशैल, इव शृंगाग्रपादपः॥६३१॥ ज्वलदृष्टिझलत्कार-तडिइंडेन मंडितः।
१ भारुम. २ आपात-आगमनम्. ३ तेजस्वी. ४ विकाशः. ५ शोभते. ६ बधकातू-पातकात्. . संदेहः, ८ समुद्रम्. १ अन्यथा करोमि-विपरीतं करोमि. १० राक्षसात्.११मलत्कार:-प्रकाशः,
SRIGAMGARCALCREAUCRACHAR
tortoronto
Page #263
--------------------------------------------------------------------------
________________
ब्रह्मांडभांडनिर्भेदि-ध्वानो घन इवासितः ॥ ६३२॥ ऊर्द्धवर्धिष्णुमूर्धाऽभ्र-मुच्चमप्युच्चयन्निव । भूरिभारामपि क्षोणी, पद्भरैर्भारयन्निव ॥ ६३३ ॥ अतिरौद्रतया मृत्यु-मपि संत्रासयन्निव । रोषद्विगुणवेगाब्यः, पृष्ठे प्राप स कौणपः ॥६३४॥ चतुर्भिः कलापकम् ॥ कुर्वन्निव जगच्छब्द-मयं किलकिलारवैः। अमात्यपुत्रमाचष्ट, सोऽथ दुष्टशिरोमणिः॥ ६३५ ॥ रे पार्टच्चरकोटीर!, सामान्यं साहसं न ते । मृत्योरिव मम स्थानं, यः क्रांत्वाऽहरत स्त्रियौ ॥ ६३६ ॥ सुभीमो हृतवान् यः प्राग , मत्पत्न्यौ स यमातिथिः । सकुटुंबो मया चक्रे ऽधुना त्वं च करिष्यसे ॥ ६३७ ॥ मां विराध्य कियत्कालं, जिजीविषसि रे जड ! । मृगारातिं पराभूय, किं जीवति मृगश्चिरम् ॥ ६३८॥ ददृश्वान् यदि मां न त्वं, तर्हि किं नापि शुश्रुवान् । राक्षसोऽहं जगजग्g, कृतांतस्याग्रजोऽस्मि रे ॥ ६३९ ॥ एकग्रासं करोमि त्वां, शरण्येन सहामुना । विब्रुव| निति कीनाश-स्तौ द्वौ जग्धुमधावत ॥ ६४०॥ पंचभिः कुलकम् ॥ धीरयित्वा कुमारं दाग , भयात हुंकृतैस्त्रिभिः । मंत्राक्षरैरिवामोधैः, सिद्धः स्तंभयति स्म तेम् ॥ ६४१॥ नाराचैरिव तीक्ष्णा-हुंकारैस्तैः स कौणपः । कीलिताखिलकायोऽभूत् , काष्ठस्तंभ इव स्थिरः॥६४२॥ सोऽथ व्यथाऽऽतुरोऽवोचत , सिद्ध ! स्तंभाद विमुंच माम् । जातं सत्यमिदं 'संति, रक्षसामपि भीषकाः ॥ ६४३ ॥ सिद्धोऽभ्यधाद् विमुंचास्मिन् , वैरं त्वं चेन्मुमुक्षसे । आचचक्षेर्नृचक्षास्तं, मत्प्रिये तर्हि दापय ॥ ६४४ ॥ सिद्धः प्रोचे व ते कांते, त्वयाऽपि प्राच्यजन्मनि । श्रेष्ठिनं वंचयित्वैव, गृहीते तस्य नंदने ॥ ६४५ ॥
१ मेघः. २ चौरशिरोमणे 1. ३ रक्षकेण. ४ धीरे करोति धीरयति, धीरयित्वा-धैर्ययुक्तं कृत्वा. ५ राक्षसम्. ६ सर्वलोहमयबाणैः, ७ मोक्तु मिच्छसि. 1८ नन् चष्टे-पश्यति भक्ष्यत्वेनेति नृचक्षाः-राक्षसः.
मपि भीषकाः ॥ ६४३ ॥ सिद्धोध व्यथाऽऽतुरोऽवोचत् , सिमकारेस्तैः स कौणपः । कीलिताखामा
Page #264
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ १०७ ॥
अद्यापि त्वं ततोऽनार्यात्, पारदार्यान्न तुष्यसि । व्रतभ्रंशः कुमृत्युश्च, रक्षेस्त्वं च यतैस्तव ॥ ६४६ ॥ वरं बह्वयः पढ्यो, वरमर्भिसृताः पण्यललनाः, वरं षंढीभावो वरमतिशुचिब्रह्मचरणम् । वरं क्ष्वेडग्रासो, वरमनशनं, शुद्धमनसां भवेद्वैतस्तेनो, न वरमपरस्त्रैणहरणम् ॥ ६४७॥ ( शिखरिणी) व व्रतं निर्वृतिप्रापि, क्व भोगा नरकप्रदाः । तथापि भोगाऽऽभोगार्थी, लोकश्चेष्टितमस्य धिक् ॥ ६४८ ॥ को विदग्धो व्रतं भक्त्वा, विषयानभिलष्यति । कश्चिंतामणिमाचूर्ण्य, गृह्णीते कर्करानहो | ॥ ६४९ ॥ किंचैते कुत्सनीयांग्यौ, स्त्रियौ मानुषभावतः । त्वं सुरत्वेन रम्यांगः, संबंधः कथमस्तु वः ॥ ६५० ॥ तत्सुमित्रे रुषं त्यक्त्वा, दत्त्वा चैते मृगीदृशौ । मंक्त्वा शमामृतांभोधौ, स्वैरं राक्षस ! रम्यताम् ॥ ६५१ ॥ सिद्धवाक्यैः प्रबुद्धः सन्, स्तंभात् तेन विमोचितः । स्त्रीकार्य करभीयुग्मं, सुमित्रं कौणपोऽवदत् ॥ ६५२ ॥ एते प्रिये गृहाण त्वं, तत्पुरं च महापुरम् । निवास्य भुंक्ष्व तद्राज्यं, वैरं मुक्तं मया त्वयि ॥ ६५३ ॥ सिद्धं सुमित्रं नार्यों च, क्षमयित्वाऽतिशांतधीः । स्वस्वरूपं च संदर्श्य, तिरोऽधत्त निशाचरः ॥ ६५४ ॥ सुमित्रोऽथाभ्यधात् सिद्धं, त्वत्प्रसादरसायनैः । उज्जीवितोऽस्म्यहं | रक्षः - सन्निपातभयादितः ॥ ६५५ ॥ सिद्धीविद्याः कलाश्चाग्र्याः सर्वाः संमील्य वेधसा । मन्ये कृता तनुस्तेऽसौ, नो | चेच्छक्तिरियं कुतः ॥ ६५६ ॥ अमूर्तिमानियत्काल - मुपकारः श्रुतो मया । त्वद्दर्शनादिदानीं स, मूर्तिमानिति मे मतिः ॥ ६५७ ॥ ततोऽनुज्ञाप्य सिद्धं त - मुष्ट्रीकृत्य पुनः स्त्रियौ । तत्रारूढः सुमित्रोऽगा - न्महाशालपुरं सुखम् ॥ ६५८ ॥ मणीन् कत्यपि विक्रीय, गृहीत्वा चाग्रिमं गृहम् । परिणीय च ते कन्ये, बुभुजे स कृती सुखम् ॥ ६५९ ॥ चिंतामणीयते
१ परदारगमनात्. २ कौणपत्वम्. ३ पारदार्यात् ४ आश्रिताः ५ भवद्वयचौरः ६ लोकस्य ७ सिद्धेन ८ सुभद्रपुरम् ९ देवखरूपं देवरूपं दर्शयित्वा .
सर्ग. ५
॥ १०७ ॥
Page #265
--------------------------------------------------------------------------
________________
यस्य, पुण्यं पूर्वभवार्जितम् । तस्य स्यात् सुलभं सर्व, देवस्येव समीहितम् ॥६६०॥ इतः सा रतिसेनापि, वीक्ष्याप्राप्तं निजं| प्रियम् । पुरे बाह्ये च सर्वत्र, दासीभिरगवेषयत् ॥ ६६१ ॥ अपश्यंती प्रियं कापि, त्रिदिनीं त्यक्तभोजना । रथांगीव कशांगी सा, तस्थौ दुःस्था वियोगतः॥६६२॥ सुमित्रश्चेद् गतः किं ते, न्यूनमन्यःप्रियो न किम् ।। न ह्येकस्मिन् गते हंसे, स्यादहंसा सरस्यहो ॥ ६६३ ॥ इत्यादिजननीवाक्याद् , वित्त्वा तल्लोभवस्गितम् । दंदह्यमानहृदया, सोपालब्धवतीति ताम्। ॥ ६६४ ॥ मन्ये त्वयैव मत्प्रेयान् , याचित्वा किंचनाधिकम् । वंचयित्वा गृहीत्वा वा, किंचिन्निर्वासितो गृहात् ६६५॥ अन्यथा म्रियमाणोऽपि, न मां मुंचति मत्प्रियः । गच्छन्नप्यस्तमुज्झेत् किं,भासं भासांपतिर्निजाम् ॥ ६६६॥ यथाकामममुष्मिन् स्वं, ददत्यपि सुपर्ववत् । अत्रांप्सीहदि नाद्यापि, धिक् त्वां लोभमहोदधिम् ॥ ६६७ ॥ औदार्येण महान् ,गुणेन गुणवांस्त्यागेन यावापरो, वाणिज्येन वणिक, सुखेन तनुभृत् , कोशेन पृथ्वीपतिः। नीरेणांबुनिधिः, श्रुतेन विदुरः, काष्ठेन धूमध्वज-स्तृप्तिं कर्हिचिदेति पण्यवनिता द्रव्येण नैव ध्रुवम् ॥६६८॥ (शार्दूल०) अद्याप्याशा तवेयं यद्, वेश्यात्वंधास्यते |सुता । विदांकुरु प्रतिज्ञा मे, मातस्त्वमवधानतः॥ ६६९ ॥ अपि ज्वालोज्वलो वह्नि-रालिंगति मदंगकम् । रूपेण स्मरतुल्योऽपि, सुमित्रान्नापरः पुमान् ॥ ६७० ॥ इत्यालपंती दुःखेन, विलपंती च पुष्कलम् । कथंचिद् रतिसेना सा, स्वज्ञातीयैरभोज्यत ॥ ६७१॥ न स्नाति नो मधुरमत्ति वरं न वस्ते, नांगं विभूषयति न स्मयते न वक्ति । गीतादिरंगरहिता | विरहार्दिता सा, वेश्याऽप्यहो कुलवधूरिव तिष्ठति स्म ॥६७२॥ (वसंत०) सुमित्रमणिमर्चित्वा, कुट्टिन्यपि यथाविधि । याचंती
१ प्रप्ता नाभूः ३ दानमहणेनेत्यर्थः, ३ सावधानतया. ४ भत्सन्तम्. ५ वियते यत् तदू वर-वर्ष एनः कर्मण्यपू, न हसति.
Page #266
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ १०८ ॥
धनमान्नाय - हीनत्वान्नाप किंचन ॥ ६७३ ॥ मणिर्धनं ददौ नैव, जामाता बंचनाद् गतः । सुता सतीत्वमापन्ना, सर्वस्व|ष्टाऽन्वशेत सा ॥ ६७४ ॥ सुमित्रोऽन्येद्युराप्तेभ्यो रतिसेनां सतीमिव । श्रुत्वा स्मृत्वा च तं स्वीय – मणिग्रहणसंगै रम् ॥ ६७५ ॥ ऐंद्री लीलां वहन्नंगे, रंगत्तुंगतुरंगमः । स्वं दिदर्शयिषुः प्राप्तो, रतिसेनागृहागतः ॥ ६७६ ॥ युग्मम् ॥ यांतं जामातरं वीक्ष्य, वृद्धा द्वाराग्रमागता । प्रीतिप्रह्वा समाहासीत्, कोकिलेव कलस्वरा ॥ ६७७ ॥ मंत्रिपुत्रोऽपि तां वीक्ष्य, संभ्रांत इव नेमिवान् । कृत्रिमं साऽथ रुदती, जरती गदति स्म तम् ॥ ६७८ ॥ अध्वन्योऽपि पयः पातुं, सदने क्षणमास्थितः । अनुक्त्वा न प्रयात्येव, प्रयाणायोत्सुकोऽप्यलम् ॥ ६७९ ॥ त्वं तु निःसीमया भक्त्या, प्रीयमाणोऽप्यहर्निशम् । स्वामीव मंदिरे तिष्ठन्ननुक्त्वा जग्मिवान् कथम् ? ॥ ६८० ॥ सख्यं सार्धैपदीनं स्यात्, सतामिति जनश्रुतिः । जामाताऽपि कृतस्त्वं तु, तेन्नाद्यापि प्रपद्यसे ॥ ६८१ ॥ यदि नाजीगणस्त्वं मां, कठोरां हितशंसनात् । त्वदेकजीवां मत्पुत्री -मपि नाजगणः कथम् ? ॥ ६८२ ॥ 'घनेनेव लता' त्यक्ता, त्वया यीं त्वत्प्रियाऽऽश्रिता । तां दशां तत्तनुर्वक्री, शेषं किंचिदहं ब्रुवे ॥ ६८३ ॥ दह्यमानमिवोच्चैर्हृत्, पत्नी ते विरहाग्निना । धारालेनाश्रुवर्षेण, मेघमालेव सिंचति ॥ ६८४ ॥ त्वामेव परमात्मानं पश्यंती स्वहृदि स्थितम् । सा मीलितद्दगाभाति, योगिनीव वियोगिनी ॥ ६८५ ॥ वत्स ! स्वच्छ ! तदागच्छ, स्वदर्शनरसायनैः । समुज्जीवय भूयोऽपि, निर्जीवामिव तां प्रियाम् ॥ ६८६ ॥ अहो आंवर्जनायुक्ति - रहो कपटपाटवम् ।
१ पश्चात्तापं करोति स्म. २ प्रतिज्ञाम् ३ प्रेमनमा ४ सप्तमिः पदे उच्चारितैर्भवति इति साप्तपदीनं सख्यं - सौहार्दम् ५ सौहार्दम्. ६ दशाम्. ७ अश्रुवृष्टया - अश्रुप्रवाहेण ८ आवर्जनाया युक्तिः प्रसादनस्य रीतीत्यर्थः .
सर्ग. ५
॥१०८॥
Page #267
--------------------------------------------------------------------------
________________
गौरवम् ।
व
स्वमंदिरमानयत्
परिददेश्यां,
अहो वंचनवैचित्र्य-मस्यां वैयत्यिमप्यहो ॥ ६८७ ॥ मायाविन्यां मयाऽप्यस्यां,मायाऽऽश्रेयेति चिंतयन् । कृतार्वहित्थो जामाता, वाचं प्रोवाच तां प्रति ॥ ६८८ ॥ युग्मम् ॥ प्रीतिं वेदम्येव भावत्की, परं सार्थवशंवदः । प्रस्थितस्त्वरया मात-| स्तेनाहं त्वां न पृष्टवान् ॥ ६८९ ॥ विस्मरत्यपरं जातु, त्वदुपज्ञं तु गौरवम् । वज्रलेपवदालीनं, मन्मनो विस्मरेत्कथम् ? ॥ ६९० ॥ इति मर्माविधा तस्य, वाचा चित्ते चमत्कृता । हसंती तं करे कृत्वा, सा स्वमंदिरमानयत् ॥ ६९१ ॥ गलद्विलासकल्लोलां, सल्लावण्यरसैः कृशाम् । कश्मलाम्बरसेवालां, विगतोज्ज्वलहंसकाम् ॥ ६९२ ॥ वीक्ष्य ग्रीष्मसरिद्देश्यां, वेश्यामपि सती प्रियाम् । सुमित्रश्चित्रितस्वांतः, प्रीतिवाक्यरतूतुषत् ॥ ६९३॥ युग्मम् ॥ कांते प्राप्ते प्रियाऽप्यैच्छत्, तस्य रूपं वचोऽपि च । द्रष्टुं श्रोतुं च बाहुल्यं, नेत्रयोः श्रवसोरपि ॥ ६९४॥ वियोगे द्विगुणीभूत-प्रेमस्थेमभृतोस्तयोः । निस्सीमशमकिीरो-गलत्कालः कियानपि ॥ ६९५ ॥ रतिसेनां कदाप्यूचे, स जिघृक्षुर्मणिं निजम् । किंचित् कौतुकहै मातन्वे, प्रिये ! त्वं चेन्न कुप्यसि ? ॥ ६९६ ॥ सा स्माह केयं मत्पृच्छा, प्रिय ! प्राणेश्वरत्वतः । मम प्राणास्तवैवामी,
नियुज्यतां यथारुचि ॥ ६९७ ॥ ततस्तां करभीकृत्य, सिताञ्जननिवेशनात् । अदृष्टो वृद्धया प्रातः, सुमित्रः स्वगृहं ययौ ४॥ ६९८ ॥ तयोर्मुखं क्षालयितुं, गृहीत्वा कंनकालुकाम् । कुट्टिन्युपरि संप्राप्ता, करभीमैक्षताग्रतः॥ ६९९ ॥ संभ्रांता हृदि
दध्यौ च, संजातं किमिदं हहा । पुत्रीपुत्रीपतिस्थाने, करभी यन्निभाल्यते ॥ ७००॥ सत्याऽस्ति करभी नेयं, पिशाची श १ निर्लज्जत्वम्. २ कृतद्गतभावः, *हंसको-नूपुरं पक्षे हंसपक्षी ३ प्राचुर्यम्. ४ प्रेमस्थिरत्वम्. ५ विचित्रः. ६ अगमत्. - गृहीतुमिच्छुः. ८ पुत्रीपुत्रीपत्योः. ४९ सुवर्णकलशं (झारी).
कु.पा.च.१९
Page #268
--------------------------------------------------------------------------
________________
कुमारपालच०
॥१०९ ॥
राक्षसी च वा । स्त्रीपुंसयोर्द्वयं जग्ध्वा रूपमेतदशिश्रियत् ॥ ७०१ ॥ हा जामातस्तनूजे ! हा, गेहांतर्गतयोरपि । किं जातं ? युवयोर्दैवाद्, यदियं वां पदे स्थिता ।। ७०२ ॥ सोरस्ताडं सबाष्पं च विलपंती जरत्यथ । आत्मीयपरिवारस्य, तदद्भुतमदीदृशत् ॥ ७०३ ॥ तद्दर्शनाद् विमृश्यो चै - स्तामाचष्ट परिच्छदः । अधुनैव सुमित्रोऽय - मितः प्राप्तः स्वमंदिरम् ॥ ७०४ ॥ सोचे पूर्वापमानेन, वैरशुद्धिचिकीरिव । इदं विडंबनं कृत्वा स धूर्तो गतवान् गृहात् ॥ ७०५ ॥ दृश्यतां यद्ययं गेहे स्यात् तदाऽस्यैव चेष्टितम् । मूर्खोऽपि क्षमते नाप-मानं किं नु कलानिधिः ॥७०६ ॥ ततः सुमित्रं वेश्मस्थं ज्ञात्वा तद्वारि वारिता । वृद्धा ध्यात्वा च तद्रलं, तत्कृतं मन्यते स्म तत् ॥ ७०७ ॥ गत्वा च तत्क्षणं कोपादू, वीरांगदनृपाग्रतः । 'वर्सेत्यपि पुरे' मुष्टाऽस्मीति पूत्कृतवत्यलम् ॥ ७०८ ॥ केन मुष्टेति राष्ट्रपृष्टा, बाष्पाम्बुप्लावितेक्षणा । कर भीकृतिपर्यन्तं सा सुमित्रकथां जगौ ॥ ७०९ ॥ सुमित्रनामश्रवणा - न्मित्रं स्मृत्वा निजं नृपः । तां तदातिदिनं रूपवयसी अपि पृष्टवान् ॥ ७१० ॥ मित्रसंवादि तत्सर्व, श्रुत्वा वेश्याननात् प्रभुः । आजूहवज्जवाद् भृत्यैः, सुमित्रं मंदिरस्थितम् ॥ ७११ ॥ बहुभिर्दिवसैरद्य, नृपो दर्शिष्यते मया । इत्यादायोपदां दिव्यां स वीरांगदमभ्यगात् ॥ ७१२ ॥ दूरादपि तमालोक्य, नृपतिः प्रीतमानसः । भुजोपपीडमालिंग्य, स्वासनार्थे न्यवीविशत् ॥ ७१३ ॥ तयोः प्रेतायते गोष्ठी, यावत् पीयूषवर्षिणी । तावदाचष्ट सा दुष्टा, स्पष्टयंती स्वर्धृष्टताम् ॥ ७१४ ॥ देव ! दृष्टं त्वयैतस्य, धौर्त्य दर्शनमात्रतः । त्वामप्ययं वशीचक्रे, दँदेऽस्यार्धासनं यतः ॥ ७१५ ॥ कारयित्वा सुतां सज्जां, स्वामिन्निष्कास्यतामयम् । करिष्यत्यन्यथा १ युगलम् २ युवयोः स्थाने. ३ नूनम् प्र. ४ “यस्य च भावेन भावलक्षणम्" २।३।३७ ॥ इति सप्तमी ५ विस्तारं प्राप्नोति ६ खनिर्लज्जताम् ७ त्वया ददे. ८ धौर्त्यांत्.
सर्ग. ५
॥१०९ ॥
Page #269
--------------------------------------------------------------------------
________________
ROCHORECASE
नूनं, पुरेऽनर्थ पुनस्तव ॥७१६॥ स्मित्वाऽपृच्छन्नपो मित्र!, व्यडंब्येतत्सुता किमु ?, । स प्रोचे स्याद् यथा व्यक्ता, कला है नास्या व्ययोऽपि च ॥७१७॥ खिन्ना वेश्याऽवदद् गल्ल-झल्लरीवादनैरलम् । कला सर्वाऽपि ते ज्ञाता, सजायाऽऽशु सुतां। मम ॥ ७१८ ॥ मंत्रिपुत्रोऽभ्यधाद् दुष्टे ?, कलेयं कियती मम । यावत् त्वां रासभीकृत्य, पुरविष्ठां न चारये ॥ ७१९॥ नो चेदर्पय तद् रत्नं, मम रे पश्यतोहरे ! । तच्छ्रुत्वाऽप्रश्नयद भूपः, कि रत्नं मित्र ! कथ्यताम् ॥ ७२०॥ सोऽवद-16 न्मार्गमध्येऽभू-मज्जनादिविधिर्यतः । तद्र रत्नमनया जहे, पापिन्या मम जीववत् ॥७२१॥ वीरांगदोऽभ्यधात् क्रोधाद्, रे त्वयाऽकारि गीरियम् । “ग्रामोऽपि ज्वाल्यते स्वेन, व्याहारोऽपि विधीयते" ॥७२२॥ आनीयतां मणिस्तूर्ण, संप्रत्येव न
चेदितः । निर्लाव्य नक्रश्रवणं, पुरान्निर्वासयिष्यसे ॥ ७२३ ॥ साऽथ दीना समानीय, कोद्याद रत्नं समर्प्य च । सुमित्रं | क्षमयामास, कलाढ्ये हि बलं किमु ? ॥ ७२४ ॥ गोष्ठी करिष्यते पश्चा-देतत्पुन्यनुकंप्यताम् । इत्युक्त्वा प्रहितो राज्ञा, | सुमित्रस्तदूगृहं गतः ॥ ७२५ ॥ कृष्णाञ्जनं निवेश्याक्ष्णोः, प्राग्रूपां स प्रियां व्यधात् । साऽपि विज्ञाय तद् गाढं, स्वसवित्रीमतर्जयत् ॥ ७२६ ॥ रतिसेनां समानीय, स मानी निजवेश्मनि । स्त्रीषु मुख्यत्वमातेने, सतीत्वस्य फलं ह्यदः॥७२७॥ महामात्यपदं दत्त्वा, सुमित्राय बलान्नपः। अदीदृशत् फलं प्रेम्णः, सन्मैत्री हि किमुच्यते ॥७२८॥ वीरांगदेन पृष्टोऽथ,
१ वेश्याया-रतिसेनायाः, २ नाशः. ३ कुहिनी. ४ प्रश्नं करोतीति प्रश्नयति स्मेत्यर्थः. ५ आवयोरिति शेषः. ६ रनात्. ७ वाणी-लोकोक्तिः, ८ खयम्.। |९ उक्तिः-ग्रामो ज्वलति प्रामो ज्वलतीति कथन-धुम्बारव इत्यर्थः १० त्वया इतिशेषः. ११ मया इतिशेषः.१२ आवाभ्यामिति शेषः. १३ त्वया इतिशेषः.
-CONSCLoC
Page #270
--------------------------------------------------------------------------
________________
कुमार
यक्षदत्तमणीकथाम् । स्त्रीप्राप्तिवृत्तं स्वकीयं, चमत्कारि सुहृज्जगौ ॥ ७२९ ॥ व्यजिज्ञपच्च शून्यं चे-नगरं तन्महापुरम् । पालच० वास्यते तर्हि तद्राज्यं, लक्ष्मीप्राज्यं स्वसाद् भवेत् ॥७३०॥ एतत् साध्विति जल्पित्वाऽ-नुज्ञातो जगतीभुजा। अनेकानीक
सश्रीका, सुमित्रः प्राप तत्पुरम् ॥ ७३१ ॥ निष्कासितं निशाटेन, तजनं पार्श्ववासिनम् । आनाय्य न्यायवर्तिष्णुः, स ॥११०॥
तत्पुरमवासयत् ॥ ७३२ ॥ देशेऽपि तत्र सर्वत्र, श्रीवीरांगदशासनम् । यशःस्तोमैः समं स्वीयैः, स सुखं समतिष्ठिपत् ॥७३३॥ तत्राधिकारिणं न्यस्य, कोशं चादाय धीसखः। उपेत्योपायनैर्दिव्यै-वीरांगदमतूतुषत् ॥ ७३४ ॥ सुमित्रमंत्रिमंत्रेण, दुःसाधानप्यरीनृपः। असाधयत् सुखेनैव । मुद्गलानिव मांत्रिकः ॥ ७३५ ॥ कराला अपि सीमाला, भूपालास्तस्य
शासनम् । नागेन्द्रस्येव भोगीन्द्रा, नाऽवामंसत कहिंचित् ॥७३६॥ भीतिदुर्भिक्षदुष्कर्म-परचक्रसमागमाः। कथायामेव दूतद्राज्ये, श्रुता लोकैर्न वीक्षिताः॥ ७३७ ॥ भूपस्य सचिवस्यापि, प्रतिबिंबाविवात्मनः । हेमांगदः सुबुद्भिश्च, क्रमाजाती
सुतावुभौ ॥ ७३८ ॥ राजपाव्यां व्रजन मंत्रि-युतो वीरांगदोऽन्यदा । श्रीविशालरसालस्य, छायायां स्वेच्छया स्थितम् ॥ ७३९ ॥ श्रीपाहिदणाम-कामनीयकगर्भितम् । गीतं गायद व्यलोकिष्ट, मिथुनं किन्नराह्वयम् ॥७४०॥ युग्मम् ॥ तत्कंठमधुरत्वेन, जिनगीतेन च क्षणम् । विदन्नमंदमानंद, निष्पंद इव सोऽभवत् ॥ ७४१ ।। दध्यौ च गीते वादिdsनंतं पुण्यमिति श्रुतिः । सत्यैव येन चित्तं स्यात् , स्वस्थान्येषामपि स्थिरम् ॥ ७४२ ॥ मिथुनं तदलंकृत्य, निजाङ्गाऽऽभर-II॥११॥ णार्पणात् । श्रीपार्श्वः संप्रति वास्ती-त्यपृच्छत् पृथिवीपतिः ॥७४३॥ अवोचत् किन्नरो देव!, भवदीयात् पुरादितः।।
१च खीयम्. प्र. २ सुभद्रपुरम्. ३ खाधीनम्. ४ राक्षसेन. ५ रोहिषतृणादीन् (सादीन् वा) ६ प्रामः-समूहः ७ किन्नर-अर्हदुपास कविशेष इति हेमचंद्रः,
FOROSCANCCCCCCCC
Page #271
--------------------------------------------------------------------------
________________
CARRANGARGANGA
आस्ते षोडशयोजन्यां, श्रीपार्थो विहरन् महीम् ॥ ७४४ ॥ पुनर्वीरांगदोऽध्यासीद्, धन्यमन्यः स मंडलः। तीर्थोऽस्ति | जंगमो यस्मि-नाश्वसेनिः स्वयं जिनः ॥७४५॥ जनाः सुमनसस्तेऽपि, पार्षदत्वमवाप्य ये । आसौहित्य पिवत्येव, तळ्याख्यानसुधारसम् ॥ ७४६ ॥ राज्यश्रीमदिरास्वादा-दहं क्षीबवदन्वहम् ।आत्मानमपि नोवेद्मि, तन्निनंसाकथैव का ॥७४७।। ततो गत्वा स्वयं तत्र, तदुपास्यारसायनैः । शीयः पुण्यदेहं स्वं, मेरं विदधेऽधुना ॥ ७४८ ॥ अथ मंत्रिषु विन्यस्य, राज्यं सैन्यान्वितो नृपः। सुमित्रेण सहाचाली-दाश्वसेन्यं जिनं प्रति ॥ ७४९ ॥ जानुदनीनदीः कुर्व-नॉव्या द्विपमदार म्बुभिः । दुस्तराः सुतराश्चोरु-सैन्योत्खातरजश्चयैः॥ ७५० ॥ युग्मम् ॥ श्रीपार्योपासनौत्सुक्याद्, गच्छंस्तुच्छेतरत्वरम् ।। |सैन्यं निवेश्य कांतारे, कापि वीरांगदोऽवसत् ॥७५१॥ तत्राकस्माद् दवो लम्रो, ज्वालाजालजटालितः। भोक्तुं घस्मरवद् भक्ष्य, कक्ष्यं दग्धुं प्रचक्रमे ॥ ७५२ ॥ दह्यमानावृक्षोत्थै-धूमैरूर्व प्रसृत्वरैः । विहिता श्यामता व्योम्नो, मन्येऽद्यापि न गच्छति ॥ ७५३ ॥ स्फुटद्वे[स्वनव्याजात् , पूत्कारानिव निर्ममे । समंताद् दह्यमानं तद्, वनं दावहविर्भुजा ॥७५४॥3॥ रुरोध भूपतेः सैन्यं, स सर्पन दावपावकः।वार्धिपूर इवोद्दामा, द्वीपमध्यगतं जनम् ॥७५५॥ अभ्रंलिहासु, ज्वालासुब्रजंतीषु, चतुर्दिशम् । तत्सैन्यं शुशुभे बाणे-दैत्येंद्रपुरलोकवत्॥७५६॥ अमितोज्वलने लग्ने, जनो नियोतुमक्षमः।संभ्रमी बंधमीति स्म, तत्रैवाऽऽवर्तनीरवत् ॥ ७५७ ॥ अग्निना व्याप्यमानानां, सैनिकानां प्रसृत्वरान् । श्रुत्वाऽऽक्रदान भृशं दूनो, दध्यौ 81
१ देशः. २ तृप्तिं यावत्. ३ मत्तवत्, ४ अतिकृशम्. ५ पुष्टम्. ६ जानुप्रमाणाः. ७ नावा तार्याः. ८ भक्षकवत. ९ कक्षे-बने भवं कक्ष्यं-तृणम्. १० वंश०. |११वप्रतीपु. प्र. वप्र इवाऽऽचरतीति वप्रति, वप्रतीति वप्रन् सा वप्रती तासु. १२वाणासुरराजधानी(शोणितपुर स्थलोकवत् , १३पुनः पुनः अतिशयेन वा भ्रमति स्म.In
CARRAIGAAAAKASAGAR
Page #272
--------------------------------------------------------------------------
________________
H
A
कुमारपालच०
॥११॥
HOSCAMSACSCAMPA
वीरांगदो हृदि ॥ ७५८ ॥ वंदारुरतिभावेन, श्रीपार्श्व प्रस्थितोऽस्म्यहम् । तदन्तरायकारीव, दावस्त्वेष दिर्धक्षति ॥७५९॥ तद्भक्ता नास्ति किं काऽपि, शक्का शासनदेवता । वात्या रेणुमिव क्लेशं, श्राद्धानां या हरेत् क्षणात् ॥७६०॥ आविर्भूय । तदा त्यक्त-च्छद्मा पद्मावती नवम् । उपसर्गहरं स्तोत्रं, कृत्वा दत्त्वा च तं जगौ ॥७६१॥ चिंतामण्याख्यमंत्राढ्यं, पार्श्वस्तवमिमं स्मर । स्मृत्याऽस्य मेघवीथ्येव, विध्यास्यति दवो द्रुतम् ।। ७६२ ॥ राज्ञा तथा कृते सद्यः, प्रशशाम दवानलः । श्रीपार्श्वनाथनामापि, विघ्नं हंति 'तमोऽर्कवत् ॥ ७६३ ॥ आस्तिक्यवासितस्वांतः, क्ष्माकांतः प्रस्थितस्ततः । प्रभु नागपुरे ज्ञात्वा, जग्मिवांस्तत्र वेगतः॥ ७६४ ॥ तत्र सर्वविमानश्री–नियंदैरिव निर्मिते । दिव्ये समवसरणे, रूप्यस्वर्ण
मणीमये ॥७६५॥ प्राकाररेखात्रितयं(ये), सुमनःप्रचयांचितम् (ते)। त्रैलोक्यरक्षायंत्राभ(मे), श्रीपार्श्व दृष्टवान्नृपः॥७६६॥ हायुग्मम् ॥ चकोर इव शीतांशु, मयूर इव वारिदम् । दरिद्रित इव द्रव्यम् , स प्रभु प्रेक्ष्य पिप्रिये ॥७६७ ॥ भक्त्या है
प्रदक्षिणीकृत्य, भगवन्तं भुवः प्रभुः। शक्रवत् स्तोतुमारेभे, प्रमोदैरुदरंभरिः॥७६८॥ त्रिभुवनविभो ! तानि व्यर्थान्यहानि |ममागमं-स्तव पदयुगोपास्तिः स्वस्तिप्रदाऽजनि यत्र न । अहमिदमहर्मन्ये धन्यं यदत्र मयाऽचिरात्, सुरतरुरिव श्रेष्ठो
दृष्टस्त्वमिष्टफलप्रदः॥७६९॥(हरिणी)स्मृतिरपि तव स्वामिन् ! क्लुप्ता ममाशु निरासुंषी, पथि पृथुदवज्वालाजालं दिधक्षुतैया |ऽऽपतत् । त्वमसि भगवन् ! भाग्यलेब्धोऽधुना स्तनयित्नुवद्, भवदवभवं तापव्यापं समापय सर्वतः ॥७७०॥(हरिणी) इति51
USHUSHA**
**
१ वंदनशीलः. २ दग्धुमिच्छति. ३ कपटरहिता. विमानश्रीः-विमान प्रभा ४ ईषत्क्षरणैः (मरणां ओबी) ५ दिनम् . ६ निरासकी. ७ दग्धुमिच्छया.
**
Page #273
--------------------------------------------------------------------------
________________
स्तुत्वा पुनर्नत्वा, स्थिते वीरांगदेऽग्रतः । आश्वसेनिर्जिनाधीशो, विदधे धर्मदेशनाम् ॥ ७७१ ॥ देहः सैकतगेहवत्, तरुणता शैलापगापूरव - लक्ष्मीः स्त्रैणकटाक्षवत् प्रणयिनीसंगस्तडिद्दंडवत् । ऐश्वर्य खलमैत्र्यवत्, परिजनस्नेहः पताकामवत्, सौख्यं वारितरं गवच्छसितमप्यंभोदवच्चंचलम् ॥ ७७२ ॥ विमृश्य बौद्धमतवत्, क्षणिकं सकलं जगत् । विधेयं पुण्यमेवैकं, तेदक्षयनिधानवत् ॥ ७७३ ॥ निस्सीमसुखनिर्भासी, द्विविधोऽपि महोदयः । पुण्येनैवोल्लसत्युच्चैः, सलिलेनेव पादपः ॥ ७७४ ॥ इहास्तां विभवो भूयान्, कुटुंबं च महत्तमम् । परं भवांतरेऽवश्यं पुण्यमेव सहाचरम् | ॥ ७७५ ।। देवपूजादयादान — शुभध्यानादिनिर्मलम् । सुकृतं यत कृतं पूर्व, तत्फलं युवयोरदः ॥ ७७६ ॥ संप्रत्यपि तथा पुण्य - योगः कोऽपि स कल्प्यताम् । येने व्यामोहितेवैति द्रुतं मुक्तिरमाऽन्तिकम् ॥ ७७७ ॥ निगद्येत्थं स्थिते नाथे, ससुमित्रोऽपि भूपतिः । द्वादशव्रतविस्तीर्ण, प्रपेदे धर्ममार्हतम् ॥ ७७८ ॥ चिंतामणिमिव प्राप्य, धर्म हृष्टो जिनेश्वरम् । नत्वा वीरांगदः प्राप, महाशालपुरं निजम् ॥ ७७९ ॥ विहारान् मेदिनीहारान्, बिंबान् डिबीपहारिणः । पवित्रास्तीर्थयात्राश्च, स्वदेशे मारिवारणम् ॥ ७८० ॥ वर्याः सपर्याश्चैत्येषु साधर्मिकजनार्चनम् । कुर्वतौ तौ नृपामात्यौ, सुकृतं तेनतुस्ततः ॥ ७८१ ॥ युग्मम् ॥ अथ राज्यं चिरं भुक्तवा, स्वतनूजौ निजे पदे । विन्यस्य जिनगेहेषु कृत्वा चाष्टाहिकामहम् ॥ ७८२ ॥ वीरांगदः सुमित्रोऽपि, श्रीमद्देवेंद्रसूरितः । मोक्षलक्ष्म्या इवान्वीक्षां, दीक्षां स्वीचक्रतुर्मुदा ॥ ७८३ ॥
१ धर्मः २ तस्मात् . ३ उभयलोकसंबंधी. ४ क्रियतां युवाभ्यामितिशेषः ५ पुण्ययोगेन धर्मक्रियया ६ भयनाशकान् हिंसानिवारणम् ८ पर्यालोचनाम्.
Page #274
--------------------------------------------------------------------------
________________
सर्ग.५
कुमारपालच०
युग्मम् ॥ अकपटतपःमोद्यद्दावानलेन कुकर्मणां, विपिनमचिराद् भस्मीकृत्याधिगत्य च केवलम् । हृषितहृदयैर्देवैः स्वर्गादुपेत्य कृतोत्सवः, शिवसुखपदं प्राप्तो वीरांगदः सुहृदन्वितः॥ ७८४ ॥ (हरिणी) वीरांगदोदाहरणात् तदेवं, राज्यादि सद्धर्मफलं निशम्य । कुमारपाल! क्षितिपाल! शश्व-निर्माहि निर्मायतया तमेव ॥ ७८५ ॥ (उपजातिः)
॥११२॥
AAAAAAAA
इतिश्रीकृष्णर्षीयश्रीजयसिंहसूरिविरचिते परमाहतश्रीकुमारपालभूपालचरिते महाकाव्ये पुण्यफलोपदेशो नाम पंचमः सर्गः॥ पंचानां सर्गाणां मीलने ॥ ३१९३ ग्रन्थानम् ॥
RSARKAAB
॥११२॥
Page #275
--------------------------------------------------------------------------
________________
अथ षष्ठः सर्गः॥ पुण्यद्रोः फलमावेद्य, तन्मूलमथ जल्पितुम् । हेमाचार्योऽभ्यधाद् भूय-श्चौलुक्यनृपतिं प्रति ॥१॥ पुण्यस्य मूलं कारु&ण्य-मंकुरस्य सुबीजवत् । अन्ये सत्यादयस्तस्य, मांदिवत् सहकारिणः ॥२॥ दीनानां मार्यमाणानां, भीतानां च तनू
भृताम् । स्वप्राणानामिव त्राणं, कारुण्यं प्रणिगद्यते ॥३॥ कंदः कल्याणवल्लीनां, प्राणाः सर्वव्रतश्रियाम् । संसारापारपाथोघे-स्तरणिः करुणा स्मृता ॥४॥ रचयति नृणामायुर्दीर्घ शरीरमनामयं, त्रिदेशसुदृशीभोग्य भाग्यं गुणाञ् जगदुल्बणान् । बलमविकलं प्राज्यं राज्यं सितांशुसहग् यशः, त्रिदिवशिवयोर्लक्ष्मी चांते कृपाऽद्भुतवैभवा ॥५॥ (हरिणीवृत्तम् ) सार्वजन्यमतत्वेन, जिनरेव न केवलम् । निगद्यते दया पार-तीर्थिकैरपि तद्यथा ॥ ६॥ एकतः क्रतवः सर्वे,
क्षोणीसर्वस्वदक्षिणाः । अन्यतो भयभीतस्य, प्राणिनः प्राणरक्षणम् ॥ ७॥ सर्वे वेदा न तत् कुर्युः, सर्वे यज्ञाश्च भारत!। * सर्वे तीर्थाभिषेकाच, यत् कुर्यात् प्राणिनां दया ॥८॥ कृपेयं कल्पवल्लीव, सेव्यमाना दिवानिशम् । दत्ते लोकोत्तरं पुण्य
सारस्येव समीहितम् ॥९॥ तथाहि जंबूद्वीपेऽत्र, भरतश्रीविभूषणम् । श्रीगोपगिरिरित्यासीत्, पुरं सुरपुरोपमम् ॥ १०॥ अंतर्निवेश्य रलानि, पुनर्मन्थभयादिव । यत् त्रातं त भूतेन, वार्धिना परिखामिषात् ॥ ११ ॥ बभूव तत्र भूपालः, काल: प्रत्यर्थिहस्तिनाम् । श्रीमान् समरसिंहाख्यः, साक्षात् सिंह इवौजसा॥१२॥ कर्पूरो मृगनाभिवत् सितगरेत् कादंदवन्मौक्तिक१ प्रकटयित्वा-प्रकाश्य २ धर्मदुमूलम् . ३ पृथिव्यादिवत् . ४ नौका. ५ मतिमनुपमा सात स्फीतं, प्रत्यन्तरे. ६ मनस्त्वेन-प्र. ७ अल्परूपधारिणा. ८ कस्तुरिकावत् : ९हंसः. १० बादलबत् .
Page #276
--------------------------------------------------------------------------
________________
3440
कुमार- श्रेणिर्मेचरत्नवत् तुहिनरुक्कांतोऽप्ययस्कांतवत् । इंदुः कज्जलबिंदुवत् सुरसरिद् वैवस्वतीसिंधुव-च्छंभुः कैटभवैरिवत् प्रतिपालच० बभौ यत्कीर्तिकांतेः पुरः॥१३॥(शार्दूलविक्रीडितम्) अमरश्रीभृतस्तस्य,समरश्रीरभूत् प्रिया। यस्यां सीमानमापन्ना,मूर्तिस्फूर्तिः
श्रियामिव ॥१४॥ बुद्धिसाराहयस्तस्य, बभूव सचिवः शुचिः । यद्बुद्धिविजितो जाने, गुरुस्तस्थौ नभःस्थले ॥१५॥ तत्रैव ॥११३॥
नगरे श्रेष्ठी, श्रेष्ठतत्तद्गुणोल्बणः । धनसारामिधानोऽभूत् , प्रधानो व्यवहारिणाम् ॥१६॥धृतविस्फूर्तयो यस्य, कीर्त
योऽपि श्रियोऽपि च । अन्योन्यं स्पर्धयेवोच्चै-व्यामुवन् ककुभां गणम् ॥ १७॥ धनश्रीरिति तस्यासीद्, रमणी रमणी-1 दायरुक् । अधिष्ठात्रीव या रेजे, भासा लावण्यसंपदाम् ॥१८॥ तयोर्निर्विशतोः सौख्यं, रतिकंदर्पयोरिव । भूयानपि व्यती-18
याय, कालः कलितसंमदः ॥ १९ ॥ अन्यदाऽपत्यचिंताग्नि-संतप्तौ तावुभावपि । अगण्यपुण्यतः सर्व-सिद्धिः स्यादिति हा निर्णयात् ॥ २०॥ अमारिवंदिनिर्मोक्ष-चैत्यदेवार्चनादिकम् । वितेनतुर्महिष्ठं तै-निर्मलं निजचित्तवत् ॥२१॥ युग्मम् ॥15 है तत्प्रभावादभूत् पुत्रो, धनश्रीधनसारयोः । देहसौंदर्यसंपत्त्या, पुष्पचाप इवापरः ॥२२॥ अपुत्रयोस्तयोः पुत्र-जन्यो यः
संमदोऽजनि । तदग्रतः समुद्रोऽपि, मन्ये गोष्पदसन्निभः॥२३॥ विरचय्योत्सवं तस्य, पितरौ नाम तेनतुः । पुण्यसारेण लब्धत्वात्, पुण्यसार इति स्फुटम् ॥ २४॥ यदा स श्रेष्ठिनः सौधे, पुण्यसारः सुतोऽजनि । तदा समरसिंहस्य, भूपतेरपि कन्यका ॥ २५ ॥ आहूता निजतातेन, नाम्ना मदनवत्यसौ । चांद्री कलेव धत्ते स्म, कांचित् कांति दिने दिने ॥२६॥
१ कृष्ण (नील) रत्नवत्. २ चन्द्रकान्तः. ३ अयसां मध्ये कान्तः-रमणीयः कस्का दित्वात् सत्वं सन्निधिमात्रेण लौहाकर्षक (चुम्बक इति ख्यात) प्रस्तरमेदस्तद्वत, ४ गंगा. ५ यमुनानदीवत्. ६ कृष्णवत्. ७ शरीरविकाशः. ८ दिशाम्. ९ तेजसा. १० भुंजानयोः. ११ कृतहर्षः, १२ पुण्यं-धर्मः, १३ कामदेवः.
Page #277
--------------------------------------------------------------------------
________________
बाल्येऽपि रूपसंपत्तिं, तस्याः प्रेक्ष्य चमत्कृताः । मूर्धानं दुधवः केन?, हर्षावेशवशादिव ॥२७॥ अथ राज्ञा निजा कन्या' श्रेष्ठिना च निजोऽङ्गजः। अधीत्यर्थ विमुक्तो ता-वेकोपाध्यायसन्निधौ ॥ २८॥ स्त्रीत्वेन भारतीक्लुप्त-सान्निध्याध्या
सनादिव । वेगान्मदनवत्यासी-छास्त्राब्धेः पारदृश्वरी ॥ २९ ॥ कुमारः पुण्यसारस्तु, बाल्यचापल्यकेलिभिः । पर्यध्य-3 लियनबुद्धित्वा-न तथाऽज्ञास्त किंचन ॥ ३० ॥ अन्यदा किंचिदुद्भिन्न-यौवनः श्रेष्ठिनंदनः । दृष्ट्वा तारुण्यपुण्यां तांत
प्रोचेऽनंगतरंगितः ॥ ३१॥राजकन्ये । त्वमेवासि, मन्ये धन्येदृशी दृशोः। पीयूषवर्तिसदृशी, यस्या रूपर्द्धिरेधते । ॥३२॥ हरेः सहस्रहग्भ्योऽपि, वेनि हृद्यां स्वरद्वयीम् । तदेदृष्टां मुहुर्या त्वां, बुभुक्षुरिव वीक्षते॥३३॥ क्वचिद्रूपं कला क्वापि, त्वय्येवैतद् द्वयं पुनः । सौरभ्यं सौकुमार्य च, मालत्यामेव हि स्थितम् ॥ ३४ ॥ तत् प्रसीद ममोहाम-कामात्त्य॑ब्धौ निमजतः। पाणिग्रहणमाधाय, त्वं समुद्धर मां रयात् ॥ ३५॥ अवियोगप्रयोगेण, यथा शश्वदनश्वरी। आवयोःप्रैधते प्रीति-निशाचंद्रमसोरिव ॥ ३६॥ वनक्रवक्रणेनैवाऽ-वज्ञा प्रज्ञापयन्त्यथ । तृणयंतीव दाक्ष्येण, विश्वं मदनवत्यवक् ॥ ३७॥ जानेऽधुना भवत्येव, जाज्यसीमा विवल्गति । स्वं परं चाविमृश्यैव, यो वक्ति सहसाऽप्यदः ॥ ३८ ॥ काऽहं क्ष्मापसुता दक्षा, व त्वं मूल् वणिक्सुतः । तदावयोः कथं योगो, हंसीवायसयोरिव ॥ ३९ ॥ स्त्री कन्यैव वरं नैव, मूर्खकांतविडंबिता । शून्या शाला प्रशस्या हि, न पुनः स्तेनसेविता ॥४०॥ शिलाशकलवद् बद्धा, स्वगले दयितं जडम् ।।
१ धूतवंतः. २ भारतीरचितसामीप्यनिवासादिव. ३ अध्ययनाय परिग्लाना पर्यध्ययना, पर्यध्ययना बुद्धिर्यस्य स तस्य भावस्तस्मात्. ४ इन्द्रस्य. ५ हरिसहस्रदगदृष्टाम्. ६ भोक्तुमिच्छुः. ७ खनासिकोर्ध्वसंकोचनेन. ८ सप्तम्येकवचनम्.
RECAUSEMAMASSAMROSALESEARS
Page #278
--------------------------------------------------------------------------
________________
कुमारपालच०
सर्ग.६
॥११४॥
निमजयति काऽऽत्मानं, दुःखाम्भोधौ विदग्धधीः॥४१॥ पुण्यसारो भृशं मम्लौ, तयेत्थमपमानितः पद्माकर इवोदामवारिवृट्या कदर्थितः॥ ४२ ॥ मत्वा मदनवत्याऽसौ, जडिनाऽऽत्मानमुज्झितम् । प्रसादयितुमैहिष्ट, विद्याप्राप्त्यै सरस्वतीम् ॥४३॥ उपोषितस्यहं पुष्प-कर्पूराद्यैः प्रपूज्य च । पुरादहिः स्थितां विद्याऽधिष्ठात्रीमारराध सः॥४४॥3 देहिनी सर्वविद्येव, प्रत्यक्षीभूय सारदा । ऊचे तं वत्स! तुष्टाऽस्मि, वद तुभ्यं ददामि किम् ? ॥४५॥ तां नत्वा नृपकन्याया-स्तं वृत्तांतं निवेद्य च । तत्प्राप्तिकारिणी विद्या-मनवद्यां ययाच सः॥ ४६ ॥ तमभ्यधत्त वाग्देवी, पुण्यं ते विद्यते महत् । भविष्यति ततोऽभीष्ट-मभ्यासादिव कौशलम् ॥४७॥ “यदाशाया न विषयं, दुर्घटं च जनेन यत् । तदप्यारोपयत्याशु, प्राक्पुण्यं प्राणिनां करे" ॥४८॥ एनं श्लोकं हृदि ध्याये-स्त्वं मंत्रमिव संततम् । उक्त्वेत्यंतर्दधे है देवी, पुण्यसारोऽप्यगाद् गृहम् ॥४९॥ युग्मम् ॥ सम्यग्विमृश्य श्लोकार्थ, समर्थ स्वार्थसाधने । पुण्य एवानिशं रेमे, सोऽम्बुजे राजहंसवत् ॥ ५० ॥ कालेन कियताऽप्येष, विटपेटकयोगतः । पर्यटनगरे नाना-कौतुकानि व्यलोकयत्॥५१॥ पुण्यसारो विटैः साकं, वसन् क्रीडन् भ्रमन् हसन् । अनन् पिबन् मिलन् जल्पन्, प्रायो वेश्मनि नाऽऽगमत् ॥५२॥ विटैः सक्रियमाणोऽसौ, चिकीर्षुः प्रतिसक्रियाम् । जहार हारमन्येद्य-जनन्या द्रविणोज्झितः ॥ ५३॥ गवेषितोऽपि न काऽपि, हारः प्रापि धनश्रिया । भ्रमाभावान्न चाज्ञायि, तद्गृहीता निजोऽङ्गजः॥५४॥ तद्व्यये स्वर्णदीनार-सहस्रं सोऽहरत् पुनः। ज्ञाताऽऽस्वादो हि चौर्यादौ, कोऽवस्थातुं प्रगल्भते ॥५५॥ हृते हारधने ज्ञात्वा, धनसारोऽतिदुःखितः।
१ कमलसमूहः २ मा० प्र. ३ सप्तम्येकवचनम्. ४ हारमूल्यव्यये. ५ विरंतुम्. ६ चेटते.
॥११४॥
Page #279
--------------------------------------------------------------------------
________________
कु.पा.च. २०
846
भृत्यान्निर्भर्त्य युष्मासु, कः स्तेन ? इति पृष्टवान् ॥ ५६ ॥ पुण्यसारस्य तत्कृत्यं, विदन् कश्चन सेवकः । अची (च) कथदिमे श्रेष्ठिन् !, गृहीते त्वत्तनूरुहा ॥ ५७ ॥ तच्छ्रुत्वा धनसारस्तं पुत्रमाह्वाय्य तत्क्षणम् । ज्वलन्निवातिरोषेण, रूक्षाक्षरमिदं जगौ ॥ ५८ ॥ बुधाभ्यासे कलाभ्यासं विवर्ज्यानार्य ! सर्वथा । त्वं पर्यटन् विटैः साकं किं रे जातोऽसि तस्करः १ ॥५९॥ वटा इव विटा नूनं, कुलीना अपि नोचिताः । सतामासेवितुं यत्ते, स्मृताः किंपुरुषालयाः ॥६०॥ याज्या चेत् किमु लाघवेन ? जडता चेच्छून्यभावेन किं १, लोभश्चेद् दुरितेन किं ? धनमदश्चेत् सीधुपानेन किम् ? । मोहश्चेन्निगडेन किं ? व्यस निता चेत् पारवश्येन किं १, नैःस्व्यं चेन्मरणेन किं ? विटरतिश्चेदस्त्यमार्गेण किम् ? ॥ ६१ ॥ ( शार्दूलविक्रीडितवृत्तम्, उत्तमोऽपि कुसंगेन, दधात्यधमतां ध्रुवम् । अपवित्रं न किं वारि, वारुणीकुंभसंभृतम् ? ॥ ६२ ॥ इयच्चिरं न मनेहे) यद् दासा अपि तेनिरे । तत् त्वं तन्वंस्तनूजोऽपि स्तेयं किं नैव लज्जसे १ ॥ ६३ ॥ स्वर्णपुष्पैः परे पुत्राः पूजयंति स्वमातरम् । हरसे त्वं तु तद्धार - महो ते सत्तनूजता ॥ ६४ ॥ स्वर्णदीनार रोचिष्णु - हरी दत्तो भवेद् यदि । तदा त्वया समागम्यं, मंदिरे मम नान्यथा ॥ ६५ ॥ इत्थं निर्भत्सितः पित्रा, मषीव श्यामलाननः । गेहात् तदैव निर्गत्य, पुण्यसारः परामृशत् ॥ ६६ ॥ धिग् घिगू मे जीवितं योऽहं द्रोहं तन्वन् स्ववेश्मनि । हक्कितोऽस्मि तथा पित्रा, यथा कर्मकरोऽपि न ॥६७॥ कलानिधिर्वर्द्धिततातऋद्धिः स्यात् कोऽपि वार्षेर्विधुवत् सुपुत्रः । अहं तु संतापकरः स्वव-जतोऽस्मि भानोः शनिवत् कुपुत्रः ॥ ६८ ॥ ( उपजातिवृत्तम्) देशान्तरादुपादाय धनं देयं प्रदाय च । ईदृक् कुकर्म निर्मास्ये, प्राणान्तेऽपि पुनर्नहि १ पंडितान्तिके. २ कापुरुषाश्रयाः, वटपक्षे किंपुरुषा- व्यंतरविशेषास्तेषामाश्रयाः ३ मदिरापानेन, ४ मदिरा. ५ पित्रोः, प्र.
Page #280
--------------------------------------------------------------------------
________________
कुमारपालच०
॥११५॥
EXHAUSSURLARLARAHASA
॥६॥ ततः सरस्वतीदत्त-श्लोकार्थमनसा मृशन् । अपराहेऽभिमानेन, कुमारो निरगात् पुरात्॥७०॥वर्त्म किंचिदजानानः, पुण्येनेव प्रणोदितः । प्राचेतसी दिशं श्रित्वा, स चचाल विशालधीः ॥ ७१॥ सुकुमारे कुमारेऽस्मिन् , कथंचित् पादचारतः। गव्यूतिद्वितीयेऽतीते, भानुमानस्तमासदत् ॥७२॥ चिराय न स्थितिं क्वापि, करोमीति रमा बुधान् । बोधयंतीव पद्मेभ्य-श्चक्रे कौमुदमास्पदम् ॥७३॥ पुण्यसारस्य चक्राणां, स्त्रीणां च विरहस्पृशाम् । हृदो विनिर्गतैर्दुःखै-रिव ध्वांतै तं जगत् ॥ ७४ ॥ कर्ताऽधुना कुमारः कि-मिति द्रष्टुमिवाभवत् । ताराकैतवतः शंके, द्यौरुता॑नविलोचना ॥७॥ ध्वांतेऽभिसृत्वरे विश्वक्, पुरः प्रस्थातुमक्षमः । कुमारः स्थितवांस्तत्र, पथिस्थवटकोटरे ॥७६॥
इतश्च तत्रैव वटे, कामाख्या काऽपि यक्षिणी । विद्यते तां तदा द्रष्टुं, कमलाख्याऽऽगता सुरी ॥७७ ॥ तामभ्युत्थाय कामाख्याऽ-प्राक्षीत् सखि ! कुतोऽधुना । त्वमायासीः? किमद्राक्षी, कौतुकं ? तन्निवेदय ॥७८॥सा बभाण सुवर्णाख्यद्वीपात् स्थानान्निजादहम् । भवद्दिदृक्षया नुन्ना, प्रस्थिता गगनाध्वना ॥७९॥ धात्रीं विचित्रां पश्यंती, सुराष्ट्रदेशमंडनम् । वलभीपुरमभ्येत्य, यदपश्यं ब्रवीमि तत् ॥ ८॥
तत्रास्ति बलभीपुर्या, श्रेष्ठी श्रेष्ठतमद्युतिः । कामदेवाभिधो रूपात, कामदेव इवापरः॥ ८१॥ येन स्वमंदिरेष्वेव, न्यस्तशस्तोरुवस्तुषु । पूर्यते स्म श्रियो नाना-स्थानभ्रमणचापलम् ॥ ८२॥ तस्य नाम्ना गुणेनापि, लक्ष्म्या पत्न्या समं
१पश्चिमाम्. २ गब्यूतिद्वयमायाते, प्र.३ रमाऽभ्यधातू, प्र. ४ चक्रवाकपक्षिणाम्. ५ आकाशम्. ६ विकसितलोचना. . "तत्पुरुषे कृतिबहुलम्" इति सप्तम्या लुक्. ८ षष्ठपेकवचनम्. ९ कान्तिगुणेन.
॥११५॥
Page #281
--------------------------------------------------------------------------
________________
सुखम् । भुंजानस्याभवनष्टाs-भीष्टाः पुत्र्यः क्रमादिमाः॥८३॥ धनश्रीः समरश्रीश्च, नागश्रीविमलश्रियो । सोमश्री कमलश्रीश्च, सुंदरश्रीगुणश्रियो ॥ ८४॥ युग्मम् ॥ कलाकलापसंपन्ना-स्तारुण्येन विशेषिताः। ता देव्य इव रूपेण, गीर्वाणानण्यमूमुहन् ॥ ८५॥ कुमारीणां तासां तरुणिमवने विभ्रमघने, लसल्लावण्यांभःकिशलयिततत्तद्गुणतरौ । चलत्तभ्रूचापप्रसृमरकटाक्षोरुविशिखै-धेमन् कामव्याधो न कति हतवान् कामुकमृगान्॥८६॥ (शिखरिणीवृत्तम्)
कामदेवः कनीतुल्यान, क्वाप्यपश्यन् वरान् वरॉन् । तदर्थमारराधोच्चै-यथाविधि गणाधिपम् ॥ ८७ ॥ स दि प्रत्यक्षस्तमाचष्ट, तुष्टस्ते करवै किमु । ऊचे श्रेष्ठी सुतानां मे, देहि लोकोत्तरान् वरान् ॥ ८८॥ ध्यात्वा विना
यकोऽवादी-देक एव वरः परः। भविता त्वत्तनूजाना-मष्टानामपि तुष्टिकृत् ॥ ८९ ॥ पाणिग्रहणसामग्री, त्वं गृहे कुरु तत्कृते । लग्नक्षणेऽहमानेष्ये, वरं स्मरमिवापरम् ॥९०॥ देवादेशात् ततः काम-देवो भृत्यैर्व्यदीधेपत् । नानालंकारनेपथ्य-मंडपाचं मनोरमम् ॥ ९१॥ खाद्यादीनि च भक्ष्याणि, स तथा राश्यचीकरत् । यथा वितेनिरे तानि, द्रष्टुणां पर्वतभ्रमम् ॥ ९२॥ शुभे दिने यवानुस्वा, वर्धमानेषु सप्तसु । गायंतीषु पुरंध्रीषु, धवलध्वनिबंधुरम् ॥ ९३ ॥ निवेश्यो
मयं पाणी, कंकणं कुलयोषितः । वर्णके स्वर्णवर्णास्ताः, कनीरष्टापि चिक्षिपुः॥ ९४ ॥ युग्मम् ॥ सज्जयित्वाऽधुना तिवेदि, मांगल्यकलशस्तनीम् । तोरणभूधरां मध्ये-क्षामां कन्यामिवापराम् ॥९५॥ स्वनंदिनीः कुलस्त्रीभिः, संस्नप्य
* भूषिताः. २ श्रेष्ठी. २ श्रेष्ठान्. ३ पतीन्,४ कन्याकृते.५ अकारयत्.६ सरावेषु.७ पिष्ट(पिठी)मर्दने. ८ मांगल्यकलशा एव स्तनौ यस्याः सा तां वेदिम् (चोरी).
Page #282
--------------------------------------------------------------------------
________________
कुमार
परिभूष्य च । वरस्य मार्गयन् मार्ग, कामदेवोऽस्ति मंडपे ॥९६ ॥ युग्मम् ॥ श्रेष्ठिनस्तस्य पुत्रीणा-मष्टानामपि संप्रति । पालच०
विनाऽपि वरमाश्चर्य, वर्तते पाणिपीडनम् ॥९७॥ वलभ्यामेतदाकर्ण्य, सर्व दृग्भ्यां निभाल्य च । अहं विस्मयमानाऽन्त
स्त्वदंतिकमुपागमम् ॥९८॥ कामाख्या स्माह सख्येतद्, वीक्षेऽहमपि संप्रति । प्रत्यूचे साऽपि यद्येवं, तागच्छ मया समम् ॥११६॥
॥ ९९ ॥ वटस्थितस्तदाकर्ण्य, पुण्यसारोऽपि विस्मितः । स्ववृत्तज्ञापनापूर्व, ते देव्यौ प्रत्यवोचत ॥१००॥ नीत्वा मां तत्र 31 चित्रं तद्, दर्शयित्वा च चेत् पुनः । आनयेथे युवां तर्हि, भवत्सार्थे समेम्यहम् ॥१०१॥ तदुक्त्या मुदिते देव्यौ, तदेवप्रेरिते इव । तद्वाक्यं प्रतिपेदाते, कः सतां न हि मानदः ॥१०२॥तं पुण्यसारमादाय, पुण्यसारमिवात्मनः। ते देव्यौ जग्मतुस्तिग्म-वेगेन वलभी पुरीम् ॥ १०३ ॥ कामदेवगृहस्याग्रे, तं मुक्त्वाऽबोचतां च ते। आयास्त्वं प्रातरत्रैव, नयावस्त्वां यथा वटम् ॥ १०४ ॥ ततस्ते जग्मतुर्देव्यौ, तत्कौतुकमवेक्षितुम् । मया दृश्यं कथमिति, ध्यायंस्तत्र स च स्थितः
॥ १०५॥ तदैव लग्ने नेदिष्ठे, गृह्यतां स्वसुतावरः । उक्त्वेति पुण्यसारं तं,गणेशः श्रेष्ठिने ददौ॥ १०६ ॥ निरीक्ष्य काम|| देवस्तं, दीव्यतं दस्रदेववत् । निमग्नवानिवामंद-तमानंदपयोनिधौ ॥१०७॥ तदास्यचंद्रं निस्तंद्र, दृष्ट्वा मंडपवासिनः।
प्रमोदमेदुरे कस्य, नास्तां नयनकरवे ॥ १०८ ॥ क्वाऽहं केऽमी किमेतन्मे, तन्वंतीति विमर्शिनम् । पुण्यसारं समानीय, कामदेवः स्ववेश्मनि ॥ १०९॥ संनप्य दिव्यश्रृंगारं, कारयित्वा च देववत् । स्वकन्याधिष्ठितं मातृ-मंदिरं समुपान
१मान-सत्कारं ददातीति मानदः. २ कान्तिमन्तम्. ३ अश्विनीकुमारवत्. ४ आलस्यरहितं-तेजखिन-निष्फलं कमित्यर्थः. ५न आस्ताम् इति च्छेदः. विचारिणम्. ७ मानं कारयित्वा. ८ मातृगृहम्. (माया).
HAUSSANAXHOSASHXAS
A
॥११६॥
Page #283
--------------------------------------------------------------------------
________________
यत् ॥ ११०॥ युग्मम् ॥ कन्या निरूप्य तद्रूपं, सुधाञ्जननिभं दृशोः। कृतार्थ मन्यमानाः स्वं, प्रत्येकं हृद्यचिंतयन्॥११॥ कामोऽयं किमु निस्सीम-कामनीयकसंपदा । यद्वा संभाव्यते तस्य, क्केयं कायवियोगतः॥ ११२॥ अस्त्यस्माकं महद्भाग्य, यदयं जायते पतिः। न हि चिंतामणिः पाणिं, विना पुण्यं प्रपद्यते ॥११३॥ इति ध्यानभृतां तासां, कटाक्षाः स्वागतक्रि-18 याम् । रोमाञ्चेन सहोत्थाय, पुण्यसारस्य तेनिरे ॥ ११४॥ त्रिभिर्विशेषकम् ॥ ततोऽर्चितानां मातॄणां, पुरतो द्विजपुंगवः। कुमारस्य कनीनां च, पाणिपद्मान्ययोजयत् ॥ ११५॥ कुमारेण वधूभिश्च, सव्येतरकरार्पणात् । परस्परापरित्यागे, वितीर्णः प्रतिभूरिव ॥११६॥ काक्षेण वीक्षमाणास्ताः, स्थायं स्थायं पुनः पुनः। अपर्चपाशिखाभंग-मिव किंचित् तदाssचरन् ॥११७॥ तत्राऽऽचारेण नो नाश-भिया बद्धाऽञ्चलान् मिथः। आनीय च वधूयुक्त, वरं वेद्यंतरं शुचि ॥११८॥ हुत्वाऽनलं चतुष्कृत्वो, भ्रमयामासिवान् द्विजः। चतुर्गतिभवभ्रांति, पुरस्ताद् ज्ञापयन्निव ॥११९ ॥ युग्मम् ॥ विश्वेऽपि निःसपनं यत्, तद् रत्नाश्वाम्बरादिकम् । कामदेवः स ददिवान् , जामात्रे यौतकं मुदा ॥१२०॥ हर्षयामास च प्रीतिगौरान पौरान स्वबंधुवत् । दिव्यभोजनतांबूल-दुकलाभरणादिभिः॥१२शाततः प्रियाभिरष्टाभि-रिन्द्राणीभिरिवाद्रिभित्। कुमारः श्वशुरादेशा-दध्यास्त सदनं नवम् ॥१२२॥ अंगसंवाहनाऽऽलाप-पुष्पपत्रार्पणादिभिः। प्रियाभिर्लोभ्यमानोऽपि, प्रियोऽभिद्यत नाश्मवत् ॥१२३ ॥ किंतु मोहितवद् दध्या-वहो पुण्यस्य वल्गितम् । दुर्घटं घटयत्येव, यज्झटित्येव देहि
१ दृष्ट्वा. २ कामस्य. ३ निस्सीमकामनीयकसंपत्. ४ युवाऽयम्-प्र. ५ गोत्रदेवीनाम्. ६ दक्षिणवामहस्तार्पणात्. ७ लग्नकः (जामीन ). ८ अपरम् अपेक्ष्य त्रपा० अन्यहेतुकलज्जाशिवरभंगमिव. ९ प्रपूज्य-वह्नौ घृतादिकं प्रक्षिप्य. १० भ्रमणम्. ११ विवाहकाले लब्धं धनं-यौतकम् . १२ इन्द्रः, १३ अंगसंमई नम्.
Page #284
--------------------------------------------------------------------------
________________
कुमार
पालच०
॥११७॥
नाम् ॥ १२४ ॥ क स गोपगिरिगः, कैषा च वलभीपुरी । क्व तद्वासी कुमारोऽहं कैताः श्रेष्ठितनूरुहः ॥ १२५ ॥ परं पितुरुपालंभ - देवीसंगमनादिना । मत्पुण्यमेव सकलं, तदिदं पर्यणीनमत् ॥ १२६ ॥ मन्ये श्लोकोऽपि वाग्देव्याः, कृत्येनाऽनेन संप्रति । सत्यार्थतां दधाति स्म, न मृषा देवतोदितम् ॥ १२७ ॥ आसां च दक्षतां ज्ञातुं श्लोकं स्वज्ञापनाकृते । लिखित्वा यामि मां तेर्ने, विदंत्येताः प्रिया न वा ॥ १२८ ॥ इति ध्यानपरे पुण्य - सारे तं मंदिरात् ततः । प्रस्थापयितुकामेव, यातुकामा निशाऽजनि ॥ १२९ ॥ षङ्गिः कुलकम् ॥
अथ वैवाहिक विश्वद्, भूषां मुक्त्वा परं धनम् । शंकाभंगच्छलं कृत्वा, कुमारो निर्गतस्ततः ॥ १३० ॥ नितान्तं कांतभक्तत्वाद्, गुणश्रीरष्टमी प्रिया । तत्पृष्ठे निर्ययौ हस्ते, वहंती कनकालैकाम् ॥ १३१ ॥ स तस्यामेव पश्यंत्यां, बहिद्वारप्रकोष्ठके । एकं लिलेख सुश्लोकः, श्लोकं स्वज्ञापनाकृते ॥ १३२ ॥ पुण्यसारस्ततो गत्वा, पूर्वसंकेतिताऽऽस्पदम् । समागंस्त तयोर्देव्यो- स्तद्वर्त्म प्रेक्षमाणयोः ॥ १३३ ॥ तं पारिणेत्र चिह्नाढ्यं दृष्ट्वा देव्यावपृच्छताम् । त्वमेव पर्यणैषीः किं ?, कामदेवकनीरिमाः ॥ १३४ ॥ कुमारेणोमिति प्रोक्त, स्मेरे देव्यौ जजल्पतुः । धन्यस्त्वं परिणिम्ये य- स्तादृशीः पद्मलोचनाः ॥ १३५ ॥ पुण्यसारोऽवदत् सोऽयं, प्रसादो युवयोर्मयि । पंगोरिव न चेदत्र, कथं स्यान्मे समागमः १ ॥ १३६ ॥ त्वं तिष्ठासुः प्रतिष्ठासु - रथवेति निवेदिते । देवीभ्यां सोऽवदन्नंतुं पितॄनेष्याम्यहं सह ॥ १३७ ॥ तं कुमारं समादाय, व्योम्नोत्पत्य
१ नगरम् २ परिणतम्. ३ सर्ग ६ श्लोक ४८, ४ लोकेन. ५ सुवर्णभृङ्गारम् ६ गृहद्वारपिंडे ७ सर्ग ६ श्लोक १८६. ८ मार्गम् ( बाट ).९ " ओमाङ्गोश्च " इतिपररूपम् १० स्थातुमिच्छुः ११ प्रस्थातुमिच्छुः १२ आ इष्यामि - आ इषू दि० ल आ इण् अदादिः ल.
सर्ग. ६
॥ ११७ ॥
Page #285
--------------------------------------------------------------------------
________________
च तत्क्षणम् । मुक्त्वा च तद्वाभ्यर्णे, तिरोधत्तः स्म देवते ॥ १३८ ॥ त्रियमाजागरोद्विग्नः, पुण्यसारस्तदा क्षणम् । शय्यां कृत्वोत्तरीयं स्वं, निदद्रौ प्रमदोद्धुरः ॥ १३९ ॥
निर्वासितं सुतं मत्वा, पुण्यसारप्रसूरथ । तम्बंत्य मंदमानंद, जगाद देयितं प्रति ॥ १४० ॥ स्वामिंस्तवाभवत् कोऽद्य, निंद्योऽयं धीविपर्ययः । येने प्राणाधिकः पुत्रो, गृहान्निर्वासितस्त्वया ॥ १४१ ॥ अथाहरत हाराद्यं, यद्ययं बाल्यकेलिभिः । शिक्षणीयस्तदा सम्यग् निष्काष्यो न तु भृत्यवत् ॥ १४२ ॥ स्मरसि त्वं स्मराकारो, निःसुतस्य सुतस्तव । उत्पत्स्यते कथंकारं, कियताऽर्थव्ययेन च ॥ १४३ ॥ अस्थिरस्य धनस्यार्थे, निर्भर्त्सयति कः सुतम् ? । आरकूटकृते को हि, परित्यजति कांचनम् १ ॥ १४४ ॥ तदुत्तिष्ठ सुतं सद्यो, मृगयित्वा समानय । भोक्ष्ये प्रेक्ष्य मुखं तस्य नान्यथेति विनिश्चयः ॥ १४५ ॥ धनसारोऽवदद् भद्रे !, निराकर्तुं कुकर्मताम् । शिक्षितस्तनयो नो चेन्मम प्राणाधिकोऽस्ति सः ॥ १४६ ॥ स्तेयादिकृत् तनूजोsपि, कुलप्रध्वंसहेतवे । प्राणनाशाय पीयूष - मपि हि क्ष्वेडमिश्रितम् ॥ १४७ ॥ यदि व्यसनिनं पुत्रं, शिक्षयेन्न पिता तदा । स तत्पापेन लिप्येत, प्रजापापेन भूपवत् ॥ १४८ ॥ इत्युदित्वा चतुर्दिक्षु, भुजिष्यान् प्रेष्य सत्वरम् । उदतिष्ठत् स्वयं श्रेष्ठी, पुण्यसारं विलोकितुम् ॥ १४९ ॥ नगरे मित्रवेश्मादौ, बहिर्देवकुलेषु च । नष्टवस्त्विव तं श्रेष्ठी, निशां सर्वा व्यलोकयत् ॥ १५० ॥ अपश्यंस्तनयं क्वाऽपि, प्रातर्देवनियोगतः । ससार धनसारस्तां, पुण्यसाराश्रितां दिशम् ॥ १५१ ॥ गव्यूतिद्वयमाक्रम्य, सोऽपश्यद् वटभूरुहः । तले सुप्तं सुतं पारि - णेत्रवेषादिभासुरम् ॥ १५२ ॥ उपसर्पति यावत् तं पिता प्रमद
१ रात्रिः २ हर्षोत्कटः, ३ माता. ४ पतिम् ५ धीविपर्ययेण ६ पित्तलकृते ७ विष०, ८ सेवकान्.
Page #286
--------------------------------------------------------------------------
________________
कुमार
पालच० ॥ ११८ ॥
मेदुरः । तावत् सोऽपि जजागार, कुमारः कलहंसवत् ॥ १५३ ॥ लज्जमानः समानोऽपि स भालस्पृष्टभूतलः । अवन्दिष्ट पद वसु - विनेय इव सद्गुरोः ॥ १५४ ॥ निर्भरं परिरभ्योच्चैः, स्रवदश्रुविमिश्रदृक् । अवोचत् तनयं तातो, विनयं शिक्षयन्निति ॥ १५५ ॥ तर्जयन्नपि तातः स्यात्, सुतस्य हितहेतवे । विकाशायैव पद्मस्य, तापयन्नपि तापेनः ॥ १५६ ॥ अशिक्षितः सुतो नैव, महत्त्वमधितिष्ठति । अघृष्टं किमु माणिक्यं, महार्घत्वमुपैति हि १ ॥ १५७ ॥ त्वं वाङ्मात्रेण चेद् वत्स !, पूर्वेद्युः शिक्षितो मया । निर्यातोऽसि कथं गेहाद्, देहाज्जीवितवज्जवात् ॥ १५८ ॥ त्वद्वियोगाऽनलप्पुष्टी, नाश्नाति जननी तव । त्वन्निमित्तं निशामेनां, भ्राम्यञ् श्रान्तोऽहमप्यलम् ॥ १५९ ॥ दुःखध्वान्ताऽप हे वत्स !, त्वय्याऽऽयाते पुनर्गृहम् । विडंबयतु मार्तंड - मण्डलाधिष्ठितं नभः ॥ १६० ॥ इत्याद्युक्त्वा करे धृत्वा, पुण्यसारं बलादपि । प्रस्थितः सुस्थिताssत्माऽसौ, धनसारो गृहं प्रति ॥ १६२ ॥ षङ्गिःकुलकम् ॥ पित्रा समं गृहं प्राप्तः, पुण्यसारोऽथ दृष्टवान् । पद्मिनीमिव निष्पद्मां, | जननीं स्वविनाकृताम् ॥ १६२ ॥ हृतहारादतिश्रेष्ठं, हारमुत्तार्य कण्ठतः । दत्त्वा च प्राभृतव्याजाद्, विनयात् तां ननाम सः ॥ १६३ ॥ अवशिष्टानलङ्कारा - नुपदीकृत्य चाखिलान् । जनकाय ददौ पुण्य-सारो हृतधनाऽऽस्पदे ॥ १६४ ॥ पुनः पुनः स पृष्टोऽपि पितृभिः पुत्रवत्सलैः । पाणिग्रहमहं नैव, गूढमन्त्रमिवावदत् ॥ १६५ ॥ ततस्तथा कुमारोऽभूद्, धर्मनिष्ठो यथाऽखिलम् | कुलमप्यपुनाद् गौरी-गुरुं गंगाप्रवाहवत् ॥ १६६ ॥
इतश्च सा गुणश्रीस्तं, प्रभातेऽप्यनुपागतम् । पतिं वीक्ष्य विलक्षाssस्या, स्वसृभ्यस्तदची (च) कथत्॥१६७॥ताश्च साऽपि च १ सूर्यः. २ दग्धा, ३ निर्गता पद्मा लक्ष्मीः शोभा वा यस्या सा तामिव ४ हिमालयम् .
सर्ग. ६
॥ ११८ ॥
Page #287
--------------------------------------------------------------------------
________________
SACASSAGESWARGAARS*
सम्भूय, गृहोद्यानादिभूमिषु । सम्पश्यन्त्योऽपि न प्रापुः, पतिं पुण्यमिवात्मनः ॥ १६८॥ तत्स्वरूपं परिज्ञाय, कामदेवः सुतामुखात् । मृगयामास सर्वत्र, पुण्यसारं पुरान्तरे ॥ १६९ ॥ ततस्तं क्वाप्यनासाद्य, मार्गपातितरत्नवत् । निमग्न इव दुःखाब्धी, श्रेष्ठी कष्टमयोऽजनि ॥१७० ॥ अष्टौ तत्तनयाः प्रेयो-वियोगे नवदम्रवः । हृतप्राणा इवात्युच्चै-रेवं परिदिदेविरे ॥१७॥ हा कान्त ! स्वान्तविश्रान्त !, हा निशान्त! गुणावले। हा स्मराकार ! हा प्राणा-धार! हा हारनिर्मल! ॥ १७२ ॥ यदस्मान् परिणीय त्व-महासीबद्धवैरवत् । कूपे निक्षिप्य तद्रजु-च्छेदमातनुथा न किम् ? ॥ १७३ ॥नलोऽपि त्यक्तवान् पत्नी, कष्टमासेदिवान् परम् । त्वं तु कष्टं विनाऽप्यस्मान् , अहो ? ते पुरुषव्रतम् ॥ १७४ ॥ अस्माभिः | सेव्यमानोऽपि, बहुधा परमाप्तवत् । मुमुक्षुरे(रि)व त्वं नाथ !, सन्मुखं नैव दृष्टवान् ॥ १७५ ॥ अस्माकं मन्दभाग्यानां, त्वादृशः स्यात् कथं पतिः । कटुतुम्बीलतानां हि, न कल्पद्रुमसंगमः॥१७६ ॥रे यूयं व्रजत प्राणा!, जीव ! त्वमपि याहि रे ।रे हृत्! प्रसह्य दह्यस्व, रे देह! भव भस्मसात् ॥१७७॥ यद्यष्माकं समस्तानां, स स्वामी गतवान् कचित् । यूर्य स्थित्वा विना तेन, किमर्थ साधयिष्यथ ॥१७८ ॥ सप्तभिः कुलकम् ॥ कामदेवोऽथ रुदतीः, स्वसुताःप्रत्यवोचत । मा स्म ताम्यत हे वत्सा ! यूयं वरयितुः कृते ॥१७९॥ भवतीभ्यः पुराऽदायि, येनैष प्रवरो वरः। स एव पुनरानीय, दास्यत्येनं गजाननः॥१८०॥ अहमाराधयिष्यामि, तदर्थमधुनैव तम् । इत्युदीर्य कथंचित् ताः, पुत्र्यः पित्रा प्रबोधिताः ॥१८१॥5 गुणश्रीरथ तत्पुत्री, शारदावद् विशारदा । शोकं कृत्वा मनाक् स्तोक, चेतसीति व्यचिन्तयत् ॥१८२॥ सदाकारपरिज्ञात
१ परमात्मवत् , प्र. २ कमर्थम् , प्र.
Page #288
--------------------------------------------------------------------------
________________
सर्ग. ६
कुमारपालच.
॥११९॥
बुद्धिभारः प्रियः स नः । त्यजन् कुतोऽपि स्वं रूप-मविज्ञाप्य कथं त्यजेत् ॥ १८३ ॥ मन्ये पतिर्बहिरि, गच्छंस्तुच्छ विलम्बितः । निश्चितं लिखति स्मैव, किञ्चिज्ज्ञापयितुं निजम् ॥ १८४॥ पश्यामीति समुत्थाय, गुणश्रीरतिसत्वरम् ।। है उपेत्य तत्र च श्लोक-मेकमेवं व्यलोकत ॥ १८५॥ त्रिभिर्विशेषकम् ॥"क स गोपगिरिः क्वेयं, वलभी क विनायकः।
दूरादेत्य कुमारोऽत्र, परिणीय कनीर्ययौ" ॥१८६॥ तस्य दर्शनतः पत्यु-दर्शनादिव मोदिनी । सेत्थं समर्थयामास, तदर्थ मतिवैभवात् ॥ १८७ ॥ नूनं गोपगिरिस्थान-वासी दासीकृतस्मरः । अस्मत्पतिस्ततोऽत्रैन-मानिनाय विनायकः॥१८॥ अस्मद्दाक्ष्यपरीक्षार्थ, श्लोकमेनं विलिख्य सः । मुक्त्वा चास्मान् गतो गेह-महो? तस्यातिधूर्तता ॥ १८९ ॥ सा निश्चित्य पतिस्थानं, जगाद जनकं निजम् । श्लोकेनानेन विज्ञातं, मया पतिपुरं पितः। ॥ १९० ॥ ततः प्रहिणु मां तूर्ण, वाणिज्यव्याजतो यथा । गत्वा गोपगिरि कान्त-मानयामि स्वबुद्धितः॥ १९१॥ कामदेवोऽवदज् ज्ञातं, पतिस्थानं त्वया परम् । तन्नामाद्यपरिज्ञाय, वत्से ! त्वं ज्ञास्यसे कथम् ? ॥ १९२ ॥ किञ्च मार्गोऽतिदुर्गोऽस्ति, लुटाकैः परितः स्थितैः । दृष्ट्वा त्वां च सुरस्त्रीवद्, ग्रहीष्यन्ति स्मरातुराः॥ १९३ ॥ तस्मादत्रैव तिष्ठ त्वं, वत्से ! मा स्म श्रमं विधाः । कारयिष्येऽह | मेव द्राग, निजाप्तैस्तद्गवेषणम् ॥ १९४ ॥ गुणश्रीस्स्माह तत्याज, सोऽस्मान् दाक्ष्यदिदृक्षया । तैत् स्याद् व्यक्तं तदाऽस्माभिः, स्वयं ज्ञायेत यद्ययम् ॥ १९५ ॥ मार्गोपसर्गसंसर्ग-प्रतिघाताय च स्वयम् । त्वत्तः पुंवेषमादास्ये, रक्षायन्त्रमिवात्मनः॥१९६॥ तात! त्वं जननी चेयं, भगिन्यःसकला इमाः। यूयं शृणुत निःसीमां, प्रतिज्ञा मामिकामिमाम्॥१९७॥
१ भावः, प्र. २ आत्मीयम्. ३ दाक्ष्यम्.
SOSIAALISESSISSA
Page #289
--------------------------------------------------------------------------
________________
पण्मास्या निजकान्तं चे-नाऽऽनयामि नयांऽमितम् । तदा विशामि तत्रैव, चितावही पतंगवत् ॥ १९८॥ ततो रम्ये दिने तात-दत्त'वेषभासुरा । जनकादीननुज्ञाप्य, गुणश्रीश्चलति स्म सा ॥१९९॥ तदीया गोत्रिणोऽन्येऽपि, व्यवहार-| विधित्सया । प्रतस्थिरेऽतिसौस्थ्येन, तत्सार्थेऽनहारिणि ॥ २०॥ वलभीतो विनिर्गत्य, गुणश्रीः स्वजनं जगी । गुणचन्द्र इति ख्याप्यं, मन्नामाऽतः परं जने ॥२०१॥ तुंगं तुरंगमारुह्य, गुणश्रीनरवेषभृत् । रक्षन्ती स्वांगवत् सर्व, सार्थमुन्मादिसादिभिः ॥ २०२॥ दानं सानन्दमर्थिभ्यो, ददानाऽतिवदान्यवत् । स्मरन्ती च पतिश्लोकं, प्राप गोपगिरेवहिः| ॥२०३॥ युग्मम् ॥धन्यं पुरमिदं यत्र, मदीयो वसति प्रियः । इति रोमाञ्चिताङ्गी सा, तदपश्यन्मुहुर्मुहुः॥२०४॥ तावत् ४ समरसिंहस्त-रपुरेशो मागधब्रजात् । गुणश्रीविलसद्दान-तोषितादिति शुश्रुवान् ॥ २०५॥ वलभीपुरतः श्रेष्ठि-कामदे-16 वस्य नन्दनः । गुणचन्द्रो गुणी प्रातः, पुरमध्यमुपे(पै)ष्यति ॥२०६॥ ततो राडूमानदानाय, गुणश्रीसन्मुखं मुदा । सचिवान् प्रेषयामास, प्रतिदेहानिवात्मनः ॥२०७॥ कामदेवसुता प्रीत्या, तांस्तथोपाचरत् स्वयम् । यथा ते तद्गुणक्रीता-स्तदीया इव जज्ञिरे ॥ २०८ ॥ स्वं सार्थ बहिरावास्य, श्रीगोपगिरिनायकम् । प्रधानैस्सह साऽपश्यद्, गुणश्रीनरवेषिणी ॥ २०९॥ रञ्जयामास चानेकै-देश्यैर्दिव्यैरुपायनैः । लोकातिशायिभिस्तैस्तै-विनयाद्यैर्गुणैरपि ॥ २१०॥ दत्त्वा समरसिंहोऽपि, स्वसौधसविधे गृहम् । आनन्द्य चातिथेयीभिः, क्रियाभिस्तामतिष्ठिपत् ॥२११ ॥ आग्रहात् तस्य भूपस्य, गुणश्रीरेत्य नित्यशः। वारद्वयं तदास्थानी, परिचस्कार मित्रवत् ॥ २१२॥ अद्राक्षीच्च गवाक्षस्था, स्वप्रियज्ञीप्सया
१ नयेनाऽमितम्-अपरिच्छिन्नं-विशालनयमित्यर्थः. २ व्यापार विधातुमिच्छया. ३ अश्ववारः, ४ स्व-प्र. ५ देशेषु जातानि देश्यानि तैः. ९ भूषयामास.
RIMCAPSUPTASCARICE
Page #290
--------------------------------------------------------------------------
________________
सर्ग.६
कुमारपालच.
॥१२०॥
SOCIOCCESSORIES STOG
महः। पुरतोऽनेकशः पौरा-नेहिरेयाहिरापरान् ॥ २१३ ॥ यातायातपरं दृष्टे-रग्रतोऽपि पतिं पुरम् । पुण्यसारं न वेत्ति
स्म, सम्यक् परिचयं विना ॥ २१४ ॥ नामाकारपरिज्ञानं, विना प्रियमजानती । अदंदह्यत सा काम, वह्निस्पृष्टेव पद्मिनी | 3॥२१५ ॥ पुण्यसारोऽपि तां शृण्वन् , कामदेवस्य नन्दनम् । श्वशुर्यनिश्चयाभावा-न्मन्दाक्षाच्च ददर्श न ॥२१६॥ अन्य
दाऽभ्युद्यदामोद-मेदुरैश्चन्दनादिभिः ।सुपर्वपंकजाक्षीवद्, वासयन्ती दिशो दश ॥२१७॥ निजाङ्गसङ्गीपुरुषो-चितशृङ्गारभंगिमिः । मोहयन्ती मनः काम-देववत् पौरसुभ्रुवाम् ॥ २१८ ॥ गच्छन्ती राजसेवार्थ, तां गुणश्रियमैक्षत । वातायनस्था मदन-वती समरसिंहभूः ॥ २१९ ॥ त्रिभिर्विशेषकम् ॥ तद्रूपदर्शनादेव, मकरध्वजमार्गणैः । हृदि विद्धेव सा भूप-पुत्री चिन्तितवत्यदः ॥२२०॥ वन्दिवृन्दस्तवैः पूर्व, ततो गन्धर्वगीतिभिः । तदन्वामोदवातेन, ज्ञापितः कोऽयमुत्तमः ॥२२१॥कामः किमेष ? सोऽनंगः, किं दस्रः? से द्वितीयभृत् । किमैलः? स बभूव प्राक्, किं देवः सोऽनिमेषहकू ॥२२२॥
अनंगश्चेत् तपस्तत्वा, प्रामोत्यनुपमं वपुः । तदेतदुपमामान-पात्रं भवति नाऽन्यथा ॥ २२३ ॥ असौ वीक्षितमात्रोऽपि,18 कापश्यतोहरवन्मम । हरते हृदयं किश्चित् , न वेदयत्र निबन्धनम् ॥ २२४ ॥ जीवितं यौवनं चापि, तदैवैतत् फलेग्रहि[]
पुरूरवा इवोर्वश्या, यदाऽयं मे प्रियो भवेत् ॥ २२५ ॥ पञ्चभिः कुलकम् ॥ अथ तस्यां प्रयातायां, दृष्टिमार्गात् गुण|श्रियाम् । शून्येव साऽनुयुंक्त स्म, सखी कोऽयं पुमानिति ? ॥ २२६ ॥ शंसति स्म वयस्या तां, दाक्ष्याल्लक्षिततन्मनाः। गुणश्रियः कुतोऽपि प्राक्, स्थानाद्यं ज्ञातपूर्विणी ॥ २२७ ॥ अयं वरेण्यलावण्यो, गुणचन्द्र इति श्रुतः। श्रेष्ठिनः काम१ गमनागमनक्रियातत्परान्. २ श्वशुरस्यापत्यं पुमान्, ३ लज्जातः. ४ देवांगनावत्, ५ अश्विनीकुमारः सद्वितीयः-द्वौ स्त इत्यर्थः. ६ पुरूरवस् राजा-उर्वशीवल्लभः.
॥१२०॥
Page #291
--------------------------------------------------------------------------
________________
कु.पा.च. २१
| देवस्य तनयो विनयोत्तमः || २२८ || व्यवसाय चिकीरत्राऽऽ - यातः श्रीवलभीपुरात् । भवत्तातस्य निस्सीम - प्रेमपात्रं प्रवर्तते ॥ २२९ ॥ युग्मम् ॥ अनेन वर्त्मना सैष, त्वत्तातस्योपरोधतः । कलाकेलिकलो राज- कुलं गच्छत्यनाकुलः ॥ २३०॥ अस्मिन् पुरं सुरोद्याने, स्फुरत्तरुणसत्तरौ । अयमेव वपुर्लक्ष्म्या, पारिजातेति सम्प्रति ॥ २३१ ॥ एतदीया गुणाः स्फार - सौरभाः कमला इव । सकर्णैर्वर्णिताः कस्य, न भवन्त्योपकर्णिकाः ॥ २३२ ॥ तामेव कामिनीं धन्यां मन्येऽहं भाग्यवैभवैः । याऽस्य पाणिगृहीती स्यात्, रोहिणीव सितद्युतेः ॥ २३३ ॥ सखीमुखादिति श्रुत्वा, गुणश्रीगुणगौरवम् । तस्यां मदनवत्यासीद्, विशेषेणानुरागिणी ॥ २३४ ॥ यौवनाधिष्ठितानां स्याद्, मनः प्रायो विवेकमुक् । गुणश्रियां स्त्रियां सा स्त्री, रज्यति स्मान्यथा कथम् ? || २३५ || यद्वा न यौवनस्यैष दोषः किन्तु विधेर्ध्रुवम् । अस्थानेऽपि बलात् प्रेम, यः कारयति चेतसा ॥ २३६ ॥ ततः सा तद्गुणौघस्य, स्मारं स्मारं स्मरातुरा । महामोहान्धजम्बाले, मज्जति स्म करेणुवत् ॥ २३७॥ स्नानांगरागतांम्बूल - गीतनृत्योत्सवादिकम् । विषवन्न मुदे तस्या, विरहिण्या व्यजृंभत ॥ २३८ ॥ पुष्पचापप्रतापोत्थस्तस्यास्तापः स कोऽप्यभूत् । यत्राभुवन् घृथोपायाः, प्रतिकूले विधाविव ॥ २३९ ॥ जलजलजजलोद्रचन्दनस्यन्दचन्द्र - प्रभृतिभिरतिशीतैः शान्तिमायाति तापः । वपुषि विरहभाजां त्वेधते तैः स कामं, कथमिति विषमोऽयं शभ्यतां तद्भिषग्भिः ॥ २४० ॥ ( मालिनीवृत्तम् ) वियुक्तचक्रवाकीवद्, विक्लवां बीक्ष्य तां रहः । दक्षा सख्याचचक्षेऽथ, नाम्नोक्त्याऽपि प्रियंवदा ॥ २४१ ॥ बाधते त्वद्वपुर्व्याधि - राधिर्वा कोऽतिदुर्धरः ? । तपर्तुनेव वल्ली त्वं, शोच्या येनेदृशी १ पुरमेव सुरोद्यानं - नन्दनवनं तस्मिन् २ आचारार्थे विपू ३ उपकर्णे भवा औपकर्णिकाः. ४ ऊढास्त्री. ५ जलेनाद्रकृतं व्यजनं-जलार्द्रा ६ तापः,
Page #292
--------------------------------------------------------------------------
________________
कुमारपालच०
॥१२॥
ORGARSAMACARE
कृता ॥ २४२॥ सा जगाद गवाक्षाग्रे, गच्छन् दृष्टस्तदा मया । यः कुमारः प्रभास्फारः प्रभाकर इवापरः॥२४३ ।। तस्मिन्निध्यानमात्रेऽपि, मुदा स्फारितदृग्दला । पद्मिनीवानुरक्ताऽस्मि, जाताऽस्मीहक् तु तत्कृते ॥२४४॥ सम्प्रति व्योम्नि | दिक्चक्रे, पृष्ठे पायें पुरोऽपि च । तमेवैकं विलोकेऽहं, ब्रह्माद्वैतमिवात्मवित् ॥ २४५॥ स तदा दूरतोऽदार्श, शीतांशुरिव शीतलः। अधुना हृदयस्थास्नुः, कथं दहति वह्निवत् ? ॥ २४६ ॥ दुःखस्यैतन्निदानं ते, न्यवेद्यत मया सखि!। तच्चिन्तय तदाप्तिं मे, यदि मद्धितमिच्छसि ? ॥ २४७ ॥ प्रियंवदोचे वेद्येवं, वयस्येऽहं मनस्तव । विदुष्यऽपि यदप्रारं, केवलं नर्मकर्म तत् ॥२४८॥ श्रेयसे प्रेयसे तस्मै, किं मुधा हृदि खिद्यसे? । यद् योग्ययोर्न योगः स्याद् , दुर्घटः स्वर्णरत्नवत् ॥ २४९ ॥राज्ञः कन्याऽसि धन्या त्वं, गुणचन्द्रः स्फुरद्गुणः। युवयोर्घटनायां हि, किं न्यूनं ननु वल्गति ? ॥२५० ॥ विलोक्यतेऽनुकूलत्वं, केवलं प्रबलं विधेः। अवश्यं यस्य वश्यानि, कार्यानि निखिलान्यपि ॥ २५१॥ दृष्टो विधिरपि प्रायः, सोद्योगो योग्ययोजने । गौरीगिरीशयोः पद्मो-पेन्द्रयोः संगमान्मिथः॥२५२॥ त्वन्मात्रे प्रणिगद्यैतत्, कारयेऽद्य तथोद्यमम् । यथा भवति तेऽभीष्टं, कष्टं मा स्म कृथाः सखि ! ॥२५३ ॥ आश्वास्येति सुतां राज्ञः, सातदैव प्रियंवदा । तजनन्याः पुरः सर्व, तवृत्तांतं न्यवेदयत् ॥ २५४ ॥ ज्ञात्वा मदनवत्यास्तत्, समरश्रीर्मनीषितम् । एकांते निजकांताय, कथयामास सादरम् ॥ २५५ ॥ नृपः समरसिंहस्ता-माह स्म सुचिरं मम । अस्त्येव देवि ! त्वत्पुत्री-पाणिग्रहमहोद्यमः ॥ २५६ ॥ किंतु तादृग्वराभावा-दनुद्यम इवास्म्यहम् । परं भव्यमभूद् रक्ता, गुणचंद्रे यदात्मजा ॥ २५७ ॥
१ दृष्टमाने. २ तमौकम्, प्र.३.प्र. ४ लक्ष्मीकृष्णयोः. ५ वांछितम्. ६ उत्सवप्रयत्नः.
CASSORSCORRESS
॥१२॥
Page #293
--------------------------------------------------------------------------
________________
मोऽयं वरेण्यश्रीः, पुण्यैरेवाप्यते प्रिये ।। परं वणिक्सुतोऽस्तीति, चिंता मनसि मे मनाक ॥ २५८ ॥ राज्ञी हृष्टा! समाचष्ट, स्वामिश्चिंतेयमुज्झ्यताम् । वाणिजा हि न सामान्या, लोकोत्तरगुणत्वतः ॥ २५९ ॥ कुलं शीलं सदाचारो, विवेको विनयो नयः। श्रेयस्यं च येशस्यं च, वणिक्ष्वेवाखिलं किल ॥२६०॥ तदियं दीयतामेव, गुणचंद्राय नंदिनी ।। संबंधोऽस्त्वनयोः श्लाघ्यः, कौमुदीचंद्रयोरिव ॥२६१॥ अंगीकृत्य प्रियोकं तत् , तत्क्षणं क्षोणिवल्लभः। गुणश्रियं समाकार्य, रहः कार्यविचिवान् ॥ २६२॥ दैवात् प्रीतिलतावाद-सौहार्दमिदमावयोः। जज्ञे तद् येन न वापि, दीप्यते किंचिदंतरम् ॥ २६३ ॥ अधुना तद्हढत्वाय, त्वमंगीकुरु मेऽङ्गजाम् । यद्पस्य पुरः सर्वा, देव्यो बहुतृणं गुणिन् ! ॥२६४॥ चिंताऽऽचीता गुणश्रीस्तं, जगौ गोपगिरीश्वरम् । संबंधोऽयं प्रजाबंधो!, कथमौचित्यमंचति ॥२६५॥ व विवस्वान् क खद्योतः, व मेरुः क्व च सर्षपः क्व कल्पद्रुः वधत्तूरः, कमाणिक्यं व कर्करः॥२६६॥व देवः श्रीजितश्रीदः,काऽहंरंको वणिक्सुतः। न महोदधिसंबंधं, तडागोऽर्हति कहिंचित् ॥ २६७॥ यो देववत् सदाऽऽराध्यो, दूरस्थैरेव यत्नतः स्वमेऽप्य स्पृहणीयं त-सुताविवाहसाहसम् ॥ २६८ ॥ न साजात्यं न तुल्यद्धि-रेकत्रावस्थितिर्न मे । न मातापितरावत्र, कथं कार्यमिदं भवेत् ॥२६९॥ पुनस्तमालपद् भूपः, स्वरूपं यदिदं त्वया। विज्ञप्यते स्म तत् सर्व, विदन्नस्मि हृदन्तरे॥२७०॥परं कदाऽपि त्वां दृष्ट्वा, देवे देवीव मत्सुता । त्वय्यन्वरज्यतात्यर्थ, प्रार्थयेऽहं ततः कृतिन् ! ॥२७१॥ तस्माद् धनादिसंकोचं, पित्रादेरपि चोत्तरम् । प्रत्यादिश्य मदादेशं, प्रेमवृद्ध्यै प्रमाणय ॥ २७२ ॥ गाढमाग्रहमालोक्य, गुणश्रीधरणीशितुः।
* वणिजो हि, प्र. १ श्रेयस्त्वम्. २ यशस्त्वम्. ३ शोभते (दृश्यते). ४ व्याप्ता. ५ सूर्यः. ६ श्रिया जितः श्रीदो:-धनदोः येन सः.७ निराकृत्य-दूरीकृत्य.
ROCESSION
Page #294
--------------------------------------------------------------------------
________________
कुमारपालच०
॥१२२॥
वृद्धानापृच्छय दास्यामि, प्रातरुत्तरमित्यवम् ॥ २७३ ॥ ततोऽभ्येत्य निजं वेश्म, विस्मेरा कामदेवभूः। तच्छीसमरसिं
| सर्ग.६ ४ हस्य, वाक्यं वृद्धाग्रतोऽभ्यधात् ॥२७४ ॥ अन्वयुक्त च किं युक्त-मत्र वृद्धा ! निगद्यताम् । देवेन कीदृशे कार्य
संकटे पातिताऽस्मि हा ॥ २७५ ॥ एकतोऽयं नृपः पुत्री, दत्ते तत्त्वमसंविदन् । अन्यतोऽहं कृतच्छद्म-पौनी नारी करोमि किम् ? ॥ २७६ ॥ प्रादुष्करोम्यथ स्वात्म-रूपं तय खिले पुरे। विडंबना ममोच्चैः स्यात् , प्रियप्राप्तिश्च नो तथा ॥ २७७ ॥ गुणश्रीवाचमाचम्य, किंचिद् रम्यं तदुत्तरम् । ध्यानादपि न पश्यंतो, वृद्धास्तामाचचक्षिरे ॥ २७८ ॥ वाकेनैव वृद्धाः स्मो, न वयं शुद्धया धिया। चिन्तयन्तोऽपि तेनेह, किंचिज्जानीमहे न हि ॥ २७९ ॥ त्वबुद्धिरेव सर्वेषु, कार्येष्वायाति धुर्यताम् । यथोचितं त्वमेवोच्चै-यात्वा वत्से ! विधत्स्व तत् ॥ २८० ॥ गुणश्रिया ततोऽध्यायि, निषिद्धोऽप्येष भूधवः । न स्थास्यति ध्रुवं कन्या-पाणिग्रहमहाग्रहात् ॥२८१॥ न चार्वाक स्वप्रियप्राप्तेः, स्त्रीत्वं वक्तुं । ममोचितम् । परिणेध्येऽधुना तस्मात्, पुंवेषस्था नृपात्मजाम् ॥ २८२ ॥ षद्भिर्मासैयदि प्राप्तः, प्रेयानत्र मया तदा। भूपात्मजाऽपि तस्यैव, भवित्री प्राणवल्लभा ॥ २८३ ॥ अथ नैव प्रियः प्राप्तः, प्रमीयां तदा मयि । यथेच्छं तनुतां राज-नंदिनी स्वमनीषितम् ॥२८४॥ ततः प्रातर्नुपास्थानी, पुण्यसारप्रियाऽगमत् । तन्निबंधात् प्रपेदे च, तत्पुत्रीपाणि-| पीडनम् ॥२८५॥ श्रुत्वा मदनवत्यासीत् , तमुदंतमनंतमत् । स्त्रीणां प्रायः पिँयप्राप्तिः, सुधातोऽप्यधिकायते ॥२८६॥
॥१२२॥ भूपः समरसिंहोऽथ, प्रीतस्तुच्छेतरोत्सवैः । तया गुणश्रिया साकं, स्वकनी पर्यणीनयत् ॥ २८७ ॥ गुणश्रीपाणिना स्पृष्टा, १ आश्चर्यवती. २ अपृच्छत्. ३ कार्यवैषम्मे. ४ पुंसो भावः पौन, कृतं छद्मना पौनं यया सा. ५ विचारणादपि. ६ मृतायाम् ७ खवांछितम्. ८ पतिप्राप्तिः,
Page #295
--------------------------------------------------------------------------
________________
CAN
चित्ते मदनवत्यधात् । यं संमदं न सोऽध्वन्योऽ-भवत् कविगिरामपि ॥ २८८ ॥ तदा बद्धाञ्चला गोप-गिरिनाथसुताऽञ्चले । गुणश्रीवेदिमध्यस्था, विस्मिता ध्यातवत्यदः ॥२८९॥ कलयितुमलं सर्वद्रीची कविप्रतिभा न यत्, प्रविशति मनःस्फूर्तियस्मिन्न विष्टपलंपिनी । विलसति न यज्योतिर्ज्ञानेऽप्यनागतवेदके, तदपि सहसा कार्य दैवस्तनोत्यतिकौतकम् ॥ २९॥ (हरिणी वृत्तम् ) अदृष्टमश्रुतं चापि, विदधे विधिनाऽत्र यत् । हृणीयमानहृदयं, स्त्रीपाणिग्रहणं स्त्रिया ॥ २९१ ॥ पाणिमुक्तिक्षणे क्षोणी-श्वरः श्रेष्ठितनूरहे । हास्तिकाश्वीयहेमाद्यं, माद्यत्प्रीतिः प्रदत्तवान् ॥ २९२ ॥ युता समरसिंहाद्यैः, प्राप्तैर्नासीरचारिताम् । तां समादाय मदन-वती सा स्वगृहं ययौ ॥२९॥ कारयित्वाऽन्तराऽऽवासं, विपुलं निजचित्तवत् । गुणश्रीमंदिरं तत्र, राजपुत्रीमतिष्ठिपत् ॥ २९४ ॥ ततः सा स्वपरीवार-मित्यूचे चतुराशया। निरूप्यं न स्वरूपं मे, पुरतोऽस्याः कदाचन ॥ २९५ ॥ गोष्ट्यां सुधासधर्मायां, प्रवृत्तायां मिथो निशि । स्वं निहोतुमनाः|| स्माह, गुणश्रीनृपनंदिनीम् ॥ २९६ ॥ प्रिये ! व्रतविशेषस्य, पर्युपास्तिकृते मया । षण्मासीप्रमितं ब्रह्म-व्रतमस्त्युररीकृतम् ॥२९७॥ मासा द्वित्रा गतास्तत्र, तस्मिन्नवसिते सति । त्वया साधं प्रवर्धिष्णु-प्रेमा भोक्ष्येऽन्वहं सुखम् ॥२९॥
तावत् त्वं मा स्म दूनाऽभू-रेवमाश्वास्य तामसौ । गोष्ठ्या भूषादिदानैश्च, प्रीणयामास नित्यशः॥२९९॥ चतुर्भिः कला181पकम् ॥ अनंगरंगभंगेन, खिन्ना मदनवत्यपि । कथंचिद् दिवसान क्लेश-विवशानत्यवाहयत् ॥ ३०॥
पुण्यसारकुमारोऽथ, कामदेवभुवा समम् । दृष्ट्वा मदनवत्यास्तं, पाणिग्रहमहोत्सवम् ॥ ३०१॥ सर्वथाऽपि परित्यक्त१ अग्रेसरताम् - अग्रगमनताम्. २ आवासम् अन्तरा-श्रावासमध्ये. ३ ब्रह्माते समाप्ते सति. ४ गुणश्रिया, गुणचन्द्रेण वा.
AAKAASAN
Page #296
--------------------------------------------------------------------------
________________
कुमार
पालच.
॥१२॥
SUCCAAAAA
तदीयाप्तिमनोरथः । हिमक्लिष्टेदुमंदश्री-मनसि ध्यातवानदः॥ ३०२॥ युग्मम् ॥ मया मदनवत्यर्थ, प्रार्थिता प्राक् सरस्वती । आह स्म श्लोकमेकं मां, सा तत्प्राप्तिनिबंधनम् ॥३०३॥ स्मरतोऽपि तमन्तमें, मंत्रवत् तत्समीहया । कुमारो गुणचंद्रस्तां, परिणिन्येऽनुरागिणीम् ॥३०४॥ श्लोकेन वंचयामास, वाणी धूर्तेव मां कुतः। ध्यानात् प्रत्यक्षयित्वा तामुपालप्स्येतमामहम् ॥ ३०५॥ पुण्यसारस्ततो ध्यान-प्रकटां वागधीश्वरीम् । महतीभक्तिरानम्य, योजयित्वा करौ जगौ ॥ ३०६॥ देवि ! श्लोकस्त्वयोक्तोऽभू-न्मह्यं नृपसुताप्तये । मयि तक्ष्यायकेऽप्यासीत्, सा परस्य परिग्रहः ॥ ३०७॥ उक्तिर्यदि त्वदीयाऽपि, मृषोद्यत्वेन दूषिता । भानुप्रभा तदा किं न, स्यात् तमिश्रे(ने)ण मिश्रिता ? ॥३०८॥ त्वयाऽपि वंचितोऽहं चेद्, वात्सल्यरसकुल्यया । वंचयित्री ध्रुवं तर्हि, पुत्रं माताऽप्यतः परम् ॥३०९॥ वाणी बभाण मां वत्स!, किमुपालंभसे मृषा ? । दैवीवार मेरुचूलेव, न चलत्येव कर्हिचित् ॥३१०॥ वंचयेऽहं प्रपंचेन, सामान्यमपि नो जनम् । निर्व्याजं भक्तिभाजं च, किं पुनस्त्वां नरोत्तमम् ? ॥३११॥ अद्यापि राजपुत्रीं तां, स्ववधूं चेद् विधित्ससे । निर्मिमीष्व तदा मित्रं, कामदेवतनूरुहम् ॥ ३१२ ॥ देव्यामुक्त्वेति यातायां, पुण्यसारो व्यचारयत् । अधुनाऽपि जगादेयं, |किमेतदसमञ्जसम् ॥ ३१३ ॥ परकीया प्रिया साऽऽसीत्, परस्त्रीविमुखस्त्वहम् । तन्मे कथं भवित्री स्त्री, वंचितोऽस्मि पुनर्बुवम् ॥ ३१४ ॥ तथापि गुणचंद्रेण, सार्धं निर्माय सौहृदम् । श्रुताधिष्ठायिकाऽऽदिष्ट, वितनिष्ये प्रियेप्सया ॥३१५॥ ततः स धिषणासारः, पुण्यसारः स्वमानसे । गुणश्रियं सखीकर्तु, कामयामास तत्क्षणम् ॥ ३१६ ॥ गुणश्रीरपि कांतस्य,
१ तुषारकणा रेणुकणा वा हिमम्. २ महती भक्तिर्यस्य सः. ३ मृषावचनत्वेन. ४ विधातुमिच्छसि. ५ प्रियामाप्नु मिच्छया.
॥१२३॥
Page #297
--------------------------------------------------------------------------
________________
ESSASA ***
किंवदंतीमपि क्वचित् । अविदन्ती विधाप्य द्राग, वेदी द्वारबहिर्भुवि ॥३१७॥ तत्र स्थित्वा स्वयं भृत्यै-वाणिज्याचं व्यदी-18 धपत् । व्यवहारचिकीः प्रेयान, कदाऽप्यत्राऽऽपतेदिति ॥ ३१८॥ युग्मम् ॥ पुण्यसारस्तदा वेद्या-मुपविष्टां गुणश्रियम् । |संगतुं गतवांस्तुंग-चंगरंगतरंगिहृत् ॥ ३१९ ॥ दूरतोऽपि समायांतं, गुणश्रीः प्रेक्ष्य तं पुरः । अजानानाऽपि कांतं स्वं, है प्रमोदाद्वैतमासदत् ॥ ३२०॥ प्रथमं रचयामास, साऽभ्युत्थानं हृदा मुदा । विस्तृताभ्यां ततो दृग्भ्यां, तदन्वङ्गेन तंदू
प्रति ॥ ३२१॥ पदानि कतिचिद् गत्वा, निवेश्य स्वासनेऽद्भुते । वाचा सुधामुचा सा तं, वार्तयामासुषी चिरम् ॥३२२॥ ६ पुण्यसारोऽपि तदृष्टि-तद्गोष्ठीरसमापिबन् । निमग्न इव पीयूष-पयोधौ निदधौ मुदम् ॥ ३२३ ॥ मिथः स्त्रीपुंसभावं
तौ, न यद्यप्यवजग्मतुः । तथापि तन्मनोनेत्रे, निस्तुषं सुखमापतुः ॥ ३२४ ॥ नूनं हङ्मनसी एव, प्रियाप्रिय-1 | विवेचिनी । स्यातां सद्योऽपि तदृष्ट्या, प्रीतिद्वेषभृते हि ते ॥ ३२५ ॥ स्वचित्तमिव तच्चित्तं, प्रीतं प्रेक्ष्य स्वसन्निधेः।। पुण्यसारस्त्वया सार्ध, मैत्री मेऽस्त्वित्ययाचत ॥ ३२६॥ अभाषिष्ट गुणश्रीस्तं, मैत्र्यै मे केयमर्थना । न हि पीयूषपानार्थ, प्रार्थ्यते कोऽपि कुत्रचित् ॥३२७॥ सोऽपि स्याद् धन्यमूर्धन्यो, यस्ते दास्यमपि श्रयेत् । किं वाच्यः स तु यं प्रीत्या, त्वं वयस्यीयसि स्वयम् ॥ ३२८ ॥ इति तजल्पितानल्प-प्रमोदामोदमेदुरः । प्रीति गुणश्रिया साफ, पुण्यसारश्चकार सः | ॥३२९॥ एकत्रावस्थितिक्रीडा-सूक्तसारकथारसैः । तत्प्रेमेन्दुकरर्वार्द्ध-रिवावर्धिष्ट संततम् ॥३३०॥ अजनिष्ट तयोरक्यं, मन्येऽन्योन्यानुवेधतः । अन्यथा कथमापन्नौ, तदात्मानौ सरूपताम् ॥ ३३१॥ एवं प्रियोल्लसत्प्रीति-हृष्टा सा श्रेष्ठिनं१ अविदंती, प्र. अदिती, प्र. २ अन्तर्भूतणिजर्थः पा धातुरत्र, ३ आत्मनः वयस्यमिच्छसि. ४ अतिहर्षरूपगंधेन पुष्टः. ५ संबन्धतः. ६ समान (एक) रूपताम् .
*
*
Page #298
--------------------------------------------------------------------------
________________
कुमारपालच.
॥१२४॥
CROSAGACARRORSCRIKARAN
दिनी । षण्मासीं सप्तभिर्घौ-रपूर्णामत्यवाहयत् ॥ ३३२॥ तथापि स्वप्रियोदंतः, क्वापि नाऽऽपि तया यदा । तदा मृत्युकृतेऽवादि, विजने स्वपरिच्छदः॥ ३३३ ॥ प्रत्यज्ञायि मया पूर्व, पडिर्मासैः पतिं यदि । म प्राप्नोमि तदा वह्नौ, सतीवत् स्वं जुहोम्यहम् ॥३३४॥ क्रमेण साऽतिचक्राम, प्रियः प्राप्तो न कुत्रचित् । तदद्य नगराद् बाह्ये, रच्यतां चंदनश्चिता ॥३३५॥तया गिरा ज्वलद्दाव-कीलयेवाकुलीकृतः।व्याजहार परिवार-स्तांप्रति स्खलदक्षरम् ॥३३६॥ अद्यापि त्वत्प्रतिज्ञायां, सप्तदिन्यवशिष्यते। निश्चितं लप्स्यते क्वाऽपि, मृग्यमाणः पतिस्तव॥३३७॥अथाभाग्यान्न स प्राप्त-स्तथापि न तैवोचितः। भृत्युः साधयितुं येन, तथा जीवस्य दुर्गतिः॥ ३३८ ॥ दुर्लभं नृभवं प्राप्य, धर्म निर्माहि निर्मलम् । यस्मादिहे. प्सितं सर्व, परलोके च सद्गतिः॥ ३३९॥ भवे भवे विवोढाऽस्ति, धर्मस्त्वत्यंतदुर्लभः। शैले शैले दृशद्राशिः, पद्मरागः कचित् पुनः॥३४०॥ तत्पिधेहि मतिं मृत्यो-निधेहि सुकृते मनः। विधेहि स्वजनोद्गीर्ण, धेहि जीवितमात्मनः॥३४॥ ततः श्रेष्ठिसुताऽऽचष्ट, साक्षेपं स्वजनान् प्रति । विदद्भिरपि मच्चित्तं, भवद्भिः किमुदीरितम् ॥३४२॥ इयत्कालं न यो लब्धः, सोऽधुना लभ्यते कथम् ।। जन्मन्यपि न सिद्धं यत्, प्रांते सिध्यति तत् कथम् ॥३४॥ तदलब्धौ च जीवामि, कथं भक्त्वाऽऽत्मसंगरम् ? । एकं दुःखं प्रियाभावो, द्वितीयं वागसत्यता ॥३४४॥ मम वल्लभतोऽप्यस्ति, सत्यमत्यंतवल्लभम् । तत् कीहर व्यवतिष्ठेत, संगरो यदि भंगुरः॥३४५॥ आपत् समापतत संपदपैतु दूरं, ज्ञातिः परित्यजतु सर्पतु चापकीर्तिः।
१ आत्मानम् (देहम् ). २ षण्मासी. ३ कर्तरि षष्ठी. *कर्मणि प्रथमा. ४ कारणेन. ५ एवं भत्युना. (पतिः. . रक्तवर्णमणि विशेषः प्रवाको वा 5(चुनी-पोखराज). ८ जानदिः. ९ कथितम्. १० प्रतिज्ञाम्. ११ पतितोऽपि. १२ सत्यम्.
MOCRACCALE+
॥१२४ ॥
Page #299
--------------------------------------------------------------------------
________________
।
आत्मा प्रयातु सकलं कुलमंतमेतु, न स्वीकृतं कृतधियस्तदपि त्यजति ॥ ३४६ ॥ ( वसंततिलकावृत्तम् ) तदद्य दुःखमोक्षाय, निर्माती धर्मकर्मवत् । मरणं वारणीयाऽहं न भवद्भिः कथंचन ॥ ३४७ ॥ एवं स्वजनमात्रोध्य, चितां श्रीखंडसंचिताम् । गुणश्रीस्तत्क्षणं तेन, बहिर्देशे व्यदीधपत् ॥ ३४८ ॥ परिच्छदेन सर्वेण, शोकोच्चैः स्रवदश्रुणा । वृता साऽश्वोरैंसं श्रित्वा, चितापार्श्वमशिश्रियत् ॥ ३४९ ॥ तन्निशम्यानलज्वाला - जालाऽऽचांतेव चेतसि । प्रतिरोमज्वलत्तीव्रशूचीविद्धेव वैर्मणि ॥ ३५० ॥ धारालेनाश्रुवैर्षेण, वार्षिकांबुदवीचिवत् । प्रथिष्ठमपि पंथानं, जनयंतीव पंकिलम् ॥३५१ ॥ प्राणान्निष्काशयंतीव, मुष्ठिघातैरुरस्तटात् । तदैव विह्वलीभूता, पृष्ठे मदनवत्यगात् ॥ ३५२ || त्रिभिर्विशेषकम् ॥ राजाऽपि राजलोकोऽपि, पौरवर्णोऽपि दुःखितः । तत्राऽऽजगाम वेगेन, "तं निवारयितुं मृतेः ॥ ३५३ ॥ ऊचे समर सिंहस्तां । वत्स ! स्वजनवत्सल । अकस्मात् कारणात् कस्मा - म्रियसे । क्लेशवानिव ॥ ३५४ || न्यूनं किमपि ते वस्तु, न्यक्कृतोऽस्यथ केनचित् । इष्टानां किमुतानिष्टं किं ते दुःखं निवेदय १ ।। ३५५ ॥ इदं वपुरियं लक्ष्मी-रियं स्त्री स्वजनोऽप्ययम् । एतत् सर्व वृथैव त्वं न परित्यक्तुमर्हसि ॥ ३५६ ॥ त्वं वाङ्मयाब्धिपारीण - स्त्वं कलैकनिकेतनम् । स्वं दक्षशेखरो ब्रूहि, किमित्येवं व्यवस्यसि १ ॥ ३५७ ॥ एवं नृपेण पौरैर -प्युच्चैः पृष्टाऽपि सा तदा । विगोपनभिया स्वस्य, नाब्रवीन्मृत्युकारणम् ॥ ३५८ ॥ पंचभिः कुलकम् ॥ ततः कर्णे लगित्वाऽऽत्म - वृद्धानां श्रेष्ठिनंदिनी । उवाच वाचिकीन्येवं, पित्रा -
१ नाशम्. २ मुख्याश्वम्. ३ व्याप्ता. ४ शरीरे ५ दृष्टया ६ पृथुतरम्, प्रविष्टम् प्र. ७ गुणचंद्र तां प्र-गुणश्रियम् ८ गुणश्रियम् ९ तिरस्कृतः. १० मातृपित्रादीनाम् ११ कुत्सनभयात्. १२ संदिष्टाः वाचः - वाचिकानि ( संदेशा ).
Page #300
--------------------------------------------------------------------------
________________
सर्ग..
कुमारपालच.
॥१२५॥
दीन् प्रति दीनगीः॥ ३५९ ॥ प्रणाममेतमन्त्यं मे, जानीतं पितरौ युवाम् । क्षमेथां च मदागस्तद्, यत् कृतं शैशवादपि ॥३६०॥ अन्याऽतिधन्या कन्या स्या-दिंदुज्योत्स्नेव मोदिनी । पित्रोरहं तु पापात्मा, तपश्रीरिव तापिनी॥३६॥ हे स्वसारोऽनलेऽसारं, हुत्वा जीवितमात्मनः । तथा शीघ्रं समायात, यथा मिलत मे पुरः ॥ ३६२ ॥ सख्यः! सख्येन टू
यत् किश्चिद्, युष्मदग्रे जगे मया । तदरम्यमपि क्षम्य-मंतिमोऽयं कृतोऽञ्जलिः ॥ ३६३ ॥ त्रिःपरीय चितां प्रीत्या, टू गुणश्रीमन्दमूचुपी । जगत्साक्षिस्तथा लोक-पालाः! शृणुत मद्वचः ? ॥३६४॥ पापिन्याऽत्र मया प्राप्तो, न प्रेयांस्तद्
भवांतरे । स एव मे प्रियो भूयाद्, भवदीयप्रसादतः ॥ ३६५ ॥ युग्मम् ॥ ततो नृपादिभिर्लोक-हाकारमुखराननैः।
मा मेति वार्यमाणाऽपि, यावद् विशति सा चिताम् ॥३६६॥ तावद् विज्ञाय तल्लोकात्, पुण्यसारोऽतिविह्वलः। तत्रागा बाष्प-18 टू पूरेण, कुर्वनुदकिलामिलाम् ॥ ३६७ ॥ गुणश्रीपरिवारेण, स्नेहेन च भृशेरितः । स कृपारसपाथोधि-स्तां प्रति प्रोचि-18
वानिति ॥ ३६८ ॥ किमेतत् कर्म निर्मातुं, भवान् मित्रोपचक्रमे । ईदृग्भवादृशः कश्चिद्, विपश्चिच्चकृवान्न हि ॥ ३६९ ॥ मामभ्यधाः सदाऽपि त्वं, तवाकथ्यं न किंचन । यद्येतत् सत्यमाचक्ष्व, प्रविशस्यनलं किमु ॥ ३७०॥ मृत्युहेतुमनु-I त्वैव, वियतेऽथ त्वया सखे!। तदा मयाऽपि मर्तव्य-मवश्यमिति मे ग्रहः ॥ ३७१॥ निवारयति पातकाद्, दिशति मार्गमत्युज्वलं, न मर्म वदति क्वचित्, प्रकटयत्यशेषान् गुणान् । समुद्धरति संकटाद्, वहति हर्षमभ्युन्नती, सह त्यजति
१सूर्यश्रीः--सूर्यताप इव, तापिनी-संतापकारिणी. २ त्रिवार परिभ्रम्य. ३ उक्तवती. ४ हे सूर्य ! ५ उदकयुक्ताम्, (पंकिलाम् ). हे मित्र. *H. आरब्धवान्, “ कृतवान्, प्र. ९भाग्रहः-प्रतिज्ञा.
Hoteostesleesheestefees
॥१२५॥
KOHUS*
Page #301
--------------------------------------------------------------------------
________________
जीवितं, स्फुरति मित्रकृत्यं ह्यदः ॥ ३७२ ॥ (पृथ्वीवृत्तम् ) चित्तेन निर्विकल्पेन, जल्पित्वेति तदैव सः । सज्जीभवितमारेभे, झंपां दातुं चितान्तरे ॥ ३७३ ॥ तादृग्निरूप्य तत्प्रेम, मरणांतं प्रतीतहृत् । स्वरहस्यं रहस्यूचे, गुणश्रीस्तं प्रति स्फुटम् ॥ ३७४ ॥ तन्निशम्यातिविस्मेरः, पुण्यसारो व्यचिंतयत् । अहो पत्नी ममैवेयं, गुणश्रीः स्पष्टमष्टमी ॥ ३७५ ॥8॥
श्लोकसंकेतमात्रेण, कथमत्रेयमागमत् । कथं च कन्यां राज्ञोऽस्य, परिणिन्ये नृवेषभाक् ॥ ३७६ ॥ कथं गोपायति स्म हास्वं, नृपायैःप्रनिताऽप्यलम् । कथं वा प्रियमप्राप्य, वह्नौ विशति सत्यतः॥ ३७७ ॥ तदेतस्या गुणाः पांथी-भवंति न
हि वाक्पथे । वैदग्धीदृढतागूढ-मंत्रतासत्यतादयः ॥ ३७८ ॥ मयाऽप्येषा सखीचके, साधु वाग्देवतोदितात् । नो
चेदस्यां मृतायां मे, बियेरंस्तत्र ताः प्रियाः ॥ ३७९ ॥ प्रियाणां वर्यचातुर्य-वीक्षायै दाक्ष्यमीदृशम् । कृत्वा मयैव जाप्ताऽऽसीत्, स्वस्थानर्थपरंपरा ॥३८॥ध्यात्वेति मॅजनाकंठ-ममंदानंदवारिधी । वदति स्म विनोदेन, पुण्यसारो निज-10
प्रियाम् ॥ ३८१॥ सप्तभिः कुलकम् ॥ अहो ते कृत्रिमा प्रीति-रेतावंति दिनान्यभूत् । स्निह्यतेऽपि न मह्यं यत्, त्वयैतजातु जल्पितम् ॥ ३८२ ॥ इदं यदि त्वया प्रीति-प्रारंभेऽप्यभणिष्यत । तदा तदैव त्वत्प्रेयान् , मयाऽथामेल यिप्यत ॥ ३८३ इदानीमपि ते सिद्धं,साध्यं यन्मां त्वमभ्यधाः। परं किंचन वच्मि त्वां, यदि मह्यं न कुप्यसि ॥३८४॥ इति तद्वाक्सुधासारैः, प्रमीतोजीवितेव सा । वामांगस्फुरणात् कांतं, संप्राप्तमिव जानती ॥ ३८५॥ धनसारसुतं स्माह, मन्मनोदाहचंदन ! । यथेच्छमुच्यतां कोपः, कस्त्वां पतिविदं प्रति ? ॥३८६॥ युग्मम् ॥ सोऽभ्यधात् सुभगे ! कां(का)ते, . १ पुण्यसारः.२ दृष्ट्वा. ३ सत्येन-प्रतिज्ञातः. ४ मज्जन सन्,
PLEASESCREENER
A
Page #302
--------------------------------------------------------------------------
________________
कुमारपालच.
॥१२६॥
प्रीतिस्तं कुपति प्रति ? । सस्नेहामप्यहो यस्त्वां, निःस्नेहामिव मुक्तवान् ॥ ३८७ ॥ तस्मिन् विधीयते प्रीति-र्यः स्वस्मिन् प्रीयतेतमाम् । विरक्त क्रियमाणा साँ, स्यादंधमुखमंडनम् ॥ ३८८ ॥ मर्तव्यं म्रियमाणेन, सार्धमित्थं जनश्रुतिम् । मत्वाऽपि नियमाणाऽसि, तस्मै कुप्रेयसे किमु ॥ ३९९ ॥ बत् तदाशामपास्यैव, चिंत्यतामपरो वरः। यस्तनोति त्वयिप्रीति, कोक्यां कोक इवोच्चकैः ॥ ३९० ॥ तस्येत्यनिष्टवाक्येन, प्रदोषेणेव पद्मिनी । परिम्लानमुखाऽम्भोजा, गुणश्रीगंदति स्म तम् ॥ ३९१ ॥ त्वं सुचर्यैकधुर्योऽपि, निंद्यं किमिति जल्पसि?। आद्रियन्ते भवाहक्षा, न हि पापोपदेशिताम् ॥ ३९२॥ कुलीनानां मृगाक्षीणां, निःस्नेहोऽपि पतिर्गतिः। वल्लरीणां हि शुष्कोऽपि, तरुरेवावलंबनम् ॥ ३९३ ॥ मुमोच न च निःस्नेहः, स मां किंतु विदग्धताम् । श्लोकसंकेततः शंके, परीक्षामासिवान् स्वयम् ॥३९४॥ यत्र जीवति जीवंति, नियंते च मृते स्त्रियः । घियते तत्कृते नो चेत्, किं नु मर्तव्यमश्मने ? ॥ ३९५ ॥ अपरप्रियनिर्माण, यत् त्वं वदसि मां प्रति । तद् युज्यते पणस्त्रीणां, कुलस्त्रीणांन धार्मिकः!॥३९६॥ हास्यमेतत् ततो हित्वा, यदि जानासि मस्प्रियम् । तानयेह वेगेन, नो चेन्मर्तु प्रयच्छ मे॥३९७॥ तादृग्निजप्रियाप्रेम-स्थेम्ना चित्ते चमत्कृतः। पुण्यसारो बभाषे तां, वाचं पीयूषधर्मिणीम् ॥३९८ ॥ यद्येवं निश्चयस्तेऽस्ति, ताश्रय निजाश्रयम् । सौभागिनेयि! कांतं ते, यथाऽऽनीय प्रदर्शये॥३९९॥ सा स्माह नोभिः कूटाभिः, प्रतीयेऽहं त्वदुक्तिभिः। प्रियमेलोऽसि सत्यं चेत्, तत्रैव स मेल्यताम् ॥ ४०॥ प्रियस्तां पुनराचष्ट, सम्यक् परिचयं विना । तमानीतमपीह त्वं, कथं विज्ञास्यसे वद ॥४०१॥ गुणश्रीः माह सुश्लोक!, १ प्रीतिः. २ स्थैर्येण. ३ वर्षिणीम्. प्र. ४ सुभगायाः-पतिप्रियायाः स्त्रिया अपत्यं स्त्री सौभागिनेयी तत्संबोधनम्. ५ न आभिः. ६ मिलधातोर्णिजन्तात् कर्मणि लोह.
॥१२६॥
Page #303
--------------------------------------------------------------------------
________________
SANSARAGANSAR
संकेतश्लोकपाठतः । प्रत्याययिष्यते मां चेत्, तर्हि ज्ञास्यामि तं प्रियम् ॥ ४०२॥ स्मित्वा तेनोदिते तस्मिन. भोर
तच्छतिमात्रतः । नृत्यतीव मुदा चित्ते, सा तं ज्ञातवती प्रियम् ॥ ४०३ ॥ अमांतमिव हुन्मध्ये, कांते स्नेहरसं भृशम् । साधारयंती बहिर्देहे, सात्त्विकस्वेदकैतवात् ॥ ४०४ ॥ उपोषिते इव दृशौ, तदालोकसुधारसम् । स्वादयंती करे धृत्वा,
गुणश्रीनिजगाद तम् ॥ ४०५॥ युग्मम् ॥ स्वामिन् ! केनापराधेन, स्नेहाधीनहृदः प्रियाः। अमुच्यतार्यपुत्रेण, तृणवत् प्रथमेऽवयपि ॥ ४०६ ॥ स्त्रीणां प्रेम वरं प्राणान् , पत्ये मुंचंति याः क्षणात् । न तु पुंसां, विना दोष-मपि प्रीतप्रिया-18
मुचाम् ॥४०७॥ तदानीं वंचयित्वा मां, निलयात् त्वं पलायथाः । इदानीं करलग्नायां, मयि यासि कथं वद ॥४०८॥ है उक्त्वेति रुदती तारं, सा प्रीतिवचनामृतैः। वर्षाब्दोक्षितवल्लीव, सोल्लासा प्रेयसा कृता ॥४०९॥ गुणश्रीः स्वं प्रियं प्राप्य,
यं प्रमोदं समासदत् । तं विवेचयितुं शक्तः, सहस्ररसनोऽपि न ॥४१०॥ प्रियदर्शनमेवात्र, सुधा साऽग्या मुधा बुधाः। आत्मा यत्पानतस्तापं, सर्वागीणं विमुंचति ॥ ४११॥ पुंवेषोऽयं त्वयोत्तार्यो, गृहं गत्वाऽत्र न प्रिये । इत्युक्त्वा तां करे - कृत्वा, कुमारोऽभूत् पुरोन्मुखः॥ ४१२ ॥ एतत् किमिंद्रजालाभ-मित्युच्चैः संशयालवः । व्यावर्तिपत ते सर्वे, भूपाद्याः स्वगृहान् प्रति ॥ ४१३ ॥ प्रेयसा सममासाद्य, गुणश्रीः सम तत्क्षणम् । तदादेशानिजं रूपं, नटीव प्रकटं व्यधात् ॥ ४१४ ॥ सा संप्राप्तनिधानेव, तथोत्सवमतीतनत् । यथा पौरब्रजो जज्ञे, विस्मयार्पितमानसः ॥ ४१५॥ निभाल्य निजनाथस्य, स्त्रीत्वं मदनवत्यथ । प्रातः कुमुदिनीवाति-म्लाना पित्रोस्तदभ्यधात् ॥ ४१६ ॥ तावपि स्फूर्जदाश्चयों,
१ सर्ग ६ श्लोक १८६.२ पत्री, प्र. ३ प्राबृद्दमेघसिक्तवल्लीव. ४ नगरसन्मुखः.
कु.पा.च.२२
Page #304
--------------------------------------------------------------------------
________________
कुमार
सर्ग.६
पालच०
॥१२७॥
KARNAGRAM
समाकार्य गुणश्रियम् । विचित्रं तच्चरित्रं तत्, प्रश्नयांचक्रतुस्तराम् ॥४१७॥ तया प्रोक्त निजे वृत्ते, भूधवः क्रोधवन्मनाः। अहो स्त्रीसाहसं गाढ-मिति ध्यायनुवाच ताम् ॥ ४१८ ॥ अप्रकाश्य निजं रूपं, वंचयित्वा च मां त्वया । मत्कनी परिणीयेयं, किमित्येवं व्यडंब्यत ॥ ४१९ ॥ साऽभ्यधादतिनिबंधे, देवेन विहिते सति । स्वविगोपनभीत्याऽह-मकृत्यं कृतवत्यदः ॥ ४२० ॥ अधुना तु प्रियाप्तौ य-मयाऽऽत्मा प्रकटीकृतः । स्वसाध्यसिद्धौ जातायां, नाकीर्तिः काचनेति तत् ॥ ४२१॥ ततो गोपगिरींद्रस्तां, प्रेष्य पप्रच्छ मंत्रिणम् । कर्तुमस्याः सुताया मे, सांप्रत किमु सौंप्रतम् ॥ ४२२॥ उवाच धीसखो ध्यात्वा, देव! यत्पाणिपीडनम् । अस्या गुणश्रिया सार्ध, बभूव व्यर्थमेव तत् ॥ ४२३ ॥ एतद्योग्यो वरः कोऽपि, नान्यो मान्योऽस्ति सद्गुणैः । तदस्मायेव कन्येयं, पुण्यसाराय दीयताम् ॥ ४२४ ॥ युक्तं मंत्रिवचः श्रुत्वा, श्रीगोपगिरिभूपतिः । धनसारं समाकार्य, सुतवृत्तप्रमोदितम् ॥ ४२५॥ वितीर्य तत्तनूजाय, विधिवत् तनयां निजाम् । तयोर्विरचयामास, विवाहं विस्तृतोत्सवम् ॥ ४२६ ॥ युग्मम् ॥ चिरेप्सितां राजसुतां, प्राप्य न्यक्कृतपूर्विणीम् । धनश्रीनंदनो दध्यौ, हृदि वर्धिष्णुसंमदः॥ ४२७ ॥ धन्यानामपि मूर्धन्योऽस्म्यहं येन मयाऽधुना । विवाह्य स्वस्त्रिया व्यूहेड-निच्छंत्यपि नृपात्मजा ॥ ४२८ ॥ एकां सरस्वतीमेव, स्तवेऽहं भक्तवत्सलाम् । एकप्रियार्थमाराद्धा, या दत्ते स्म | प्रियाद्वयीम् ॥ ४२९ ॥ यद्वा किमपरैर्वर्ण्य, पुण्यमेवैकमुल्बणम् । यस्याग्रे किंकरायंते, समस्ता अपि सिद्धयः॥४३०॥ पुण्यसारं पति लब्ध्वाऽ-ध्यासीन्मदनवत्यपि । घिग् घिगू देवमयोग्यं यः, संबंधं तनुतेऽरिवत् ॥४३॥ अनेनैव विडंब्य |
१ संप्रति. २ युक्तम् . ३ मया व्यूहे-ऊढा इत्यर्थः. ४ दैवः. ५ देवेन.
॥१२७॥
Page #305
--------------------------------------------------------------------------
________________
स्त्री - स्त्रीत्वेन निखिले पुरे, । यच्चक्रेऽहमनिष्टस्य, पुण्यसारस्य वल्लभा ॥ ४३२ ॥ परं दैवकृते कार्ये, किं करोत्यभिमानिता । ध्यात्वेति दधे मदन - वती प्रीतिं परां प्रिये ॥ ४३३ ॥
अथ विज्ञपयामास, गुणश्रीः स्वपतिं प्रति । भग्नीभिर्यत् प्रतिज्ञातं मत्प्रयाणेऽवधेहि तत् ॥ ४३४ ॥ षण्मासांते सकांता चेत्, स्वसस्त्वं न समेष्यसि । दुःखांताय तदा प्राणान्, होप्यामः प्रबलेऽनले ॥ ४३५ ॥ दिवसाः संति पंचैव तन्मृत्य - | वधिमध्यतः । तद् वरिष्ठ ! प्रतिष्ठस्व, त्वं द्रुतं वलभीं प्रति ॥४३६ ॥ नो चेद् भवद्वियोगार्त्ता, भगिन्यः पितरौ च मे । जातवेदसि लप्स्यंते, शलभैः सुलभां गतिम् ॥ ४३७ ॥ पित्रे राज्ञे च विज्ञप्य, तदनुज्ञामवाप्य च । रतिप्रीतियुतः काम, इव स्त्रीद्वयभासुरः ॥ ४३८ ॥ धनसारतनुजन्मा, पवनानिव रूपिणः । वाजिप्रष्ठानधिष्ठाय प्रातिष्ठत पुरात् ततः ॥ ४३९ ॥ | युग्मम् ॥ ग्रामीणानां प्रतिग्रामं, विनोदर्मोदयन् मनः । महीं महीयसीमेष, ययौ व्योम्नेव संचलन् ॥ ४४० ॥ मिथः प्रियाप्रियालाप - कलापामृततर्पितः । प्रस्थास्नुरपि सोऽश्रांतं, न वर्त्मश्रांततामधात् ॥ ४४१ ॥ इत्यविच्छिन्नयानेन, पुण्यसारः समासदत् । पंचमे दिवसे प्रात- वलभीपुरगोचरम् ॥ ४४२ ॥ तस्मिन्नेव दिने तत्र, कामदेवतनूरुहाः । सप्ताऽप्यभ्येत्य वतारं, दुःखतप्ता व्यजिज्ञपन् ॥ ४४३ ॥ षण्मासी परिपूर्णाऽऽसीन्, नायासीद् भगिनी परम् । नूनं सा न प्रियं प्राप, तेन जीवति नैव च ॥ ४४४ ॥ इयच्चिरं स्वकांताशां, द्रविणाशां दरिद्रवत् । कृत्वा वृथाऽसहिष्मोच्चै - दुस्सहं विरहानलम् ॥ ४४५ ॥ तत्प्रसद्य पितः ! सद्यः, सोद्यमीभूय दीयताम् । अस्मभ्यं सर्वदुःखद् - दहनाय धनंजयः ॥ ४४६ ॥ दुहितुणां
१ स्त्रियाः स्त्री स्त्री स्त्री तस्या भावस्तेन २ अग्नौ ३ श्रेष्ठान् ४ प्रस्थानशीलः ५ निरन्तरम्. ६ अभिः.
Page #306
--------------------------------------------------------------------------
________________
कुमार
तया वाचा, विद्युतेव हृदि क्षतः । लहरीरिव दुःखाब्धेः, कामदेवो जगाद गाः॥ ४४७॥ धत्त वत्सा:! किमौत्सुक्यपालच० मेकः सार्थः करिष्यते । उदग्रो जाग्रदस्त्येव, मंत्रोऽयं मन्मनस्यपि ॥ ४४८ ॥ निषिद्धा अपि यद् यूयं, नैव स्थास्यथ
मृत्युतः। वियमाणाश्च नो युष्मा-नहं शक्ष्याम्यवेक्षितुम् ॥ ४४९ ॥ ततस्तथा विधास्येऽहं, भवतीभिः सहाग्रतः। ॥१२८॥
यथा न मे वियोगः स्या-दिहेव सहवासतः॥ ४५ ॥ | अथार्पयित्वा वेश्मादि, स्वेषों पुत्रीप्रियान्वितः । श्रेष्ठी समाश्रेयद् बाह्ये, ज्वलदग्निचितां चिताम् ॥ ४५१॥ अश्रुणि चीवरकोप, वर्षन् पौरजनोऽखिलः। एत्य तस्य समर्यादं, समेयोदमिदं जगी ॥ ४२ ॥"श्रेष्ठिञ्जवात् किमारब्धं, गर्हितं जगदर्हितः । न प्रागमृत कोऽपीत्थं, पुत्रीजामातृहेतवे ॥ ४५३ ॥ जामाता यदि न प्राप्तो, मर्तव्यं तर्हि किं त्वया।
मृते पितरि पुत्रेऽपि, केनापि वियते न हि ॥ ४५४ ॥ अथ मर्तुमना एव, तथाऽप्यासायमारस्व भोः । दैवात् कदाचितदप्येति, दुहिता ते प्रियान्विता ॥४५५॥ एवं निवार्यमाणोऽपि, स्वजनैः शोकसंकुलैः । सोऽभवत् सकुटुंबोऽपि, चितायां
पा(या)तुमुद्यतः ॥४५६॥ तदा वृक्षाग्रमारुह्य, कोऽपि पश्यन् दिशोऽखिलाः । तमूचे केचिदायांति, हयारूढास्त्रयो जनाः | ॥ ४५७ ॥ कामदेवस्तया वाचा, सुधावृष्येव तर्पितः । कृतोद्यमोऽपि झंपार्थ, क्षणमात्रं व्यलंबत ॥ ४५ ॥ तावद् दृष्ट्वा पुरासन्नं, सर्पतं धूममब्दवत् । गुणश्रीः प्रियमाचष्ट, भग्नीनां मृत्युशंकिनी ॥ ४५९ ॥ अभ्रंलिहः पुरः स्फूर्ति, धूमस्तोमः!
१ ताडितो व्रणयुक्तो वा. २ अस्माभिरिति शेषः. ३ शक्नोमि, प्र. ४ खकीयानां-खसंबंधिजनानाम्. ५ समासदद्, प्र. ६ कृतचयां-वर्विताम् ७ वनक्लिन्नम्. ८ समीपम्. ९ मर्यादापूर्वकम्. १० श्रेष्ठिन् भवान् , प्र. ११ सायंकालपर्यन्तम्. १२ तिष्ठ. १३ भमीनामथ शंकिनी, प्र. १४ वृद्धिम्.
॥१२८॥
Page #307
--------------------------------------------------------------------------
________________
समेति यत् । मन्येऽनेन स्वसारो मे, प्राविशन्नाशुशुक्षणौ ॥ ४६० ॥ प्रमीता यदि तास्तहि, वृयैवायं मम श्रमः। जीवं. तीषु ततस्तासु, कथंचिद् व्रज वल्लभ ! ॥ ४६१ ॥ ततस्तत्प्रेरितः पुण्य-सारः सारतरत्वरम् । धूमाश्रितां दिशं श्रित्वा, प्रेरयामासिवान् हयान् ॥ ४६२ ॥ दूरादालोकयन् वहि-ज्वालाः कवलितांबराः। संनिकर्षात् पुनः शृण्वं-स्तुमुलं जनतोत्थितम् ॥४६॥ चिताऽन्तिकं परिप्राप्तः,पुण्यसारोन्यभालयत् । श्रेष्ठिनं ससुतास्त्रीकं, दिष्टांताविष्टचेतसम् ॥४६॥ युग्मम् ॥ हयाद् यात् समुत्तीर्य, जामाता विनयोन्नतः । श्वश्रूश्वशुरपादाने, गयामास मस्तकम् ॥४६५।। गुणश्रीराजपुत्री च, प्रणामप्राभृतार्पणात् । आनंद्य पितरौ ज्येष्ठा, भग्नीरप्यभ्यनंदताम् ॥ ४६६ ॥ पुण्यसारमुखालोक-रसैरुल्लासमासदत् । सकुटुम्बोऽपि स श्रेष्ठी, पयोभिरिव पादपः॥४६७ ॥ तल्लोचनानां शोकाश्रु-स्थाने हर्षाश्रुबिंदवः। आसन्नत्यादिधातूनां, पैदे भू(भु)वादयो यथा॥४६८॥ कामनीयकमालोक्य, जामातुर्विश्वजित्वरम् । तदा न त्य तवान् कस्को,मन्मथाss लोककौतुकम् ॥ ४६९ ॥ स्वोत्संगसंगिनी कृत्वा, कामदेवो गुणश्रियम् । ऊचे वत्से ! गुणान् वच्मि, कांस्कान् लोकोत्तरांस्तव ॥ ४७० ॥ इदं साहसमत्युग्रं, प्रज्ञेयं विश्वश्वरी । इदं दुष्करकर्तृत्वं, त्वत्तो नान्यत्र कुत्रचित् ॥४७॥ न केवलं त्वयाऽऽनीतः, स्फीमित्या निजः पतिः। किंतु जीवितमप्यस्य, कुटुम्बस्य विनश्यतः॥४७२॥ यथा कमेलया विश्व-स्पृहणीय४ गुणौघया । प्रतिष्ठा प्रापितो वार्धि-स्तथाऽहं सुतया त्वया ॥ ४७३ ॥ द्वितीया का! द्वितीयाऽसा-विति पृष्टा जगाद | १ वहौ २ कोलाहलम्. ३ मरणाविष्टमानसम्. ४ असू भुवि, आदिना ब्रूजू व्यक्तायां वाचि. इणू गतौ. ५ स्थाने. ६ 'अस्तेर्भूः' इति भू, आदिना 'ब्रुवो वचिः' | इति वच्. 'इणो गा लुङि' इति गा. . विश्वं पश्यतीत्येवंशीला. ८ विस्तृतमझा. ९ लक्ष्म्या.
Page #308
--------------------------------------------------------------------------
________________
सर्ग.६
कुमारपालच०
॥१२९॥
सा । पुत्री समरसिंहस्य, तातेयं मत्प्रियप्रिया ॥ ४७४ ॥ कामदेवस्ततो लक्ष्मी-धर्माविव वधूवरौ । पुरस्कृत्य निजं धाम, जगाम प्रकृतोत्सवः॥४७॥अतिपथ्यैर्महातिथ्य-र्नेपथ्यैश्च नवनवैः।जामातरंस सच्चक्रे, सच्चकैकशिरोमणिः॥४७६॥ स्वपुत्रीभ्योऽपि मदन-वीं सोऽमानयत्तमाम् । आत्मीयोऽयं परोवेति, व विभागो महात्मनाम् ॥४७७॥ नवानामपि पत्नीनां, पुण्यसारः समोऽजनि । तत्संख्यानां यथा ब्रह्म-गुप्तीनां मुनिसत्तमः ॥ ४७८ ॥ सुधांशोरिव जामातु-विश्वजीवातुसन्निभान् । गुणान् निभालयञ् श्रेष्ठी, देववत् पिप्रियेतमाम् ॥५७९॥ पुण्यसारे सुखेनैवं, सस्त्रीके तत्र तिष्ठति । समागमञ् जनाःक्ष्माप-तत्पित्राऽऽदेशपेशलाः ॥४८०॥ पुण्यसारं प्रणम्योचु-स्ते धीमन् ! विरहस्तव । तापयत्यर्कवद् गोप-गिरीद्रं पितरावपि ॥ ४८१ ॥ प्रस्थाय तदितस्तूर्ण, दाक्षिण्यैकनिधे! त्वया । स्वजनोत्तापशांत्यर्थ, पुष्करावर्तकार्यताम् ॥४८२॥ तदनिष्टमिव श्रुत्वा, कामदेवोऽतिविव्यथे। तादृशानां प्रयाणोति-ने स्यात् कस्यार्त्तिकारणम् ॥ ४८३ ॥ तदीयं सर्वमश्वीय-स्वर्णाचं यौतकार्पितम् । दत्त्वाऽनाश्च वेषादीन , भूपवैवाहिकोचितान् ॥ ४८४ ॥ सत्कृत्य च पुनर्दिव्यवस्त्राभरणदानतः । कुमारं स नवस्त्रीकं, श्रेष्ठी प्रातिष्ठिपत् ततः॥४८५॥ युग्मम् ॥ प्रयाणसमये पुत्रीः, पित्रोः प्रणतिका|रिणी। पिता पल्लवितप्रीतिः, प्रत्येकर्मिदमन्वशात ॥४८६॥ पत्यो प्रीतिरकृत्रिमा, श्वशुरयोभक्तिः, सपनीजने-ऽनु
RECENAकायक
॥१२९॥
अर्थधौं. १ अतिहितकारिभिः. २ अतिशयेन अमानयत्. ३ नवानाम्, 'वसहि केह मिसर्जिन्दिय-कुहितर पुर्वकिलीए पंणिए । अइमायाहार विभू-सणाइ नवबंभचेरगुत्तीओ ॥१॥ इति संज्ञितानाम्. ४ चन्द्रस्य. ५ रोहिणीपिता-चंद्रस्य श्वशुरः-दक्षप्रजापतिस्तद्वत, ६ समरसिंहधनसारादेशसुन्दराः, ७ पुष्करावर्तक शब्दादाचारार्थे क्य, पुष्करावर्तकाऽर्यताम्. प्र.८ अश्वानां समूहोऽश्वीयः. विवाहकाले लब्धं धन-योतकम्. १० मेवम०प्र.११ अगर्वः,
Page #309
--------------------------------------------------------------------------
________________
सेको, विनयो ननांदरि, महान् स्नेहः कुटुंबेऽखिले । देवार्चादिरतिः, कुकर्मविरतिः, क्षांतिप्रियोक्तित्रपा-दानाद्यानि च, सुभ्रवां विदधते स्थेष्ठां प्रतिष्ठां गृहे ॥४८७॥ (शार्दूलविक्रीडितवृत्तम् ) इमान् कुलवधूधर्मान्, निर्मिमाणाः स्वशर्मणे। पताकायध्वमात्मीये, वंशे यूयं सुताश्चिरम् ॥ ४८८ ॥ततः स्वयं कियदुरं, पराणीय सुतापतिम् । कामदेवो न्यवर्तिष्ट, स्पष्टकष्टः कथंचन ॥४८९॥ कुमारोऽपि स्वपत्नीस्ताः, पित्रादिविरहार्दिताः । कथादीनां विनोदेन, मोदयन् प्रस्थितस्ततः ॥ ४९० ॥ मदनस्येव शस्त्रीभि-नवस्त्रीभिः सह व्रजन् । रथस्थः सोऽन्यदा मार्गे, मार्ग यूथमुदैवत ॥ ४९१॥
कांश्चित् पौढप्रियानेत्र-जितनेत्रानि दुतान् । उत्फालान् कांश्चन व्योम-क्रान्तिक्रीडापरानिव॥४९॥कांश्चिञ्चक्रोरुचीत्कारैः, है स्तंभितानिव निश्चलान् । स कुरंगानपि प्रेत--रंगान् दृष्ट्वा विमृष्टवान् ॥ ४९३ ॥ युग्मम् ॥ वनक्रोडे गलत्पीड-क्रीडया
स्वान्तहर्षिणः । इत्थं मया व सारंगा, निरीक्षांचक्रिरे पुरा ॥ ४९४ ॥ इत्यंतश्चिंतयन्नेव, पौनःपुन्यान्मुमूर्छ सः । प्राक्तनं जननं स्वस्य, दृष्टवांश्च यथास्थितम् ॥ ४९५॥ तत्कालं प्रेक्ष्य मूछालं, प्रियमत्याकुलाः प्रियाः। चंदनाद्युपचारेण, चैतन्यं प्रापयंश्चिरात् ॥ ४९६॥ मूर्छाहेतुं प्रियापृष्टः, पतिःप्रोचे मृगेक्षणात् । मूर्छितो ज्ञातवाञ् जाति-स्मृत्याऽहं प्राग्भवं निजम् ॥ ४९७ ॥ ६ तथाहि विश्वहृग्राहि-श्रीभृते क्वापि पर्वते । धर्ममंदः पुलिंदोऽहं, सस्त्रीकः प्राग्भवेऽभवम् ॥ ४९८ ॥ सप्रियोऽपि वहंश्चंड-कोदंडकोंडमंडितम् । मृगव्यां कर्तुमन्येधु-ाधवद् विपिनेऽभ्रमम् ॥४९९॥ स्फाराञ् कार्मुकटंकारान्, श्रुत्वा १स्वेष्टाम्, प्र. २ प्रापय्य. ३ मृगाणामिदं मार्गम्. ४ निवाद्भूतान् . प्र. ५ दत्त०. ६ मृगेक्षणाः ! प्र.. धनुः. ८ बाण०. ६ द्वितीयान्तम्. १० धनुर्वनीन्.
SECRETS*
Page #310
--------------------------------------------------------------------------
________________
कुमारपालच०
॥१३०॥
ECANSACARREARCANERAL
दावोदरंभरीन् । वने वनेचरास्तत्र, तत्रसुः प्राणिनोऽखिलाः ॥५०॥ ततः परस्पराभंगा-नंगरंगतरंगितम् । शरव्यीक्रियते स्मैक, मृगस्य मिथुनं मया ॥ ५०१॥ सन्निकृष्टं समाकृष्ट-कार्मुकं वीक्ष्य मां मृगः। नंष्टुं सहोऽपि नाऽनेशद्, विमृशन् गर्भिणी मृगीम् ॥ ५०२॥ किंतु तां परमप्रेम्णा, समाच्छाद्य स्ववर्मणा । पश्यन् मां त्रस्तया दृष्ट्या, दीनवत् तस्थिवान पुरः॥ ५०३ ॥ तथा मया निभाल्यापि, निस्त्रिंशत्वेन सा मृगी । सक्रियेव कृतन्नेन, निजन्नेऽरंतुदेषुणां ॥ ५०४ ॥ तेन बाणेन निर्भिन्ना, हरिणी धरणीं गता । विदीर्णोदरनिर्गच्छ-गर्भा मरणमानशे ॥५०५॥ प्रमीतहरिणी प्रेक्ष्य, प्रीत्या भीत्या च तत्क्षणम् । दीर्णहृत् पक्कवालुंकी-फलवन् मृतवान् मृगः ॥५०६॥ गत्वा दृष्ट्वा च सारंगमिथुनं तत् तथा मृतम् । भुवि स्फुरंतं गर्भच, किंचिच्चैतन्ययोगतः ॥५०७॥ अहं मदल्लभा साऽपि,जुगुप्सामासिवोच्चकैः। अनुतापाग्निसंतप्त-मानसी स्वं कुकर्म तत् ॥५०८॥ युग्मम् ॥ आजन्माऽविद्धकर्णोऽपि, धर्माक्षरशलाकया । दैवात् तदा स्फुरच्चारु-कारुण्योऽहमचिंतयम् ॥ ५०९ ॥ मृगव्यं सत्यमेवाः, पापैद्धि शुद्धबुद्धयः। आय-शूलिकता यस्मि-श्रीहशी जंतुघातिनी ॥ ५१०॥ समंतूनप्यहो जंतून , क्षमंते केचिदुत्तमाः । मयाऽनार्येण मार्यते, हंत निर्मतवोऽपि ते ॥ ५११॥ अहो मे मूढता काऽपि, सकृत्तप्तिकृते कृतेः । अमीषां जन्मिनां जन्म, निखिलं खलु लुप्यते ॥ ५१२ ॥ इयत्कालं वृथा
॥१०॥
१वन २ परस्परम् अखंडकाम (शृंगार ) रसनिममम्. ३ लक्ष्यीक्रियते. ४ प्राप. ५ चिर्भटीफळवत् ( काकी). ६ मृगया. ७ पापवृद्धिम्. ८ अयःशूलेन अर्थान् अन्विच्छतीति-अयस्शूलशब्दात् ठक् ततो भावे तलू, "तीक्ष्णोपायेन योऽन्विच्छेत् स आयःशूलिको जनः" इत्युक्तः तीक्ष्गकर्मणाऽर्थकरः-आयःलिकस्तस्य भावस्तत्ता (अतिक्रूरता). हिंसनातू.
Page #311
--------------------------------------------------------------------------
________________
& काल-धर्म नीता मयाऽङ्गिनः । नियमोऽतः परं याव-जीवं जीववधेऽस्तु मे ॥५१३॥ पक्षिवत् पोषयन् प्राणान् , कंदमूलालफलादिभिः । अंहसा मांसलं मांस-मपि नानामि कहिंचित् ॥५१४ ॥ इत्यभिग्रहमत्युग्र-मादायाऽहं दयालुहृत् । यति
स्थितिमिवाऽमायां, जायां प्रति तैमभ्यधाम् ॥ ५१५॥ साऽपि धर्मोन्मुखी किंचित्, सुमुखी मांसभक्षणे । जग्राहामिग्रह प्रायः, सती पत्यनुवर्तिनी ॥ ५१६॥ ततो वनेचराञ्जीवान , पश्यंती निजजीववत् । नियम पालयंतौ च, कालं निन्यिवहे बहुम् ॥ ५१७ ॥ अंतेऽहं भद्रभावेन, मृत्वा कारुण्यपुण्यतः । अस्मि निःसीमसौख्यक-पात्रं मोऽप्यमर्त्यवत् ॥५१८॥ प्रिया दयेकजीवातुः, सा तु मद्विरहातुरा । मृत्वोदपादि कुत्राऽपि, न वेद्मि तदहं हहा ॥ ५१९ ॥ इति ब्रुवत एवास्य, | पुण्यसारस्य दक्पथे । अवातारीद् दिवः साधु-श्चारणः पापवारणः॥५२०॥ अवतीर्य रथात् तूर्ण, द्वेधाऽपि प्रेमदान्वितः। कुमारस्तं नमश्चक्रे, मुनिं व्रतमिवांगिनम् ॥५२१॥श्रेयोराशिमिव प्राप्य, तदाशीर्वादमादरात् । कुत्र मे प्राग्भवस्त्रीति, पृच्छति स्म स तं ततः॥ ५२२ ॥ विज्ञाय ज्ञानतः साधु-रभिधत्ते स्म तं प्रति । गुणश्रीरियमुद्दाम-प्रीतिस्ते प्राग्भवप्रिया ॥ ५२३ ॥ स्मरसि त्वमियं धृत्वा, पुंवेषं त्वत्पुरं गता। मृतिव्यतिकरेण त्वां, धीमन्नासादयिष्यति ॥ ५२४ ॥ पुष्णाति प्राग्भवप्रीते-रेव कांतास्वियं त्वयि । पुष्कलं प्रेम तारासु, रोहिणीव सितद्यतौ ॥ ५२५ ॥ किंच दृष्ट्वा पुरोपांतो-दात्तजीवदयात्रतात् । ईदृक्फलं ततः कार्य, भवेऽस्मिन्नपि तत् त्वया ॥ ५२६ ॥ कृपैव सर्वजीवानां, परमानंददायिनी ।
१ पापेन पुष्टम्. २ खभार्याम्. ३ अभिग्रहम्. ४ धर्मसन्मुखी. ५ जातोऽस्मि इत्यर्थः. ६ दृष्टिमार्गे-दृष्टिविषये. ७ आनन्देन स्त्रिया च युक्तः. ८ भूतार्थे भविष्यद् "अभिज्ञावचने लद" इति. ९ कान्तासु-अन्यत्रीषु इयं-गुणश्रीः. १० पूर्वभवस्वीकृतविशालजीवदयात्रतात्. ११ जीवदयाव्रतम्.
Page #312
--------------------------------------------------------------------------
________________
कुमारपालच०
॥१३१॥
SAGAR
यथा कुमुदखंडानां, चंद्रिकैव विकाशिनी ॥ ५२७॥ यथा सदप्यसद्देश्य, देहं चेतनयोज्झितम् । कृतमप्यकृतप्राय, पुण्यं निष्करुणं तथा ॥ ४२८ ॥ तां निशम्य मुनेर्वाचं, पुण्यसारः प्रियान्वितः । जगृहे निधिवच्छ्राद्ध-धर्म जीवदयामयम् ॥ ५२९ ॥ तं चारणमुनिं नत्वा, प्रस्थितः सुस्थितस्ततः । प्राप गोपगिरिद्रंगं, स पित्रालोकनोत्सुकः॥ ५३०॥ तत्पित्रा धनसारेण, राज्ञा चागत्य संमुखम् । कृतोत्सवो निजं सद्म, पुण्यसारः समाश्रयत् ॥ ५३१॥ स्त्रीणां विरहसंतप्तं, चेतः सिंचन्नहर्निशम् । अकृत्रिमप्रेमरसैः, स सुखं तस्थिवान् गृहे ॥ ५३२॥ भूमान् समरसिंहोऽथ, पुत्राभावान्निजे पदे। पुण्यसारं तमारोप्य, प्रव्रज्य च दिवं ययौ ॥ ५३३ ॥ पुण्यसारस्ततः स्फारै-रनीकैर्जगतीं जयन् । सुखं न्यवीविशत् स्वाज्ञां, राज्ञां मूर्धनि माल्यवत् ॥ ५३४ ॥ गुणश्रियं गुणोद्दामां, पट्टराज्ञी व्यधत्त च (स)। कल्पवल्लीव पत्यौ स्यात्, प्रीतिः स्त्रीणां प्रियंकरा ॥५३५॥ कष्टादिरक्षणाच्याय-शिक्षणात् पोषणादपि । बभूव स हितोऽत्यंतं, पितृवत् प्रकृतीः प्रति ॥ ५३६ ॥ विदन् दयाफलं तादृग् , वैभवाद्यं स भूपतिः । अभयोद्घोषणापूर्व, जीवघातं न्यवारयत् ॥५३७॥ अहं पूर्व पुलिँदोऽपि, चारुकारुण्यपुण्यतः । इहापि प्राप्तवानस्मि, संपदं शामन्यवीम् ॥५३८॥ प्रत्येकमुपदिश्येति, स धमोचायेवन्नपः। अपरैरपि भूपाले-देयोदयमसूत्रयत् ॥ ५३९॥ यग्मम ॥ दरीकृतमनःसादान्, स प्रासादान् व्यदीधपत् । पुण्यलक्ष्मीविनोदाय, कृत्रिमान् पर्वतानिव ॥ ५४०॥ पुण्यसारो ददौ दानं, दीनादिभ्यो दिने दिने । परलोकातये नूनं, न्यासीकुर्वन्निव श्रियम् ॥ ५४१॥ मोक्षद्वारप्रतीहाराञ्, हारान् श्रेयःश्रियां हृदि । परमेष्ठिनमस्कारान्, स
१षाण्मासिकविरहेण संतप्तम्. २ विपुलैः. ३ हितकरः. ४ तादृगू वैभवाद्यं दयाफलं विदनित्यन्वयः. ५ शतमन्योः (इन्द्रस्य) इयम्. ६ विषादान् .
SESSASSOS
॥
३१॥
Page #313
--------------------------------------------------------------------------
________________
सस्मार स्वनामवत् ॥ ५४२ ॥ एवमावर्जयन् पुण्यं, न्यायेनोल्लासयन् यशः । आस्वादयन् सुखं भूप- श्चिरं राज्यमपालयत् ॥ ५४३ ॥ गतोऽथ वाहकेल्यर्थं, पार्थिवः प्राप्य सद्गुरुम् । तद्देशनारसं तृष्णाss - तुरवत् पीतवानिति ॥ ५४४ ॥ मानुपत्वाद्यमासाद्य, स्वहिते यः प्रमाद्यति । विलंबते स दुर्बुद्धिः, सुधापानार्थमर्थितः ॥ ५४५ ॥ गृहाऽऽशंसां मुक्त्वा चरणभरमादृत्य सुचिरं तपस्यंतः संतः क्वचिदपि वने दूरितजने । समाधिस्वःकुल्या जलविगलिता शेष कलुषा - स्तदीप्तुं कैवल्यं कतिचन यतते सुकृतिनः ॥ ५४६ ॥ ( शिखरिणीवृत्तम् ) प्रबुद्धात्मा नृपो दत्त्वा, राज्यं स्वतनुजन्मने । गुरोस्तस्यैव पादांते, दांतात्मा व्रतमाददे ॥ ५४७ ॥ तपस्तपर्त्तुनाऽऽशोष्य, कालुष्यसलिलं घनम् । पुण्यसारो विपद्यांते, दिवर्मांसेदिवान् मुदा ॥ ५४८ ॥ ततश्युत्वा विदेहेषु भुक्त्वा चैश्वर्यमद्भुतम् । व्रतेन केवलं लब्ध्वा स गमी मोक्षमक्षयम् ॥ ५४९ ॥ त्वं पुण्यसारकथया फलमाकलय्य, कारुण्यकल्पतरुकल्पितमित्यनस्पम् । निःशेषदर्शनमतं सुकृतैकसारं, तत् पालयस्व नरपाल ! कुमारपाल ! ॥ ५५० ॥ ( वसंततिलकावृत्तम् )
इति श्रीकृष्णर्षीयश्री जयसिंहसूरिविरचिते परमार्हतश्री कुमारपाल भूपालचरित्रे महाकाव्ये कारुण्योपदेशो नाम षष्ठः सर्गः ॥ षण्णां सर्गाणां मीलने ग्रन्थाग्रम् ३७४३ ॥
१ दूरं जाता जनाः यस्य (यस्मात् ) तत् तस्मिन् २ गंगा. ३ प्रसिद्धम् ४ समीपे ५ शोषयित्वा ६ प्राप्तवान् ७ सम्मतम् ८ कारुण्यम्.
Xxxxx XXX
-
Page #314
--------------------------------------------------------------------------
________________
कुमार
पालच०
॥ १३२ ॥
अथ सप्तमः सर्गः ॥
अथोदितस्य धर्मस्य, भेदज्ञापनकाम्यया । उज्र्जगार गिरं राज - गुरुर्गुर्जर नायकम् ॥ १ ॥ यतिश्राद्धगतत्वेन, धर्मो विस्फुरति द्विधा । यं प्राप्य यानवज्जीव-स्तरत्येव भवार्णवम् ॥२॥ तत्रादिमो भवेत् पंच - महाव्रतमयात्मकः । धीराणामतिनेदीया - नध्वा सिद्धिपुरस्य यः ॥ ३ ॥ द्वितीयोऽपि स सम्यक्त्व-मूला स्याद् द्वादशव्रती । सम्यक्त्वाप्तिस्तु जीवस्य, प्रोचे प्राच्यैरिति श्रुते ॥ ४॥ जीवोऽनादिरसौ कर्माऽप्यनादि स्यात् प्रवाहतः । योगोऽप्यनादिरनयोः, सुवर्ण | मलयोरिव ॥ ५ ॥ स्याज् ज्ञानावरणीयाद्यं, मूलतः कर्म चाष्टधा । भेदतोऽप्यष्टपंचाशच्छतप्रकृतिसंयुतम् ॥ ६॥ ज्ञानदृष्ट्या वृतिवेद्य - विघ्नानां तत्र कीर्तिताः । सागरोपमकोटीनां, त्रिंशत् (३०) कोट्यः परास्थितिः॥७॥ मोहस्य सप्तति (७०) नमगोत्रयोविंशतिस्तथा (२०) । आयुषश्च त्रयस्त्रिंशत् (३३), सागरा नारके सुरे ॥ ८ ॥ ततः शैलसरिद्भाव - घोलनासं निभात् स्वयम् । यथाप्रवृत्तिकरणात् क्षीणेषु बहुकर्मसु ॥ ९ ॥ सागराणां कोटीकोट्यां, प्रत्येकं सर्वकर्मणाम् । स्थितायां किंचिदूनांयां, जीवाः कृतभवभ्रमाः ॥ १० ॥ रागद्वेषपरीणाम - मयं दृढतरस्थितिम् । दुर्भेदं ग्रंथिमायति, घट्टं श्रांता इवाध्वगाः ॥ ११ ॥ त्रिभिर्विशेषकम् ॥ निवर्तते ततः केचिद्, रोगाद्यरिपरिक्षताः । संरस्वल्लोलकल्लोला, इव वेलान्तवारिताः ॥ १२ ॥
१ उत् गृ शब्दे २ पंचमहाव्रतानि प्रचुराणि प्रधानानि वा आत्मा खरूपं यस्य सः ३ल. प्र. ४ आगमे ५ सामान्यतः - मूलमेदानाश्रित्य. ६ विशेषतः - उत्तर मेदानाश्रित्य ७दर्शनावरण० ८ ( सप्त ) ९ स्थिती सत्याम् १० स्नानायावतरणस्थानम् (घाट). ११ रागादिशत्रुपरिहताः १२ समुद्र० १३ वीरान्तनिवारिताः
सर्ग. ७
॥१३२॥
Page #315
--------------------------------------------------------------------------
________________
कु.पा.च. २३
भ्रमंति केऽपि तत्रैव, कर्मरुद्धा शरीरिणः । राधावेधाय यंत्रो - वद्धाश्चकगणा इव ॥ १३ ॥ भाविभूरिशुभाः केचित्, तं ग्रंथिं प्रौढशक्तितः । भिंदंत्यपूर्वकरण-वज्राग्रेण गिरीद्रवत् ॥ १४॥ कृतेऽन्तरकरणेऽथा - निवृत्तिकरणस्थिताः । क्षिपं त्यंतर्मुहूर्तेन, जीवाः कर्माणि भूरिशः ॥ १५ ॥ शीतेऽभ्युदीर्णे मिथ्यात्वे, सत्यूष रगताग्निवत् । लभंते निर्वृतिप्राप्ति हेतुं सम्यक्त्वमंगिनः ॥ १६ ॥ यद् ग्रंथिभेदे प्रथमं सम्यक्त्वं जायतेऽङ्गिनाम् | अंतर्मुहूर्तप्रमितं, तदौपशमिकं खलु ॥ १७ ॥ नैसर्गिकमिदं प्रोक्तं, सम्यक्त्वं पूर्व सूरिभिः । जातं गुरूपदेशेन, तदभिगमिकं पुनः ॥ १८ ॥ सद्देवगुरुधर्मेषु, या देवगुरुधर्मधीः । सम्यक्त्वमवगम्यं तन्मिथ्यात्वमितरत् तैतः ॥ १९ ॥ क्षीणनिः शेषरागादि - दोषस्त्रिभुवनार्चितः । यथार्थवादी सर्वज्ञो, देवोऽईनेव नापरः ॥ २० ॥ स्मरापस्मारमूर्च्छालाः, करालाः कोपचेष्टितैः । विप्रलंभपरा देवा, मुक्त्यै न प्रभविष्णवः ॥ २१ ॥ चारित्रकमलाकेलि - दीर्घिका ब्रह्मचारिणः । शुद्धधर्मोपदेष्टारो, गुरवः स्युः शिवंकराः ॥ २२ ॥ लोलुपा निष्कृपा ब्रह्म - भ्रष्टाः क्लिष्टाः कषायिणः । धर्मविष्ठावका नैव, गुरवो हितहेतवे ॥ २३ ॥ मुक्तिलक्ष्मी शिरथूलः, प्रतिकूलो भवद्विषाम् । विश्वानुकूलः कारुण्य-मूलो धर्मो जिनैर्मतः ॥ २४ ॥ हिंसामयोऽपि धर्मश्चे - न्निर्वाणाय प्रगल्भते । जीवानां जीवितव्याय, विषास्वादस्तदा न किम् ? ॥ २५ ॥ यचित्तौ कंसि सम्यक्त्व - दीपो देदीप्यते सदा । न मिथ्यात्वतमःस्तोम-स्तान् विर्हस्तयति क्वचित् ॥ २६ ॥ अंतर्मुहूर्तमपि यः, सम्यक्त्वं वहते हृदि । अपार्धपुद्गलपरा - वर्तस्तस्य
१ ऊर्द्ध, प्र. २ क्षीणे सति. ३ उदयं प्राप्ते. ४ अधिन मिकमित्यर्थः ५ सम्यक्त्वात्. ६ अपस्मारो- रोगविशेषः (वाई) ७ नाशकाः ८ भवाः चतुर्गतयः ते एव द्विपस्तेषाम् ९ चेष्टते. १० गृहे. ११ भृशं दीप्यते. १२ व्याकुलयति.
Page #316
--------------------------------------------------------------------------
________________
कुमारपालच०
सर्ग. ७
॥१३३॥
४.४५
AAAAAAAAAI
भवो भवेत् ॥ २७॥ सम्यक्सम्यक्त्वभृत् प्राणी, प्रामोति त्रिदशश्रियम् । बद्धायुष्को न चेत् पूर्व, नरकादौ कुकर्मणा 3॥२८॥ चारित्रादपि सम्यक्त्वं, कथयंत्यधिकं जिनाः । सिध्यंति यदचारित्रा, न सम्यक्त्वोज्झिताः पुनः ॥ २९॥ स्वं
रोचयिषध्वं चे-न्मुक्तिवध्वै सचेतनाः! । सम्यक्त्वभूषणेनैव, भूषयध्वं तदाऽन्वहम् ॥ ३० ॥ शमसेवेगनिर्वेदहै करुणाऽऽस्तिकताऽऽत्मभिः । सम्यक्त्वं लक्षणैरेभि-लक्ष्यतेऽतिविचक्षणैः ॥ ३१ ॥ भक्तिः प्रभावना स्थैर्य, दाक्ष्यं च जिनशासने । तीर्थशुश्रूषणं चास्य, भवेद् भूषणपंचकम् ॥३२॥
गुप्सा च, मिथ्याहस्तवसंस्तवौ । | सम्यक्त्वे दूषणान्याहुः, पंचेमानि मुनीश्वराः॥ ३३ ॥ ___ अणुव्रतानि पंचादौ, दिग्विरत्यादिकं त्रयम् । शिक्षाव्रतानि चत्वारि, स्यादेवं द्वादशव्रती ॥ ३४ ॥ द्विधात्रिधापि च स्थूल-हिंसादेविनिवर्तनम् । अहिंसाप्रमुखा पंचा-णुव्रती गदिता जिनैः॥ ३५॥ त्रसानां मंतुमुक्तानां, हिंसा संकल्पकल्प॑िताम् । स्थावराणामपि व्यर्थाम्, वर्जयेत् करुणापरः ॥ ३६॥ देवातिथ्यादिपूजार्थ, वेदस्मृत्यादिवाक्यतः। विधीयते वधः सोऽपि, नरकप्राप्तिलग्नकः॥ ३७॥ यदि भजति पयोधिर्धन्वतां शीतरश्मि-वहति दहनभावं पुष्यति ध्वांतमकः । दिनमपि रजनीत्वं याति रात्रिर्दिनत्वं, तदपि हि सुकृतं न प्राणिघातः प्रसूते ॥ ३८ ॥ (मालिनी)
कः ॥ ३७॥ यदि भारः ॥ ३६॥ देवातिथ्यादिपूजा, ममुक्तानां, हिंसा
॥१३॥
१ संसारः. २ आत्मानं रोचयितुमिच्छत चेन् मुक्तिस्त्रिय. ३ सम्यक्त्वस्य. ४ प्रशंसापरिचयौ. ५ दिना, प्र. दुविहं तिविहेणं. ६ हिंसादैः, प्र. ७ अपराधरहितानाम्. ८ संकल्परचिताम् (निरपेक्षा च). ९ प्रतिभूः. १० मरुस्थलताम्.
Page #317
--------------------------------------------------------------------------
________________
चेद् यातिनी जि भेषजम् । प्रतिक्रियति सत्यफलमालोक्य, स्थूलं तत् सुकृत
न तच्छास्त्रं न सा देव-पूजा न स कुलक्रमः।न तत् पुण्यं भवेद् यत्र, प्राणिप्राणप्रमापणम् ॥ ३९॥ ततो दुर्जनमैत्रिीवत्, कृत्वा हिंसां दवीयसीम् । सन्मैत्रीमिव कुर्वीत, दयां नेदीय॑सी सुधीः॥४०॥ (१)
| दोषानिहाप्रतिष्ठादीन, मूकत्वादीन् परत्र च । असत्यफलमालोक्य, स्थूलं तत् सुकृती त्यजेत् ॥४१॥ ध्वांते दीपोडदम्बुधौ यानं, शीतेऽग्नी रुजि भेषजम् । प्रतिक्रियेति सर्वत्रा-प्यस्ति नासत्यवादिनः॥४२॥ असत्यं निगदन्नन्य-दपि
चेद् याति दुर्गतिम् । तदा धर्मान्यथाभाषी, को वेद क गमी जनः ॥४३॥ सर्वथाऽपि व्यपाकृत्य, तदलीकं व्यलीकवत् । सत्यमेव समाश्रेयं, विश्वासादिगुणास्पदम् ॥४४॥ (२) है हस्तच्छेदशिरश्छेद-शूलक्षेपादिकाः क्रियाः । चौर्योपचारमालोच्य, स्थूलं तत् परिवर्जयेत् ॥ ४५ ॥ वधादप्यधिक
स्तेयं, तेनैको यद् विपद्यते । धने हृते पुनः प्रौढ-क्षुधैव सकलं कुलम् ॥ ४६॥ दत्त्वा प्राणानपि द्रव्यं, त्रायंते जनतास्ततः । तत् प्राणाधिकमामृश्य, न हर्तव्यं विवेकिना ॥४७॥ स्वस्य मीमांसमानेन, मांसलं कुशलं चिरम् । स्तेयं बुद्धिमता हेयं, प्राणघ्नं कालकूटवत् ॥४८॥ (३) | अकीर्ति पंडतां द्रव्य-हानिं चाब्रह्मणः फलम् । विदन् सदा स्वदारेषु, विदधीत सुधी रतिम् ॥ ४९॥ जितेन्द्रियो गृहस्थोऽपि, यः शीलं परिशीलति । रक्तेव तद्गुणैरेत्य, सुकृतश्रीवृणोति तम् ॥ ५० ॥ स्वकीया परकीया च, पण्यस्त्री
१ हिंसनम्. २ अतिशयेन दूराम्. ३ अतिशयेन समीपस्थाम्. ४ असत्यम्. ५ रोगे. ६ अकार्यवत्. . फलम् कार, प्र. ८ चौर्यम्. १ वधेन १० विचारयता. ११ पुष्टम्. १२ नपुंसकता, षंढताम्, प्र.
ROSCARSACARNXX
Page #318
--------------------------------------------------------------------------
________________
कुमारपालच०
॥१३४॥
कन्यका तथा । एवमस्ति समस्ताऽपि, स्त्रीणां जातिचतुष्टयी ॥ ५१ ॥ तन्मध्ये स्ववधूरेव, सेवनीया सतां मता । शेषास्तु स्वसवित्रीव - चिंतनीया दिवानिशम् ॥ ५२ ॥ परस्त्रीं ये तु सेवंते, कामेनांधंभविष्णवः । नरके 'ते न पश्यंति, तष्ठायःपुत्रिकाः पुरः ॥ ५३ ॥ या दत्त्वा दक्षिणं हस्तं निजमप्युज्झति प्रियम् । तस्यां दास्यामिव त्यक्त-शीलायां प्रेम कीदृशम् ॥ ५४ ॥ क्षणतापकरी वह्नि - ज्वालामालाऽऽश्रिता वरम् । न पुनः परपत्नीयं, तापिनी भूरिशो भवान् ॥५५॥ घृणीयते न ( नं) ती या न, प्रियैतुक पितृबांधवान् । स्प्रष्टव्याऽपि न साऽन्यस्त्री, शस्त्रीवानर्थकारिणी ॥ ५६ ॥ निर्मलोऽपि कुलाचारो, निःश्वासादिव दर्पणः । मलिनः स्याद् यदाऽऽश्लेषाद्, वर्ज्यास्ता वारयोषितः ॥ ५७ ॥ प्रासादध्वजतः | कुशाग्रजलतः सौदामिनीदामतः, कुंभद्रश्रुतितः खलप्रकृतितः शैलापगापूरतः । लक्ष्मीतः कपिकेलितस्तरलतामुचिंत्य मन्ये विधि-वर स्त्रीहृदयं व्यधत्त तदलं तेनैव तेभ्यश्चलम् ॥५८॥ ( शार्दूलविक्रीडितम्) । हसित्वाऽपि रुदित्वाऽपि, कूटान्युक्त्वाऽपि कोटिशः । या छिनत्त्येव सर्वस्वं सा वेश्या प्रीतये कथम् ? ॥ ५९ ॥ विषं हृद्यमृतं वाचि, नेत्रेऽश्रूणि मुखे स्मितम् । वत्यश्छलयत्येव, यास्ता वारवधूस्त्यजेत् ॥ ६० ॥ एवं कन्याऽपि नो काम्या कामांघेनापि देहिना । अकीर्त्तिः पातकं चापि प्रगल्भतेतरां येतः ॥ ६१ ॥ तत् त्यक्त्वा परपख्याद्यं धार्य ब्रह्मव्रतं शुचि । भजंते यत्प्रभावेण, दासत्वं त्रिदशा अपि ॥ ६२ ॥ ( ४ )
१ अनन्धा अन्धा भवन्ति इति. २ परस्त्रीसेवकाः. ३ वामेतरम्. ४ घृणां दयां करोतीति घृणीयते ५ प्रियस्कू प्र. प्रियं तोजति रोजयति वा - हिनस्तीत्यर्थः, सा प्रियतुक प्रियक्कू था. ६ कर्णतः ७ संचित्य गृहीत्वा ८ चेष्टेतेतराम् ९ कन्याकामनतः.
सर्ग. ७
॥ १३४ ॥
Page #319
--------------------------------------------------------------------------
________________
RRRRRRRRRRR
प्रायः परिग्रहाधिक्यं, पापव्यापारकारणम् । स च दुःखतरोमूलं, ततः कल्प्यां तदल्पता ॥६३॥ विर्भवेन मंहिष्ठेनाssरंभाः स्थूलभविष्णवः । सुकृतं तिरीयंत्येव, भानुमुड्डीनपांशुवत् ॥ ६४ ॥ तत्परिग्रहमानेन, सेव्यः संतोषसन्निधिः । 8/पारिपाश्चिकता यस्मि-नाश्रिते न्यूनतैव न ॥६५॥ (५) | दशदिग्गमने यत्र, मर्यादा काऽपि तन्यते । दिग्विरत्याख्यया ख्यातं, तद् गुणवतमादिमम् ॥ ६६ ॥ भ्रमेण मार्य
माणानां, प्राणिनां परिरक्षणात् । तटायमानं लोभाब्धेः, श्राद्धस्यैतदपि व्रतम् ॥ ६७ ॥(६) 8| यत्र सोसूच्यते संख्या, शक्त्या भोगोपभोगयोः। भोगोपभोगमानाख्यं, द्वितीयं तद्गुणव्रतम् ॥६८॥ सकृत्सेवोचितो
भोगः, प्रोक्तोऽन्नकुसुमादिकः । मुहुः सेवोचितस्तूप-भोगः स्वर्णप्रियादिकः॥ ६९॥ मांसं मद्यं दघिसारं, मैंधूदुंबरपंचकम् । रजनीभोजनाऽनंत-कायाऽज्ञातफलानि च ॥७॥ तुच्छफलं बहबीजं, ताक करका हिमम् । चलितरसं संधान, मृदं घोलवटका विर्षम् ॥७॥ अभक्ष्याणि जिनोक्तानि, द्वाविंशतिमिमानि यः । वर्जयेत् पापमूलानि, स विवेकीति कीर्त्यते ॥७२॥ त्रिमिर्विशेषकम् ॥ पंचेंद्रियवघेनैव, पलमत्पद्यतेऽखिलम् । तदनंतः कथं न स्यु-मोनवा अपि कोणपाः ॥७३॥ परेषां पिशितेनैव, येऽनिशं स्वांगपोषिणः। तेषां निस्त्रिंशचित्तानां, व्याघ्रादीनां च का भिदा ॥७॥ तत् कृपावमितं धर्म, जानन मुंजीत जातु न । तदा चोत्पन्नतद्वर्णा-नेकजीवाकुलं पलम् ॥७५॥ जीवतोऽपि मृतस्येव,
१पापव्यापारः.२ रचितव्या-कर्तव्या. ३ परिप्रहाल्पता. ४ परिग्रहेण. ५ अतिमहता. ६ अस्थूलाः स्थूला भवंतीति.७ आच्छादयंति. ८ अनुचरताम्. ९ संतोषे. १० चलनेन-गमनेन. ११ असन्तं सूत्र्यते-विरच्यते-निश्चीयते इति यावद् . १२ वटपिप्पैलो(पिपर)दुम्बरप्लक्षकदुम्बेरफलानि. १३ वेष्टित-युक्तम्.
RESCUSSECSCRECACACICAL
Page #320
--------------------------------------------------------------------------
________________
कुमार
वैकल्यं येन जायते । लोके शास्त्रे च सावा, तन्मद्यं कोऽभिलष्यति ॥७६ ॥ गलितत्रपुपानेन, मरणं सुंदरं नृणाम् । पालच०
कापिशायनपानेन, न तु विश्वग्विडंबनम् ॥ ७७ ॥ अकीय॒न्मत्ततादीनां, दोषाणामेकमास्पदम् । वर्जनीयं प्रयत्नेन, मद्यं ॥१३५॥दसविषवारिवत् ॥७८॥ यस्मिन्नंतर्मुहूर्तोर्द्ध, तद्वर्णाः प्राणभृद्गणाः । मूर्च्छन्ति नवनीतं तत् , त्यक्तव्यं पुण्यकांक्षिणा ॥७९॥|
मक्षिकावदनोद्वांतं, प्रमीतानेककीटकम् । जुगुप्सनीयं निष्ठयूत-मिव स्वाद्यं न मध्वपि ॥ ८॥ प्लक्षपिप्पलकाकोदुंबरोदुंबरभूरुहाम् । वटस्य च फलं कृम्याऽऽ-कुलं प्राश्यं न जातुचित् ॥ ८१॥ प्रत्यक्षा यत्र वांत्यादि-दोषाः संति पर शताः। तिर्यग्भ्यस्तनुते कोऽन्य-स्तद्रात्रिभोजनं जनः ॥८२॥ नक्तवतादिव्याजेन, ये जडा निशि भुंजते । ते
CCCCCCRECCALCACACCI
१माधविलताजातं मय-कापिशायनं तत्पानेन, २ जीवसमूहाः, ३ उत्पद्यन्ते. ४ नके-रात्रौ भोजनरूपं यद् व्रतं तदादिमिषेण-अथ नकं निर्णीयते, तत्र ते वाराहपुराणे धान्यव्रते पठ्यते-'मार्गशीर्षे सितेपक्षे, प्रतिपद् या तिथिर्भवेत् । तस्यां नक्तं प्रकुर्वीत, रात्री विष्णुं प्रपूजयेद् ॥१॥इति, अत्र नक्तशब्दः भोजनपरः, कालपरत्वे प्रकुर्वीत इत्यस्यानन्वयात् न हि कालः केनचित् कर्तुं शक्यते, तस्य भोजनस्य 'रात्राविति' कालविधिरतो दिवाभोजनरहितत्वे सति रात्रिभोजनं व्रतस्य खरू| पम्, अन्यथा खतःप्राप्तस्य रात्रिभोजनस्य विधानवैयर्थ्यात् , तस्य च नक्तभोजनस्य विष्णुपूजनमंगम् तत्संनिधौ पठितत्वात्, तथा होमोऽपि तदंगं, 'होमं च तत्र कुर्वीत, इत्यभिधानात्, एवंच सति प्रधानाविरोधेन पूजाहोमयोः दिवाऽनुष्ठानमुक्तं भवति, प्रधानस्य च नक्तस्य कालदूर्य भविष्यपुराणे दर्शितं-मुहूनि दिनं नक्तं, प्रवदंति मनीषिणः । नक्षत्रदर्शनानक-महं मन्ये गणाधिप ! ॥१॥ इति, अस्य च कालद्वयस्याधिकारिभेदेन व्यवस्थामाह देवल:-नक्षत्रदर्शनामकं, गृहस्थस्य बुधैः स्मृतम् , यतेर्दिनाष्टमे भागे, तस्य रात्री निषिध्यते ॥ १॥ स्मृत्यन्तरेऽपि-नक निशायां कुर्वीत, गृहस्थो विधिसंयुतः । यतिश्च विधवा चैव, कुर्यात्तु सदिवाकरम् ॥१॥ सदिवाकरं तु तत्त्रोक्त-मन्तिमे घटिकाद्वये। निशानक्तं तु विज्ञेयं, यामार्दै प्रथमे सदा ॥२॥ इति रात्रिनक्तभोजने व्यासः। अन्यच्च-दिनस्याष्टमे भागे, मंदीभूते दिवाकरे।नक्तं तच विजानीयात् , न नक्तं निशिभोजनम् ॥१॥नक्षत्रदर्शनान्नक्तं, गृहस्थेन विधीयते। यतेर्दिनाष्टमे भागे, रात्रौ तस्य निषेधनम् ॥२॥ इति मारस्ये एकादशीमाहात्म्यम्॥
॥१३५॥
Page #321
--------------------------------------------------------------------------
________________
ननं गमिनोऽधस्ता-जानेऽहं जिनजल्पितात् ॥ ८३ ॥ पशवोऽपि निशि प्राय-स्त्यजत्यशनमात्मनः । मानवास्त तदनंत-स्तेभ्योऽपि किमु नाधमाः? ॥ ८४॥ कंदजातिः समस्ताऽपि, नवः किशलयस्तथा । कुमार्याद्यास्तु सूत्रोक्तास्त्याज्यास्तेऽनंतकायकाः॥८५॥ वपुष्यनंतकायानां, सूच्यग्रप्रमितेऽपि यत् । अनंता जंतवः सूक्ष्माः, संतीति भगवद्वचः
॥८६॥ येषां गूढानि पर्वाणि, स्युः शिराः संधयोऽपि च । ये च छिन्नरूढी वृक्षा, ज्ञेयास्तेऽनंतकायकाः॥ ८७॥ Pइतराण्यप्यभक्ष्याणि, दूषितानि जिनागमे । विषद्रुमफलानीव, भक्षयेन्नैव धार्मिकः ॥ ८८ ॥ (७) ___ आर्त रौद्रं च दुनिं, हिंसोपैकरणार्पणम् । पापाचारोपदेशश्च, प्रमादपरिषेवणम् ॥८९॥ सर्वोऽप्यनर्थदंडोऽयं, वृथा कल्मषकारणात् । अपाकरणमस्यै स्यात्, तातीयीकं गुणव्रतम् ॥९०॥ युग्मम् ॥ अनिष्टवस्तुसंयोगा-दिष्टवस्तुव्ययादपि । रुक्प्रकोपान्निदानाच, चतुर्धाऽऽत्तै प्रकीर्तितम् ॥ ९१॥ यदन्यस्त्रविषव्याघ्र-द्विपदैत्यखलादिभिः । अनिष्टैः। कष्टमार्त तत् , स्यादनिष्टार्थयोगजम् ॥९२॥ स्त्रीपुत्रभ्रातृपित्राद्यै-रर्थराज्यसुखैरपि । विनष्टैर्या रुजाऽऽर्त स्यात् , तदिष्टार्थव्ययोद्भवम् ॥ ९३ ॥ वातपित्तमरुत्कुष्ठ-काशश्वासज्वरादिभिः । गदैर्यो मेदुरः खेद-स्तद् रोगौर्त निवेदितम् ॥ ९४ ॥1 राज्यं प्राज्यं शुभा भोगाः, प्रीताः पत्यो धनं घनम् । कथं स्यादिति धीः शश्व-निदानातं श्रुते श्रुतम् ॥ ९५ ॥
१ना, प्र. २ छिन्नाः सन्तः पुना रोहन्तीति. ३ अपध्यानानर्थदंडः (१). ४ हिंस्रप्रदानानर्थदंडः (२).५ पापोपदेशानदंडः (३).६ प्रमादाचरितानर्थदंडः (४), ७ चतुर्विधोऽपि. ८ पाप०.९ चतुर्विधस्याप्यनर्थदंडस्य. १० तृतीयमेव. ११ कष्टमिति यत्कष्टं चिंत्यते तद् आर्तध्यानम्. १२ अनिष्टसंयोगजातम् (१) *कष्टम्, १३ इष्टवियोगजातम् (२). १४ वातजन्यः कुष्ठः-मरुत्कुष्ठः. १५ रोगचिन्तार्तम् (३). १६ अप्रशोचार्तम् (४).
Page #322
--------------------------------------------------------------------------
________________
सर्ग.७
कुमारपालच०
॥१३॥
CARRARARARA
हिंसाहर्षान्मृषाहर्षा-चौर्यात् संरक्षणादपि । भवत्यङ्गभृतां चित्ते, रौद्रध्यानं चतुर्विधम् ॥ ९६ ॥ हतनिष्पीडितक्षुण्णजंतुजातविलोकनात् । हर्षोत्कर्षों नराणां यो, 'हिंसारौद्रं न्यगादि तत् ॥९७॥ हिंस्रमार्गोपदेशेन, कूटकल्पनयाऽपि च ।। जनवंचनया हर्षो, मृषारौद्रं व्यवस्थितम् ॥ ९८॥ चौर्येच्छा चौर्यमाचर्य, प्रमोदस्तदुपाहृतः । धनैश्च चित्तसंतोषश्चौर्यरौद्रमुदीरितम् ॥ ९९ ॥ शितैः शस्त्रविशस्यारीन् , भक्त्वा ग्रामपुराणि च । रक्षणं संचितार्थानां, तुर्य रौद्रं प्रकाशितम् ॥१०० ॥ अपध्यानद्वयमिदं, मंदिरं सर्वपाप्मनाम् । दूरे शल्यवदुत्सार्य, नरकक्लेशमीरुणा ॥ १०१॥ विहाय | स्नेहविषयं, नार्पणीयं विवेकिना । मुशलोदूखलहल-यंत्रशस्त्रानलादिकम् ॥ १०२ ॥ वनं छिंधि कुरु क्षेत्रं, वृषान् द्रव्येण वाहय । इत्यादि पापशिक्षा न, प्रीतेन्यत्र युज्यते ॥ १०३ ॥ द्यूतमाध्वीकमेषादि-योधनांदोलनादिकम् । भक्तादिविकथागीत-प्रेक्षणाद्यतिवीक्षणम् ॥ १०४॥ चैत्ये चतुर्विधाहारो, निद्रा निष्ठीवनं कलिः । वाणिज्यादिकथेत्यादि, प्रमादं
दूरयेत् कृती ॥१०५ ॥ युग्मम् ॥ (८) PI त्यक्तानसावद्य-कर्तव्यस्य शुभात्मनः । समत्वं यन्मुहूर्त स्यात् , तत् सामायिकमुच्यते ॥१०६ ॥ अनेहसा घनेनापि, तपोभिरपि दुस्तपैः। न तत् कर्म क्षिपत्यंगी, यत् सामायिकमाचरन् ॥ १०७॥(९) दिखतप्रमितेरहि, निशि यच्चाल्पनं पुनः । देशावकाशिकं तत् स्याद्, व्रतं सुकृतकारणम् ॥ १०८॥ (१०)
१हिंसानुबंधि (१). २ मृषानुबंधि (२), ३ स्तेयानुवंधि (३). ४ इत्येवं चिन्तन-संरक्षणानुबंधि (४). ५ स्नेहिजनान्. ६ भाटकेन, प्रीति विषयातू-पुत्रादेरन्यत्र. ८ मधुना-मधूकपुष्पेण निर्वृत्तं-मधूकपुष्पजातं मद्य-माध्वीकम्. ९ दूर कुर्यात.
Page #323
--------------------------------------------------------------------------
________________
सर्वाहारागसत्कारा-ब्रह्मव्यापारवर्जनम् । चतुष्पा भवगद-स्यौषधं पौषधं स्मृतम् ॥ १०९॥ यावान् प्रयाति
विधिवत्, पौषधव्रतसेवने । कालस्तावान् सचारित्र, इव मान्यो मनीषिणा ॥ ११॥ (११) 2 अतिथिभ्योऽशनपानाs-वासपात्रादिवस्तुनः । यत् प्रदानं तदतिथि-संविभागवतं भवेत् ॥११॥ चित्तं वित्तं च पात्रं च, रत्नत्रितयवच्छुभम् । प्राप्य ये ददते दानं, तेषां श्रीरमपायिनी ॥ ११२ ॥ (१२)
एवं सम्यक्त्वमूलोऽसौ, श्राद्धधर्मोऽतिनिर्मलः । शिवाप्तये भवत्येवे, भव्यानां यतिधर्मवत् ॥ ११३ ॥ निरतीचारमेत यः, प्रतिपालयते कृती । द्वेधाऽपि निवृतेः पात्रं, स स्याद् भीमकुमारवत् ॥ ११४ ॥ (तथाहि-) | अस्यैव जंबूद्वीपस्य, भरते भरिते शुभैः। पुरं बभूव कमल-पुरं परमऋद्धिभृत् ॥११५॥ यत्राहतेषु चैत्येषु, चलारेजुर्वजांचलाः । आह्वयंत इव श्राद्धा, जिनवंदनहेतवे ॥११६ ॥ बभासे तत्र भूमीशो, हरिवद्धरिवाहनः । यश्चित्रं दानवारित्वं, न दधार कदाचन ॥११७ ॥ खड्गक्षतारितरुणीनयनोरुनीरैः, प्राप्तोदयः प्रसूमरो भुवनेऽभितोऽपि । सेवापरेतरविनिर्मितशैत्यतापो, यस्य प्रतापदहनः स्फुरति स्म नव्यः॥११८ ॥ (वसंततिलका) तत्पत्नी मालतीत्यासी-न्मालतीव सुकोमला। शीलसौरभ्यशालिन्यां, यस्यां लीनोऽलिवत् प्रियः॥११९॥ मंत्री विमलबोधोऽभूत् , तस्यास्तिकशिरोमणिः । नाप यत्समतां मत्या, पाक्पतिर्नास्तिकत्वतः॥ १२०॥ हरिवाहनभूपस्य, सिंहस्वप्नेन सूचितः। मालतीकुक्षिमाणिक्यं,
१ अतिथिभ्योऽशनावास-वासःपात्रादिवस्तुनः, प्र. २ क्रमेण इति शेषः. ३ सांसारिकसुखस्य, मोक्षसुखस्य च. ४ इंद्रवत्. ५ दामवानाम् अरिवं-शत्रुत्वम्, दानस्य वारित्वं-निवारकत्वम्.
Page #324
--------------------------------------------------------------------------
________________
कुमारपालच०
तनयः समजायत ॥ १२१ ॥ पुरा भवत्यजय्योऽयं, भीमवद् बलशालिनाम् । इतीव तं पिता भीम, इत्याबासीन्महोत्स-16 सर्ग.७ वात् ॥१२२॥ तदा मंत्रिगृहेऽप्यासीत् , तनुजो मतिसागरः । स्वामिसेवकयोः पौर्वा-पर्याद वृद्धिः क्रमो ह्ययम् ॥१२॥ गुणैः सत्त्वमहत्त्वाद्यैः, साम्यमाशिश्रियाणयोः । कुमारयोरभूत् प्रेम, रामलक्ष्मणयोरिव ॥ १२४॥ एकत्र प्सानपानादिकर्मकर्मठचेतसोः। अवर्धिष्ट तयोः प्रीतिः, समानोदर्ययोरिव ॥ १२५ ॥ कुमारयोरतिरफार, शास्त्रं दृष्ट्वाऽभियोगतः।। तत्स्पर्धयेव पुस्फोर, शस्त्रं मात्राधिकं ध्रुवम् ॥ १२६ ॥ ततस्तौ यौवनारंभ-सुभगंभावुको श्रिया । कंदर्पमपि निःसपद्-रूपदर्प वितेनेतुः॥ १२७ ॥ नासत्यावपि नासत्या-विव तौ मिलितौ मिथः। द्वेधाऽपि स्वस्वरूपेण, के तरं जयतः स्म न ॥ १२८॥
अन्यदा प्रातरास्थानी-मातस्थानं महीपतिम् । नमस्थितुं समायातां, तो भीममतिसागरौ ॥ १२९ ॥ उभावपि नृपं नत्वा, तत्पादौ पाणिपंकजे । प्रापय्य राजहंसत्व-मुपासांचक्रतुश्चिरम् ॥ १३० ॥ पुत्रयोः प्रेक्ष्य तादृक्षां, भक्ति मुदित
१"यावत्पुरा निपातयोलेंद" इति भविष्यत्यर्थे वर्तमानः, पुरा भवतीति-पश्चादू भविष्यतीत्यर्थः. २ परंपरातः. ३ आश्रितवतो.४ क्रियाकुशलचेतसोः. ५ अति-15 | विपुलम्. * प्रथमा.६ प्रयत्नतः. ७ यौवनारमेऽसुभगौ सुभगौ भवत इति सुभगंभावुको. ८ निर्गच्छन् रूपस्य दो यस्य स तम्. ९ चक्रतुः, १० नासा त्यजतः
सज ड नि० वा नासत्यौ-अश्विनीकुमारी (तौ हि सूर्यतेजोऽसहमानाया संज्ञायाः-सूर्यपत्न्या उत्तरकुरुषु अश्वरूपं धृत्वा तपस्यन्त्या अश्वरूपधारिणा सूर्येण संगताया | अन्यपुरुषभिया तरेतो नासारंध्रेण त्यजन्त्यास्तन्नासा त्यागेन जातौ इति पुराणकथा ) अश्विनीकुमारावपि-अश्विनीकुमाराविवेति विरोधः अतः परिहारार्थ नास्ति असत्यं | ययोरिति नासत्या असत्यरहितावपि अश्विनी कुमाराविव इति. ११ भीमः पराक्रमेणाथ, मत्या च मतिसागरः. १२ तस्थिवांसम्.
॥१३७॥
k
Page #325
--------------------------------------------------------------------------
________________
BARANGASEASCANA
मानसौ । पत्रिणां धुरि मेनाते, स्वात्मानं नृपमंत्रिणौ ॥१३॥ मन्त्री विमलबोधोऽथाs-वदद् वत्सौ! युवां स्वयम् । सर्व यद्यपि जानीथः, स्नेहाद् वच्मि तथाऽप्यहम् ॥१३२॥ गौरवं स्याद् गुणैरेव, न महत्त्वेन कर्हिचित् । रत्नं लघ्वप्यनयं हि, महीयांसोऽपि नोपलाः ॥१३३॥ हारो मौक्तिकसारोऽपि, गुणत्यागेन तत्क्षणम् । हृदयादुत्तरत्येव, तद् विधेयो गुणाग्रहः ॥१३४ ॥ किंचेदं यौवनं नृणां, मद्यपानाहते मदः। अदृष्टिपटलं चांध्यं, विना मूर्छामचेतना ॥ १३५॥ अत एव न जानंति, कृत्याकृत्यकथामपि । अपथा संचरंत्येवे, यौवनोन्मादिनो जनाः॥१३६॥ एतत् तारुण्यमेवैकं, नानाऽनर्थनिबंधनम् । अस्मिन्नैश्वर्यभोगोऽय-मनलानिलसंगमः ॥ १३७॥ परस्त्रीपरिहारोच्चैः-पादपाशनिवेशनात् । वारणीया विकुर्वाणा, पंचेंद्रियहया रयात् ॥ १३८॥ असक्तं न प्रसक्तव्यं, विषयेषु 'विषेष्विव । अत्यासक्तिर्यदेतेषों, नाशयत्येव जीवितम् ॥ १३९ ॥ श्रीरियं वशयत्येव, वेश्येव चतुरानपि । पुण्ययोगेन यस्त्वेना, वशयेत् स विशारदः ॥१४॥ विषमाः कामकोपाद्या, अंतरंगारयः स्मृताः। अंकीलिता ध्रुवं काल-व्यालवत् ते विकुर्वते ॥१४१॥ अजित्वैतान बहिः3/ शत्रूञ्, जयन्नपि न विक्रमी । पराजयेत् तद् धीमान, कामादीन् मोहराइभटान् ॥ १४२॥ क्रीडां पीडामिवापास्य, स्मर्तव्याः सकलाः कलाः। राजनीतिरहस्यं च, निश्चेयं निजनामवत् ॥ १४३॥ साधुत्राणं खेलोच्छेदो, नयः प्रकृतिरंज-IV
१ पुत्रवताम्. २ वृद्धत्वेन. ३ कुमार्गेण. ४ ते च, प्र. ५ पादबंधनार्थ पाशः ( दामण- पच्छाडी ). ६ विकारं प्राप्नुवन्तः. ७ फलाभिलाषशून्यं-पुत्रेच्छारहितम्. ८ प्रसंगो न कार्यः. ९ विषयाणाम्. १० अबद्धा-अनियंत्रिताः. ११ कृष्णसर्पवत्. १२ विकियां कुर्वन्ति-प्राप्नुवंति. १३ अन्तरंगारीन्. १४ प्रजाऽऽनन्दनम्.
Page #326
--------------------------------------------------------------------------
________________
कुमारपालच०
-CESCARSA
सर्ग.७
॥१३८॥
नम् । कोशस्य वर्धन चेति, मूलं राज्यमहीरुहः ॥ १४४ ॥ स्थाने वीसो महोत्साह-श्चातुरी रीजसन्निधिः । अच्छद्मता शुभेच्छा च, श्रीमेदस्कारकारणम् ॥ १४५॥ कारुण्यं व्यसनत्यागो, विवेकः पात्रसंग्रहः । दीनं सत्योपकारौ च, करणीयानि भूभृताम् ॥ १४६ ॥ श्रव्यं षदर्शनीदेव-धर्मतत्त्वाद्यमन्वहम् । आत्मनीनं च कर्तव्यं, मतमार्हतमहतः॥१४७॥ किं बहूत्या तथा वत्सौ!, घर्तेयाथामतः परम् । पूर्वानतिशयीयाथां, यथा लोकोत्तरैर्गुणैः ॥ १४८ ॥ मंत्रिवाक्यमिदं ताभ्यां, म्यस्तं हृदि रहस्यवत् । हितं चाप्तोपदिष्टं च, को न स्वीकुरुते कृती॥ १४९॥ आरामिकस्तदागत्य, नरनार्थ व्यजिज्ञपत् । वयसे देव! संप्राप्त-स्तवोद्यानेऽस्ति सद्गुरुः ॥१५०॥ दानेनानंद्य तं पर्ष-दन्वितो हरिवाहनः । पद्मवद् विकसक्र-स्तं नंतुं प्राप्तवान् वनम् ॥ १५१॥ पंचधाऽभिगमं कृत्वा, प्रविष्टोऽन्तर्वणं नृपः । अभिनंदप्रभुं धर्मनिधानमिव दृष्टवान् ॥ १५२॥ भक्त्या परीय त्रीन् वारान् , प्रणम्य च तदंतिके । 'जिनाग्रे शक्रवद्' भूमान, सपुत्रोडपि निषेदिवान् ॥ १५३ ॥ पुण्यामृतप्रसविनी, कलां चांद्रमसीमिव । देशनां कर्तुमारेभे, गुरुरागमपारगः ॥ १५४॥ | कल्पद्रुमो यथा भूमौ, मरौ दुग्धोदधिर्यथा। तथा भवेऽतिदुर्ल(ल)भः, प्रायोऽयं मानवो भवः ॥ १५५ ॥ तं प्राप्य | तमाहेत्यं, तच्चेद् दुश्चरमुच्चकैः । श्राद्धधर्मस्तदा सेव्यः, सम्यक्त्वव्रतजीवितः॥ १५६ ॥ देवो जिनो गुरुः साधु-धर्मः।
सामीप्यम्. २ कलाकुशलयोग्यपुरुषसंग्रहः.३ "सचिसदधमुजण-मचित्तमणुजणं मणेगतं । इगसाडि उत्तरासंगं, अंजलिसिरेसि जिणविडे" इत्यादि देव वंदनभाष्ये, ४ अभिनन्दनामानं सूरिम्. ५ प्रदक्षिणां कृत्वा. ६ उत्पादिकाम्. ७ अतिदुष्प्रापः, ८ चारित्रम्. ५ भादतु योग्यम्-अस्तीति शेषः, १० सम्यक्त्वं प्रतानि | च जीवितं-खरूपं यस्य सः.
N SARSONG
Page #327
--------------------------------------------------------------------------
________________
कारुण्यवानिदम् । सद्दर्शनं व्रतानि स्यु-रहिंसाप्रभृतीनि च ॥१५७॥ मिथ्यात्वगरलग्रस्ता–श्चेतनाः स्युः कथं जनाः । | यदि सम्यक्त्वपीयूषं, न पीयेरन् यदृच्छया ॥१५८॥ भवदावानलप्लुष्टाः, प्रामुयुनिवृति कथम् । चिरं चेन्नावगाहेरञ् , जिनधर्मामृतांबुधिम् ॥ १५९ ॥ ईषदासदमेवान्यद्, राज्याचं दुर्गतिप्रदम् । दुरासदं तु सद्धर्म-रत्नं मुक्तयेककारणम् ॥१६॥
श्रुत्वेति प्रतिबुद्धात्मा, भीमोऽमात्यसुतान्वितः। श्राद्धधर्म ससम्यक्त्व-माददे मुक्तिबीजवत् ॥ १६१ ॥ शंकादिदोपनिर्मुक्त, पालयेतं युवामिमम् । संशय्यमानो मंत्रादि-रपि यन्न फलेग्रहिः ॥ १६२॥ गुरोः शिक्षामिमां पुत्रे, समित्रेडभ्युपगत्वरे । तं वंदित्वा नृपो धाम, जगाम सपरिच्छदः॥१६३ ॥ युग्मम् ॥ भीमस्य नरिनति स्म, कीर्तिः सच्चरितैस्ततः । उद्यानस्य यथा लक्ष्मी, सोल्लासैः पल्लवादिभिः॥१६४ ॥ कर्हिचिन्निजसझस्थं, हरिवाहननंदनम् । प्राप कापालिकः कोऽपि, कलाव्यूह इवांगवान् ॥१६५॥ कलां सौम्यां मुखे पुष्यञ् , जटाजूटस्फुरच्छिराः । हस्तन्यस्तत्रिशूलोऽङ्गज्योतिर्जालजटोलितः॥१६६ ॥ विरूपाक्ष इवाध्यक्षो, दत्त्वाऽऽशीर्वादमादरात् । कुमारदृष्टिनिर्दिष्टे, विष्टरे स निविष्टवान् ॥१६७॥ युग्मम् ॥ भानवीमिव कौमारी, प्रभां वीक्ष्यातिशायिनीम् । मनात्मेवामृतांभोधा-वाचष्ट स्पष्टगीःस तम्॥१६८॥ स्फारोपकारपटहै-स्त्वं दैविष्ठोऽपि नः स्फुटः। चंपकदुरिवोदार-सौरभैरभवः कृतिन् ! ॥ १६९ ॥ कति नाम नै
कर्मणिलिङ् २ दग्धाः. ३ शान्तिम् , मुक्तिम् वा. ४ सुप्रापम्. ५ दुष्प्रापम्. ६ सर्ग• ७ श्लो. ३३.७ सफलः. ८ अतिशयेन नृत्यति स्म. ९ोगी-पाखंडी. १० धारयन्. ११ जटाबंधदीप्यच्छिराः. १२ अन्वितः. १३ रुद्रः.१४ कुमारेण दृश्या प्रदर्शिते, १५ आसने. १६ दूरतरः. १७ नृ० प्र.
ACCORRECORESAMA CROS
क.पा.च.२४
Page #328
--------------------------------------------------------------------------
________________
सर्ग.७
कुमारपालच०
॥१३९॥
कीटाभा, जायंते हंत जंतवः। स जातः कथ्यते यस्यो-पकृतौ क्रमते मतिः॥१७०॥ गत्वाऽन्तर्दशनं तनोति शुचितां, गव्यादिकुक्षिस्थितं, दुग्धीभूय जंगद् धिनोति, नयति ध्वंसं क्षुधां पाशवीम् । शीताद्यं विदलत्यवत्यरिगणात् प्राणान् , परार्थेष्विति, प्रौढं चेत् तृणमप्यहो ननु तदा वाच्यो महीयान् किमु ?॥१७॥ (शार्दूलविक्रीडितं वृत्तम्) परार्थे बद्धबुद्धिं त्वां, निशम्य जनताऽऽननात् । प्राप्तोऽस्मि स्वार्थसिद्ध्यर्थ, श्रूयतामवंधाय सः॥१७२॥ भुवनक्षोभणी नाम, विद्याऽवद्योज्झिताऽस्ति मे । द्वादशाब्दी मया तस्याः, पूर्वसेवा व्यधीयत ॥ १७३॥ उदेष्यमाणा तत्सिद्धि-स्त्वत्सान्निध्यमपेक्षते । धारालवारिभृत्सेकं, यथैवांकुरसंततिः॥ १७४ ॥ ऐष्यत्कृष्णचतुर्दश्यां, त्वं चेदुत्तरसाधकः। भवेर्विद्या तदा मे सा, सिध्येत् सिद्धिरिवांगिनी ॥ १७५ ॥ सिद्धविद्योऽहमप्याशु, भवतो भवितोपंकृत् । ऋते प्रत्युपकारं हि, कृतज्ञो नाव-18 तिष्ठते ॥ १७६ ॥ स्वीचकार कुमारस्तत्, स्फारदाक्षिण्यपुण्यधीः । कल्पद्रुवन्महांतो हि, नेहते हंतुमर्थनाम् ॥ १७७ ॥ अर्वाक् कृष्णचतुर्दश्या, दाहीं मनसा मृशन् । कापालिकोऽपि तत्पार्थे, तस्थौ तद्रंजनाचिकीः॥ १७८॥ कथाः प्रथावतीस्तास्ता, मंत्रयंत्रकलामयी। कुर्वन् भीमं स मायीव, पर्यमोहयतान्वहम् ॥ १७९ ॥ तत्संपर्क शुभोदक-वितकेविरसं|| भृशम् । विमृश्याथ क्षमानाथ-पुत्रं मंत्रिसतोऽभ्यधात ॥ १८०॥ तवोज्वलस्य नो योग्यो, योगोऽस्य मलिनात्मनः। कीदृशः सहवासो हि, तेजसस्तमसोऽपि च ॥ १८१॥ अहो शिष्टोऽपि दुष्टात्मा, भवेद् दुष्टप्रसंगतः। जलं विमलम१ अप्रतिबंधेन वर्तते. २ लोकान् पुष्णाति.३ परोपकारेषु. ४ समर्थम्. ५ ध्यानं दवा. ६ खार्थः. ७ प्रत्युपकारी ८ दशदिनीम्. ९ विचारयन्. १० विस्तारवतीः |
॥१३९॥
Page #329
--------------------------------------------------------------------------
________________
प्युश्चै-जम्बालादाविलं यतः ॥ १८२॥ किंच पाखंडिसंपर्कात् , सम्यक्त्वमपि भज्यते । विनश्यति हि पीयूष-मार- नालनिवेशतः ॥१८३॥ भीमोऽभ्यधादसाध्वेतद्, यत् कुसंगात् सुधीः कुधीन मणिविषदोषाढ्यः, स्फुरेद् विषधराश्रयात्
॥१८४॥ स्वात् साधुरितरो वाऽपि, प्रकृत्यैव न योयतः । एकांचलेऽपि न स्यातां, किं, समौ मणिकर्करौ । का॥ १८५॥ सम्यक्त्वमपि तत् कीदृग्, यत् कुसंगेन नश्यति । अहो तदपि किं तेज-स्तमसा यत् प्रलीयते ॥ १८६॥
वयस्यस्तं विहस्योचे, प्रतिबंदी तवाद्भुता । परं स्फटिकवजीवो, भाव्यं द्रव्यमयं स्मृतः॥१८७॥ यथैव स्फटिकस्तैस्तैवर्णैः संयुज्यते जवात् । तथैवात्मेत्यसौ दुष्ट-स्त्याज्यो भीमोऽप्यमस्त तत् ॥ १८८॥ ततो निशि चतुर्दश्यां, तीक्ष्णं
कौक्षेयकं वहन् । तेन पाखंडिना साकं, भीमः प्रेतवनं ययौ ॥ १८९ ॥ अखंडं मंडलं तत्र, विरचय्यार्चनां च सः। ट्र शिखाबंधचिकीर्भाम-मूर्ध्नि हस्तं न्यघित्सत ॥ १९०॥ भीमो भीमोहमुक्तस्त-मूचे मंत्रनियंत्रणात् । कुरुष्व स्वांगिकी
रक्षा, छलं न स्याद् यथा तव ॥१९१॥ अंतः सत्त्वमयी मेऽस्ति, रक्षा शौर्यमयी बहिः। प्रभूष्णवः परात् त्राणं, नेहंते हि मृगेंद्रवत् ॥१९२॥ किंचाहं चेन्न शक्ष्यामि, स्वमपि त्रातुमातुरः। तदा त्रास्ये कथंकारं, त्वामन्यस्माद् भयंकरात् ॥१९॥ तदा कापालिकोऽध्यासीत्, कालिका_चिकीर्षया । जिक्षितं मयाऽस्याऽऽसी-च्छिखाबंधच्छलाच्छिरः॥१९४॥ तद्
१ कर्दमात् कलुषम्. २ संयोगात्. ३ मतिसागरः. ४ प्रकृतैक कल्पे प्रवृत्तं पुरुषमुद्दिश्य अप्रकृतकल्पान्तरापादने प्रतिवादिमतेऽनिष्टान्तरप्रसंजकवाक्यम् . प्रतिबंदि, प्र. ५ कापालिकः. ६ रक्षाबन्धचि की. निधातु-स्थापयितुमैच्छत्, ८ भयाज्ञानरहितः. ९ मंत्र(रक्षा) बन्धनात, १० समर्थाः, ११ पीडितः सन् , | 'अन्यस्थादू' इति अत्रापि योज्यम्, १२ प्रीतुमिष्टम्-अभिलषितम्.
Page #330
--------------------------------------------------------------------------
________________
कुमार
ग्रहीतुं मया नास्य, शेके निःशंकचेतसः। भापयित्वा स्वशक्त्यैतद्, गृह्णाम्यहाय संप्रति ॥ १९५॥ ततः शैलोच्चशीर्षायो, पालच० द्वारव्यात्ततराननः । कूपनिम्नश्रवा गुंजा-पुंजारुणविलोचनः ॥ १९६ ॥ ध्वजाऽऽयतस्फुरजिह्वो, दिकूलंकषदोर्हलः ।।
आलानोरुयुगः स्थूलो-दूखलप्रतिमक्रमः ॥ १९७ ॥ कर्तिकां नर्तयन् पाणी, 'धनः सौदामिनीमिव'। निर्धातोः स्वनि॥१४॥
घोषै-भीषयन भीषणानपि ॥ १९८ ॥ कोपात् कापालिकः काल, इवातिप्रातिकूलिकः । समेत्य समया भीम, साक्षेपमिदमाख्यत ॥ १९९ ॥ चतुर्भिः कलापकम् ॥ रेरेऽयं दंभसंरंभः, सर्वोऽप्यारंभि यन्मया। द्वात्रिंशल्लक्षणाव्यस्य, तत् ते शीर्षजिघृक्षया ॥ २००॥ तल्लातुं न त्वयाऽदायि, कृपाण्या तीक्ष्णयाऽनया । छित्त्वाऽऽर्द्रकदलीच्छेद-मिदानीं तदपाँददे ॥२०॥ स्मरेष्टं त्रायते यस्त्वां, मत्तो 'व्याघ्रात् कुरंगवत्' । जल्पन्नेवेति निस्त्रिंशः,सतं हेतुं प्रचक्रमे ॥२०२॥ अहो चेष्टाऽति दृष्टाऽस्य, विमृश्येति नृपात्मजः। कंपयन् खड्गमत्युग्रं, भृकुटीविकटं जगौ ॥ २०३ ॥ यथाऽन्ये जमिरे कीबा-छद्मना छागवत् त्वया । तथा मामपि रे वीरं, जिंघांससि गजेंद्रवत् ॥२०४॥ विश्रब्धघातसंजात-पातकैः पवित्रमापदम् । हत्वा त्वामद्य तन्वेऽहं, विश्वमप्यकुतोभयम् ॥२०५॥ इत्युक्त्वा वंचयित्वा च, तघातं कपिवत् ततः। उत्प्लुत्य स्कंधमारुक्षत्,
तस्य शीर्ष चिकर्तिषुः ॥२०६॥ भीमः स्कंधस्थितो दध्यौ, दशाही मद्गृहे स्थितः। कलावांश्च न वध्योऽयं, महापा18|तकसंभवात् ॥२०७॥आहत्य मुष्टिभिर्मत-मल्लवद् वशयाम्यमुम्। कदाचित् प्रतिबुद्धः सन् , स्वीकुर्यादाहतं मतम् ॥२०॥
१ निर्गता शंका यस्मात्तन्निःशंक तादृक् चेतो यस्य स निःशंकचेतास्तस्य. २ तंडुलादिखंडनार्थ काष्ठादिकृतद्रव्यविशेषः (खांडणी). ३ आकाशे पवनाहतपवनजन्यशब्दो निर्घातस्तद्वदुप्रैः, ४ खकीयशब्दैः. ५ आटोप-आडम्बरः. ६ भादातुम्. ७ लडथै लिटू. ८ विशाल-भयंकर यथास्यात्तथा. ९हंतुमिच्छसि. १० कर्तितुमिच्छुः.18
॥१४०॥
Page #331
--------------------------------------------------------------------------
________________
ततः स मुष्टिभिर्वज-कल्पैस्तं मूर्ध्नि जन्निवान् । गंभीरवेदिनं यंता, शृणिपातैर्यथा दृढः॥२०९॥ अरंतुदैः प्रहारैस्तैः, क्षणं मूच्छितमानसः। भीमाधिमूर्द्ध चिक्षेप, कोपात् कापालिका क्षुरीम् ॥२१०॥ तदात्वोदीत(चोदित)धी(मः, सखगोडप्यविशद् द्वतम् । तत्कणे कूपदेशीये, गुहायां हरिणारिवत् ॥२११॥ उत्कीर्णवांश्च कर्णस्य, मध्यं तीक्ष्णमुखै खैः । मर्माविधं | व्यथां कुर्वन् ,कर्णखजूरकीटवत्॥२१॥मयाऽहो पृथुकर्णत्वं, स्वस्यैवानर्थकृत कृतम्।यदत्रैष खनत्यंत-बिलमध्यस्थिताखुवत् ॥२१॥ इति ध्यायन व्यथाऽऽकीर्णः, कर्णादाकृष्य तं बलात् । उच्छाल्य कंदुकमिव, व्योनि चिक्षेप दुर्बती॥२१४॥ युग्मम्॥ दरमूर्ख नभो गत्वा, यंत्रोच्छलितगोलवत् । यावत् पतति मूोलः, क्षमापालसुतः क्षितौ ॥२१५॥ तावत् पतत्पतंगाभ, तं पतंत नभस्तलात् । निरीक्ष्य यक्षिणी काचिद् , दधार करसंपुटे ॥२१६॥ नीत्वा च सत्वरं स्वस्य, स्थानमास्थानवच्
छियाम् । शीतोपचार रुचिरै-स्तस्य मूर्छामतुच्छयत् ॥ २१७ ॥ कुमारोऽथ समालोक्य, वेश्म तत् सुरवेश्मवत् । देवतां है तां च दिव्याङ्गी, जातोऽद्भुतमयो भृशम्॥२१८॥स्वरेण मधुरेणाथ, सुधाऽऽसारैकसारणिम् । कर्णयोः पूर्णयंतीव, यक्षिणी भीममाख्यत ॥ २१९ ॥ देव ! विंध्यो गिरिरयं, कृताधोल्लेखशृंगभृत् । देवानामपि यः सेव्यो, मेरुवत् कामनीयकात्
२२०॥ अत्रेदं मंदिरं लक्ष्मि (क्ष्मी)-सुंदरं वैक्रियं मम । रिरंसार्थ वसंतीह, कमलाख्याऽस्मि यक्षिणी ॥२२१ ॥ अधुना टू गगने यांत्या, मया त्वं निपतन्नधः। निभाल्य पाणिपझेन, धृतो रत्नवदुत्तमः ॥ २२२ ॥ त्वल्लावण्यमिवापातुं, देवीभि
१ चिरकालेन यो वेत्ति, शिक्षा परिचितामपि। गंभीरवेदी विज्ञेयः, स गजो गजवेदिभिः ।।तथा त्वग्मेदाच्छोणितस्रावाद्, मांसस्य कथनादपि [ छेदनादपि ] आत्मानं यो न जानाति, स स्याद् गंभीरवेदिता ॥ इत्युक्तलक्षणहस्तिनम् . २ हस्तिपः. ३ कन्दुकवत्. ४ सूर्यसदृशम्. ५ अदूरयत्.६ विकुर्वितम्. ७ रमणेच्छाये.
BASEARCRACCAKA
Page #332
--------------------------------------------------------------------------
________________
सगे,
कुमार
वेधसाऽऽग्रहात् । कारयांचक्रिरे स्वीया, निनिमेषा दृशो ध्रुवम् ॥ २२३ ॥ त्वद्रूपदर्शनादेव, मथिता मान्मथैः शरैः। पालच० त्वां शरण्यं प्रपन्नाऽस्मि, वीरकोटीर ! रक्ष माम् ॥ २२४ ॥ अन्या अपि न कामिन्यः, प्रार्थयते नरं किल । विशिष्य
प्रवरा देव्य-स्तन्मां मा स्मावजीगणः ॥ २२५॥ तच्छ्रुत्वाऽचिंतयद् भीमो, धिक् कामस्य दुरात्मताम् । विडंबयति यो ॥१४॥
देवी-रपि मानवकाम्यया ॥ २२६ ॥ अहो स्मरमहो येन, महांतोऽप्यधमा इव । रज्यंत्यनुचिते स्थाने, चटूनि घटयन्ति च ॥ २२७॥ कापालिक मे व्यसनं, शीलत्राणादभूद् वरम् । न तु सौख्यमिदं तस्य, निर्मूलोन्मूलनोदयात् ॥२२८॥
तावद् विशुद्धसंबोध-पीयूषरसपायनात् । अस्याः स्मरगरोत्सर्प-मूर्छामुत्सादयाम्यहम् ॥२२९॥ कुमारोऽथावददेवि!, हैमत्प्राणपरिरक्षणात् । असि धर्मप्रिया प्राय-स्तेन त्वं तत्त्वमुच्यसे ॥ २३० ॥ मया पुरो गुरोश्चक्रे, पारदार्यविवर्जनम् ।
'दुर्ग मत्तगजेनेव', तेत् त (त्व) द्योगेन भन्यते ॥ २३१॥ खंडिते च ब्रतेऽवश्य, नरकक्रोडखेलनम् । कालकूटे कवलिते, संदिग्धं मरणं किमु ? ॥ २३२ ॥ वरं मृत्यु सुशीलानां, कुशीलानां न जीवितम् । दुर्विधत्वं सतां श्लाध्यं, न तु द्रव्यं कुकर्मणाम् ॥ २३३ ॥ किं चामी विषया वह्नि-शिखया समतामिताः । अंगिनां स्वप्रसंगेन, शीलांगानि दहंति ये ॥२३४ ॥ का नाम तस्य वैदग्धी, कश्च शौडिरिमंक्रमः । मुष्णंति यस्य शीलस्वं, विषयाः परमोषिणः ॥ २३५ ॥ क देवी दिव्यरूपा त्वं, मलिनोऽहं क मानवः । स्तुत्यस्तन्नावयोर्योगः, कस्तूरीपंकयोरिव ॥ २३६ ॥ तस्माद् दूरं परित्यज्य,
१रक्षकम्. २ शीलस्य. ३ प्रथममित्यर्थः. ४ परस्य दारा एव दारा यस्य स परदारस्तस्य कर्म पारदार्य तस्य विवर्जनम् . ५ पारदार्यविवर्जनम् ६ पारदार्ययोPागेन. *निर्धनत्वम् । खकीयसंबंधात्, ८ पांडित्यम्. ९ साभिमानताक्रमः, कौशल्यपरंपरा वा. १० ब्रह्मधनम्. ११ परान मुष्णन्तीति परमोषिणः.
COCCALCHAMGAGACCI
SARAR
॥१४॥
Page #333
--------------------------------------------------------------------------
________________
रिरंसां हिंस्रतामिव । दयालुतामिव धत्स्व, शीललीलां सुरोत्तमे । ॥ २३७ ॥ सम्यक्त्वं च श्रय प्रेयैः - श्रेयः संवननौषधम् यंत्राद्धर्मसाम्राज्य - लक्ष्मीलीलायतेऽन्वहम् ॥ २३८ ॥ इति तद्वाक्सुधासेकात्, स्वांतशांतस्मरज्वरा । आलपन्मालतीपुत्रं, यक्षिणी शीलरक्षिणी ॥ २३९ ॥ यौवनेऽप्यचलं श्रीलं, यतिवद् बिभ्रता त्वया । नवरं पातकात् स्वास्मा, ममात्माऽपि च रक्षितः ॥ २४० ॥ गुरुस्त्वमेव मे गौर - गुण ! सम्यक्प्रबोधनात् । उक्त्वेत्यलंकारमिव, सम्यक्त्वं सा ततोऽग्रहीत् ॥ २४१ ॥ निशीथे च निशम्याथ, कुतोऽपि मधुरध्वनिम् । किमीयँ इति सोऽप्राक्षीत्, कमलाममलाशयः ॥ २४२ ॥ सा स्माह साहसनिधे !, ज्येष्ठकल्पमधिष्ठिताः । साधवोऽत्रासते तेषां स्वाध्यायध्वनिरेषकः ॥ २४३ ॥ हृष्टोऽभाषिष्ट तां भीमो, धर्मज्ञा त्वमपि ध्रुवम् । भवरोगागदंकारा, यदुपने महर्षयः ॥ २४४ ॥ पुण्यैकाश्रयवत् साधू - पाश्रयं मे प्रदर्शय । यथा निशीथिनीं शेषां, धर्मध्यानमयीं नये ॥ २४५ ॥ निशायां न विशत्यंत - र्वनिता देवताऽप्यतः । दवीयस्येव सा द्वाराद्, दर्शयामास तस्य तम् ॥ २४६ ॥ निशीथेऽपि शुभध्यानो - त्सर्गाद्यैरप्रमद्वरान् । दृष्ट्वा महर्षीन् हर्षाश्रु - मिश्रो भीमः परामृशत् ॥ २४७ ॥ उपस्कृत्य स्वांतं चिरमुचितमैत्र्यादिघटनाद्, विशुद्धामध्यात्मोपनिषेदमधिष्ठाय तदनु । निलीनाः स्वच्छंदस्फुरदुरुचिदानंदजलधौ, परब्रह्मण्येते विदधति निजं जन्म सफलम् ॥ २४८ ॥ ( शिखरिणी) । वयं तु विषय -
१ रंतु मिच्छां-भोगवाञ्छाम्. २ अतिशय प्रिय मोक्षवशीकरणौषधम् ३ सम्यक्त्वे. ४ क्रीडति, ५ भीमकुमारम्. ६ विशुद्धगुण ! ७ कस्य अयमिति किमीयः ८ चतुर्मासीम्. ९ वैद्याः १० यस्याः समीपाश्रये. ११ खच्छं कृत्वा १२ रहस्यम् - अध्यात्मशास्त्रम् १३ साधवः १४ भवभटभयं भक्त्वा, संक्त्वा ( संमील्य ) गुरून् विदितात्मनस्तपसि परमै रंक्त्वा, मंक्त्वा समाधिसुधाम्बुधौ। जिन ! जिन ! जिनेयास्ये जल्पन्, मनस्यपि तं स्मरन्, नयति सुकृती कश्चित्कालं पचेलिमपाटवः ॥ २४९ ॥ प्र
Page #334
--------------------------------------------------------------------------
________________
कुमारपालच.
॥१४२॥
च्छद्म-विषावेशवशंवेदाः।हहा स्वं न विजानीमः, पतंतं पंकसंकटे ॥२४९॥ कुट्टाकं भवकोटीनां, लुटाकं शिवसंपदाम् । ६ वचोऽमीषां महर्षीणां, तच्छृणोमि किमप्यहम् ॥ २५० ॥ ततः कृपाण पाण्यग्रा-द्धित्वा नत्वा च तान् मुनीन् । भीम-18 स्तदाशिस्तुष्टात्मा, पुरस्तेषां निविष्टवान् ॥ २५१ ॥ गवलश्यामला तावद्, 'वेणीव गगनश्रियः' । अवातारीदुपरितो, दाधिष्ठका तदा भुजा ॥ २५२ ॥ केयं किमीया किं की, ध्यायतीत्थं नृपोहूँहे । तत्कौक्षेयकमाकृष्य, सा भुजा प्रस्थि-12 ताऽम्बरे ॥२५३॥ एषा मत्खड्गमादाय, क यातीति बुभुत्सया । कुमारोऽपि समारोहत्, तामुत्प्लुत्य प्लवंगवत् ॥२५४॥ स्फुरन्नीलिमवापुरे, विपुले व्योमवारिधौ । वात्येव त्वरितं यांती, नाव्यामास भुजाऽऽयता ॥ २५५ ॥ बाहुस्थासिलता साऽपि, श्यामा दीर्घा च दियुते । स्वर्धनीस्पर्धया यांती, कालिंदीव नभस्तलम् ॥ २५६.॥ नृपांगजो भुजारूढो, विमानस्थास्तुदेववत् । धात्री चित्रमयीं पश्यन् , विस्मयाय स्वमार्पयत्॥२५७॥ कियद् व्योम समुलंध्य, बाहायां काऽपि कानने। कालिकामठमाप्तायां, ततो भीमोऽवतीर्णवान् ॥२५८॥ महामहास्थिकुड्याढ्यं, करोटिकपिशीर्षकम् । उष्ट्रास्थिस्थपुटद्वारं, द्विपदंतोच्चतोरणम् ॥ २५९ ॥ मृतवेणिध्वजाश्लिष्ट-मजाजि वितानितम् । घनासृग्मिश्रभूमीकं, मठं दृष्ट्वा ममर्श सः॥२६०॥ युग्मम् ॥ जुगुप्सायाः किमागारं, किंक्रीडापर्वतो भियाम् । किं मृत्यो राजधानी वा, किमयं पदमापदाम् ॥२६१॥ तत्रापि भीषणाकारां, कालरात्रिमिवांगिनीम् । कपालमालाऽऽभरण-भारिणी कालिकां सुरीम् ॥२६२॥
१विषयरूपविषावेशेन. २ वशीभूताः. ३ छेदकम्. ४ महिषवत् कृष्णा. ५ लक्ष्म्याः .६ अतिदीर्घा. ७ राजपुत्रे. ८ वानरवत्. ९ नीलिमा एव वा-जलम् १० शुशुमे. |११खर्गगा. १२ यमुना. १३आत्मानम्. १४ बृहद् बृहदस्थिकुञ्यान्यम्. १५मस्तकास्थि. १६ विषमोन्नतप्रदेशद्वारम्. १७आश्विष्टं-युक्तम्. १८अजिनं-चर्म. १९मठः,
॥१४२॥
Page #335
--------------------------------------------------------------------------
________________
तदर्थाssचरणव्यग्रं, तं च कापालिकं पुरः । तदुपांते नरं चैकं, दीनं भीमो न्यभालयत् ॥ २६३ ॥ युग्मम् ॥ किमेत दिति विस्मेरे, हरिवाहननंदने । कापालिकाय दत्त्वाऽसिं, तत्तनौ सा भुजाऽविशत् ॥ २६४ ॥ पाखंडी नैप सामान्यः, किं कर्ता चासिना मम । पश्यामि गुप्तो ध्यात्वेति, स कोणे तत्र तस्थिवान् ॥ २६५ ॥ अर्चित्वा कालिकां सोऽथ भी मासिं कलयन् करे । केशैः कृष्ट्वा स्वनेदिष्ठं, नरमित्यब्रवीद् रुषा ॥ २६६ ॥ रेरे स्मरेष्ट मात्मीयं दिष्ट्याऽन्तस्तेऽधुनाऽऽगमत् । छित्त्वा यत् ते शिरः पद्म- मर्चयिष्यामि देवताम् ॥ २६७ ॥ स जगाद जिनेंद्रोऽस्तु, शरण्यः शरणं मम । तद्भक्तश्च | प्रभुर्भीम- चंडपाखंडिखण्डनः ॥ २६८ ॥ यो वारितोऽपि नैवास्थात्, त्वया दुष्टेन संसजन् । यदि स स्यादिाप्तश्च, तर्हि त्वां चूरयेद् रयात् ॥ २६९ ॥ पाखंडी भीमनाम्नाऽपि ज्वलन्नाचष्ट दुष्ट ! रे । भीममृर्भैव देव्यर्चा, मयाऽऽसीत् | प्राक् चिकीर्षिता ॥ २७० ॥ स क्लीबवत् परं नष्ट - स्त्वमानीतोऽसि तत्पदे । सोऽपि विंध्ये मुनिपार्श्वेऽस्तीति देव्योदितं मम ॥ २७९ ॥ अयं तस्यैव रे खड्गो, जीविर्तव्यमिवौजसः । आनायितो मयाऽस्तीह, त्वच्छिरश्छेदकाम्यया ॥ २७२ ॥ किंच यः शरणीचक्रे, जिनो भीमोऽपि च त्वया । न त्वां त्रातुमलंभूष्णू, तौ रुष्टे मयि दैववत् ॥ २७३ ॥ यद्येषा कालिका देवी, त्वयाऽशरणयिष्यत । अत्रास्यथास्त्वमेर्तर्हि, कदाचिदनया तदा ॥ २७४ ॥ इत्याक्षिप्य स तं हंतुं, यावदुद्यच्छतेऽधमः । तावद् भीमोऽतिभीमौजा- स्तमधिक्षिप्तवानिति ॥ २७५ ॥ रेरेऽधम ! किमाचक्षे, यद् भीमो नेशिवानिति । स तवाहं पुरोऽस्मीह, प्रहरस्व बलं यदि ॥ २७६ ॥ वेद्मि शक्तिं तदाऽहं चेद्, बलिनं हंसि कंचन । परं सर्वो बलिं दत्ते, १ भाग्येन. २ नाशः - मृत्युः ३ संसर्ग कुर्वन्. ४ जीवनमिव पराक्रमस्य. ५ 'भूते च' इति लिङ् निमित्ते लृङ् भूते भविष्यति च क्रियाऽतेपत्तौ ६ तर्हि. ७ मरणकाले.
Page #336
--------------------------------------------------------------------------
________________
कुमार- IPIपशुभिदीपिभिन हि ॥ २७७ ॥ मयि प्रेहरति त्वं क-स्तव देव्यपि न क्षमा । मृगं निघ्नति शार्दूले, त्राणशौंडो हि को|| सर्ग.७ पालच०
भवेत् ? ॥ २७८ ॥ इत्युक्त्वा तत्करात् स्वासिं, पातयित्वा प्रहारतः । मल्लवत् प्रौढमल्लेन, तेन सार्धमयुद्ध सः॥२७९॥ ॥१४३॥
अवेपत व्यथातैव, तत्पादप्रहताऽवनिः । तत्क्ष्वेडितप्रतिध्वान-मठ: पूच्चकृवानिव ॥ २८०॥ तत्पाददैदरैर्वन्याः, सिंहाद्या अप्यजागरुः । मृगाद्याश्च पलाऽऽयंत, कांदिशीकाश्चतुर्दिशम् ॥ २८१॥ चिरप्रसृमरोदाम-संग्रामव्यक्तधामभिः । असामान्यत्वमन्योन्य-मुभाभ्यामप्यमन्यत ॥ २८२ ॥ सुचिरं योधयित्वाऽथ, भीमो भूमौ निपात्य तम् । दत्त्वा हृदि पदं खरं, भयार्थमुदपीपटत् ॥ २८३ ॥ अभाषिष्ट च रे दुष्ट !, गर्जितं व तवोर्जितम् ।व च सा कालिका ? कालान्मत्तस्त्वां त्रायतेऽत्र या॥२८४॥ तदा तं पतितं वीक्ष्य, पशुवत् प्राणसंकटे । कालिका प्रकटीभूय, भूपांगजमभाषत ॥२८५॥ वत्स ! मा स्म वधीरेनं, ममास्त्येष प्रियाकरः। नरोत्तमशिरः पद्म-परिपूजनयाऽन्वहम् ॥ २८६ ॥ अद्य मह्यं नरस्याऽस्य, शिरोबलिनिवेदनात् । अष्टोत्तरशतशिरः-पूजा पूर्तिमवाप्नुयात् ॥ २८७ ॥ ततः कापालिकस्यास्य, सिद्धा स्यां सर्वकार्यकृत् । परमेतदभाग्येन, त्वं प्रत्यूह इवाऽऽपतः ॥ २८८ ॥ त्वं कोऽपि वीरकोटीरो, यो मदने मदर्चकम् । एवमाक्रम्य मनासि, देववद् भीपराङ्मुखः ॥ २८९ ॥ त्वत्सत्त्वेन प्रसन्नाऽस्मि, वरं वृणु यथेप्सितम् । जीवंतं च विमुंचेम,18 न संतो ह्यल्पघातिनः ॥ २९० ॥ भीमस्तां स्माह यद्येवं, तर्हि जीववधं त्यज । लोकशास्त्रविरुद्धोऽयं, तव देवि! नाल
॥१४॥ युज्यते ॥ २९१॥ उत्तमा त्वादशी देवी, किं भवेज्जंतुघातिनी । शिशिरा हि शशिज्योत्स्ना, न तापपरिवर्धनी॥२९२॥
१ सप्तम्यैकवचनम्. २ पादाघातजशब्दैः ३ उद् पटू चूरादि-प्यन्तात् लुइ.
%AWANGALORAKAACARX
Page #337
--------------------------------------------------------------------------
________________
इयच्चिरमहं वेद्मि पाखंडी वधको ह्ययम् । घातयंती परं जंतूं - स्त्वमेव वधिकाऽधिकम् ॥ २९३ ॥ त्वत्कृते प्राणिनो निम्न-नयं वार्येत चेत् त्वया । न निहन्यात् तदा भृत्यो, यत् स्यात् स्वामिवशंवदः ॥२९४॥ कवलाहारराहित्यात्, त्वं नाश्नासि पलं ध्रुवम् । किमोलंभय से ? जंतू - न्निर्मेतून क्रीडया ततः ॥ २९५ ॥ सामान्यस्यापि जीवस्य वधोऽनर्थसमर्थकः । त्रैलोक्यत्राणशौंडानां किं पुनर्महतामयम् ॥ २९६ ॥ किं च पुण्यफलं साक्षाद्, देवीत्वं कलयंत्यपि । पापं तनोषि तद् देवि ! | विवेकः कीदृशस्तव ? ॥ २९७ ॥ तस्माजंतुवधं त्यक्त्वा, पापध्वांत कुहूनिशम् । कारुण्यं क्रियतां पुण्य - प्रकाशैकदिनो दयः ॥ २९८ ॥ इति प्रबोधिता तेन, देवी स्वीकृत्य तद्वचः । कापालिकं च निर्मोच्य, स्वं पदं प्रत्यपद्यत ॥ २९९ ॥
भीमोऽथ पृष्टवान् नम्रं, स्वमित्रं मतिसागरम् । कथं मां शिक्षयन्नस्य, पाशे त्वं पतितो विदन् ॥ ३०० ॥ स तं व्यजिज्ञपद् देव !, सायं प्राप्ता त्वदालयम् । त्वत्प्रिया त्वामपश्यंती, मुष्टेवानंददुच्चकैः ॥ ३०१ ॥ श्रुत्वा तत्कंदितं मातापितरौ ते मुमूर्च्छतुः । प्राप्य चैतन्यमाक्रंदैः शब्दाद्वैतं च तेनतुः ॥ ३०२ ॥ ततो मां भूभृदप्राक्षीद्, भीमस्तेऽतिप्रियः सुहृद् । किं केनापि हृतः १ किं वा, स्वयं क्वापि गतो वद १ ॥ ३०३ ॥ यावत् किंचिदहं वच्मि, तावत् ते कुलदेवता । वृद्धस्त्रियामवातारीत्, स्वयमेव प्रभावभूः ॥ ३०४ ॥ अवादीच्च नरेंद्र ! त्वं पुत्रार्थ मा स्म खिद्यथाः । पाखंडिना हृतः सोऽभूत्, कालिकापूजनेच्छया ॥ ३०५ ॥ तं विधूयाधुना पुत्र - स्तवास्ते यक्षिणीगृहे । कियद्दिनावसाने च समेष्यति महर्द्धिभाक् ॥ ३०६ ॥ आर्त्तो नृपस्तया देवी - भारत्या निर्ववौ मनाक् । यथा प्रथमया वृथा, दवदग्धो महीरुहः ॥ ३०७ ॥
१ किं मारयसि १ २ अमावास्यारात्रिम् ३ तिरस्कृत्य पराभूय. ४ वाण्या.
Page #338
--------------------------------------------------------------------------
________________
कुमार
पालच०
॥१४४॥
गते देव्यवतारेऽथ, सत्यैषा वाक् किमन्यथा । इत्युपश्रुतिमानेतुं, त्वत्तातः प्रजिघाय माम् ॥३०८॥ तां निशम्य निवर्तेऽहं, यावत् तावत् कुतोऽप्यभूत् । वात्यावर्तो रजःपूरैः, पूरयन्निव रोदसीम् ॥ ३०९ ॥ निशीथे(थ)रेणुपूराभ्यां, तथा संतमसं कृतम् । यथाऽहं दिव्यनेत्रोऽपि, जनुषांध इवाभवम् ॥३१०॥तदंतरे समभ्येत्य, कपाल्येष पिशाचवत् । स्तनंधयमिवोत्पाव्य, मां व्योम्नेह समानयत् ॥ ३११ ।। अत्र दुर्वृत्तमेतस्य, प्रेक्ष्य प्रक्षुभिताऽन्तरः। पुराऽपि त्वद्वियोगा?, मृतदेश्य इवाभवम् ॥ ३१२॥ यावच्चिकतिषामास, मच्छिरोऽसौ दुराशयः । तावन्मद्गोत्रदेव्येव, समाकृष्टस्त्वमागमः ॥ ३१३॥ अहितोऽपि हितः सोऽय-मावयोर्योजनादभूत् । जातुचिद् दैवयोगेन, विषमप्यमृतायते ॥३१४ ॥ मित्रवृत्तमिति श्रुत्वा, पित्रोराधिं विमृश्य च । दुःखदावानलप्लुष्टो, भीमस्तरुरिवाभवत् ॥ ३१५ ॥ हणीयमानो हृदये, तेन स्वेन कुकर्मणा । अथ कापालिकोऽभ्येत्य, नेमिवान् नृपर्नदनम् ॥ ३१६ ॥ ऊचिवांश्च त्वयैकेन, रत्नगर्भाऽस्ति भूरियम् । यस्येदृग् दीप्यते लोको-त्तरं सत्त्वमयं महः ॥ ३१७ ॥ पुरा परैरभग्नोऽपि, भग्नोऽहं भवताऽधुना। वार्षिः परैरपीतोऽपि, किं न पीतो ह्यगस्तिना? ॥ ३१८ ॥ त्वया दामोदरेणेव, करुणारससिंधुना । निमज्जन् पंकमध्येऽहं, गोमंडलवदुधृतः॥ ३१९ ॥ उपकृत्युपकतोरः, सन्तः सन्ति पर शताः । अपकृत्युपकत्तों त. त्वमेकोऽसि महाशयः॥ ३२० ॥ प्राणदानादभूस्त्वे में, नाथः कापथपातिनः। तथ्यपथ्योपदेशेन, गुरुरप्यधुना भव? ॥ ३२१॥ भीमस्तमूचिवान् स्वस्मै, प्रियाकर्तुं यदीच्छसि । तदाऽऽत्मघातवच्छश्वत्, परघातं परित्यज ॥ ३२२ ॥ वधोऽयं देवतार्थोऽपि, विहितो न हितावहः । मन्त्रपूतो पि हि
१ वाचिक-संदेशम्. २ वातसमूहस्य चक्राकारेण भ्रमणम्. ३ तस्मिन्नवसरे. ४ कर्तितुमियेष. ५ लज्जमानः.
॥१४४॥
Page #339
--------------------------------------------------------------------------
________________
श्वेडो-वश्यं प्राणप्रणाशकः ॥ ३२३ ॥ जन्तूजासनतः प्रपद्य नरकं भुङ्क्ते चिरं तद्व्यथा-मेकाक्षेष्वखिलेषु पुद्गलपरावर्तान् घनांस्तिष्ठति । प्राप्तोऽपि त्रसतामहिप्रभृतिषु क्रूरेषु बम्भ्रम्यते, जातो मर्त्यभवेऽपि नैव लभते जीवः कुलाचंटू शुभम् ॥ ३२४ ॥ (शार्दूलविक्रीडितम् )अनुशिष्येति तं शिष्य-मिव भीमो महाशयः । सार्वजन्ये दयाजन्ये, जैनधर्मे न्यवेशयत् ॥३२५॥ तदा निशां कृशां प्रेक्ष्य, 'स्वकीयां जननीमिव' । तज्जातमुचितं जातं, भृशं संतमसं कृशम् ॥३२६॥ दधिरे स्फूर्तिमन्तोऽपि, संहता अपि तारकाः। तदानीं विरलीभावं, दरिद्रत्वे गुणा इव ॥ ३२७ ॥ परेषां तर्जयस्तेजः, प्रोल्लसत्कमलाकरः । भानुमानुदयाचके, प्रातर्नवजिगीषुवत् ॥ ३२८ ॥ अथ भीमः समित्रोऽपि, मुखप्रक्षालनेच्छया। मठानिर्गत्य कासारं, सारं सारसवद् ययौ ॥ ३२९ ॥ तावत् तत्र करी कश्चिद्, विन्ध्याद्रिरिव जंगमः । उन्मदिष्णुतयाऽधावद्, भीमं प्रति भयानकः ॥३३०॥ तं विरुद्धाशयं बुद्धा, बवा परिकरं दृढम् । स सान्त्वयितुमारेभे, धीराऽऽधोरणवच्छनैः ॥ ३३१ ॥ तावत् स देवहस्तीव, समित्रं नृपनन्दनम् । अध्यारोप्य निजं पृष्ठ-मुत्पपात नभःस्थलम् ॥३३२॥ हस्तैिमल्लेन वजीव, भीमस्तेन नभोव्रजन् । किमेतदिति पृष्ठस्थं, पृष्टवान् मित्रमात्मनः ॥ ३३३ ॥ विमृश्य सुहृदाह स्म, नायं नागो नभोगतेः । अभ्रम(मु)वल्लभो नापि, कजलश्यामलत्वतः ॥ ३३४ ॥ सुरः कोऽप्यसुरो वाऽपि, द्विपरूपस्त-| तोऽस्त्यऽयम् । हरते हेतुना केन, परं तन्नैव वेड्यहम् ॥ ३३५॥ तयोर्निगदतोरेवं, स करी तीवरंहसा। दरं गत्वा
१ उज्जासनं-मारणम्. २ एकेन्द्रियेषु-पृथिवीकायादिषु. ३ सर्व एव सार्वः स चासौ जनश्च तस्मै हितस्तस्मिन्, ४ दयोत्पादके. ५ ऐरावणेन. ६ इंद्र इव. ७ अभ्रमूः(मुः)-ऐरावणस्य स्त्री, तस्या बल्लभः-ऐरावणः स च श्वेतः ८ तीबवेगेन.
RECENCREASS-
कु.पा.च.२५
CA
Page #340
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ १४५ ॥
1
कचिच्छून्य - पुरोपान्ते मुमोच तौ ॥ ३३६ ॥ द्विपे भूत इवादृश्यी - भूते तस्मिन्नृपोद्वहः । मित्रं विमुच्य तत्रैव, स्वयं शून्यपुरेऽविशत् ॥ ३३७ ॥ अपीक्षितद्युलक्ष्मीणां सुराणां चित्तमोह (हि) नीम् । पश्यन्नागरिकी लक्ष्मी -मपूर्वामिव सर्वतः ॥ ३३८ ॥ भीमो वरेण्यपण्यौध-पूर्णायां विपणौ क्वचित् । व्यात्तवक्त्रगृहीतैक - नरं हर्यक्षमैक्षत ॥ ३३९ ॥ युग्मम् ॥ अवगत्य स्वमत्या तद्, दुष्टदैवतचेष्टितम् । नरं मोचयितुं सिंहाभ्यर्ण भूपैभवोऽभ्यगात् ॥ ३४० ॥ स मर्योऽपि भयभ्रान्तो, भीमं वक्तुमसासहिः । हन्यमानच्छगलवत्, कातराक्षं न्यभालयत् ॥ ३४१ ॥ नृसिंहः स जगौ सिंह, न त्वं सिंहोऽसि वस्तुतः । केनाऽपि हेतुना कोऽपि, सुपर्वेदृशरूपभाक् ॥ ३४२ ॥ तदयं दयया देव !, मर्त्यस्तूर्णं विमुच्यताम् । प्राणिनां प्राणदानं हि परं दानं निगद्यते ॥ ३४३ ॥ राज्यादिकं तथा नेष्टं यथेष्टं जीवितं नृणाम् । ददता तद् दयाढ्येन, तेषां किं नाम नो ददे १ || ३४४ ॥ मुखाद् विमुच्य तं मर्त्य, क्षिप्त्वा चाम्रपदान्तरे । मानव्या भाषया भीमं बभाषे कीरवद्धरिः ॥ ३४५ ॥ उपकारपरत्वेन त्वं साधो ! सत्यमभ्यधाः । क्षुधितेन परं प्राप्तो मयाऽयं मुच्यते कथम् ? ॥ ३४६ ॥ यथा कृपालुता तेऽस्मिंस्तथा मयि कुतो न हि ? । यदेनमीहसे त्रातुं क्षुधा मां च जिघांससि ॥ ३४७ ॥ किञ्च धम्र्मोऽपि ते कीदृग् यदेकं परिरक्षसि । परं च हंसि सन्तो हि, मध्यस्था 'नायका इव ॥ ३४८ ॥ अहं च सिंह एवास्मि न देवो मानुषीं गिरम् । वेद्मि प्राग्भवसंस्कारा-न्मुचे तन्नाशनं निजम् ॥ ३४९ ॥ विस्मेरः स्माह भीमस्तं, यद्यप्येवं तथापि भोः । त्यजाऽमुं निजमांसेन, भुक्तिं मांर्सेलयामि ते ॥ ३५० ॥ सिंहोऽवोचदयं पूर्व-भवे मामदुनोत् तथा । १ नृपपुत्रः २ सिंहम् ३ भूपपुत्रः ४ मांसलां करोमि .
सर्ग. ७
।। १४५ ।।
Page #341
--------------------------------------------------------------------------
________________
यथाऽमुं मनतो भूरि- भवानपि न मे शमः ॥ ३५१ ॥ भीमो भूयोऽभ्यधात् तेऽस्मिन् रिपावप्युचिता न रुट् । स्वकर्मणैव यत् सर्वे हेतुमात्रं परः पुनः ॥ ३५२॥ अजातो म्रियते नैवाऽ - दत्तं नैवोपतिष्ठते । अकृतं भुज्यते नैव, ध्रुवमेतद् विदां - - कुरु ॥ ३५३ ॥ तस्मात् कोपं विमुच्यास्मि - न्नऽयमप्याशु मुच्यताम् । प्रीण्यतां च मदंगेन, निजाङ्गं हरिणाधिप ! ॥ ३५४ ॥ इत्युक्तोऽपि नरं कोपात् स नात्याक्षीद् यदा तदा । तस्माद् वस्त्रंवदाकृष्य, भीमस्तं" जगृहे बलात् ॥ ३५५ ॥ तं नरं जग्धुमागच्छन्, स धृत्वा पशुवत् पदे । अश्मन्यास्फालितस्तेनं, तिरोधात् सुरवद्द्रुतम् ॥ ३५६ ॥ आश्वास्य मृत्युभीतं तं, तेनैव सहितस्ततः । भ्राम्यन्नितस्ततो राज- सुतो राजाऽऽलयं ययौ ॥ ३५७ ॥ पश्यन् प्रतिक्षणं तस्मिञ्, श्रियं | वैमानिकीमिव । सप्तमं क्षणमारुक्षत्, स कुतूहलमोहितः ॥ ३५८ ॥ सजीवा इव माणिक्य - मूर्त्तयः शालभञ्जिकाः । उत्तीर्य तत्र स्तंभेभ्यस्तस्मै स्वागतमूचिरे ॥ ३५९ ॥ आसयित्वाऽऽसनेऽनर्थे, तं कुमारं नभःस्थलात् । स्वानीयं सर्वमानीय, स्नानार्थं प्रार्थयन्ति च ॥ ३६० ॥ ताभिरेव समानाय्य, बहिस्थं मतिसागरम् । भीमस्तेन समं सस्तो, चित्राब्धितरदन्तरः ॥ ३६९ ॥ श्रीवरे चीवरे दिव्ये, दिव्यान्याभरणानि च । निवस्य ससुहृत् सोऽश्नात्, तदानीतं सुधाशनम् ॥३६२॥ कुमारशासनात् सोऽपि, पुमान् रक्षितजीवितः । भुक्त्वा सेवकवन्नत्र-स्तन्नेदिष्ठं निविष्टवान् ॥ ३६३ ॥ घनसारखण्डसारं ताम्बूलं कुसुमादि च । वितीर्य पुत्रिकाः सर्वाः यथास्वस्तम्भमासते ॥ ३६४ ॥ किमेतदिति भीमेऽथ, नरं पृच्छति विस्मिते । रुचिस्फुरत्तरः कोऽपि, प्रादुरासीत् सुरः पुरः ॥ ३६५ ॥ ऊचे च तव सत्त्वेन, शिष्ट ! तुष्टोऽस्मि सोऽप्यवक् । १ वस्त्रमिव प्र. * नरम् X भीमेन. २ प्रार्थयन्त, प्र. ३ निवेश्य प्र. ४ कर्पूरखं श्रेष्ठम् ५ मासदन्, प्र. ६ मीमोऽपि.
छ
Page #342
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ १४६ ॥
एवं चेद् वद कोऽसि त्वं ?, कोऽयं ? शून्यं च किं पुरम् ? || ३६६ ॥ उज्जगार सुरोऽस्तीदं पुरं हेमपुराह्वयम् । अयं हेमरथोऽत्रत्यो, महीपः श्रीपतिप्रभुः ॥ ३६७॥ पुराऽस्यासीत् पुरोधाश्च द्विजश्चण्ड इति श्रुतः । दौर्जन्यप्रमुखैर्दोषैः कृतद्वेषः || पुरेऽखिले ॥ ३६८ ॥ दौर्जन्यमेकमप्युच्चै - र्दुष्टं क्रोधादिभृत् किमु । एवमेवाशुभं मद्यं किं वाच्यं मृगयादियुक् ॥ ३६९ ॥ द्विष्टः पौरजनोऽन्येद्यु —स्तस्य चण्डस्य भूभुजे । मातङ्गया रंरमीत्येष, इत्यलीकमची (च) कथत् ॥ ३७० ॥ नृपोऽपि कर्ण| दौर्बल्या - दविमृश्यैव तद्वचः । तैलाभ्यक्तरुतेनांगं, वेष्टयित्वा सभान्तरे ॥ ३७१ ॥ शतमपि कोपेन, तं पुरोधसमग्निना। द्रुमवज्वालयामास, द्वेषस्याहो दुरन्तता ॥ ३७२ ॥ युग्मम् ॥ एकस्यापि विरोधः स्यादवश्यं विपदास्पदम् । | सर्वलोकविरोधस्तु, जीवितस्यापि नाशकः ॥ २७३॥ स विपद्याऽशुभध्यानाद्, रक्षः सर्वगिलोऽभवत् । अन्ते यादृग् मतिस्ताहग्, गतिरित्युचितैव गीः ॥ ३७४ ॥ अवधिज्ञानतो ज्ञात्वा स स्वीयं मृत्युकारणम् । कृतान्त इव दुष्प्रेक्षो, रोषादत्र समापतत् ॥ ३७५ ॥ तर्जयित्वाऽतिपरुषं, नर्भस्वानिव वारिदान् । हृत्वा जनान् नभ इव, पुरमेतदशूनयत् ॥ ३७६ ॥ सिंहीभूय स्वयं चैनं नृपं हेमरथं रुषा । लग्नवान् कणशः कर्तु – महो वैरं हि दुर्द्धरम् ॥ ३७७ ॥ पूर्वजेनेव तावत् त्वमस्याकृष्टः प्रकृष्टधीः । ततो मोचितवानेन-मस्तिवीरा हि मेदिनी ॥ ३७८ ॥ अत्र पाञ्चालिकाद्वारा स्वागतादिक्रियां तव । स एवाचीकरत् सर्वा, गुणैर्हि किमु दुर्लभम् १ ॥३७९ ॥ सोऽहं क्रव्यात् पुरस्तात् ते, सोऽयं हेमरथो नृपः। पुरं च तदिदं शून्य - मेतत् तत्त्वं विबुध्यताम् ॥ ३८० ॥ किञ्च त्वदनुवृत्यैव, चक्रे व्यक्तो जनोऽखिलः । मयेन्द्रजालिकेनेव,
१] शब्दे २ वासुदेववत् समर्थः * कर्पासेन. ३ विभंगेन. ४ वायुः ५ पाञ्चालिकीद्वारा, प्र.
सर्ग. ७
॥ १४६ ॥
Page #343
--------------------------------------------------------------------------
________________
,
विलोकय पुरं पुरः १ ॥ ३८९ ॥ विस्मयोत्फुल्लदृग् भीम- स्तदा विष्वग् व्यलोकयत् । पुरन्दरपुरश्रीकैः, पौरैस्तत्पूरितं पुरम् || ३८२ ॥ ऊचे च देव ! स्तुत्यस्त्वं यस्येदृक् सदयं मनः । अपहृत्याखिलान् पौरान् यद् द्रागन्वग्रहीः पुनः ॥ ३८३ ॥ मन्ये महान्त एव स्यु- निग्रहानुग्रहक्षमाः । महीमुत्ताप्य नीरैर्हि, निर्वापयति भानुमान् ॥ ३८४ ॥ देवत्वाय जनो युक्तं, | दुस्तपं तप्यते तपः । यदल्पस्यापि देवस्य, वैभवं भवतीदृशम् ॥ ३८५ ॥ रक्षः प्रति वदत्येवं, भीमेऽथ वनपालकः । नत्वाऽवदद् वनं प्राप्तो, देव ! चारणसाधुराट् ॥ ३८६ ॥ यत्यागमेऽतिहृष्टात्मा, केकीव जलदागमे । मित्ररक्षोनृपान्वितो, | भीमस्तं वन्दितुं ययौ ॥ ३८७॥ पञ्चाङ्गप्रणिपातेन, सानन्दमभिवन्द्य सः । पुरो गुरोरुपाविक्ष-च्छैक्षवद् योजिताञ्जलिः ॥ ३८८ ॥ भक्तिगौरेषु परेषु, निविष्टेष्वपरेष्वपि । क्रोधोद्देशेन स गुरु-रुदगारी दिमां गिरम् ॥ ३८९ ॥ चतुर्ष्वपि कषायेषु, महत्त्वादिव यो धुरि । संसृतित्रतते र्मूलं, हेयः क्रोधः स धीधनैः ॥ ३९० ॥ क्रोधाविष्टोऽतिदुष्टानि कुर्वन् कर्माणि लोकतः । कर्मचंडाल इत्याख्यां, लभते हि महानपि ॥ ३९१ ॥ इहैव तनुते कोपो, वैरं युद्धं विषादिताम् । परत्र तु व्यथास्तीत्रा - स्तैरश्वीर्नारकीरपि ॥ ३९२ ॥ न स्वोत्पत्तिपदं हन्ति, सर्पादिप्रभवं विषम् । अयं तदपि हन्त्येव, ततः क्रोधोऽद्भुतं | विषम् ॥ ३९३ ॥ यद्वा स्वपरदाहित्वाद्, वह्निः क्रोधंसमो मतः । परं पूर्वः क्षणं दाही, यावज्जीवं परः पुनः ॥ ३९४ ॥ कोपं कृत्वाऽपि यः प्रान्ते, क्षमते स सुरैरपि । नमस्यते यथापूर्व - मचकारितभट्टिका ॥ ३९५ ॥ तथाह्यत्रैव भरत-क्षेत्रे मालवमंडनम् । स्वग्र्गश्रियामुज्जयिनी, श्रियाऽस्त्युज्जयिनी पुरी ॥ ३९६ ॥ धार्मिकोऽपि जनो १ संसारवल्लिमूलम् २ धः प्र. ३ खर्गश्रीणाम् उत्-अत्यन्तं जयिनी -जयनशीला.
Page #344
--------------------------------------------------------------------------
________________
।
कुमारपालच०
॥१४७॥
494 SMISLUSASUSASHI KISUUS
यत्र, गुणच्छेदं तनोति न । न चापविद्यामाधत्ते, मार्गणानपि नास्यति ॥३९७॥ तत्राभूद् भूपतिश्चन्द्र-श्चन्द्रवत् सौम्यदर्शनः। भृशं कुवलयोलास-लालसोऽस्ततमस्ततिः ॥ ३९८ ॥ कुमुदममदमैन्द्रः सिन्धुरो नोडुरौजाः, स्फटिकगिरिरगौरः शंकरः प्राप्तशंकः । विधुरतिविधुरश्री स्वस्तटिन्यस्तवेगा, विलसति सति विष्वग्द्रीचि यत्कीर्तिपूरे ॥ ३९९ ॥ (मालिनी) तत्प्रियाऽऽसीत् कुमुदिनी, कौमुदीव प्रमोदिनी । निजोदयेन या चक्रे, कमलोल्लासमद्भुतम् ॥ ४०॥ तस्य भूपस्य सचिवः, शुचिवंशविभूषणम् । उशनेव महीमाप्तः, सुबुद्धिरिति विश्रुतः॥४०१॥ नाम्नाऽर्थेनापि तत्रैव, 'धनप्रवर' इत्यभूत् । श्रेष्ठी बहुगुणश्रेष्ठः, कमलश्रीश्च तत्प्रिया ॥ ४०२॥ तयोः प्राणप्रिया पुत्री, सञ्जाताऽष्टसुताननु । भट्टिकेत्याख्ययाऽऽहूता, सा पितृभ्यां महामहात् ॥ ४०३ ॥ सा गुणकप्रियेतीव, विचार्य निजचेतसि । दूषणैरतोऽत्याजि, भजते को हरिप्रियम् ? ॥ ४०४ ॥ सर्वसौन्दर्यमुच्चित्य, स्रष्टा तां सृष्टवान् ध्रुवम् , भूर्भुवःस्वस्त्रयीस्त्रीषु, सा भव्याऽभूत् | कुतोऽम्यथा ॥ ४०५ ॥ तत्प्रीत्याऽन्येधुरित्यूचे, पितृभ्यां स्वजनोऽखिलः । न चंकारयितव्येयं, नन्दनी क्वापि केन-15 चित् ॥ ४०६॥ चंकारशब्दो न्यक्कारे, श्रुतो देशीयभाषया । ततः सा पप्रथे लोके-प्वचंकारितभट्टिका ॥ ४०७॥ तेन पैतृकमानेन, स्वच्छंदाऽऽसीत् सुरीव सा । अगर्हः परिबर्होऽपि, तस्यां दास इवावृतत् ॥ ४०८ ॥ स्वान्तदर्पणसंक्रान्त-कलावैभवभासुरा । संजीवनौषधं यूनां, सा यौवनमभूषयत् ॥ ४०९॥ ततो देवीव निःशंका, नानाभरणभारिणी । आरामेषु यथाकामं, रेमे सा स्वसखीयुता ॥ ४१०॥ तत्रावमझरिमिक, प्रेक्ष्य तां भूरिविचमाम् । पिका इव
१शुकाचार्यः-शुक्रः. २ नृपयोग्यहस्त्यश्वरथादिपरिच्छदा. ३ बहुविकसनशीलगम्.
SHOCOLAONLOAMROSANCINCRET
॥१४७॥
Page #345
--------------------------------------------------------------------------
________________
पतन्ति स्म, तरुणाः स्मरविह्वलाः ॥ ४११ ॥ प्रार्थयन्त च तत्तांतं, तां सोऽपि प्रत्युवाच तान् । तस्मै ददे सुतामेनां, योsस्या वाक्यं न लंघते ॥ ४१२ ॥ स्त्रीपारवश्यं नो शस्यं, कुलीनानां महीयसाम् । ध्यात्वेति तेऽभवन्नैव तदर्थ पुन| रर्थिनः ॥ ४१३ ॥ तां किलन्तीं वने प्रेक्ष्य, सुबुद्धिः सचिवोऽन्यदा । प्रार्थयामास कामार्त्त - स्तत्तातं तां स्वबन्धुभिः ॥ ४१४ ॥ श्रत्वा तद्वाक्यकर्तृत्वं धनप्रवरवक्कतः । महेन पर्यणैषीत् तां, कमलश्रीसुतामसौ ॥ ४१५ ॥ तस्या देव्या इवादेशं, मौलौ मुकुटयन् सदा । प्रीत्या तां रमयामास, स शिवः पार्वतीमिव ॥ ४१६ ॥ साऽन्यदा स्वप्रियं प्रोचे, स्वामिन्नस्तमिते रवौ । त्वया सवेलमागम्यं, गेहे स्थेयं बहिर्नहि ॥ ४१७ ॥ स तदप्युररीचक्रे, तस्याः प्रीतिप्रवृत्तये । कामिन्याः किं न कुर्वन्ति, यद्वा कामान्धला जनाः १ ॥४१८ ॥ ततः सुबुद्धिराधाय, राजकार्याण्यतिद्रुतम् । सायं सदाऽगमद् गेहूं, स्त्रीवाक्यं कोहि लंघते १ ॥ ४१९ ॥ कदाचिन्नृपतिश्चन्द्रः, पृष्टवान् पारिपार्श्विकान् । कुतः संप्रत्यमात्योऽयं, सवेलं चलते गृहे (हम् ॥ ४२० ॥ पत्नीव्यतिकरे तेन, विज्ञप्ते कौतुकी नृपः । कार्यव्याजादमात्यं त - माँनिशीथमतिष्ठिपत् ॥ ४२१ ॥ अर्द्धरात्रे ततः प्राप्तः, सुबुद्धिर्निजमन्दिरम् । उद्घाव्यतां प्रिये ! द्वार - मिति तारस्वरोऽवदत् ॥ ४२२ ॥ द्वारेऽनुद्घाटिते रोषात् स प्रोचे पत्नि ! मा कुपः । यत् स्वार्थ पार्थिवेनाद्य, स्थापितोऽहमियच्चिरम् ॥ ४२३ ॥ यस्यात्मा स्ववशे नास्ति, विक्रीतो धनकाम्यया । स स्वेच्छया कथं कर्तु, यातायातं प्रगल्भते ? || ४२४ ॥ विक्रीणीते धनलवकृते जीवितं सौख्यहेतोः, स्वातंत्र्यञ्च त्यजति भजति द्वास्थतां मानलब्ध्यै । कीर्त्तिस्फूर्त्यै घटयति चटून्याऽऽनमत्यु
१ तत्तातो गौणं कर्म ततो द्वितीया २ प्रवृद्धये. प्र. ३ अर्द्धशत्रं यावत्.
Page #346
--------------------------------------------------------------------------
________________
कुमार- बतायै, माहात्म्यार्थ तुदति जनतां सेवकस्याऽद्भुता धीः ॥ ४२५ ॥ (मंदाक्रान्ता) तद् भूपसेवकत्वेन, तस्थिवानद्य पालच० 18 यद्यहम् । मम किं ? दूषणं तर्हि, विचारय रुषं त्यज ॥४२६॥ वदत्यपीति प्राणेशे, तत्प्रिया रोषपोषतः । प्रोचे प्रतिवचो3
नैव, द्वारं नाप्युदजीघटत् ॥ ४२७ ॥ ततः खिन्नः प्रियः प्रोचे, घिङझे कामान्धतामिमाम् । ययेगुलोलहक्पाशे, ॥१४८॥
मयाऽऽत्माऽक्षेपि पक्षिवत् ॥ ४२८ ॥ गन्धमूषीव सण, किमियं स्वीकृता मया । नादरीतुं न मोक्तुं च, शक्यते या कथश्चन ॥ ४२९ ॥ ईदृगश्रुतपूर्वतद्, वाक्यं श्रुत्वा प्रियोदितम् । सुबुद्धिपत्नी क्रुद्धोच्चै-रिमुद्घाट्य निर्ययौ ॥४३०॥ अशोकवनिकां श्रित्वा, वंचयित्वा च वल्लभम् । लग्ना पितृगृहं गन्तुं, स्त्रीणां रोषे हि तत्पदम् ॥ ४३१ ॥ अन्तः क्रोधाग्निधूमेन, बहिः सन्तमसेन च । रुद्धाक्षी सा विदामास, नावानं पितृसद्मनः ॥ ४३२॥ यूथभ्रष्टा कुरंगीव, भ्रमन्ती च यतस्ततः। दधे मलिम्लुचैलेक्ष्मी-भ्रान्त्या रूपविभूषणैः॥४३३ ॥ विलपन्त्या मुखे तस्या, न्यस्य पी(पि) ण्डितमम्बरम् । ते ललुर्भूषणश्रेणी, तेषां कर्मेदमादिमम् ॥ ४३४ ॥ ततः पुष्पोल्लसद्वलिं, पल्ली सिंहगुहायाम् । नीत्वा तां ते ददुः पत्ये, विजयायोपदामिव ॥ ४३५ ॥ क्रूरस्वरं कुरूपं च, काकोलमिव वीक्ष्य तम् । सा हंसीव व्यरंसीद् द्राक्, तदर्शनपथादपि ॥४३६॥ तां सुबुद्धिप्रियां मात्रे,दत्त्वा पल्लीश्वरोऽवदत् । प्रबोध्येयं तथा मात-र्यथा स्याद्रमणी मम ॥४३७॥ विजने सा जनन्योचे, वत्से ! त्वत्पुण्यमुल्बणम् । मत्पुत्रो यत त्वयि स्निग्धो, रुक्मिण्यामिव केशवः॥ ४३८ ॥ एकैकेन
॥१४८॥ गुणेनाढ्याः, सन्त्येवात्र जना घनाः । सर्वोत्तमगुणग्राम-ग्रामणीमत्सुतः पुनः॥४३९ ॥ स्वानुरूपं पति कृष्णं, यथा,
१छुछुन्दरी. २ पिण्डाकारकृतं वस्त्रम्. ३ तैर्लळे भूषणश्रेणी, प्र. ४ पल्युः, प्र. ५ द्रोणकाकमिव, शूकरमिय, वा.
Page #347
--------------------------------------------------------------------------
________________
श्रीराश्रयत् पुरा । तथा मत्तनयं मैत्त-नयं त्वमपि संश्रय॥४४०॥ इत्थं कुबुद्धि जननी, प्रोचे तजननी प्रति । विद्धमम्मेव तद्वाक्य-रचंकारितभट्टिका ॥४४१॥ कामान्धत्वेन चेन्मात-स्त्वद्भरित्यभ्यदीधपत् । त्वमभ्यधाः कथं ज्ञात-सत्याचाराजरत्यपि १॥ ४४२ ॥ यः कोऽपि हरतां नाम, विभवं भूषणान्यपि। सतीनां शीलरत्नं तु, हाँ दैवोऽपि न क्षमः ॥४४३॥ शेषाहीशशिरोरत्नं,केसरिस्कन्धकेसरान्। पतिव्रताव्रतं चापि,बलवानपिकोहरेत् ॥४४४ामुक्त्वाऽहं स्वप्रियं नान्य-मनं-18 गमपि संश्रये।अंगीतु किं पुनर्वाच्यः,प्रतीहीत्युत्तरं मम॥४४५॥मातुर्मुखाद् विदित्वा तत्, पल्लीशस्तां दुराशयः।दासीमिव रुषाऽऽक्षिप्य, कसाद्यैर्जनिवान् मुहुः ॥ ४४६ ॥ तेनेति दूयमानाऽपि, सा शीलान्नास्खलत् सती। पक्षिणा कंप्यमानापि, किं शाखा पादपात्पतेत् ॥४४७॥ततोऽतिरुष्टः पल्लीराट्, सार्थवाहस्य कस्यचित् । विक्रीणीते स्म मन्त्रिस्त्री, किमकृत्यं दुरात्मनाम् ॥४४८॥ तेनापि प्रार्थिताऽत्यर्थ, स्त्रीत्वार्थ तदनिच्छती।बहुधा सापराधेव, निष्पत्राक्रियते स्म सा॥४४९॥ सार्थवाहेन है खिन्नेन, पारसकूलमण्डले । स्वर्णैः कम्बलवाणिज्य-कर्तुर्विश्राण्यते स्म सा ॥ ४५० ॥ कदर्यमाना तेनापि, भोगार्थ सचिवप्रिया । निर्वेदाच्चिन्तयामास, रूपवत्ता विडंबिता ॥ ४५१॥ वरं विरूपता स्त्रीणा-मस्खलच्छीलपालिनी । न रूपवत्ताऽनुपदं, शीललीलाविलोपिनी॥ ४५२ ॥ हन्त सत्योऽपि सीताद्या, यद् दुःखं प्रतिपेदिरे। ता अप्येतेन रूपेण, विगिदं| क्लेशनीरधिम् ॥ ४५३ ॥ सत्यस्ता एव कुर्वन्तु, सहाय्यमधुना मम । यामिः प्राणप्रयाणेऽपि, ब्रह्म जिलं न निर्ममे ॥४५४॥
१प्रचंडन्यायम्. २ सव्या. प्र. ३ 'सपत्रनिष्पत्रादतिव्यथने' पा० ५॥६॥ इति डाच् , सपुत्रस्य शरस्यापरपावेन निर्गमनान् निष्पत्रं करोति, अतिव्यथायुक्तानियत इत्यर्थः. ४ मलिनं.
NORRRRRRRR
Page #348
--------------------------------------------------------------------------
________________
कुमार
पालच०
॥ १४९ ॥
ध्यात्वेति सा निरासे तं, यदा कम्बलवाणिजम् । तदा प्राग्भववैरीव, तस्यां द्विष्टोऽजनिष्ट सः ॥ ४५५॥ ततः स शोणितं कृष्ट्वा, तदीयाद् वपुषोऽखिलात् । कम्बलान् रञ्जयामास, कीनाश इव निष्कृपः ॥ ४५६ ॥ पुष्ट्या शोणितकृष्ट्या च, सा बभूव शनैः शनैः । कर्पासर्पूणि केवोच्चै — निःसारा पाण्डुरा कृशा ॥ ४५७ ॥ तथापि शीलं शीलम्सी, निंदन्ती च स्वकोपिताम् । सा तत्रास्थात् कुलस्त्रीणां, व्यसने हि परीक्षणम् ॥ ४५८ ॥
इतश्चज्जयिनीशस्य, दूतस्तत्रान्यदाऽऽगमत् । कृपालुर्धनपालाख्यो, ज्यायांस्तस्याः सहोदरः ॥ ४५९ ॥ तेन व्यालोक्य भनीति, विभाव्य च कथंचन । दत्त्वा यथेप्सितं द्युम्नं, साऽमोचि वणिजस्ततः ॥ ४६० ॥ तत्रार्थकार्यमाचर्य, स्वसारं सारखच्च ताम् । गृहीत्वा स समागच्छ —दुज्जयिन्यां निजालयम् ॥ ४६१ ॥ वत्से ! केयमवस्था ते, निन्द्या वंद्या इवोचकैः । इति पृष्टा सुता माता - पित्राद्यैर्बाष्पवर्षिभिः ॥ ४६२ ॥ रोदयन्ती कठोरान -प्यात्मकोपप्रकोपजाम् । अवस्थामवदत् तेषा -मग्रे सा रुदती भृशम् ॥ ४६३ ॥ कथञ्चिदपि संस्थाप्य रोदनान्निजनन्दनीम् । एवं संबोधयचक्रे, बन्धुभिः प्रेमसिन्धुभिः ॥ ४६४ ॥ ईदृक् कोपस्त्वया चक्रे, वत्से ! निष्कारणः किमु ! | लोष्टवद् येन दुःखाब्धौ त्वदात्माऽयं निवेशितः ॥ ४६५ ॥ क्व सा लक्ष्मीः क्व सा लीला, क्व तद् रूपं क्व तत् सुखम् । वनं वह्निरिवाधाक्षीत्, कोप एवा| खिलं तव ॥ ४६६ ॥ निमित्तेऽपि न कुप्यन्ति, केचित् सन्तः सहिष्णवः । अकुपस्तद् विनाऽपि त्वं, केयं तव विवेकिता ? ||४६७॥ विद्वन्मन्यास्त एव स्यु–स्ते सदा शान्तिवल्लभाः । न जाज्वलीति कोपाग्नि - येषां चेतसि कर्हिचित् ॥ ४६८ ॥ १ तिरक्षके. २ पूर्णिका, प्र. ३ खकोपताम्, प्र. ४ शीलरक्षणात्
सर्ग. ७
॥ १४९ ॥
Page #349
--------------------------------------------------------------------------
________________
ततस्त्वं कोपसंसाप - शान्त्यै पीत्वा शमामृतम् । निर्मान्ती धर्मकर्माणि, स्वगृहे तिष्ठ नन्दिनि । ॥ ४६९ ॥ ततः प्रभृति साध्वीव, निमग्ना शमवारिधौ । जग्राहाभिग्रहमिमं सुबुद्धिसचिवप्रिया ॥ ४७० ॥ अहं सर्वस्वनाशेऽपि, शिरश्छेदेप्यतः परम् । यावज्जीवं करिष्यामि, न रोषं निजशोषवत् ॥ ४७१ ॥ तत्पित्राऽथ तदीयांग - व्रणरोहणहेतवे । लक्षपाकस्य तैलस्य, व्यधाप्यन्त घटास्त्रयः ॥ ४७२ ॥ तस्या वेश्मनि तत् तैलं, लातुं जातुरुजातुरौ । कौचिन्मुनी समायातां, धर्माशाविव देहिनी ॥ ४७३ ॥ तदा चावधिना पश्यन्, भरतक्षेत्रमञ्जसा । सुरेन्द्रः पर्षदन्तःस्थोऽ-वदद् वृन्दारकानिति ॥ ४७४ ॥ पराजिग्ये तथा कोप-मचंकारितभट्टिका । यथा कोपयितुं नैतां, प्रगल्भन्ते सुरा अपि ॥ ४७५ ॥ अश्रद्धालुस्तदिन्द्रोक्तं, तां परीक्षितुमुत्सुकः । देवस्तत्सद्म कोऽप्यागात्, कौतुकी नालसो यतः || ४७६ ॥ तदैव याचिते तैले, मुनिभ्यां सा महाशया । स्वदास्याऽऽनाययामास, तैलकुंभं गृहान्तरात् ॥ ४७७ ॥ तत्कोपाय सुरो दास्या, तं कुम्भं पथ्यभंजयत् । तद्भंगे सा पुनर्द्वैती - यीकमानाययत् तथा ॥ ४७८ ॥ तत्रापि भने देवेन, शान्ताऽमात्यप्रिया स्वयम् । तृतीयं घटमानीय, प्रतिनोस्तैलमार्पयत् ॥ ४७९ ॥ तदाऽवादि प्रतिभ्यां साऽस्मदर्थं महती तव । तैलहानिरभूद् दास्यै, न कोद्धव्यं ततस्त्वया ॥ ४८० ॥ स्मित्वा साऽभिदधे साधू !, प्राप्ता कोपतरोः फलम् । तथाऽहं न यथा मूर्द्ध-च्छेदेऽपि | विदधामि तम् ॥ ४८१ ॥ कथमित्युदिते ताभ्यां मन्त्रिपली स्वकोपतः । यथाऽनुभूतं तद् दुःखं, सर्वमप्यादितोऽवदत् ॥ ४८२ ॥ तादृक्षां तत्क्षमां वीक्ष्य, विस्मेरः स सुरः पुरः । भूत्वा नत्वा भणित्वा च स्ववृत्तमिदमूचिवान् ॥ ४८३ ॥ १ निजक्षयवत् २ जातुचिदातुरो, प्र..
Page #350
--------------------------------------------------------------------------
________________
सर्ग.
कुमार
जीवितव्यं तवैवाह, धन्यं मन्ये पतिव्रते! । यस्या वास्तोष्पतिः स्तौति, क्षान्ति पर्षदि हर्षलः ॥४८४॥ क्षमायां मुनिरेवापालच. सी-दुपमानमियच्चिरम् । इदानीं वर्तसे त्वंतु, भाग्यं लोकोत्तरं तव ॥ ४८५ ॥ इति स्तुत्वा च दृष्ट्वा च, कोटी दश
काश्चनीः । देवो ययौ निजं स्थानं, तत्कीर्तिमुखराननः॥४८६ ॥ श्रुत्वा कथामिमां भव्याः!, कोपेऽपि प्रशमेऽपि च । ॥१५॥
| त्यक्त्वाऽनर्थमयं कोपं, श्रेयः श्रेयस्करः शमः॥४८७॥ देशनाऽन्ते प्रबुद्धाऽऽत्मा, रक्षः सर्वगिलोऽवदत् । मया हेमरथेमोचि, कोपस्त्वद्वचनात् प्रभो!॥४८८ ॥ तदा तत्रोर्जितं गर्जन, कोऽपि पर्जन्यवद् गजः । धारालमदनीरोघे-रुक्षितक्षितिरापतत् ॥४८९ ॥ तदर्शनात् सभाक्षोभ, प्रेक्ष्य भीमोऽतिनिर्भयः। गजशिक्षाऽतिदक्षत्वात्, सांत्वयामास तं गजम् ॥ ४९० ॥ विस्मापयन् सभास्तारान, देहदीप्त्यांऽशुानिव । स यक्षीभूय मातङ्ग-स्तुंगरंगोऽनमन्मुनिम् ॥४९१॥ ज्ञानात् तं मुनिराह स्म, पौत्रं हेमरथं नृपम् । व्यसने पतितं मत्वा, त्रातुं त्वं भीममानय(:) ॥४९२॥ अधुना त्वं पुन|भीम, तातोपान्तं निनीषसे ? । एवमेवैतदित्युक्त्वा, चख्यौ यक्षो मुनि प्रति ॥ ४९३ ॥ प्राच्यजन्मनि नेप्ताऽयं, मम हेमरथो मुने! । अरक्षि राक्षसादस्माद्, भीममानीय तन्मया ॥४९॥ किश्च सम्यक्त्वतत्त्वस्य, प्राक् किंचिदतिचारतः। | नाकनाथर्द्धियोग्योऽपि, जज्ञेऽहं व्यन्तरो ह हा ॥४९५॥ तत् प्रसद्य पुनर्देहि, विधेहि करुणां मयि । इति प्रीतेन यक्षेण, चारणर्षिरयाच्यत॥४९॥ तस्य हेमरथस्यापि, सर्वस्वमिव निर्वतेस सम्यक्त्वं समारोप्य, तन्माहात्म्यमिदं जगौ ॥४९७॥
१ इन्द्रः. २ सिंचितक्षितिः. ३ अर्थिप्रत्यर्थिनी सभ्यान्, लेखकप्रेक्षकांश्च यः । धर्मवाक्यै रंजवति, स सभास्तारतामियात् ॥१॥ मुख्यसभासद्. P४ सूर्यः. ५ पौत्रः, ६ सम्यक्त्वम्. ७ यक्षस्य.
CAR ICCESSECOACCE
GOESSESSACRECSCAMSASESS
॥१५
॥
Page #351
--------------------------------------------------------------------------
________________
तिर्यगनारकभावदावदहनो मर्त्ययुलोकोद्भव-द्वारोद्घाटनकुञ्चिका पृथुभवाकूपारयानं महत् । पुण्यांभोरुहभास्करस्त्रिभुवनश्रीलब्धिदिव्यौषधं । मुक्त्याऽऽकृष्टिनवांकुटी विजयते सम्यक्त्वमेकं नृणाम् ॥ ४९८ ॥ (शार्दलविक्रीडितम् ) कापालिकादिसंसर्गात्, सम्यक्त्वं दूषितं मनाक । मत्वा भीमोऽपि जग्राह, मुनेरालोचनां तदा ॥४२९॥ ततः सर्वेऽपि ते धन्यं-मन्या नत्वा मुनीश्वरम् । पुनर्हेमरथक्षोणी-नाथावसथमाययुः॥५०॥ अथो हेमरथो नत्वा, भीमं प्रत्याह साहसिन् ! | सातस्येव प्रसादात् ते, मयाऽलम्भि पुनर्जनिः॥५०१॥ तस्या जनेयत् सुभगं करणं दुर्लभं भृशम् । त्वत्प्रसंगात् तदप्यापि, सम्यक्त्वं तात्त्विकं मया ॥५०२॥ निष्कारणोपकारेण, भानुनेव त्वयाऽधुना । ध्वान्तादिव जनोऽत्युग्राद् , रक्षितो राक्षसादहम् ॥५०३॥ सतां स्वभाव एवायं, या परोपकृतेः कृतिः । नुन्ना हि केन तम्वन्ति, जगदुजीवनं घनाः॥५०४ ॥ प्राणदातुर्न संपश्यन् , काश्चन प्रत्युपक्रियाम् । ततोऽहं त्वद्गुणकीतोऽ-मुदाऽऽसे दासवत् तव ॥५०५॥ भीमस्तमूचे तुष्टोऽस्मि, विनयेनैव तेऽमुना । तत् त्वं प्रत्युपकारस्य, संकोचं मा कृथाः कृतिन् !॥५०६॥ किंच चेन्मत्कृतं किंचित् , तव चित्ते तदा त्वया । जैने धर्मेऽनिशं यत्यं, नात्मनीनोऽस्त्यतः परः ॥५०७॥ ऊचे हेमरथो देव!, यद्येवं तर्हि मां नवम् । श्राद्धं धर्मे स्थिरीकर्त, प्रतीक्षस्व कियच्चिरम् ॥ ५०८ ॥ तयोरालपतोरित्थं, घनैर्ड मरुकवनैः । उत्कर्णितजनैावा-पृथिव्यौ पूरयन्त्यलम् ॥५०९॥ विविधायुधपत्राव्य-विंशत्या स्वैर्महाभुजैः । स्फुटयन्ती विटपितां, विहायोधरणीरुहः॥५१०॥ सिद्धविद्यतया चंर्ड-रोचिषेवोस्रोचिषा । कापालिकेन सध्रीची, तत्रा१ उद्धवः-जन्म ( गतिः ). २भवसथं-गृहम्. ३क्रिया-प्रयत्नः. ४तत्र चित्ते सदा त्वया, प्र. * श्रादे, प्र. ५आकाशरूपवृक्षस्य वृक्षतां प्रकटयन्ती. ६ सूर्येण. असाहता.
कृ.पा.च.२६
Page #352
--------------------------------------------------------------------------
________________
सर्ग. ७
कुमारपालच.
॥१५१॥
kotoranty
खंडिनः । सा चकानिःसीमेन रमामपि ॥ ५१८ ॥ दशकले सभ्य-लोके तत्पारिषदा यक्षिणी कमलाख्या
गात कालिकासुरी ॥५११॥ त्रिमिर्विशेषकम् ॥ भीमं नत्वेत्यवादीच्च, स्वस्थाशय ! निजेच्छया । भ्रमन्ती व्योम निःसीम, त्वत्परस्योपरिस्थिता ॥ ५१२॥ तत्र त्वदभिधागौ-स्त्वन्मातापितृपौरजान् । श्रुत्वा प्रलापानत्तीर्य, व्योम्नस्तान समबोधयम ॥ ५१३ ॥ व्यहेन ते महीनाथ 1, पुत्रमत्र समानये । प्रतिश्रुत्येति च क्षिप्रं, प्राप्ताऽस्मि भवदन्तिकम् ॥११४॥ तदत्तिष्ठ महिष्ठ ! त्वं, स्वविलोकनवारिभिः। समुज्जीवय पित्रादीन, वियोगाग्निझलकितान् ॥५१५॥ श्रुत्वेति हृषितो। यावत्, कुमारः स प्रतिष्ठते । तावद् व्योम्नि विमानाली-प्रादुरासीदसीमरुक् ॥५१६॥ नर्तयन्ती स्फुरद्वाद्यस्वनैर्वनशिखंडिनः । सा चकार सभास्तारान् , व्योमाभिसृमरेक्षणान् ॥ ५१७ ॥ तन्मध्ये कान्तिपूरेण, यां लिप्तामिव तन्वती हेपयन्ती स्वरूपेण, निःसीमेन रमामपि ॥ ५१८ ॥ दर्शयन्तीव वक्रेण, दिवाऽप्युन्निद्रचन्द्रताम् । पर्षददृक्पथपान्थत्वं, देवी काचिदपप्रथत् ॥ ५१९ ॥ युग्मम् ॥ केयमित्याकुले सभ्य-लोके तत्पारिपार्श्विकाः। सुरा विमानतोऽभेत्य, भीमं नत्वा व्यजिज्ञपन् ॥ ५२०॥ देवाऽस्मत्स्वामिनी नाना-विमानस्थपरिच्छदा । यक्षिणी कमलाख्या त्वां, नंतुमेत्यवधारय ॥ ५२१॥ तेषु विज्ञपयत्स्वेव, द्रागुत्तीर्य विमानतः। यक्षिणी प्राणमद् भीम, विस्मायितसदाः श्रिया ॥५२२॥ निविष्टाऽऽचष्ट च व्युष्टे, पृष्टवत्यस्मि तान् मुनीन् । व कुमारोऽधुनाऽस्तीति, परंते नोत्तरं ददुः॥५२३॥ ततस्त्वामिह विज्ञाय, ज्ञानेन प्रस्थिता द्रुतम् । मार्गे कियान् विलंबोऽभूत् , संप्रत्यस्मि समेयुषी ॥ ५२४ ॥ अथ हेमरथं कृच्छ्रा-दनुज्ञाप्य नृपांगजः । समित्रोऽपि समारोहद्, विमाने यक्षनिर्मिते ॥ ५२५ ॥ विमानस्थैः समस्तैस्तै-यक्षायैः
१ विस्मापितसदा, प्र. २ प्रभाते.
॥१५१॥
Page #353
--------------------------------------------------------------------------
________________
सहितस्ततः । व्योम्ना प्रस्थितवान् भीम-स्त्रिदिवादिव देवराट् ॥ ५२६ ॥ संचरद्भिर्विमानस्तै-ज्योतिर्मण्डलमंडितैः।। तदा लोको व्यलोकिष्ट, शतसूर्यमिवांबरम् ॥५२७॥ गगने ब्रजतस्तस्य, भीमस्य पुरतोऽद्भुतम् । व्यदीधपत् स्वदेवीभियक्षिणी प्रेक्षणक्षणम् ॥ ५२८ ॥ तेन नाव्यविनोदेन, विहाय संचरिष्णवः । उत्ताला अपि सिद्धाद्याः, स्थिरतामभजन क्षणम् ॥ ५२९ ॥ एवं व्योम समुल्लंघ्य, हरिवाहनभूपभूः। अध्यष्ठात् स्वपुरासन्नो-द्यानप्रासादसन्निधिम् ॥ ५३०॥ तत्रार्चित्वा जिनेंद्रार्चा, स यक्षिण्याऽतिहृष्टया । कारयामासिवान् स्फीत, संगीतं सुरनाथवत् ॥५३१॥ संगीतध्वनि
माकर्ण्य, पृष्टवान् हरिवाहनः। मंत्रिन् ! कौतस्कुतोऽयं मे, कैर्णजाहं विर्गाहते ॥५३२॥ तदैवारामिको नत्वाऽजवदद् देव ! सुतस्तव । विमानमंडितक्षोणिः, संप्रत्युद्यानमासदत् ॥ ५३३ ॥ तच्चैत्ये कार्यमाणस्य, तेन नाव्यस्य सर्वतः ।।
ध्वानोऽयं प्रंसरीसर्ति, त्वां सुतं ज्ञापयन्निव ॥ ५३४ ॥ तं सत्कृत्य प्रमोदेन, सोऽन्तङ्गममानिव । सांतःपुरः सपौरश्च, निर्गतः सुतसन्मुखम् ॥५३५ ॥ निशम्य तातमायांतं, यक्षेण द्राग् व्यचीकरत् । भीमस्तुरंगमातंग-रथपत्त्याकुलं बलम् ॥५३६॥ दृष्ट्वा च तातं तत्पाद-पद्मन्यस्तशिरोऽम्बुजः। श्रियं पद्मो+पद्मस्थां, तन्वन् पुत्रः प्रणेमिवान् ॥५३७॥ पिताऽपि तं समुत्थाप्य, क्षिपन्निव हृदंतरे । परिरभ्य भृशं मूर्ति, चुंबति स्म मुहर्मुहुः ॥५३८॥ पुत्रालोकोच्छलत्स्तन्यउछलात् प्रीतिरसं हृदि । दर्शयंतीमिव निजां, भीमो मातरमानमत् ॥५३९॥ स्वेशमीमपितृत्वेन, यक्षाद्यास्तन्निवेदिताः।
१ नाटकोत्सवम्. २ विहायः-आकाशम्. ३ त्वरायुक्ताः, ४ अचा-मूर्तिम्. ५ कर्णमूलम्. ६ आसज्जते-प्रविशतीत्यर्थः. ७ अत्यन्तं प्रसरति. ८ शोभा पक्षे लक्ष्मीम्. ९ आलिंग्य.
Page #354
--------------------------------------------------------------------------
________________
कुमार
पालच.
॥१५२॥
प्रणेमिवांसस्तं भूपं, संतो ह्यौचित्यवेदिनः ॥५४० ॥ उपायनपरान् पौरान , वियोगग्रीष्मतापितान् । प्रियालापसुधासारैः, स स्वयं सिक्तवान् मुहुः ॥ ५४१॥ ततो व्योम विमानौधैः, सैन्यभूमि चे भूषयन् । प्रौढं करींद्रमारूढः, श्रिया शक इवापरः ॥ ५४२ ॥ स्फूर्जत्तूर्यरवाहूत-पौरपौरीशतस्तुतः । विश्रॉण्यमानस्वर्णाश्च(श्च), श्रीपतीकृतमार्गणः ॥५४३ ॥ विलोकयन् पताकाभि-निपीतार्ककरं पुरम् । जनकेन समं भीमो, निजावासं समासदत् ॥ ५४४ ॥ त्रिमिविशेषकम् ॥ श्रुत्वा यक्षादितश्चित्रं, चरित्रं पुत्रकर्तृकम् । तदैव मुदितो भूप-स्तं स्वराज्ये न्यवीविशत् ॥ ५४५ ॥ स्वयं च संयमोहाम-सैम्येन स्ववशीकृतम् । मुक्तिराज्यमलंचक्रे, शाश्वतश्रीविभूषितम् ॥ ५४६ ॥ मतिसागरमाधाय, मंत्रिणं मतिवाक्पतिम् । तान् विसृज्य च यक्षादीन , भीमो राज्यमपालयत् ॥५४७॥ सांयुगीनं धनुर्बिन-लीलयैव स भूपतिः। संपराये पराजिग्ये, परान् दैत्यानिवाच्युतः॥५४८ ॥ चतुरंगाऽपि सेनाऽऽसीत , तस्याडंबरहेतवे । भूचकंतु वशीचक्रे, स स्वस्थानव केवलम् ॥ ५४९ ॥ तद्राज्ये नैव दुर्भिक्षं, नेतयो नाप्यनीतयः। न चौर्य न परद्रोहो, नासूया जातु जज्ञिरे ॥ ५५ ॥ प्राच्यपुण्यफलं राज्यं, मत्वा तत्त्वाहतस्थितिः। तदेवाराधयद् धात्री-धवः सत्कृत्यसेवनात् ॥ ५५१॥ धारयन् हदि सम्यक्त्वं, चारयन् सुकृते प्रजाः। प्रभावयन् मतं जैन, चिरं भीमोऽन्वशान्महीम् ॥ ५५२ ॥
उपहारतत्परान्. २ वि-प्र.३ वाद्यमान ४ दीयमानकनकः, ५ अश्रीपतयः । निर्धनाः ) श्रीपतयः कृताः-श्रीपतीकृताः श्रीपतीकृताः मार्गणा |-याचका येन सः. संग्रामकुशलम्. ७ युद्धे, ८ विष्णुः भतिवृष्टिरनावृष्टिः, शलभा मूषिकाः खगाः । प्रत्यासमाच राजानः, पता ईतयः स्मृताः॥ (खचक्रं परचक्र च, सप्तता ईतयः स्मृताः,प्र.) इत्युक्ताः कृषरुपद्रवाः । १० अन्यायाः. ११ गुणेषु दोषारोपणम्. १२ पुण्यमेव.
॥१५२॥
Page #355
--------------------------------------------------------------------------
________________
वृद्धत्वे विनिशम्य सद्गुरुगिरं निर्वेदमेदस्करी, राज्ये स्वं विनिवेश्य पुत्रमुदयच्चित्रं चरित्रः परैः । प्रव्रज्या प्रतिपद्य दुस्तपतपस्तापास्तपंकोत्करः, नित्वा केवलमुज्ज्वलं स भगवान् मीमोऽभ्यगानिवृतिम् ॥ ५५३ ॥ (शार्दूलविक्रीडितम्) |
एवं धर्मामृतं वृष्टा, गुरौ घन इव स्थिते । हृष्टः केकीव चौलुक्य-भूधवो मधुरं जगी ॥ ५५४ ॥ प्रभो! मिथ्यात्वधत्तुरा-स्वादधांततया मया । लेष्टुहेमेव बुद्ध प्रा-तत्त्वमपि तत्त्ववत् ॥ ५५५ ॥ अधुना तु भवद्वाणी-सुधापानगतभ्रमः । धर्मादितत्त्वं निःशेष, जानानोऽस्मि यथास्थितम् ॥ ५५६ ॥ अज्ञानपटलं दूरी-कृत्य बोधशलाकया सस ज्ञानमयं नेत्रं, त्वयैव प्रकटीकृतम् ॥ ५५७ ॥ तर्जितानल्पकल्पद्रु-चिंतारतादिवैभवम् । प्रसध भगवञ् ! श्राद्ध-धर्म मयि निवेशय ॥५५८॥ ततः स्फुरति सल्लग्ने, स्वच्छंदे च महोत्सवे । संघं चतुर्विध साक्षी-कृत्य सत्कृत्यराशिवत् ॥५५९॥ विश्वेश्वर्यमिव श्राद्ध-धर्म सम्यक्त्वभूषितम् । न्यास्थाचौलुक्यभूपाले, विधिना हेमसूरिराट् ॥५६॥
युग्मम् ॥ धर्मलक्ष्मी पुरस्कृत्य, वधू वर इवारुचत् । भ्राम्यन् समवसरणं, पावकं परितो नृपः॥५६१ ॥ चौलुक्ये साधनिक्षिप्तः, क्षोः श्रीखंडजैस्ततः । अकालेऽपि तदा लेमे, क्रीडा वासंतिकी जनैः॥ ५६२॥ अक्षता रेजिरे शुद्धाः, संघक्षिषा नृपं प्रति । रक्तपुण्यरमामुक्काः , कटाक्षा इव लक्षशः॥ ५६३ ॥ नृपः प्राप्याईतं धर्म-मत्रापि परमां मुदम् ।। पुरोभाविमहानंद-वर्णिकामिव लब्धवान् ॥ ५६४ ॥ तदा दयोन्ममादेव, ववव विवेकिता। दानशीलतपोभावा,
१ खच्छं देवमहोत्सबे, प्र. अशुभत्. २ पवित्रकारकम्, पझे वहिम्, ३ रका-आसता. ४ मोक्षमणिका ( मोक्षनीवानकी) ५ मद-नरें.
Page #356
--------------------------------------------------------------------------
________________
कुमार
दविलेसुरिव सर्वतः॥ ५६५॥ वर्णयन् भाग्यदाक्ष्यादीन् , गुणान् गूर्जरभूभुजः। तदीयस्तुतिवाचालो, महानपि न को पालच० जनि? ॥ ५६६ ॥ आरोपितस्य धर्मस्य, रक्षणे यामिकीमिव । अनुशिष्टिमिमामूचे, हेमाचार्यो नृपं प्रति ॥ ५६७॥ ॥१५ ॥
- कोशाद् विश्वपतेर्विकृष्य गुरुणा प्राणावनादिव्रत-स्फूर्जन्मौक्तिकदाम विस्तृतगुंणं सम्यक्त्वसन्नायकम् । तुभ्यं दत्ततिमिदं महीधव ! वहन् हृद्यन्वहं जीववत्, त्वं सौभाग्यभरेणं मुक्तियुवतेर्भावी प्रियंभावुकः ॥५६८॥ (शार्दूल.)
तदा संघात् स 'धर्मात्मा,' 'राजर्षि 'रिति चापरम् । नामद्वयं सुदुष्पापं, प्रसादमिव लब्धवान् ॥ ५६९ ॥ ततोऽन्या देव४ तास्त्यक्त्वा, हृदये सदनेऽपि च । आहतीः प्रतिमा न्यास्थ-नृपः सगुरुपादुकाः॥ ५७० ॥ त्रिकालमर्चयित्वा ताः, त कर्पूरकुसुमादिभिः । स खं सुरभयामास, सुकृतामोदसंपदा ॥ ५७१ ॥ नृपोऽष्टम्यादिघनेषु, पूजयाऽष्टप्रकारया ।
पूजयित्वा जिनानष्ट-कर्मी निर्मितवाञ् श्लथाम् ॥ ५७२ ॥ द्वादशव्रतसम्यक्त्व-ज्ञानादीनां नरेश्वरः । ज्ञात्वाड|धिद्विक्षमा(१२४)माना-नतीचारान्यवर्जयत् ॥ ५७३ ॥ किंचिद् गुरुमुखांभोजात्, किंचिद् वाग्भटमंत्रिणः ।
शृण्वानो ज्ञातवान् सर्व, श्राद्धाचारं स चारुधीः॥ ५७४ ॥ एवं सम्यकपरिज्ञात-धर्मश्चौलुक्यभूधवः । दयां तेत्साधनी |विष्वक्, प्रवर्तयितुमेहंत ॥ ५७५ ॥ ततश्चतुषु वर्णेषु, स्वस्य चान्यस्य हेतवे । हंता यः कोऽपि पापीयाञ्, जीवांश्छाग-18 मृगादिकान् ॥ ५७६ ॥ स राद्रोहीत्थमुद्घोष्य, पटहं पत्तने नृपः । अमारिं कारयामास, जीवातुमिव देहिनाम् ॥५७७॥18॥१५॥
१ सर्वदा, प्र. २ तीर्थकर स्प. ३ दवरकम्, पक्षे गुणवतसमूह शिक्षावतसहितम्. ४ मध्यमणियुक्त, पक्षे, मूलयुक्कं. ५ दाम. ६ गुणेन, प्र. ७ अप्रियः प्रियो | भवतीति, ८ अमु-क्षेपणे लुटिरूपम्. ९ धर्मसाधनीम्. १० ऐहित, प्र.
tortorotortarten
Page #357
--------------------------------------------------------------------------
________________
A
यम्ममा व्याधशौनिककैवर्त-कल्पपालादिपट्टकान् । पाटयित्वा स तेभ्योऽपि, करुणां प्रत्यपालयत् ॥ ५७८॥ यथाऽऽक्षिकेषु सत्या वाग, यथा दुष्टेषु शिष्टता । तथाऽऽसीच्छौनिकायेषु, विस्मयाय दया तदा ॥५७९॥ वात्सकाssजकगव्याध-मपि नागलितं जलम् । पाययामासिवान् कोऽपि, चौलुक्यनृपशासनात् ॥५८०॥ ततः स्वदेशे स्ववशमहीशविषयेष्वपि । प्रजिघाय निजानातान , मार वारयितुं नृपः॥५८१॥ सुराष्ट्रपाटरीस्तंभ-तीर्थवार्धितटादिषु । लाटमालवकामीर-मेदपाटमरुष्वपि ॥ ५८२॥ सपादलक्षदेशेऽपि, शक्तिभक्तिधनादिभिः। ते मारिं वारयामासुः, पापयाधिमिवाभितः॥ ५८३ ॥ युग्मम् ॥
घोदीन्यपि हिंसायाः, कारणानीति भूपतिः । पटहोद्घोषणापूर्व, निषिध्य निखिले जने ॥५८४ ॥ मृन्मयानि नुरू पाणि, मषीश्याममुखानि च । आरोप्य तानि सप्तापि, व्यसनान्यघिरासभम् ॥५८५ ॥ भ्रमयित्वा प्रतिपथ, हन्यमानानि यष्टिमिः। पत्तनान्निजदेशाच्च, सर्वथा निरवासयत् ॥ ५८६ ॥ त्रिभिर्विशेषकम् ॥ ततश्चौलुक्यभूमीभुग, विष्वक् प्रैषीनिजांश्चरान् । जंतून हिनस्ति किं कोऽपि, न वेत्थमवलोकितुम् ॥ ५८७ ॥ बंधम्यमाणास्तेऽजन, प्रेक्षमाणाश्च हिंसकान् । सपादलक्षदेशीयं, कंचिद्ग्राममुपागमन् ॥५८८॥ माहेश्वरो वणिक् तत्र, वेणीविवरणे तदा । तच्छीर्षात् प्रियया दत्तां, यूकामेकां न्यपातयत् ॥ ५८९ ॥ लक्षयित्वाऽतिदाक्ष्येण, दूरस्थैरपि तच्चरैः । दः स चौरवत् सार्ध, तया व्यापन्न
१ व्याधो-वने मृगहिंसकः शौनिको-मांसविक्रेता(कसाइ) कैवर्तो-धीवरः( माछी) कल्पपालो-मदिराविक्रेता (कलाल), २ यूतकर्तृषु ३ वत्सानां ता(वाछरडांनो) समूहः वात्सकम् एवम् आजकं गव्यं च. ४ व्याप्ति०, प्र. ५ यूतादीनपि, प्र, प्रेक्ष्य०, प्र. ७ तन्नामा महेश्वरभक्को वा, ८ व्य.,प्र,
CCORRECASSACROS
Page #358
--------------------------------------------------------------------------
________________
कुमारपालच.
॥१५४॥
यूकया ॥ ५९॥ ततः स पत्तनं नीत-स्तथैव पृथिवीभुजा । ज्ञाततदुष्टचेष्टेन, बभाषे परुषाक्षरम् ॥५९१॥ विज्ञायापि मया विष्वग्, निषिद्धं प्राणिनां वधम् । रेरे निःशूक! यूकेयं, हन्यते स्म त्वया कुतः ॥५९२॥सोऽवदत् स्वामिवन्मू
-मध्ये मार्ग विधाय मे । कौणपीव पिबत्येषा, रक्कं व्यापादिता ततः॥५९३॥जगौ स्वामीयमेवास्याः,स्थितिस्तां तन्वती यदि । घात्येयं तर्हि सर्वेऽपि, घात्याः स्वस्वस्थितिस्थिताः॥५९४॥ पशुप्रायश्च कस्त्वं रे, नृपचक्रधरेष्वपि । एवं दुश्चेष्टते यूका, स्ववृत्तिः खलु दुस्त्यजा ॥ ५९५ ॥ पीडामात्रं वितन्वाना, त्वयेयं निहता यदि । प्राणानपि हरन्नस्याः, कथं त्वं नैव हन्यसे । ॥५९६ ॥ जानन् स्वस्येव सर्वस्य, सुखदुःखं, हिताहितम् । प्राणप्रमापणाद् दुःखं, परस्य कुरुषे कथम् ? ॥५९७॥ कल्मषाद् यदि नाभैषी-यूकां मनन् विनिघृण ! । मेत्तस्त्वं किं न मत्तोऽपि, हिंसकैकविनाशकात् ॥ ५९८ ॥राज्ञामाज्ञाबिलोपो हि, विना शस्त्रं वधः स्मृतः। तत्कुर्वाणोऽधुनाऽभूस्त्वं, हंत हंतव्यमध्यगः ॥ ५९९ ॥ परं यूकाकृतेऽप्येवं, कुप्यंस्त्वां घातये कथम् ? । तेन सर्वस्वदंडेन, त्वां निगृह्णामि दुष्टवत् ॥६००॥ ततस्त्वं गृहसर्वस्वं, व्ययीकृत्यात्र पत्तने । कारयस्व रयात् तस्याः, श्रेयसे चैत्यमुत्तमम् ॥६०१॥ यथैतवृत्तमाकर्ण्य, यूकाचैत्यं विलोक्य च । निर्दयोऽपि न कोऽप्यन्यो, हन्यात् त्वद्वद् वपुष्मतः॥ ६०२॥ इत्यादिष्टो नरेंद्रेण, स व्ययित्वा धनं धनम् । पत्तनेऽकारयद् यूका|विहारं हारवद् भुवः॥ ६०३ ॥ एवं चरत्सु चौलुक्य-चरेषु काऽपि जंतवः । न निश्यपि न गेहेऽपि, नै केनापि निपा तिताः॥६०४॥ ततो यथा जिनेंद्रस्य, तीर्थे ववृधिरे नराः। तथा चौलुक्यराज्येऽपि, जलस्थलखचारिणः ॥६०५॥
१ राक्षसीव, २ मुखं दुःखं, प्र, ३ प्राणनाशनात् ४ पापात् . ५ महोन्मत्तः ६ मत्सकाशात् देहिनो-जीवामित्यर्थः, “ दिवसेऽपि बहिरपि.
॥१५४॥
Page #359
--------------------------------------------------------------------------
________________
व्याधान् वीक्ष्य विहारिणः शिशुमृगाः स्वोक्त्या पितॄनूचिरे, यामः सांद्रलतांतरेष्विह न चेदेते हनिष्यंति नः । ते तान् प्रत्यवदन् बिभीत किमितो ? वत्साः ! सुखं तिष्ठत, श्रीचौलुक्यभिया निरीक्षितुमपि प्रौढा न युष्मानमी ॥ ६०६ ॥ ( शार्दूल०) अमारिकरणं तस्य वर्ण्यते किमतः परम् । द्यूतेऽपि कोऽपि यन्नोचे, मारिरित्यक्षरद्वयम् ॥ ६०७॥ नवरात्रेष्वथाऽऽप्तेषु, निस्त्रिंशा | देवताऽर्चकाः । गुरोः पुरस्थं चौलुक्य - भूपमेवं व्यजिज्ञपन् ॥ ६०८ ॥ संति कंटेश्वरी मुख्या, देवतास्तव गोत्रजाः । तासां पूजाकृते राजन् ! सप्तम्यादिदिनत्रये ॥ ६०९ ॥ अजाः शतानि सप्ताष्ट, नव सैरभेका अपि । सप्ताष्टनवसंख्याका, | वितीर्यन्तेऽनुवत्सरम् ॥ ६१० ॥ युग्मम् ॥ वितीर्यन्ताममी सर्वे, पूज्यंते देवता यथा । नो चेत् क्रोत्स्यंति ता विघ्नं करिष्यंति च तत्क्षणम् ॥ ६११ ॥ महीपतिस्तदाकर्ण्य, कर्णाभ्यर्णमुपेत्य च । अधुना किं करोमीति ?, पृष्टवान् गुरुकुंजरम् ॥ ६१२ ॥ किंचिद् ध्यात्वाऽवदत् सूरि-र्न जंतून नंति देवताः । न मांसमपि चानंति, जिनवाणीप्रमाणतः ॥ ६१३ ॥ किंतु केलिकिलत्वेन, मार्यमाणान् पशून् पुरः । दृष्ट्वा काश्चन तुष्यंति, शाकिन्य इव निष्कृपाः ॥ ६१४ ॥ एते देव्यचका एव, देवीपूजनकैतवात् । हत्वा जंतून स्वदंते हा, स्वार्थायेयं तदर्थना ॥ ६१५ ॥ ततः ससैरभांश्छागान्, देयान् क्षिप्त्वा सुरीमठे । तालयित्वा च तद्द्वारं, रक्षयेथाः स्वमानुषैः ॥ ६१६ ॥ जीवंत एव स्थास्यति, निशि ते पशवोऽखिलाः । प्रातस्तद्विकयाद् भोगं, देवतानां विधापयेः ॥ ६१७ ॥ ' जननीमिव जीवानां,' श्रुत्वा तां गौरव गिरम् । सर्व पूर्वोक्तयुक्त्वा तनरेंद्र निरवीवृतत् ॥ ६१८ ॥ भ्रतानिव प्रभातेऽति-— कूर्दमानान् विलोक्य तान् । देवीशुश्रूषकानेवं, राजर्षिर्निजगाद
१ भयात् प्र.२ महिषाः, ३ क्रुध् क्रोधे लद. ४ केलिना -कीडया किळति - क्रीडतीति केलिकिलः - परिहास कारकस्तस्य भावस्तेन. ५ अचीकरत्. ६ श्रुतानेव, प्र.
Page #360
--------------------------------------------------------------------------
________________
कुमारपालच० ॥ १५५ ॥
गाः ॥ ६१९ ॥ रेरे दुष्टा ! मया ज्ञातं यूयमेव पलेप्सया । शौनिका इव नित्रिंशा, घातयध्वे पशूनिमान् ॥ ६२० ॥ यदि मांसेन देवीनां, संपद्येत प्रयोजनम् । तदा हन्युः स्वयं नैताः, कथमेतान् बलीकृतान् १ ॥ ६२१ ॥ स्वयं नष्टाः परान् केऽपि नाशयंतीति लोकवाक् । भवद्भिरेव पापिष्ठैः, सार्थकीक्रियते ननु ॥ ६२२ ॥ वंचयित्वा पुरा रे मां, तत्त्वज्ञमधुना कथम् ? । चयध्वेऽपनिद्रं हि, न मुष्णंति मलिम्लुचाः ॥ ६२३ ॥ ततः पशून् स विक्राप्य, तत्कालं सकलानपि । तद्द्रव्यैः कुलदेवीनां भोगाभोगं व्यदीधपत् ॥ ६२४ ॥ कृतोपवासः स्वावासे, दशमीनिशि भूपतिः । जिनेश्वरं स्मरंश्चित्ते, ध्यानं दधे मुनींद्रवत् ॥ ६२५ ॥
तदा विदधती दीप्त्या, सदीपमिव मंदिरम् । त्रिशूलव्यग्रहस्ताया, देवी काचिद् दिवैागमत् ॥ ६२६ ॥ ऊचे च भूपतिं पश्य, समुन्मील्य विलोचने । अहं कंटेश्वरीत्यस्मि, प्राप्ता त्वत्कुलदेवता ॥ ६२७ ॥ राजन्नाजन्म यन् मह्यं, ददे पूर्वैस्त्वयाऽपि च । तद् देयमिव पश्वाद्यं, कथं नाद्य प्रदीयते १ ॥ ६२८ ॥ लुप्त्वा कुलक्रमं गोत्र - देवतां योऽर्वंमन्यते । प्रलीयते स तत्कोपाद्, ब्रह्मशापादिवाचिरम् ॥ ६२९ ॥ यदि कामयसे श्रेय - स्तर्हि लागू मां प्रसादय ? | नो चेत् त्वां भस्मयिष्यामि, तृणवत् कोपवह्निना ॥ ६३० ॥ तन्निशम्यातिनिःक्षोभो, भूपतिर्भाषते स्म ताम् । नाहं सद्धर्ममर्मज्ञ - स्त्वत्कृते हन्मि देहिनः ॥ ६३१ ॥ धर्म सार्वज्ञमज्ञात्वा, यश्चक्रे प्राग् वधो मया । ज्वलनज्वालवत् सोऽपि, संतापयति मन्मनः ॥ ६३२ ॥ एकस्यापि वघे जन्तो- रनन्तं पातकं विदन् । ताननेकान् कथंकार - मंतयामि कृतान्तवत् ॥ ६३३॥ तवापि प्राणिनो १च, प्र. २ ज्ञाता, प्र ३ नवमीरात्रौ इति प्रबंधे. ४ आकाशमार्गेण. ५ लब्ध्वा, प्र. ६ यो न मन्यते, प्र.
सर्ग. ७
॥ १५५ ॥
Page #361
--------------------------------------------------------------------------
________________
६३८ तेन त्रिशलवगलिताविव । वर्णोऽभ्यीवभाव, भवतीति
नामी. न्याय्या घातयितुं किल । देवता हि दयागृह्या लोके शास्त्रे च विश्रुताः॥ ६३४ ॥ ये स्वयं घातकास्तेऽपि, योग्या वारयितुं तव । ये तु त्यक्तवधास्तैस्तं, न कारयितुमर्हसि ॥ ६३५ ॥ दयाजीवातवः संतः, कुर्युर्जीववधं यदि । तदा प्रकाशकाः पूष्णः, पुष्णीयुस्तिमिरं कराः॥ ६३६ ॥ कर्पूरादिमयो भोग-स्तव चक्रे मयोचितः। जीवान्तेऽपि न जीवान्त-स्तन्यते देवि ! निश्चिनु ॥ ६३७ ॥ वदन्तमिति भूकान्तं, कुपिता कुलदेवता । मूर्ध्नि हत्वा त्रिशूलेन, दुर्दशेव तिरोऽभवत् ॥ ६३८ तेन त्रिशूलघातेन, तत्क्षणं क्षितिपोऽजनि । सर्वाङ्गीणस्फुरत्कुष्ठो दैव्यो हि विषमा रुषः॥ ६३९ ॥ नासाऽऽसीच्चिपटेवाऽऽस्तां,कौँ विगलिताविव । गलन्ति स्मेव चाङ्गल्यः, करजा अपि भूपतेः॥६४०॥ स्फुटितस्फोटवत् पूर्य, तस्य गात्रमसुखुवत् । जम्बालजालवत् कालो, वर्णोऽभ्यर्णीबभूवच ॥६४१॥दृष्ट्वा तत् तादृशं कुष्ठं,भूभुग वैराग्यमागमत् । संसारे स्वशरीरे च, नाहधर्मे मनागपि ॥६४२॥ स्वकर्मनिर्मितं सर्व, भवतीति विचिंतयन् । कुलदेव्यामपि द्वेष, न पुपोष महामतिः॥ ६४३॥ अथोदयनमाकार्य, मंत्रिणं मेदिनीपतिः । देवीव्यतिकरं सर्व-मुक्त्वा स्वाङ्गमदीदृशत् ॥ ६४४ ॥ मंत्री तद् दर्शनादेव, दूयते स्मतमा हृदि । महतां व्यसनं कस्य, न स्याद् दुःखाकरं खलु ॥६४५॥ भूपस्तमूचिवान् कुष्ठं, न मां दंदह्यते तथा । यथा मत्कारणं जैन-धर्मेऽस्मि लाञ्छनं नवम् ॥ ६४६ ॥ विज्ञायैतद् वदिष्यन्ति, यदमी पारतीर्थिकाः । अहो राज्ञः फलं कुष्ठं, जज्ञेऽर्हद्धर्मसेवनात् ॥ ६४७॥ यः शैवं धर्ममुत्सृज्य, जैन धर्म प्रपद्यते । कुमार-18 नृपवत् कष्ट-पात्रं सोऽत्रापि जायते ॥ ६४८॥ अस्मदैवतसूर्यादि-स्तुत्या कुष्ठादयो रुजः। प्रलीयंतेतमामह-त्सेवया । " दयापक्षाश्रिताः, २ निश्चयं कुरु !-निर्धारय !, ३देव्या इमाः दैव्यः, ४प्रकटीबभूव,५च,प्र, ६ स शब्दादू 'अतिशायिने इति तमप् ततः किमेत्तिडव्यय० इति आमुः.
Page #362
--------------------------------------------------------------------------
________________
कुमारपालच ०
॥ १५६ ॥
तूल्लसति ताः ॥ ६४९ ॥ त्रिभिर्विशेषकम् ॥ ततो यावदिदं कर्ण - जाहं नो याति विद्विषाम् । तावद् गत्वा बहिर्वहौ, तृणयिष्यामि जीवितम् ॥ ६५० ॥ जगादोदयनः स्वामिन्!, केयं मृत्युकथा वृथा ? | देवी प्रसाद्यतां सद्यः सर्वे दत्त्वा तदीप्सितम् ॥ ६५१ ॥ उडूनां व्योमवत् स्थानं, प्राणानां वपुरुच्यते । तस्मिन्नश्यति दक्षोऽपि, नियमं कोऽभिकांक्षति १ ॥ ६५२ ॥ सर्वत्र संयमं रक्षेत्, तस्मादात्मानमेव च । सति स्वास्थ्ये पुनर्विद्वान्, प्रायश्चित्तं समाचरेत् ॥ ६५३ ॥ इति सर्वज्ञवाक्येन, संप्राप्ते प्राणसंकटे । चारित्रिणोऽपि चारित्रं, हित्वाऽऽत्मानमवंति हि ॥ ६५४ ॥ नियमोऽपि तवास्त्येष, पेंडाकारविवर्जितः । सहिंसयाऽपि नो याति, देवतादेश क्लृप्तया ॥ ६५५ ॥ त्वयि जीवति धात्रीयं, चिरं राजन्वैती भवेत् । नन्देयुश्च जनास्तस्माद्, रक्षात्मानं यथातथा ॥ ६५६ ॥ राजर्षिस्तं पुनः प्रोचे, किमेतत् सचिवोच्यते १ । कुर्वे जीववधं नाहं, कल्पांतेऽपि कथंचन ॥ ६५७ ॥ भवे भवे भवेद् देहो, भविनां भवकारणम् । न पुनः सर्व वित्प्रोक्तं, मुक्तिकारि कृपाव्रतम् ॥ ६५८ ॥ यदीदृशेन देहेन, पुण्यमूर्जितमर्ज्यते । दृषत्खंडेन तद् भूरि, कांचनं परिगृह्यते ॥ ६५९॥ सर्वतश्चपलो वायु-र्जीवितव्यं तदात्मकम् । तत्कृतेऽहं कथं मुंचे ?, स्थिरां श्रेयस्करीं कृपाम् ॥ ६६० ॥ किंच त्रसति पापीयान्, कालधर्मान्न पुण्यवान् । संचितोत्रणपुण्यस्य, कीदृशं मम तद्भयम् ? ॥ ६६१ ॥ आराधितो जिनो देवो, हेमसूरिगुरुर्नतः । निर्मितश्च दयाधर्मो, न्यूनमद्याऽपि किं मम १ ॥ ६६२ ॥ तत् स्वरस्व कुरुष्व त्वं, चितां दारुभराऽऽचिताम् । विभास्यति न चेद् रात्रि - गुप्तकर्मैक कामधुक् ॥ ६६३ ॥
1
| कर्णमूलम् २ सातिचारं कृत्वाऽपि ३ शरीरम् ४ रायाभियोगेणं ( १ ) गणाभियोगेणं ( २ ) बलाभियोगेणं (३) देवयाभियोगेणं ( ४ ) महत्तरा गुरुनिग्गहेणं (५) वित्तिकेतारेणं ( ६ ) इति, ५ प्रशस्तो राजाऽस्त्यस्याः सा. ६ श्वासः, ७ वायुखरूपम्, ८ जीवितव्यकृते ९ किंचित् प्र.
सर्ग. ७
॥ १५६ ॥
Page #363
--------------------------------------------------------------------------
________________
कु.पा.च. २७
तं निश्चयं परिज्ञाय, राज्ञः प्राज्ञः स मंत्रिराट् । आसाद्य वसतिं सद्य - स्तत्सर्वं गुरवे जगौ ॥ ६६४ ॥ विद्यानिधिः प्रभुः प्रोचे, पर्याप्तं मृत्युवार्तया । समानय पयः कोष्णं, परिजेप्य ददे यथा ॥ ६६५ ॥ तत्संस्पर्शनमात्रेण, कुष्ठव्याधिर्नृपांगतः । | रविप्रकाशलेशेन, विष्टपाद् ध्वांतवद् गमी ॥६६६ ॥ श्रुत्वा तत् तेन हृष्टेन, तत्क्षणादाहृतं पयः । सूरिः श्रीसूरिमंत्रेणाऽभिमंत्र्य स्वयमार्पयत् ॥ ६६७ ॥ पीयूषस्येव दायादं, तदादाय स यत्नतः । प्रभुप्रेषितमस्त्येत - दित्युवाच नृपाग्रतः ॥ ६६८ ॥ तेन सिद्धरसेनेव, देहमभ्यज्य चाभितः । निनाय लोहवत् तस्य वर्णनीयां सुवर्णताम् ॥ ६६९ ॥ पूर्वतोऽप्यै - धिकं प्रेक्ष्य, वपुस्तज्जलयोगतः । हर्षाश्चर्यादिभावानां पदमासादयन्नृपः ॥ ६७० ॥ अमात्यमिदमूचे च, कैटरि प्राभवं प्रभोः । ईदृक्षमपि यः कष्टं, धन्वंतरिरिवाहरत् ॥ ६७१ ॥ देवीनामपि कोपाग्नि - स्तावदेव ज्वलत्यलम् । गुरुर्न वीक्ष्य(क्ष) ते यावद्, दृष्ट्या मेघायमानया ॥ ६७२ ॥ अहो लोकोत्तरा काचित्, प्रभोर्मयि कृपालुता । ययाऽहं मृत्युतस्त्रातो, व्याघ्राद् वृकं इवानिशम् ॥ ६७३ ॥ एवमुवपती गुर्वी, कुर्वाणे गौरवी स्तुतिम् । दुःक्षपाऽपि क्षपां प्राप, पापश्रेणिरिव क्षयम् ॥ ६७४ ॥ प्राभातिकीं क्रियां कृत्वा, नृपो मंत्र्यादिभिर्वृतः । वंदित्वा चरणद्वंद्वं, निर्द्वन्द्वं गुरुमूचिवान् ॥ ६७५ ॥ त्वत्प्रभावं कियत् स्तौमि भगवञ् ! जिह्वयैकया । योऽगस्त्य इव कष्टान्धिं, मम पेपीयते मुहुः ॥ ६७६ ॥ त्वत्प्राच्योप
१ किंचिदुष्णम्. २ जपित्वा ऽऽमंत्र्य. ३ अधिकतेजखि ४ आश्वर्यकारि ५ सामर्थ्य ६ शृगालः ७ महतीं गौरववतीम् ८ गुरोरियं गौरवी ताम् ९ दुःखेन क्षेपणीया. १० रात्रिः. ११ निर्गतो द्वन्द्वेभ्यः - शीतोष्णादिविरुद्धधर्मयुग लेभ्यः - निर्द्वन्द्वः रागद्वेषशीतोष्णलाभालाभादिद्वन्द्व रहितखम् १२ अतिशयेन पिबति.
Page #364
--------------------------------------------------------------------------
________________
सर्ग.७
क्रियाणाम-प्यासीत् कोऽपि न निष्क्रयः। अद्यतन्याः पुनस्तस्याः, कतमोऽस्तु से वस्तुतः ॥ ६७७ ॥ सीमा सर्वोपकाकुमारपालच०
रेषु, यत् प्राणपरिरक्षणम् । चूलेव तस्योपर्येषा, यन्मे सद्धर्मबोधनम् ॥ ६७८॥ प्रक्षाल्याक्षतशीतरश्मिसुधया गोशीर्षगाढ
द्रवै-लिप्त्वाऽभ्यर्च्य च सारसौरभसुरेस्वर्णप्रसूनैः सदा । त्वत्पादौ यदि वॉवहीमि शिरसा त्वत्कर्तृकोपक्रिया॥१५७॥ 18 प्रारभारात् तदपि श्रयामि भगवन्नापर्णतां कर्हिचित् ॥ ६७९ ॥ (शार्दूलविक्रीडितम् ) तत्कृतज्ञतया प्रीत-स्तं प्रति प्रभु
रभ्यधात् । का नामोपक्रिया चक्रे, मया यत् त्वं वदस्यदः॥६८०॥ अंत्येषि व्यसनं यत् त्वं, तत् त्वत्पुण्यस्य वैभवम् । ध्वांतं निहंति यद् दीप-स्तद्धाम्नस्तद्धि वल्गितम् ॥६८१॥ पुण्यप्रद्योतनो यस्य, पार्थे प्रद्योततेऽनिशम् । नेदीयसी हि किं तस्य, स्फुरत्यापत्तमस्विनी ? ॥६८२॥ अमारिमस्मद्वाक्येन, सर्वतः कुर्वता त्वया । आस्माकोपक्रियाणां हि, चक्रे को नैव | निष्क्रयः ॥ ६८३ ॥ दक्षा नयज्ञाः सधनाः, शूराश्च कति नासते । आत्ताः परातिभिर्ये तु, द्वित्राः कुत्राऽपि ते नराः ॥ ६८४ ॥ अस्मिञ् शुभंगिले काले, व्यसनेऽपि यथा कृपाम् । अत्रायथास्तथा कोऽन्य-स्त्रायते साधुरप्यहो ॥ ६८५ ॥ विश्राणनेस्य दारिद्यं, विक्रमस्य महाऽऽहवः । व्रतस्य प्राणसंदेहः, परीक्षाकषपट्टकः॥ ६८६ ॥ त्वमीदृशाऽपि कष्टेन, भ्रष्टोऽर्हच्छासनान्न चेत् । तवास्तां तर्हि परमा-हतेति विरुदं नृप ! ॥ ६८७ ॥ ततस्तद्विरुदं प्राप्य, दुष्प्रापं त्रिदशैरपि ।
१ उपकाराणाम्, २ प्रत्युपकारः, ३ उपक्रियायाः. ४ निष्कयः, ५ तत्त्वतः. ६ शिखा. ७ सर्वोपकारसीमारूपस्य. ८ रसैः. १ देवलोकजातवर्णपुष्पैः. १. अतिशयेन बहामि. ११ ऋणरहितताम्. १२ अतिक्रामसि-उल्लंघसे. १३ सूर्यः. १४ प्रकाशते. १५ अतिशयनिकटा. १६ रात्रिः. १७ अस्माकमिमाः-आस्माकाः. १८ शुभं गिलतीति शुभंगिल:-शुभभक्षकः, १९ दानस्स. २० पराक्रमस्य.
CAMCAEMCHARACANCECCASH
॥१५७॥
Page #365
--------------------------------------------------------------------------
________________
SANSARACTE
कतार्थ मन्यमानः स्वं, धमोत्मा सौधमासदत् ॥ ६८८॥ तदा च काशिविषये, घाराणस्यां महीश्वरः। जयंतचंद्रनामाऽऽस्ते, श्रीमद्गोविन्दचंद्रतु ॥ ६८९ ॥ यत्प्रतापतपनातितापितः, शंकरः सुरधुनी शिरस्यधात् । नीरधौ निविशते स्म केशवः, पंकजासनमशिश्रियद् विधिः ॥ ६९० ॥ (रथोद्धता) स सप्तयोजनशत-प्रमितक्षितिनाथताम् । वहन्न-1 न्यान् महीनाथान, मेने स्वान् किंकरानिव ॥ ६९१ ॥ अनेकदृप्तहस्त्यश्व-रथपत्तिमयं बलम् । तस्य प्रेक्ष्य जनो बभ्रे, चक्रभृत्कटकभ्रमम् ॥६९२॥ विना गंगायमी यष्टयौ, सोऽसंख्यानीकभावतः। न गंतु शक्तवांस्तेन, पंगूराजेति विश्रुतः ॥ ६९३ ॥ मीनाशनतया तस्य, स्थाने हिंसां महीयसीम् । श्रुत्वा तद्वारणाहेतो, राजर्षिातवान घियम् ॥ ६९४ ॥ ततः स चित्रयित्वोच्चै-श्चारुभिः कारुभिः पटे । मूर्ति श्रीहेमसूरीयां, तत्पुरस्थां निजामपि ॥ ६९५ ॥ तं पटं हेमकोव्यौ वे, द्वौ संहस्रौ योरसान् । ददित्वा शिक्षयित्वा च, काशी प्रेषीत् स्वमंत्रिणः ॥ ६९६ ॥ युग्मम् ॥ तां समासाद्य ते दध्यु-रियं मुक्तिपुरी श्रुता । एतदीया जनास्त्वेते, सर्वेऽपि पललाशनाः ॥ ६९७ ॥ समुद्रस्य श्रवंत्याच, तटाधिष्ठा
यके 'पुरे । प्रायो मत्स्याशनत्वेन, लोको भवति निष्कृपः॥ ६९८ ॥ पुरेऽत्राबालगोपालं, करुणाप्रतिपालनम् । दुष्करं तिभाति दुर्वाते, दीपोद्दीपनवद् ध्रुवम् ॥६९९॥ तत् प्राक् प्रकृतयो माहा-राजिकाः सकला अपि । यथाकामिकहेमादि-18
दानैः प्रीण्याः प्रयत्नतः ॥७००॥ यथा विज्ञप्तिमास्माकी, ते न नंति नृपाग्रतः। बुद्ध्येति सचिवाश्चक्रु-स्तथैव |निजकौशलात् ॥ ७०१॥ जयंतचंद्रं दृष्ट्वा च, तत्पुरस्तात्र्यवीविशन् । हेमादिप्राभृतं सर्व, पश्चाच्चित्रपटं च तम् ॥७०२॥
१ राजा. २ तुक्-तुज्-पुत्रः. ३ दधे. ४ भ्रान्तिम्. ५ नगरे (देशे). ६ व्यापारयत्. ७ धियाम्, प्र. शिल्पिभिः. ९ साहातौ योरसौ, प्र. १० नगरे.
R EGACANCIENCE
Page #366
--------------------------------------------------------------------------
________________
कुमारपालच०
-CRACCASS
॥१५८॥
SONGRESTERNOONOCOCCAL
पृष्ट्वा चौलुक्यभूपस्य, काशीशः कुशलादिकम् । कृत्वा च तं पटं हस्ते, किमेतदिति पृष्टवान् ॥ ७०३ ॥ अवोचन् सचिवाः स्वामि-न्नस्ति राजगुरोरियम् । मूर्तिः श्रीहेमसूरींदो-रियं चास्मन्महीशितुः ॥ ७०४ ॥ अतिभक्त्योपदीकृत्य, स्वं स्वतोऽप्यधिकामिमाम् । गुरुमूर्ति च चौलुक्य-नृपो विज्ञपयत्यदः ॥ ७०५॥ हेमाचार्यो गुरुर्मेऽस्ति, सर्वविद्याब्धिपारगः । ज्ञानवानिव यस्तत्त्वं, परं बोधयते जनम् ॥७०६॥ आकलय्य गुरोस्तस्मा-मया धर्म कृपामयम् । स्वदेशे परदेशे च, हिंसाऽवार्यत तद्रिपुः ॥ ७०७ ॥ भवत्पुरे श्रुता सोच्चै-मार्गदेष्ट्रीव दुर्गतेः । ततोऽमी प्रहिताः संति, तन्निषेधाय धीसखाः ॥७०८॥ अंतर्दृष्ट्या विमृश्योच्चैः, कारुण्यं पुण्यकारणम् । सर्वथा स्वास्पदे हिंसां, दुनीतिमिव
दूरय ॥ ७०९ ॥ इति मंत्रिगिरा चित्र-कारिचित्रेक्षयाऽपि च । तुष्टो जयंतचंद्रो राट् , सदः प्रत्यक्षमाख्यत ॥ ७१०॥ है। युक्तं गूर्जरदेशोऽयं, विवेकेन बृहस्पतिः । कथ्यते सकलैर्यस्मिन्नीहग भूपः कृपामयः ॥७११॥ कियानुपायः क्लृप्तोऽस्ति, |
जीवरक्षाप्रवर्तने । तमेव धन्यं मन्येऽहं, पुण्ये यस्योल्वणं मनः ॥ ७१२ ॥ स स्वयं कारयन्नस्ति, कृपां तत्प्रेरितोऽप्यहम् । |न कारयेयं यद्येनां, मतिम तर्हि कीदृशी ॥ ७१३ ॥ चतुर्भिः कलापकम् ॥ ततः स नृपतिर्देशात् , पुराच्चानाय्य सर्वतः। जालकान्येकलक्षस्पृक्-सहस्राशीतिसंख्यया ॥ ७१४ ॥ अन्यान्यपि च हिंस्रोप-करणानि सहस्रशः । चालुक्यसचिवाध्यक्ष, वह्निदानादजिज्वलत् ॥ ७१५॥ युग्मम् ॥ हिंसा दग्धेति पटहै-रुद्घोष्य परितः पुरे । आदिक्षज्जालिकादीनां, जालादेरपुनःकृतिम् ॥ ७१६ ॥ चौलुक्यदत्ताद द्विगुणं. दत्त्वा प्राभृतमभुतम् । काशीशेन विसृष्टास्तेऽ-मात्याः
१ स्व-आत्मानम्-खकीयं वा प्रतिबिम्बम्, २ सर्वज्ञ इव. ३ एकलक्षयुक्ताशी तिसहस्रमितमालानि.
॥१५८।।
E
Page #367
--------------------------------------------------------------------------
________________
| स्वपुरमासन् ॥ ७१७ ॥ नत्वा च माचार्याय - स्थितं चौलुक्यनायकम् । उपदादानपूर्वं तत्सर्वं वृत्तं न्यवेदयन् ॥ ७१८ ॥ तेनाद्भुतेन कृत्येन नृपतेर्हर्षितो गुरुः । उपश्लोकयति स्मैवं, धर्मोत्साहविधित्सया ॥ ७१९ ॥ भूयांसो भरतादयः क्षितिधवास्ते धार्मिका जज्ञिरे, नाऽभून्नो भविता भवत्यपि न वा चौलुक्य ! तुल्यस्तव । भक्त्या क्वापि घिया क्वचिद् धनधनस्वर्णादिदत्त्यां क्वचिद् देशे स्वस्य परस्य च व्यरचयज्जीवावनं यद् भवान् ॥ ७२० ॥ ( शार्दूलविक्रीडितम् ) ततश्चौलुक्यमालोक्य, करुणारसलालसम् । असूयामासुषी हिंसा, सपलीव स्वचेतसि ॥ ७२१ ॥ नृपस्य हृदये गेहे, पुरे जनपदे भुवि । काप्यनाप्नुवती वासं, तातमोहांतिकं ययौ ॥ ७२२ ॥ तदा सभास्थितो मोह - महींद्रः स्वसुतेति ताम् । अलक्षयन् विलक्षत्व - योगादित्यनुयुक्तवान् ॥ ७२३ ॥ का त्वं ? सुंदरि ! मारिरस्मि तनया ते तात ! मोह ! प्रिया, किं दीनेव १ पराभवेन से कुतः ? किं कथ्यताम् कथ्यताम् । हेमाचार्यगिरा परार्ध्यगुणवान् हृद्वक्रहस्तोदरा-न्मामुत्तार्य कुमारपाल - नृपतिः पृथ्वीतलादाकृषत् ॥ ७२४ ॥ ( शार्दूलविक्रीडितम् ) तन्निशम्य ज्वलत्कोप - ज्वालाजिह्वः स तामवक् । वत्से ! मा मा स्म रोदीस्त्वं, रोदयिष्यामि ते द्विषः ॥ ७२५ ॥ संप्रत्यसौ नृपो वाक्यै - र्विप्रतार कलिंगिनाम् । विरक्तस्त्वय्यभूद् भूमे - स्तेन त्वां निरवासयत् ॥ ७२६॥ ओजायते च नितमां, हेमाचार्य प्रभावतः । ततः स्वशक्त्या संदेहे, पातयिष्ये शनै| रमुम् ॥ ७२७ ॥ अतः परं करिष्यामि तं कंचन वरं तव । यस्त्वदेकातपत्रत्वं पूर्ववत् सूत्रयिष्यति ॥ ७२८ ॥ इत्यादि
१ बहुमानेन. २ दानेन. ३ असूयां गुणेषु दोषारोपणं कृतवती ४ पृष्टवान् ५ हिंसा. * स पराभवः, कुतः कस्मात् पुरुषात्. ६ किमर्थमू. ७ धर्मसंशये.
Page #368
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ १५९ ॥
वचसाऽऽश्वास्य, कथंचिन्निजनंदिनीम् । हिंसामस्थापयत् स्वीय- पार्श्वे मोहमहीपतिः ॥ ७२९ ॥ इत्युद्दामदया सुधारसभरैर्जीवान् समुज्जीवयं - स्तज्जाशीर्वचनैरिव प्रतिदिनं सर्वर्द्धभिर्वर्धयन् । हेमाचार्य शुभोपदेशविलसत्तत्त्वप्रकाशोदयः, प्राणित्राणपरायणैकमुकुटचौलुक्यचंद्रोऽजनि ॥ ७३० ॥ ( शार्दूलविक्रीडितवृत्तम् )
इति श्रीकृष्णषयश्रीजयसिंहसूरिविरचिते परमार्हतश्रीकुमारपाल भूपालचरित्रे महाकाव्ये श्राद्धधर्मस्थापनो नाम सप्तमः सर्गः ॥ सप्तानां सर्गाणां मीलने ग्रन्थाग्रम् ४४७३ ॥
१ वृद्धिं प्रापयन् ( आत्मानं ) २ श्रीसम्यक्त्व मूळ द्वादशवत धर्मोपदेशवर्णनो नाम सप्तमः सर्गः, प्र.
सर्ग: ७
॥ १५९ ॥
Page #369
--------------------------------------------------------------------------
________________
HANUMA
अथाष्टमः सर्गः॥ चौलुक्यभूधवोऽन्येधु-हेमसूरिमठाग्रतः। किलंती कांचनोत्कृष्टां, की दृष्ट्वा विमृष्टवान् ॥१॥ यदिमनिचितमूर्तिः स्फूर्तिमुच्चैर्वहंती, जगदपि मैदयंती, स्नेहसांद्रस्वभावैः । गुणगरिमनिधानं दूषणानामभूमिः, स्फुरति रतिकरी मे देवकन्येव केयम् ॥ २॥ (मालिनी) तत्पुण्यमपि मन्येऽहं, नृणामत्यंतदुर्लभम् । येनैषा दृश्यते दृग्भ्यां, स्वच्छदाऽऽनंदकंदली ॥३॥ ततः पप्रच्छ पृथ्वींद्रः, सूरींद्रं प्रणिगद्यताम् । द्वारि केयं कनी ? कस्मात्, प्रीणाति च मदाशयम् ॥४॥रागातिशयमालोक्य, चौलुक्यस्य की प्रति । हेमाचार्यस्तदुत्पत्तिं, मूला वक्तुं प्रचक्रमे ॥५॥ आस्ते विमलचित्ताख्यं, पुरं सद्गुणमंदिरम् । यत्रोच्चैर्विनयः शालो, मर्यादा परिखाऽपि च ॥६॥ तत्राद्धर्मनामाऽस्ति, महीशो यस्य शासनम् । सुरासुरनरेंद्राणां, मौलौ माल्यमिव स्थितम् ॥७॥ स्वसेवारसिकं लोकोत्तरं वैर्भवमानयन् । सुस्वामीति प्रसिद्धिं यो, लोकेषु कलयत्यलम् ॥ ८॥ तस्यास्ति विरतिः पत्नी, निर्दोषत्वैकमंदिरम् । ख्याताः सौम्यतया विश्वे, शमाद्याश्च तनूरुहाः॥९॥ मंत्री धर्मनरेंद्रस्य, सिद्धांतः शुद्धबुद्धिदः । कदाऽपि नैव भेत्तुं यः, शक्यते दुर्नयैः परैः। ॥१०॥ शुभध्यानं च सेनानी-विपक्षक्षोददीक्षितः । सम्यक्त्वप्रमुखाः सैन्याः, सद्यः सिद्धिविधायिनः ॥११॥ विश्वं निवेश्य 8 स्वाज्ञायां, सुखं धर्मस्य तिष्ठतः । विरत्यां तनया प्रौढि-कारणं करुणाऽभवत् ॥ १२॥ तौ पुत्रीजन्मना वीक्ष्य,
१ हर्षयंती. २ वाधीनसुनस्यांकुरः. ३ सूरीन्द ! प्र. ४ भवद्भिरितिशेषः. ५ प्राकारः. ६ विभवं-प्र. ७ अन्यामिभिः. ८ शत्रुभिः. ९ प्रतिज्ञावान्, |१० महत्त्ववारणम्.
NGALMAGE+
Page #370
--------------------------------------------------------------------------
________________
कुमारपालच०
SESA
॥१६॥
M ISHAHARASHUS
पितरौ खेदमेदुरौ । सुतापितामहोऽवादीद्, विश्ववेदी जिनेश्वरः ॥ १३ ॥ सुता जातेति किं खेदं, वहेथे हृदये युवाम् । इयं पुत्रादपि स्तुत्या, भवित्री विश्वजीवनात् ॥ १४॥ पुत्रार्थ खिद्यते लोको, वृथा यत् तपनाऽनलौ। स्वपुत्रमंदधूमाभ्यां, तापं नाद्याऽपि मुंचतः ॥१५॥ यथा ब्राह्मी निजं तातं, लोकप्रीणादिमिर्गुणैः। ख्यातिं नीतवती नेत्री, तथैवेयं युवामपि ॥ १६॥ भविष्यति च यत्पाणि-गृहीतीयं तमप्यलम् । प्रतिष्ठां नेष्यति श्रेष्ठां, कमलेव मुंरद्विषम् ॥ १७ ॥ निशम्य तादृशीं स्फूर्ति, पितृभ्यां वर्धिता कृपा । कला चांद्रीव तच्चित्त-प्रमोदाब्धिमवीवृधत् ॥१८॥ । इतः समलचित्ताख्यं, पुरमस्ति यदंतिके । दुर्नयो वरणो दुष्ट-सेवा च परिखाऽऽयता ॥१९॥ तस्मिन् मोहो
महींद्रोऽस्ति, दुराशयशिरोमणिः । यमस्येव भयाद् यस्य, कंपते सकलं जगत् ॥ २०॥ तस्याविरतिलोलाक्षी-कुक्षिजा 5 | विश्वदुर्जयाः। नंदनाः संति कोपाद्या, हिंसानाम्नी च कन्यका ॥२१॥ तस्य मिथ्याश्रुतं मंत्री, दुर्ध्यानं दंडनायकः । मिथ्यात्वाद्याश्च दुर्वार-वीर्याः स्फूर्जति सैनिकाः॥२२॥ मत्तेन मोहभूपेन, वर्षीयस्त्वात् स धर्मराट् । विजित्य सकुटुंबोsपि, स्वस्थानान्निरकाश्यत ॥२३॥ भ्राम्यन्नितस्ततो धर्मः, सोऽत्र दृष्ट्वा तवोदयम् । अस्मदाश्रममाश्रित्य, सुखं वसति संप्रति ॥ २४॥ सा कृपा नंदिनी चास्य, योग्यपत्यनवाप्तितः । अनूदैव स्थिता देव !, दृष्टा द्वारि त्वयाऽधुना ॥ २५॥5 अस्याः सौंदर्यसंपत्तिः, स्तूयते किमतः परम् । यया मोहनवयेव, महात्मानोऽपि मोहिताः॥ २६ ॥ लभते भाग्यवानेव,
१ सूर्यवही. २ शानिधूमाभ्याम्. ३ भरतभगिनी, सरखती वा. ४ ऋषभदेवं, ब्रह्माणं वा. ५(ख्याति) प्रापिका. यस्य न्यूडास्त्री. मिणीव, ८ वासुदेवम्. ९प्रभावम्. १. प्राकारः. १ गर्जना कुर्वन्ति. १२ वृद्धत्वात्. १३ काश-दीप्ती भ्वा.भा. पक• सेद निर-काश निःसारणे.
Page #371
--------------------------------------------------------------------------
________________
SACOCO
ALSECRECRUARWARRORSHAN
प्रियां कर्तुमिमां कृपाम् । स्वसाकरोति सामान्यः, कल्पवल्ली कदापि किम् ? ॥ २७॥ एवं निशम्य निःसीमां, तस्याः होप्रोदि गुरोर्मुखात् । अन्वरज्यत्तमां राजा, कः सद्वस्तुनि निःस्पृहः ? ॥ २८ ॥ सोऽथ तद्विरहव्याप्ति-व्याकुलः करुणां -
प्रति । प्राहिणोत् सुमति नाम, दूतीं तत्प्रार्थनाकृते ॥ २९ ॥ तस्याः समीपमागत्य, दूती विरचितांजलिः । सप्रगल्भमिदं प्रोचे, शर्करासेकिमं वचः ॥३०॥ चुलुक्यकुलपाथोधि-कौस्तुभोऽस्त्यत्र पत्तने । श्रीमान् कुमारपालाख्यो, गूर्जरक्षिति-द वल्लभः॥३१॥ एकोऽपि यः क्षिति भ्रांत्वा, कलावत्परिचर्यया । कलाकलापमासाद्य, पूर्णेदुरिव दीप्यते ॥ ३२॥ इयं । गूर्जरराज्यश्री-वशीभूतेव सद्गुणैः । स्वयमेव समागत्य, भाग्यभाज बभाज यम् ॥ ३३ ॥ येन दिग्विजये रेमे, दोमदूष्मविभेदिना । उत्खातारोपितैर्भूपैः । शोरैरिव दुरोदरे ॥ ३४ ॥ सम्यक्त्वं हृदये बिभ्रद्, यः कारुण्यैकनीरधिः। जेगीयतेऽत्र परमा-हत इत्यनिशं बुधैः ॥ ३५॥ पैरोरजोमिर्विद्याथै-र्गुणैर्वरशिरोमणिः। पाणिग्रहार्थमत्यर्थ, त्वां नृपोऽर्थयतेऽद्य सः॥ ३६ ॥ तद्भद्रे ! परिणीयामु, राजानं विश्वरंजनम् । रमस्वाव्याहतस्वेच्छं, कौमुदीव त्वमुन्मदा ॥ ३७॥ नक्रस्य वक्रीकरणात् , स्वीयारोचकतामथ । प्रकाशयंती चौलुक्ये, करुणाऽऽह स्म तां प्रति ॥ ३८ ॥ स्तुत्वा नृपमिमं त्वं मां, विप्रलंभयसे किमु । न हि स्त्रीणां महीशेन, विवाहः स्यात् सुखावहः ॥३९॥ परिणीय बहुस्त्रीषु, रतः प्रायेण कामिनीम् । न पश्यति पुनः पूर्व-भववैरीव भूपतिः॥४०॥ कुमार्येव वरं नारी, वरं श्रामण्यशालिनी । न पुन
करला स्वाधीनां करोति. २ महत्ताम्. ३ खमतिम्, प्र. ४ सोत्साहम्. ५ शर्करासितम्. (मणिः, ७ सेवया. ८ पराकम्यभिमानमेदकेन. पाशकैःक्षटिकाभिवा. १० ते. "पुनः पुनरतिशयेन वा गीयते. १२ रजसः परः-ये ते परोरजसः-दोषरहिताः तेः. १३ सहर्षा..
AGRAVADORAS
Page #372
--------------------------------------------------------------------------
________________
4555
कुमारपालच०
॥१६॥
खिलम महारयत् ॥ इतरणयोगता,
बहुसापत्य-दुःखिता नृपतेः प्रिया ॥४१॥ महीपमेव चेत् कामं, कामयेय तदा कुतः । मुंचेय दशवादी-त्रैलोक्यप्रकटश्रियः॥४२॥ तन्मे पतिः स एव स्याद्, यः सत्यादिगुणाकरः । निर्वीराद्रविणं हिंसां, व्यसनानि च वर्जयेत् ॥४३॥ ततः पल्लवितप्रायां, नृपाशां विदुषी हृदि । अभ्यधत्त पुनर्दूती, तां प्रति प्रीतिभारिणी ॥४४॥ भद्रे! सिद्ध
मिदं कार्य, यदसौ नरनायकः । तवैवास्त्युचितः प्रेयां-स्त्वदुक्तगुणयोगतः॥ ४५ ॥ किंचाभक्ष्यमयं त्यक्त्वा, त्वत्प्रीकात्यर्थमिव ध्रुवम् । स्वदेशे परदेशे च, हिंसादिकमवारयत् ॥ ४६ ॥ तं मत्वा स्वोचितं हीणा, हृष्टा च करुणाऽवदत् । टू एतत्किंचिन्न जानेऽहं, तातो जानाति भेऽखिलम् ॥ ४७ ॥
ततो निवृत्य दत्याऽस्मिन् , वृत्तांते गदिते सति ।प्राप्तस्वर्ग इवोदयां, गूर्जरेंद्रो मुदंदधौ॥४८॥ तेनाथ ज्ञापितस्तस्यास्तवृत्तं हेमसूरिराट् । प्रबोध्य धर्मधात्रींद्रात्, कृपां तस्मै व्यतीतरत् ॥४९॥ अथ लग्ने शुभे भाव-वारिणा विहिताप्लवः । अभिग्रहकृतानल्पा-कल्पः सत्कीर्तिचंदनः ॥५०॥ सदाचारमयच्छत्रो, हृदि सम्यक्त्वरत्नभृत् । दानकंकणरोचिष्णुः, संवेगगजमाश्रितः॥५१॥ धंतभंगकभूयिष्ठ-जन्यलोकपुरस्कृतः। भावनाऽद्भुतनारीभिः, कृतोरुधवलध्वनिः ॥५२॥ क्षमाभगिन्या प्रारब्ध-लवणोत्तारणक्रियः । निर्गत्य भूपतिर्गेहात्, पौषधागारमागमत् ।। ५३ ॥3 चतुर्भिः कलापकम् ॥ आगत्य विरतिश्वश्वा, कृतमांगलिकस्थितिः । शमाद्यैः शालकैः प्रोक्त -सरणिर्मध्यमाविशत् ॥५४॥
१निर्गतो वीरः-पतिः पुत्रो वा यस्याः सा-पतिपुत्ररहिता स्त्री. २ नृपेच्छा. ३ जानाना. ४ लज्जिता. ५ कृतम्मानः. ६ आकल्पः-वेशः. . द्वादशवतभंगकरूपय. SH हुजन्यलोकैः ( जानेण्या पुरुषैः ) अप्रतःकृतः, ८ कृतपोखणाचारमर्यादः.
SMSANCCCCCCC
॥१६॥
Page #373
--------------------------------------------------------------------------
________________
ROGRAMICROSSAE%AC%EC★
स्माता मार्दवनीरेण, शीलश्रीवरचीवराम् । सत्यकासकधरां, ध्यानद्वितयकुंडलाम् ॥ ५५ ॥ स्फुरन्नवपदीहारां, तपोभेदोरुमुद्रिकाम् । आनाययत् स्वतनयां, तत्र श्रीधर्मभूपतिः॥५६॥ युग्मम् ॥ ततोऽर्हदेवताऽध्यक्षं, करुणापाणिपंकजम् । ललौ चौलुक्यभूपालो, निर्मर्यादमुदम्बुधिः ॥५७॥ कृपया पाणिपझेन, स्पृश्यमानं निजं करम् । दृष्ट्वा तमानयन धन्यमेवमूचे नृपो हृदा ॥ ५८॥ पाणे ! त्यक्ताऽन्यकृत्येन, यदपूजि जिनस्त्वया। तत्प्रभावाद् बभूवास्याः। कराश्लेषस्तव ध्रुवम् ॥ ५९॥ अनीषल्लंभमन्येन, धर्मपुत्रीकरांबुजम् । आसाद्य दक्षिणत्वं स्वं, त्वया द्वेधाऽपि दर्शितम् ॥ ६॥ श्रुतोदितश्राद्धगुण-प्रशस्यकलशावलिम् । कृत्वा श्रद्धामयीं वेदी, विचारोच्छ्रिततोरणाम् ॥ ६१॥ उद्दीप्य च प्रबोधाऽग्निं, तर्पितं तत्त्वसर्पिषा । तं प्रदक्षिणयामास, सवधूकं नृपं गुरुः ॥ ६२ ॥ युग्मम् ॥ जामात्रे ददिवान् धर्मः, पाणिमोचनपर्वणि । सौभाग्यारोग्यबह्वायु-र्बलसौख्यान्यनेकधा ॥ ६३ ॥ एवं महेन संवृत्ते, पाणिग्रहणमंगले । प्रणेमिवांसं राजार्ष, सूरिराजोऽन्वशादिति ॥ ६४ ॥ या प्रापे न पुरा निरीक्षितुमपि श्रीश्रेणिकाद्यैर्नृपः, कन्यां तां परिणायितो|ऽसि नृपते ! त्वं धर्मभूमीशितुः। अस्यां प्रेम महद् विधेयमनिशं खंड्यं च नैतद्वचो, यस्मादेतदुरुप्रसंगवशतो भावी भृशं निवृतः ॥६५॥ (शार्दूलविक्रीडितम् ) ततः स्वसदनं प्राप्य, तदैव धरणीधवः। विधिना करुणादेव्याः, पट्टबंधविधि व्यधात् ॥६६॥ सर्वोत्कृष्टैर्गुणैर्दृष्ट्वा, तां चेतःप्रीतिकारिणीम् । निजैप्रकृतिवद् भूपः, कदाचन मुमोच न ॥६७॥ अतिप्रीतं
१ कृपाहस्तद्वारा. २ निजहस्तम्. ३ दुष्प्रापं. ४ चतुरत्वं वामेतरत्वं च. ५ खकीयं. ६ सौभाग्य-सर्वजीवप्रियत्वम्. . दीर्घम् . ८ संपूर्णे सति. शिक्षयामास. १. सुखी. ११ पट्टराद्वीपदविधिम्. १२ निजखभाववतू.
REACCIRCRACTROCCESCRSCR-00-00-
Page #374
--------------------------------------------------------------------------
________________
कुमार
सर्ग.
पालच.
॥१६२॥
प्रियं मत्वाऽ-भिदधे धर्मनंदिनी । मोहं जित्वा पुनः स्थाने, स्थाप्यतां जनको मम ॥ ३८॥ विमृश्य धर्मभूपेन, समंद तत्क्षणमेव सः । सद्ध्यानसेनानाथेन, तत्सैन्यान् समनीनहत् ॥ ६९॥ भगिनीपतिसाहाय्या-छमाद्या धर्मनंदनाः। प्रगल्भांश्चक्रिरे 'ग्रीष्म-योगादर्ककरा इव' ॥ ७॥ औचित्यच्छत्रभृन्याय-सदाचारोरुचामरः । सत्यसन्नाहभाग् ज्ञान-तपःप्रभृतिकायुधः ॥ ७१ ॥ विपक्षक्षेपैसापेक्ष-शमाधुरुपरिच्छदः । अध्यासामासिर्वान् धर्मभूभृदास्तिक्यसिंधुरम् ॥ ७२॥ युग्मम् ॥ | अथ योगेने गुप्तांगो, जिनाज्ञाकृतशीर्षकः। सत्त्वकौक्षेयकः शुद्ध-ब्रह्मास्त्रविलसद्युतिः ॥ ७३ ॥ विवेकोइंडकोदंडो, मूलोत्तरगुणाशुगः। भावनाद्भुतशस्त्रीको, माध्यस्थ्यशिंतकुंतभृत् ॥ ७४ ॥ गुरुक्लुप्तशिखाबंधो, दत्ताशीः सर्वसाधुभिः। वैराग्यगजमारुक्ष-नृपो 'देहीव विक्रमः' ॥ ७५ ॥ त्रिभिर्विशेषकम् ॥ सद्दिने धर्मनाथेन, ससैन्येन समन्वितः । मोहराज पराजेतुं, प्रतस्थे मनसाऽथ सः ॥ ७६॥ मार्दवार्जवसौम्यत्व-विनयाभिग्रहादयः । बिभरांचक्रिरे तस्य, तदा नासीरवीरताम् ॥ ७७॥ स्थित्वा मोहपुरासन्ने, कापि तं प्रति भूपतिः । ज्ञानादशाह्वयं दूतं, निसृष्टार्थ विसटवान् ॥ ७८ ॥ स राजद्वारमापन्नो, दुर्ज्ञानाख्येन वेत्रिणा । पुरस्कृत्य स्वयं नीतो, मोहपृथ्वींद्रपर्षदम् ॥ ७९ ॥1
१ समसजयत, २ कूर्दयामासुः. ३ शत्रुविनाशाभिलाषुक, ४ उपविष्टः, ५ योगेन-मनोयोगादिना. शिरत्राणम् . . खड्गः. ८ छुरिकायुक्तः. ९ तीक्ष्ण०.| G|१.हेमाचार्यरचितरक्षाविधिः, ११ मनोद्वारा. १२ अग्रेसरसुभटतां. १३ ज्ञानदर्पणनामानम्. १४ उभयोर्भावमुनीय, खयं वदति चोत्तरम् । संदिष्टः कुरुते
कर्म, निसृष्टार्थस्तु सस्मृतः ॥१॥.
॥१६२॥
Page #375
--------------------------------------------------------------------------
________________
तत्रोद्यद्धामदुर्धर्ष, प्रकर्षप्राप्तवैभवम् । दूरतोऽपि दुरालोकं, दुष्टदृग्विषसर्पवत् ॥४०॥ जगजनजयोसिक्तैः, क्रोधाद्यैस्तनुजैर्व-18 तम् । कुठेठरिवोलंठ-मिथ्यात्वाद्यैर्भटैर्युतम् ॥८॥ मनसाऽप्यपराजय्यं, परित्रासमिवांगिनम्'।मोहराज महाराज, ज्ञानादशों ददर्श सः॥८॥ त्रिभिर्विशेषकम् ॥ तं तादृशं निरीक्ष्यापि,न भयभ्रांतमानसः।दूतो दौत्योचितं वाक्यं, जगादेवं तदग्रतः | ॥८शारे मोह ! त्वं ससैन्योऽपि, पुरा येन व्यजीयेथाः। तस्य श्रीहेमसूरींदोः,पादपीकषट्पदः॥८४॥पराजिंगीपमाणस्त्वां, संप्रा|प्तस्त्वत्पुरांतिकम्।मापः कुमारपालोऽयं, प्रहिणोति स्म मामिह ॥८५॥ युग्मम् ॥ विश्वमाक्रममाणेन, भवताऽभ्युन्मदिष्णुना। च्याव्यते स्म निजस्थानाद्, धर्मनामा महीपतिः॥८६॥ आश्रमं हेमसूरीयं, संश्रितस्तद्विरा सुताम् । निजां कृपाख्यां चौलुक्य-भूभृता पर्यणाययत् ॥८७॥ अभिषेक्तुं पुना राज्ये, श्वशुरं स कृतज्ञधीः । व्यवस्यति सतामेवं, रीतिर्हि प्रीतिवृद्धये | ॥४८॥ ससैन्यो धर्मनाथोऽपि, तत्पाद्ये वर्तते जेयी। तदागत्य तदाज्ञां त्वं, शीर्षे शेषात्वमापय ॥ ८९॥ अन्यथा खलु चौलुक्य-स्त्वां ससैन्यमपि क्षणात् । ध्वंसिष्यते यथा हस्ती, समूलमपि पादपम् ॥ ९॥ श्रुत्वा तत् सा सभा भेजे, मथ्यमानाधिलोलताम् । अंधभविष्णवः स्फूर्त्या, कोपाद्याश्चैवमूचिरे ॥ ९१॥रे रे कोकूयते कोऽयं, खरवन्मुखरः पुरः । हन्यतां दासवद् गाद, गले धृत्वा च कृष्यताम् ॥ ९२ ॥ तुमुत्तिष्ठमानेषु, मिथ्यात्वादिभटेष्वथ । निवार्य तानवार्यश्री-र्मोहस्तं दूतमूचिवान् ॥९३ ॥रे रे मयि जगजैत्रे, वज्रिणीवात्र दीव्यति । हेमाचार्येण को मोहः,
१ उदयं गच्छत्तेजोभिरपराभवनीयम् . २ उद्धतैः. ३ दृतस्य कर्म दौलं. ४ हेमचंद्रेण, ५जितः.६ पराजेतुम् इच्छन्. . अभ्युन्माद्यति इत्येवं शीलस्तेन. वि-अव-षोऽन्तकर्मणि, धातुनामनेकार्थत्वात्-प्रयनं करोतीत्यर्थः. ९ जयतीत्येवंशीलः, १० गर्वेण चेष्टया वा. ११ भतिशयेन कवते इति को ठूयते.
कु.पा.च.२८
८
Page #376
--------------------------------------------------------------------------
________________
कुमारपालच०
॥१६३॥
Corrtortor
पराजिग्ये निगद्यताम् ॥९४ ॥ सिसंग्रामयिषुः सोऽयं, चौलुक्यो युक्तमागमत् । न वेत्ति यदयं मूढो, महोबलमनगेलम् ॥ ९५ ॥ असौ धर्मः परं केन, मुखेन प्राप्तवानिह । यो मया क्लीबवच्चक्रे, स्थानभ्रष्टो निजौजसा ॥९६ ॥ वर्षीयस्त्वात् पुरा जीवन , मुक्तोऽयं सांप्रतं मया । करिष्यते रणमखे, निश्चितं प्रथमाऽऽहुतिः ॥९७॥ युक्तं धर्मोऽतिवृद्धत्वा
जज्ञे मरणसंमुखः। परं परार्थ त्वद्भूपः, किं मुमूर्षति मूर्खवत् १॥ ९८॥ हुं ज्ञातं धर्मनंदिन्या, प्रेरितस्तातसंपदे । अम्रियतेऽयं हहा योषि-द्वश्यानां कियती हि धीः ॥ ९९ ॥ मर्तव्यं मत्करेणैव-ममीमिरिति वैधसीम् । लिपिं स्वां ४|सूनृतीकर्तु, युक्तमत्रापतन्नमी ॥ १०॥ अहमायात एवायं, त्वत्पृष्ठे रे युयुत्सया । तमपि त्वं रणोत्संगे, दर्शये स्वामिनं निजम् ॥ १०१॥ ततस्तस्मिन् गते दूते, मोहो भृकुटिभीषणः । सैन्यं दुध्योनसेनान्या, तत्क्षणं समवर्मयत ॥१०२॥ धारयन् कवचं काये, स्फूर्जन्मात्सर्यनिर्मितम् । परस्त्रीरूपदुष्कृत्य-प्रमादाद्यसभासुरः ॥ १०३ ॥ नास्तिक्यद्विपमास्थाय, मोहभूपो रिपून् प्रति । चचालान्यायवाचाल-कुशास्त्रसचिवादियुक् ॥१०४॥ युग्मम् ॥स्तब्धत्वानार्जवक्रौर्यविगॉनव्यसनादयः । बहुधा वल्गु वल्गंतो, बभूवुस्तत्पुरस्सराः ॥१०५॥ अन्वक प्रतस्थिरे तस्य, क्रोधाद्यास्तनया घनाः। मिथ्यात्वाद्याश्च योद्धारो, वैरिग्रासैकलालसाः॥१०६॥ अर्वाक चौलुक्यसेनाया, निवेश्य स्ववरूथिनीम् । आहूयामात्यपुत्रादीन् , व्याजहारेति मोहराट् ॥ १०७ ॥ अहो चित्रमहोचित्रं, जीवद्भिः किं न वीक्ष्यते ?, पुंस्पर्शः कोऽपि चौलुक्यो, यन्मामपि जिगीषति ॥ १०८ ॥ शक्रादयोऽपि यद्दासाः, सह तेन हहाऽधुना । उत्तिष्ठते युधे (घि)
१ युद्धयले. २ संग्राममध्ये. ३ कुत्सितबहुभाषी. ४ निंदा. ५ अत्यतं चेष्टमानाः. ६ पृष्ठे. ७ सेनाम्. ८ पुमान् पशुरिव. ९ ममापि, प्र.
R-USACROSARSAROK
।॥१६३॥
Page #377
--------------------------------------------------------------------------
________________
मयः, कत्यं देवस्य पश्यत ?॥१०९॥ ममेयमेव चिंतोच्चै-र्यदिमौ मद्भजौ कथम् । त्रैलोक्यबललुंटाको, नृकीटं निहनिष्यतः॥११० ॥ इत्यवज्ञापरं वीक्ष्य, चौलुक्ये खं महीश्वरम् । मंत्री मिथ्याश्रुतं नाम, तमूचे समयोचितम् ॥१११॥
नृकीट इति देव ! त्वं, राजर्षि माऽवजीगणः । लोकान्मया श्रुतं कोऽपि, परात्मांश इवास्त्ययम् ॥ ११२॥ विदन्नपि ६ तव प्रौढिं, यः सह त्वदरातिना । अभिषेणयति स्म त्वां, स सामान्यो भवेत् किमु ॥ ११३ ॥ निर्वासिताऽमुना हिंसा,
सुता स्वामिस्त्वयेक्षिता । तव द्यूतादिमित्राणां, यच्चके तत् किमुच्यते ॥ ११४ ॥ गुरौ चैतस्य पृष्ठस्थे, प्रतिदैव इव स्वयम् । अलंभूणुन देवोऽपि, किं वक्तव्यः परः पुनः? ॥ ११५ ॥ बलेनास्यैव धर्मोऽपि, वैरप्रतिचिकीर्षया। प्राप्तोऽस्ति 8 |'समये कार्य, न साधयति कः सुधीः ॥११६ ॥ तदयं समरारंभः, स्वामिश्चिंत्योऽस्ति वस्तुतः । अमात्ये निगदत्येवं, चुकुपुर्मोहनंदनाः॥११७ ॥ ततः क्रोधोऽभ्यधात् केयं, भीतिः ? कथय मे यथा । वडवाग्निरिवाशेष, शोषये द्विड्बलो-12 दधिम् ॥११८॥ ऊचे मानोऽभिमानोग्रो, लुप्त्वाऽऽचारवी(वि)लोचनम् । विश्वमप्यंधयाम्येतत् , कोऽस्त्ययं हेतको नरः? ॥ ११९ ॥ दंभोऽवदत् सरंभो, देवानामपि वंचके । मयि तिष्ठति सैन्येऽत्र, जयःसांशयिकः किमु ॥१२०॥ निःक्षोभः प्रोचिवालँ लोभ-स्तृष्णापूरे निमजयन् । जगत् पयोधिवत् सर्व, निरुध्ये विधिनाऽपि न ॥ १२१ ॥ तावत् कामभटो बमाण कटकाटोपो वृथाऽयं भटा,भाष्य(पं)ते किमिहोद्भटा? मम विभो! क्षिप्रंसमादिश्यताम् । एकोऽपिपंधनं विनैव चलह
१ऽमुम्, प्र. मोहमहीपम्. २ अवज्ञा मा कुरु.३ देवस्य सदृशं प्रतिदैवं तस्मिन्, ४ अलं ( समर्थः ) भवतीत्येवंशीलः.५ नष्टप्रायः. ६ सोत्साहः. ७ निर्भयः. ८ देवेन. ९ सेनाडंबरः. १० युद्धम्,
Page #378
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ १६४ ॥
कं चत्कटाक्षच्छटा- पाशैर्वैरि कुलं नियम्य सकलं, मुंचे यथा ते पुरः ॥ १२२ ॥ ( शार्दूलविक्रीडितम् ) सुभटानां निभा त्योच्चै - रित्याद्यारंभ पटुम् । जितकाशीव मोहेंद्र:, प्रधनावनिमानशे ॥ १२३ ॥ तावद् दूतोऽपि सज्ज्ञानादर्शोऽभ्येत्य निजं प्रभुम् । द्विषामामूलचूलं तं वृत्तांतं सर्वमूचिवान् ॥ १२४ ॥ तन्निशम्यानिशं शांता, अपि ते प्रशमादयः । वैरेंप्रबोधदुर्धर्ष - प्रकर्षाः प्रभुमुचिरे ॥ १२५ ॥ अहो दृष्ट्वाऽतिशांतान् नैः, पॅरेडमी प्रजगल्भिरे । दीपे मंदायमाने हि, स्फुरंति तिमिरोर्मयः ॥ १२६ ॥ कोऽस्ति मोहो वराकोऽयं ?, तस्य पुत्रा भटाश्च के ? । दलयामोsधुनैवैतान्, कणवत् | स्वामिशासनात् ॥ १२७ ॥ अस्माकं क्रामतां शत्रून्, समुद्राणां बलोर्मिभिः । वेलायते तवाज्ञैव, दैवेनापि दुराक्रमा ॥ १२८ ॥ भवतु ज्ञास्यते सर्वं, रणसीनीत्युदीरयन् । धर्मेंद्रो गूर्जरेंद्रश्च द्वंद्वार्थमुदतिष्ठताम् ॥ १२९ ॥ विधाय धर्मनाथं तं ससैन्यं पृष्ठरक्षिणम् । अलंचकार चौलुक्यः, क्षेत्रं द्विषदधिष्ठितम् ॥ १३०॥ दृष्ट्वा च मोहं दर्पिष्ठं, नृपोऽवोचत् समेहि भोः । आवामेव रणक्रीडां तन्वहे संतु सैनिकाः ॥ १३१ ॥ ' वपुष्मदिव सत्त्वं' तं दृष्ट्वा चौलुक्यमग्रतः । धूमायमानक्रोधाग्निः, स्माह मोहमहीपतिः ॥ १३२ ॥ रे पुंस्कीट ! समंततस्त्रिभुवनीमाक्रम्य तैर्विक्रमैः शक्राद्या अपि चक्रिरे किल | मया येन स्वदासा इव । प्रत्यग्रस्फुरदुग्रविग्रहधिया मोहस्य तस्याग्रत-स्तिष्ठन् धार्श्ववंशेन सांप्रतमसि त्वं कोऽपि
१ मार्येद्रजालसंग्राम-क्रोधोदूभ्रान्तादिचेष्टितैः (उद्धान्तं - बाहुम् उद्यम्य खगभ्रामणम् ) । संयुक्ता पणबंधाये - रुद्भटाऽऽरभटी मता ॥ १ ॥ ( उद्भटा-प्रवर इत्यर्थः ) इति एवंरूपां रचनाम्. २ जितेन जयेन काशते इति जितकाशी ३ प्राप. ४ वैरजाप्रत्या पराभवितुमशक्यः प्रकर्षः - उत्कर्षो येषां ते. ५ अस्मान. ६ शत्रवः, ७ महतां प्रकटयंति पृष्ठतां कुर्वन्ति ८ अतिगच्छताम् ९ तीरायते वीर इव आचरति. १० नूतन० ११ निर्लज्जतावशेन.
.
॥ १६४ ॥
Page #379
--------------------------------------------------------------------------
________________
ताम् ॥ १३८ ॥ ततः
AAAAAAAAACACAN
वीरांकुरः ॥ १३३ ॥ (शार्दूलविक्रीडितम् ) चौलुक्योऽपि तमूचिवान् वदसि रे यत् त्वं निजं विक्रम, त्रैलोक्याक्रमणादिकं तदभवजीर्ण परं संप्रति । स्थित्वोचं समरे यदि क्षणमरे ! कंडूलमदोर्बल-क्रीडां सोढमधीशिषे ननु तदा जाने तव स्फूर्जितम् ॥१३४॥ ( शार्दूलविक्रीडितम् ) शृणु किंच प्रतिज्ञा मे, जित्वा त्वां प्रधनेऽधुना । धर्म चेत् स्थापये राज्ये, तदाऽहं वीरकुंजरः॥१३५॥ तन्निशम्य भृशं क्रुद्धो, मोहो वीरधुरन्धरः । अस्त्राणि वर्षितुं लग्नो, जलानीव पयोधरः ॥ १३६ ॥ अशोषयन्नृपस्तानि, प्रत्यस्त्रैरतिदारुणैः । सरांसि किरणैस्तीत्रै-निदाघद्युतिमानिव ॥ १३७ ॥ यद्यदलं 8 स चिक्षेप, परस्त्रीव्यसनादिकम् । योगगुप्ते नृपांगेऽधात् , तत्तद् ग्राव्णीव कुंठताम् ॥ १३८॥ ततः क्षीणसमस्तास्त्रो, भ्रष्टबुद्धिरिवोच्चकै । किं किरोमि ? व यामीति?, व्यामोहंमोहराडू दधौ॥१३९॥ तावद् राजर्षिणा मोहो, ब्रह्मास्त्रेण तथाssहतः । यथा क्लीब इवाऽनेशद्, रणाद् विश्वेऽपि पश्यति ॥१४०॥ जितं जितमिति प्रोच्य, तदा चौलुक्यमूर्द्धनि । घनालीव व्यधात् पुष्प-वृष्टिं शासनदेवता ॥ १४१॥ अभिषिच्य ततो राज्ये, धर्मभूपं स भूपतिः । नमस्यितुं समायातो, गुरुणेति न्यगद्यत ॥ १४२ ॥ सत्पात्रं परिचिंत्य धर्मनृपतिस्तुभ्यं स्वपुत्रीं ददौ, तद्योगात् त्वमजायथास्त्रिभुवने श्लाघ्यप्रियासंगमः । स्मृत्वाऽस्योपकृति निहत्य च रिपुं मोहाख्यमत्युत्कटं, राज्येऽप्येनमधाः कृतज्ञ! सुचिरं चौलुक्य ! नंद्यास्ततः ॥ १४३ ॥ ( शार्दलविक्रीडितम् ) राजर्षिरथ हर्षेण, विवेक इव देहवान् । हेमाचार्य प्रति प्रोचे, विचाररुचिरं वचः ॥ १४४ ॥ प्रभो! त्वदुपदेशेन, निवेशेनेव सद्धियाम् । ज्ञातं धर्मस्वरूपं त-च्चातुर्विध्यं प्रबोध्यताम् ॥१४५॥ ततो विज्ञा
१ वीरपुत्रः. २ कडूतियुक्तमदाहुबलक्रीडाम्. ३ समर्थो भवसि. ४ गर्जितम्. ५ प्रवेशेन, माधयेण-गृहेणेल्यर्थों वा.
तः । यथा क्लीव इवाऽनेकथामीति?, व्यामोहंमोहरा
Page #380
--------------------------------------------------------------------------
________________
सर्ग.८
कुमार-1 पालच०
॥१६५॥
तसिद्धान्त-सारः सूरिमचर्चिका। वक्तुं प्रचक्रमे स्फार-सुधोद्गारिमया गिरा॥१४६॥ चतुर्गतिभवोद्दाम-वनभञ्जनकुञ्जरैः। दानशीलतपोभावैः, स धर्मः स्याच्चतुर्विधः॥ १४७ ॥ तत्र त्रिधा भवेद् दानं, निदानं स्वःशिवश्रियाम् । अभयज्ञानधर्मोप-प्ष्टंभरूपप्रभेदतः ॥१४८॥ प्राणिनां मृत्युभीताना-मभयार्पणमञ्जसा । पुण्यश्रीकोशसर्वस्वं, तदाद्यं प्रणिगद्यते ॥ १४९॥ सुमेरोन परं स्थेष्ठं, गगनान्न परं पृथु । वार्द्धन परमस्ताघ-मभयान्न परं हितम् ॥१५०॥ साधूनामागमग्रन्थ-सूत्राध्यापनादिभिः। प्रबोधवर्द्धनं यत् तत् , ज्ञानदानं विदुर्बुधाः॥१५१॥ येन प्रोल्लासितं ज्ञान-मज्ञानध्वान्तभास्करम् (रः)। तृतीयं लोचनं तेन, दत्तं विश्वार्थगोचरम् ॥ १५२ ॥ यदर्पणेन श्रामण्यं, निर्वहत्यनगारिणाम् । धर्मोपष्टंभनात् तत् स्यात् , तृतीयं दानमुत्तमम् ॥१५३॥ निराशंसः प्रसन्नास्य-चंचद्रोमाञ्चभाक् सुधीपात्राय शुद्धमन्नाद्यं, दद्यात् पुण्याभिवृद्धये ॥१५४॥ ज्ञानं क्रियान्वितं यस्मिन् , माणिक्योभासिहेमवत्।दौर्गत्यपातपातृत्वात् , तत् पात्रं | विदुरा विदुः॥ १५५ ॥ दयादानं पुनर्देयं, पात्रापात्राविवेचनात् । दुःस्थोपकारकत्वेन, तदप्युद्दामपुण्यदम् ॥ १५६ ॥ तस्य दानस्य माहात्म्यं, केऽभिष्टोतुमधीशताम्(श्वराः)। पाणिं प्रसारयत्युच्चै-जगदीशोऽपि यत्कृते॥१५७॥वपुरनुपमरूपं भाग्यसौभाग्ययोगः, समभिलषितसिद्धिवैभवं विश्वभोग्यम् । सुखमनिशमुदारं स्वर्गनिःश्रेयसाप्तिः, फलमविकलमेतद्, |दानकल्पद्रुमस्य ॥ १५८ ॥ (मालिनी) सर्वतो देशतो वाऽपि, यद् ब्रह्मव्रतसेवनम् । तच्छीलं कीय॑ते कीर्तेः, स्थूलं
१ सूरिश्रेष्ठः-प्रशस्तसूरिः. 'भतलिकादयो नियतलिंगा नतु विशिष्यविघ्नाः' इति सिद्धान्तकौमुद्याम् 'प्रशंसावचनैश्च' इति संत्रे. २ सुधाया उद्वारोऽस्यामस्ति सा सुधोद्गारिमा तया. ३ पाता-रक्षकः. ४ पात्रापात्राविचारात्. ५ उत्तमोत्तमयोगः,
Page #381
--------------------------------------------------------------------------
________________
RAKALAM
करणमनिमम् ॥१५९॥ कथं शीलं तुलयितुं, कल्पःकिल कल्पताम् अकल्पितं फलं दत्ते, यत् कलावपि सेवितम् ॥१६०॥ चित्तस्य करैणानाच, विविधेष्विष्टवस्तुषु । यदिच्छाऽनुत्थन तत् स्यात् , तपःपापाब्धिकुंभभूः॥१६१॥ दौर्भागिनेयानिव यान, मुक्तिस्त्री नाभिलष्यति । तपस्तेषां स्फुरत्येव, सुभगंकरणं परम् ॥ १६२॥ दानादिधर्मकृत्येषु, प्रीतिरात्यन्तिकी हदः । भावो भवेद् भवाम्भोद-प्रेरणैकसमीरणः॥ १६३ ॥ निःशेषमपि दानाद्यं, भावेनैकेन वर्जितम् । न स्यात् स्वादु
तमं भोज्यं, विना कालवणं यथा ॥ १६४ ॥ इत्थं चतुर्विधं धर्म, त्रिशुध्याऽऽराधयन् सुधीः। भुक्त्वा राज्यश्रिय 8 याति, मुक्तिं विक्रमराजवत् ॥ १६५ ॥
तथाहि धातकीखंड-भरते भारिते श्रिया । पुरं शिवपुरेत्याख्य-मभूद् भूमिविभूषकम् ॥ १६६ ॥ यत्र लोकोऽपशोकोऽस्त-विपदः संपदः सदा । सुखं न दुःखसंपृक्तं, भोगो रोगोद्भवोज्झितः॥१६७॥ नृपस्तत्र हरिश्चन्द्र-श्चन्द्रोज्वलयशा बभौ । चन्द्रतुल्यातिश्चन्द्र, इवाऽऽसेचनकः सताम् ॥ १६८॥ विपक्षक्षितिनाथानां, यशसि विशदान्यपि । अनन् कौशेयको यस्य, काल एवाऽऽस्त कौतुकम् ॥ १६९ ॥ तत्प्रिया रोहिणीत्यासी-च्छीलरत्नाधिरोहिणी। रोहिणी या पराजिग्ये, सौभाग्याद्भुतवैभवैः ॥ १७॥ त्रिविक्रम इवासीम-विक्रमस्तत्र विक्रमः । राजपुत्रोऽभवद् रौद्रदारियोपद्रुतः परम् ॥ १७१॥ स नानोपायनिष्णोऽपि, निर्भाग्यग्रामणीरिव । अनामुवन् धनं काऽपि, दध्यौ निर्वेद
१(कीर्तिः) स्थूला क्रियतेऽनेन ( शीलेन ) तत्. २ समर्थो भवेत्. ३ इंद्रियाणाम्. ४ किंचिदूलवर्ण कालवणम्. ५ शुभैः, प्र. ६ भूमिविभूषणम्, प्र. ७ शीलरनमधिरोहतीत्येवंशीला. ८ 'रजपूत' इति भाषायाम्.
Page #382
--------------------------------------------------------------------------
________________
कुमारपालच.
SAGARCAERONAGACAR
मेदुरः॥१७२॥ हहाऽर्थेन विना तेऽमी, मम शौर्यादयो गुणाः । वृथाऽजनिषताऽङ्केन, विमुक्ता बिन्दवो यथा ॥१७॥ हामन्येऽहं धनमेवैकं, विश्वसंजीवनौषधम् । यद्दर्शनेऽपि जीवन्ति, जनाश्चित्रमिदं पुनः॥ १७४॥ दौष्ठवं नापरं नैरव्यात्,
सौष्ठवं नापरं धनात् । बुद्धेति धीधनैर्धन्यं, धनमेवाय॑मूर्जितम् ॥ १७५ ॥ ततो धनाप्तये देशा-न्तरे प्रास्थित विक्रमः। उद्योगो हि धुरीणत्वं, धत्ते श्रीश्राप्तिहेतुषु ॥ १७६ ॥ स भ्रमन् कानने क्वाऽपि, ‘स्वभाग्यमिव देहभृत्' । दृष्टवान् धर्मनिस्तेन्द्रं, मुनिचन्द्राभिधं गुरुम् ॥ १७७ ॥ तं ज्ञानिनमिवामृश्य, नमस्कृत्य च विक्रमः । पृष्टवान् भगवन् ! कस्मान्मम नास्ति घनं धनम्? ॥१७८॥ गुरुरूचे त्वया यत् प्राग् , दानधर्मो न निर्ममे । यतेरिव ततो जात-माकिंचन्यमिदं तव ॥ १७९ ॥ जल्पन्तो देहि देहीति, दारियाग्रेसरा इव । भिक्षन्तेऽनुगृहं केचिद् , यत् तत् कार्पण्यनैपुणम् ॥ १८० ॥ एकमेव हि देहीति, वाक्यं जिह्वांचलस्थितम् । दातुर्गौरवमाधत्ते, याचकस्य तु लाघवम् ॥१८१॥ संग्रहे साग्रहाः सन्ति, कीटाद्या अपि कोटिशः। दानेऽतिविदुराः प्रायो, देवा अपि न केचन ॥ १८२ ॥ क्षित्वा गर्ने निरुच्छासा-मिव ये कुर्वते श्रियम् । दुष्टाशयेव दृष्ट्याऽपि, सा न पश्यति तान् पुनः ॥ १८३ ॥ तदेकाग्रमना दानं, सेवस्व स्वानुमानतः। यथाऽनेन घनेनेव, दौस्थ्यदाहः प्रयाति ते ॥ १८४ ॥ किञ्चैवं मा स्म शंकिष्ठा, ददाम्यल्पधनः किमु । दारिद्य दानमपिष्ठ-मपि पुण्यर्द्धिपुष्टये ॥१८५॥ न पात्रसात् कृतं क्वापि, याति पश्य पयोनिघेः।धनार्पितं पयः सिन्धू-भूय भूयोप्युपैति हि॥१८६॥ स्वीकृत्य तद् गुरोर्वाक्यं, विक्रमः प्रस्थितस्ततः। यत् तत् प्रतिदिनं यच्छन् , गुर्वीमूर्वी विचेरिवान् ॥१८७॥
१ एककार्यकं विना विंदवः ( एकडाविनानांमीडां ). २ धर्मे आलस्यरहितम्. ३ एकमेवं, प्र. ४ तु, प्र. ५ द्वि.प्र.६ भ्यु, प्र.
॥१६६॥
Page #383
--------------------------------------------------------------------------
________________
CAREERSONAMASSACARE
४|| सोऽन्यदा विपिने क्वाऽपि, दध्यौ चूततलस्थितः । कथं लक्ष्मी समानेष्ये, करिष्येऽपि च पात्रसात्॥१८८॥ तावत् तत्रान्ति
कबिले, स्वर्णदीनारमेककम् । दृष्ट्वा निधिरिहास्तीति, खनितुं स विलग्नवान् ॥ १८९॥ खाते कियत्यपि क्षोणि-तले प्रादुरभून्निधिः । उदरे स्वर्णदीनार-शतपंचकसंकुलः ॥१९०॥ परकीयमिमं गृह्णे, नवेति विमृशन् मुहुः । विक्रमो जगदे देव्या, पुरोभूय कयाचन ॥ १९१ ॥ तव दानमयीं बुद्धिं, ज्ञात्वा दातुं निधि तव । आम्रस्थया मया चक्रे, दीनारः प्रकटो बिलात् ॥ १९२ ॥ गृह्णीष्व तदिमं स्वेच्छं, मुंश्व च स्वीयवित्तवत् । देव्यामुत्त्वेत्यदृश्यायां, विस्मेरो विममर्श सः ॥ १९३ ॥ दानस्याहो महः किंचिद् , यस्य वासनयाऽपि च । दीयते स्म निधिय, इव देव्या ममाऽनया ॥ १९४॥5 विक्रमस्तं समादाय, स्वीयं वेश्म समाश्रितः । सामान्यगृहमेधीव, जज्ञे तेन मनाक् सुखी ॥ १९५॥ निदानं सम्पदा दानं, स मत्वा तदिनान्मुदा । असेविष्ट विशेषेण, कः स्याद् दृष्टफलेऽलसः ॥१९६॥ पुण्यारुणोदयात् तस्य, नष्टे नैस्व्य
तमोभरे । प्रकाश इव सोल्लासो, बभूवान विभवः शनैः ॥ १९७ ॥ अन्यदा भोक्तुमासीनो, विक्रमः शुभयोगतः । पार-13 दाणार्थ गृहप्राप्तं, जिनराजं निरैक्षत ॥ १९८॥ स प्रीत्यंचितरोमांचो, भावनाभरभासुरः। प्रणिपत्य विशुद्धान्नै-र्जिने|श्वरमपारयत् ॥ १९९ ॥ तदा दुर्दुभयो नेदुः, दिवि मेदुरनिःस्वनैः । विश्वत्रयेऽपि तहान-माचक्षाणा इवोच्चकैः ॥२०॥ तदानाद्भुतदर्शिन्या, दिवो हर्षाश्रुवृष्टिवत् । गन्धोदकच्छटाः पेतु-स्तदा विक्रमवेश्मनि ॥२०१॥ विस्मेरकुसुमस्तोमवृष्टिस्तत्सदनेऽलसत् । वृन्दारकैर्विरचिता, तं वदान्यमिवार्चितुम् ॥२०२॥ तदा ापतिताऽन-रत्नहेमोत्करच्छलात ।
१ उदार० प्र. २ नेष्टे, प्र. ३ दातारम् , ४ नवीन-अपूर्व
SESSERSCHOSSASSA
Page #384
--------------------------------------------------------------------------
________________
KO+C+
C
कुमारपालच०
॥१६७॥
विक्रमस्यालये श्रीः स्वां, राजधानीमिव व्यधात् ॥ २०३ ॥ तेन दानेन तद्वेश्म, विशतः पुण्यभूपतेः। न्यायमेतदितीवोच्चै-श्चेलान्युच्चिक्षिपुः सुराः॥ २०४॥ तत् तादृग् महिम प्रेक्ष्य, हरिश्चन्द्रनृपः स्वयम् । सपौरोऽप्येत्य तुष्टाव, वन्दिवद् विक्रमं तदा ॥ २०५॥ जिनेन्द्रे विहृतेऽन्यत्र, पात्रदानमहोदयम् । दृष्ट्वा स्वं मानयन् धन्यं, बुभुजे स महाभुजः ॥ २०६ ॥ ततः कैलाससंकाशं, विरचय्य स्वमन्दिरम् । कलयन् मान्मथीं लीला, विक्रमः सुखमन्वभूत् ॥ २०७॥ रचितोदारशृङ्गारो, नरेश्वर इव श्रिया । विक्रमो जग्मिवान् रन्तुं, हृद्यमुद्यानमन्यदा ॥ २०८ ॥ कुसुमस्तबकस्तन्यः, स्फुरत्पल्लवपाणयः । लताऽङ्गाना हरंति स्म, तन्मनस्तत्र विभ्रमैः ॥ २०९॥ तस्मिन्नन्दनवञ्चित्ता-नन्दने सुमनोभरैः । स चिरं रंरमीति स्म, मूर्धन्य इव भोगिनाम् ॥ २१०॥ पश्यन् वनश्रियं सोऽथाs-पश्यत् कापि नरं वरम् । उत्पतन्तं पतन्तं च, छिन्नपक्षपतत्रिवत् ॥ २११॥ अप्राक्षीच्च सखे ! कस्मात् , त्वमुत्पत्य पतस्यधः । इत्युक्तः स तमाह स्म, पुमाननुपमानवाक् ॥ २१२ ॥ (तथाहि-) ___ अस्ति विस्तीर्णभावाल्यो, वैतान्योऽत्र धराधरः । तस्मिन् पुरं परार्थ्यश्री-मन्दिरं मणिमन्दिरम् ॥२१३॥ नृपः पवन-IN वेगाख्य-स्तत्र सुत्रीमविक्रमः । ताया विपुलच्छाँया, पौलोमीव जयाऽऽह्वया ॥ २१४ ॥ तत्पुत्रो नीलकंठोऽह-म-18 कुंठोत्कंठयान्वितः । सिद्धविद्यतया व्योम्ना, नंतुं तीर्थानि चेलिवान् ॥ २१५॥ प्रणम्य तान् गणतिथान् , व्यावृत्तः
१ आलयमाश्रित्य, १ कामदेवसंबंधिनीम्, ३ पुष्पगुच्छककुचाः, ४ भंगारिकचेष्टाभिः५ इंद्रसमपराक्रमः । तत्पनी. ७ कान्तिः, ८ गणतीयान्, ५.प्र.-संपूर्णसमूहान् तीर्थान्.
ONCCCC
Page #385
--------------------------------------------------------------------------
________________
AMACA
स्वपुरं प्रति । दृष्ट्वाऽऽराममिमं रम्यं, रन्तुमस्मिन्नवातरम् ॥ २१६ ॥ क्रीडित्वाऽत्र पुरं यातुं,ध्यायन् विद्यां खगामिनीम् । प्रमादवानिवाकस्माद्, व्यस्मार्ष पदमेककम् ॥२१७॥ ईदृक् कष्टास्पदं तेन, सखे ! संपन्नवानहम् । पक्षिणां पक्षवद् विद्या|भृतां विद्या हि साधनम् ॥२१८॥ व्यथाऽऽर्त इव तच्छ्रुत्वा, विक्रमस्तमवोचत ।मदने यदि पाठारे, तर्हि विद्यां निजां पठ ॥ २१९ ॥ अश्राव्यं किमपाठ्यं ते, प्रोच्येति स पपाठ ताम् । पदानुसारिधीरूचे, विक्रमो विस्मृतं पदम् ॥ २२०॥ विद्याधरोऽथ सम्पूर्ण विद्यस्तं हृद्यमूचिवान् । अहो प्रज्ञा नवेयं तेऽ-नधीतमपि याऽस्मरत् ॥ २२१ ॥ यदिवा विद्यते सीमा, व्योमाऽऽकाशदिशामपि । विश्वविश्वैक दृश्वर्याः, सत्प्रज्ञायाः पुनर्नहि ॥ २२२ ॥ तवोपचक्रुषः प्राग मे, न समा प्रत्युपक्रिया । कृतज्ञतोचितं किंचित्, कुर्वे तदपि ते हितम् ॥ २२३ ॥ ततः स व्योमविद्यां तां, वितीर्यैका तथोमिॉम्।। |इयं सर्वविषघ्नेति, तत्प्रभावमची(च)कथत् ॥ २२४ ॥ संगस्ये पुनरेत्याह-मित्युक्त्वा तत्र जग्मुषि । विद्योर्मिकाऽऽप्ति| सन्तुष्टो, विक्रमः प्राप्तवान् गृहम् ॥२२५॥ हरिश्चन्द्रनृपस्याथ, प्रतिरूपमिव श्रियः । नन्दनी कमेकीराऽऽम्र-मञ्जरी रत्नम-18 अरी ॥ २२६ ॥ आक्रीडकोडमध्यास्य, वयस्याभिः समं चिरम् । किलन्ती दंदशकेन, निःशूकेन व्यदश्यत ॥ २२७॥ युग्मम् ॥ आपादमस्तकं विष्व-द्रीची भिस्तद्विषोम्मिभिः । मूच्छिता च्छिन्नवल्लीव, भूमिपीठे लुलोठ सा ॥ २२८ ॥ तज्ज्ञात्वाऽन्तिकमागत्य, मातापित्रादयोऽखिलाः। विषापहैर्ग(गा)रुडवद्-वैद्यैस्तामचिकित्सयन् ॥२२९॥ उपदेशा इवा
१ नूतना-अपूर्वा. २ जलाकाश दिशाम्. ३ चक्रधुः, प्र, चकृवसूशन्दोऽत्र. ४ ऊर्मिका-अंगुल्याभरणं ताम् (वीटी). ५ कमः कीरो यस्यां तादृशी भाम्रमन्जरीव स्थिता इति शेषः, ६ उद्यानमध्यम्.
REERS
Page #386
--------------------------------------------------------------------------
________________
कुमारपालच.
सर्ग.८
॥१६८॥
भव्ये, स्नीकटाक्षा इवार्भके । उपायास्तत्कृताः सर्वे, वृथात्वं तत्र तेनिरे ॥ २३०॥ प्रमीतामिव तां मत्वा, पितरौ तदुजातुरौ । क्षणं विनिततद्दुःखां, मूर्छामानछेतुस्तराम् ॥ २३१॥ हरिश्चन्द्रः सचैतन्यो, मंत्रिमंत्रेण तत्क्षणं, मध्ये शिवपुरं विष्वक्, पटहानित्यजूघुषत् ॥ २३२ ॥ सज्जयिष्यति पुत्रीं य-स्तस्मै दापिष्यते मया । राज्यार्बेन समं सेयं, कुललक्ष्मीरिवांगिनी ॥ २३३ ॥ ताहगाघोषणं श्रुत्वा, विक्रमः श्रितसत्क्रमः । निजोमिकापरीक्षार्थ, ययौ राजसुताऽन्तिकम् ॥ २३४ ॥ नृपस्तदर्शनादेव, स्वसुतां जीवितां विदन् । अभ्युत्थानादिना मित्र-मिव तं समतूतुषत् ॥ २३५ ॥ दृष्ट्वा तां विक्रमस्त्रस्य-द्विषोर्मिस्वोर्मिकाजलैः । आच्छोटयन् मुखे साऽपि, सुप्तेव द्रागजागरीत् ॥ २३६ ॥ विकसन्नेत्रपद्मा सा, पद्मिनीव नृपात्मजा । तं भास्वन्तं पुरः प्रेक्ष्य, युक्तमेवान्वरज्यत ॥२३७॥ सज्जितां स्वसुतां दृष्ट्वा, कृतहर्षाश्रुपल्वलः। भूपालः स्तुतिवाचाल-स्तं विक्रममदोऽवदत् ॥ २३८ ॥ हृदयालुदयालुश्च, त्वमेकोऽस्यधुना ध्रुवम् । परार्तिहरणे यस्य, |निकामरसिकं मनः ॥ २३९ ॥ आस्तामजननिस्तस्य, जननीयौवनच्छिदः। आर्त नोपंचरीकर्ति, सामर्थ्ये सति यः कुधीः
॥ २४०॥ यद्वा तवोत्तमत्वस्य, वास्तवोऽयं स्तवः कियान् । जिनोप्यकृत यत्पाणी, पारणं पुण्यकारणम् ॥ २४१॥ हरि|श्चंद्रस्ततस्तेन, परिणाय्य निजांगजाम् । तदैवाऽदित राज्याच, सत्यसन्धा हि साधवः ॥ २४२ ॥ ततो द्विपवरारूढो, रत्नमंजरीसंयुतः। अभ्रमूर्द्धस्थितश्चन्द्र, इवैकाश्रिततारकः ॥ २४३ ॥ विक्रमोऽयं स्मरो नूनं, नानामुनिकदर्थनात् । दुःस्थो|४|
घोषणाम् , प्र. २ मनखी-विचारशीलः, ३ अत्यंतम्. ४ अनुत्पत्तिः, अथवा धिक्कारः, ५ पुनः पुनरतिशयेन वोपकरोतीति उपचरीकर्ति उपपूर्वाद् यद्दल| गन्तात् करोतेलं. ६ ल.
Ne%COUNCUSEGAON
॥१६८॥
Page #387
--------------------------------------------------------------------------
________________
कु.पा.च. १९
भूत्वा पुनः पीन - पुण्यैरीदृक् शुभोऽभवत् ॥ २४४ ॥ हरिश्चन्द्रसुताऽप्येषाऽ - वश्यमासीत् पुरा रतिः । स्मरं विक्रमदंभेन, बभाज कथमन्यथा । ॥ २४५ ॥ शृण्वन्नित्यादिकाः पौरीः, कथाः श्रितरसप्रथाः । उत्सवेन निजं वेश्म, विशति स्म स विक्रमः ॥ २४६ ॥ चतुर्भिः कलापकम् ॥ तां स्त्रैणगुणपाथोधि- पारीणां रत्नमञ्जरीम् । रमयन् विक्रमः कॉमं, कॉमं निन्ये कृतार्थताम् ॥ २४७ ॥ प्रवृद्धे विभवे तस्य, दानमप्यवृधत्तमाम् । दिनाधिक्ये न किं धाम-धाम्नो धाम प्रगल्भते ? ॥ २४८ ॥ तर्दुद्दामगुणोद्भूत - सद्यशः पटहस्वनः । प्रसरन्नार्थिनो नूनं निद्रितानजजागरत् ॥ २४९ ॥ असामान्यं वदान्यं तं दवीयांसोपि ते यतः । प्रपद्यन्ते स्म दानार्थ, षट्पदा इव पंकजम् ॥ २५० ॥ वृद्धोऽथ स हरिश्चन्द्र - महीन्द्रोऽपसुतत्वतः । राज्ये तं विक्रमं न्यस्य, परलोकं व्र्व्यलोकत ॥ २५१ ॥ ओजायामासिवान् कामं तेन राज्येन विक्रमः । पुष्पकालेविलासेन, यथा कुसुंमशायकः ॥ २५२ ॥ प्रणुन्ना इव तत्पुण्यै र्महान्तोऽपि महीभृतः । निभृतः प्राभृतैर्दिव्यैनृपं तमुपतस्थिरे ॥ २५३ ॥ घनेऽपि स्त्रीजने राज्ञी - पदं श्रीविक्रमो ददौ । प्रेयस्यै रत्नमंजर्यै, प्रौढप्रीतेरिदं कियत् १ ॥ २५४ ॥ तस्मिन् घनोदये न्याय-नीरेणाभ्क्षति क्षितिम् । खला जवासकंतिस्मै, नीपंति च साधवः ॥ २५५ ॥ जितोच्चैःश्रवसो वाहा, दूरितेन्द्रद्विपा द्विपाः । अतिवाक्पतयोऽमात्या - स्तस्य राज्ये विरेजिरे ॥ २५६ ॥ चतुरंगबलं तस्य तादृगासीन्महाबलम् । यस्मिन् वल्गति शंकेऽहं शशंके चक्रवर्त्त्यपि ॥ २५७ ॥ अहो दानस्य महिमा, न हि माति जगत्रये । येन तादृगू
१ पुष्टदानैः २ मेजे. ३ श्रिता रसेन प्रथा - ख्यातिर्यांसां ताः ४ अत्यन्तम्. ५ कामं -तृतीयपुरुषार्थम् ६ दान० ७ अर्थिनः ८ व्यलोकयत्, प्र. ९ वसंत ०. १० कामः ११ विनयवंतः - नम्राः संतः १२ सिंचति सति. १३ जवासकते स्म, प्र. १४ कदम्बवृक्ष (पुष्प) इवाचरन्ति स्म.
Page #388
--------------------------------------------------------------------------
________________
OTE
कुमार
सर्ग.८
पालच०
॥१६९॥
RECRUARY
है दरिद्रोऽपि, जज्ञेऽयं विक्रमो नृपः॥२५८॥ विमृश्य स्वमनस्येवं, पौराः सर्वेऽपि सर्वदा । सार्वजन्यं ददुर्दानं, लोकाः स्वाम्यनु
गामिनः ॥ २५९ ॥ आस्थानीमास्थितोऽन्येद्युः, पश्यति स्म स विक्रमः । विमानं धामधामैक-मागच्छद् गगनाध्वना ॥२६०॥ कैतदेतीति पार्षद्यैः, सह ध्यायति भूधवे । तत्संसन्मध्यमध्यागादू, रविबिंबमिव स्फुरत् ॥ २६१॥ तस्मानिरीय सोत्कंठो, नीलकंठः स खेचरः। नमन्नालिंग्य भूपेन, न्यवेश्यत निजासने ॥२६२॥ मिथःक्षेमादिपुच्छायां, जातायां खेचरोऽवदत् । देव! स्वागमनेनाद्य, विभूषय मदालयम् ॥२६३॥ अन्योऽन्यालापपीयूषैः, संसिक्ता प्रीतिवल्लरी । सौम, नस्यं समुल्लास्य, प्रसूते हि सुखं फलम् ॥ २६४ ॥ अत्यर्थमर्थितस्तेन, पार्थिवः सचिवे निजे । राज्यं न्यस्य विमानेन| तेन व्योमाध्वनाऽचलत् ॥ २६५ ॥ दृशोः प्राघुणकीकुर्व-नवनीमवनीश्वरः । क्षणेन प्राप वैतान्ये, तत्पुरं मणिमन्दि-| रम् ॥ २६ ॥ नीलकंठः स्वमावासं, तं नीत्वा विनयाबनिः । पृथ्वीभिरातिथेयीभिः, सच्चके ज्येष्ठबन्धुवत् ॥ २६७ ॥
रूपेण त्रिदिवस्त्रीणां, दीर्भाग्यपटहं नवम् । भग्नी मदनवेगाख्यां, मदनावेगशालिनीम् ॥२६८॥ तेन विक्रमभूपेन, तपरिणाय्य स खेचरः। श्रीदकोशमिवोत्कृष्ट-वस्तुस्तोममदान्मुदा ॥२६९॥ युग्मम् ॥ वन्दारुर्नित्यचैत्यानि, प्रतस्थे विक्रम|स्ततः । स्थगयन् व्योम विद्याभृ-द्विमानैर्वारिदैरिव ॥ २७० ॥धातकीखंडभूखंडे, यानि मेर्वादिभूमिषु । आस्थानमंडपानीव, धर्मत्रिभुवनप्रभोः ॥२७१॥ तानि तीर्थानि नत्वा च, नुत्वा च रुचिरैः स्तवैः। फलान्यासेदिवानेष, निजलोचनजन्मनः॥२७२॥ युग्मम्॥भूत्या तयैव व्यावृत्य,प्राप्तो निजपुरं नृपः।सत्कृत्य नीलकंठादीन् , खेचरांस्तान विसृष्टवान् ॥२७॥
१ सर्वजनहित-सर्वजनप्रसिद्धं वा. २ प्रशस्तचित्तत्वम् , पक्षे-पुष्पत्वम्. ३ अतिथीकुर्वन्. ४ शाश्वत०.
*****
H
॥१६९॥
Page #389
--------------------------------------------------------------------------
________________
अथ ज्ञात्वा तमेवातं, मुनिचन्द्र गुरुत्तमम् । श्रीविक्रमनृपो गत्वा, नत्वा चैवमवोचत ॥ २७४ ॥ प्रभो। त्वदपदिष्टस्य, दानस्य स्वस्तरोरिव । अनुभावाद् बभूवाह-मीदृगैश्वर्यभाजनम् ॥ २७५ ॥ अद्यापि सेवमानोऽस्मि, स्वार्थवत् तदनारतम् । प्रसद्यादिश्यतां किंचिन्, मम भद्रंकरं पुनः॥२७६ ॥ दन्तकान्तिच्छलाच्छुद्ध-धर्मध्यानच्छटामिव । दर्शयन् सूरिराचष्ट, मधुरध्वनिबन्धुरम् ॥ २७७ ॥ नृपते! दानवच्छील-मपि धर्मस्य जीवितम् । विना येन क्रियाकांडं, प्रचंडमपि भंडनम् ॥ २७८ ॥ अजिसितनवब्रह्म-गुप्तिदीप्तिमयो मुनिः। गृही स्वदारतुष्टश्च, भवेतां शीलशालिनी ॥ २७९ ॥ कस्यापि चेतः कासारे, स्फारमाहात्म्यसौरभम् । सुकृतश्रीनिवासाय, शीलं तामरसायते ॥ २८०॥ क्रिया|वानतिनिष्णातो, ध्यानवान् मौनवानपि । लूननक इवाशीलः, क्वाऽपि सौभाग्यमेति न ॥२८१॥ सतीमतल्लिकानां यत्, त्रिदिवादेत्य देवताः साहाय्यं तन्वते सा हि, शीलातिशयवर्णिका ॥ २८२ ॥ प्रत्यूहद्विरदव्यूहा-स्तावदेवोन्मदिष्णवः। यावन्न शीलगन्धेन, गन्धवायुर्विज्रभते ॥ २८३ ॥ श्रुत्वा तद् विक्रमभमापो, दौर्गत्यदुमबीजवत् । यावजीवं परखीणां, सेवनं प्रतिषिद्धवान् ॥ २८४ ॥ नियम्य च चतुष्पा , स्वकीया अपि नायिकाः। अनुज्ञाप्य गुरुं गौर-गुणः स गृहमागमत् ॥ २८५ ॥ परस्त्रीसोदरत्वेन, ख्यातिस्फातिं श्रितस्ततः। भूपाल: पालयामास, नियम तं स्वदेहवत् ॥ २८६ ॥ सभाविभूषणीभूतं, कदाचिदपि विक्रमम् । उपतस्थे वणिक् कोऽपि, समादाय हयोरसम् ॥२८७॥ प्रणम्य चावदद् वाजी,
१ निःसारम्. २ निष्कपट०. ३ कमलायते. ४ सतीश्रेष्ठानां-प्रशस्तसतीनां महासतीनाम् “मतल्लिका-मचर्चिका, प्रकाण्ड-मुद्ध-तल्लजौ । प्रशस्तवाचकान्यमूनि" इत्यमरः ५ वानकी इति लोके. ६ प्रसिद्धिद्धिम्. ७ प्रधानाश्वम्.
Page #390
--------------------------------------------------------------------------
________________
कुमार
पालच.
॥१७॥
देव | देवासनोचितः। विद्यतेऽवद्यमुक्त्वाद्, यदीच्छा तर्हि गृह्यताम् ॥ २८८ ॥ प्राज्ञा राज्ञाऽभ्यनुज्ञाता, हयलक्षणवेदिनः। दृष्टा तरंगसर्वागं, रंगेणेति व्यजिज्ञपन् ॥२८९॥ निर्मासवदनस्तुच्छ-कर्णः प्रोन्नतकन्धरः। पृथुपृष्ठस्ततोरस्कः, पीनपश्चिमपार्श्वभृत् ॥ २९॥क्षाममध्यः स्निग्धरोम-स्तोमः सोमसमानरुक् । स्थानवर्तिशुभाऽऽवर्तः, पुरुषोन्नतविग्रहः ॥ २९१ ॥ प्रत्यक्षेस्तपनस्येव, सोऽयं देव ! तुरंगमः । राज्याधिदैवतमिव, विना भाग्यैर्नलभ्यते ॥ २९२ ॥ त्रिभिर्विशेषकम् ॥ श्रुत्वा तन्मुदितो भूपो, वाणिजाय यथोचितम् । मूल्यं वितार्य वाहं तं, मन्दुरायामबन्धयत् ॥२९॥ प्रातस्तमश्वमारुह्य, वाह्यालीदेशमाश्रितः। धारादिगतिवीक्षार्थ, प्रेरयामास विक्रमः॥ २९४ ॥ अश्वः प्रेरितमात्रोऽपि, रुध्यमानोऽपि भूभुजा । समुत्पत्य नभोऽयासीद्, रजः स्पर्शभयादिव ॥ २९५ ॥ हा नाथ ! तव किं जातं, कुतस्त्वां हरते हयः । किं कुर्महे वयं भूमा-वयं तूड्डीनवान्नभः ॥ २९६ ॥ इत्यादिवादिनां भूप-सादिनां पश्यतामपि । उल्लंध्य
लोचनपथं, स मायीव ययौ जवात् ॥ २९७ ॥ युग्मम् ॥ हाहा किमिदमाश्चर्य, यद्व्योम्नोत्प्लवते हयः। यद्वा नायं हयः 5 किन्तु, छद्मसद्माऽस्ति कश्चन ॥ २९८ ॥ क मां निनीषते व्योम्ना, ध्यायतीति धराधवे । दूरं गत्वा वनान्ते तं, मुक्त्वा
सोऽन्तर्दधे क्वचित् ॥ २९९ ॥ युग्मम् ॥ नभोभ्रष्ट इव मापो, दिक्षु चक्षुः प्रतिक्षिपन् । ऐक्षिष्ट रमणीयांगं, रमणी-IPI द्वितयं पुरः॥३००॥ गलन्निमेषडक्त्वेन, लावण्यातिशयेन च । देव्याविमे न मानव्या-विति निश्चिनुते स्म सः॥३०१॥
॥१७०। | दोषरहितत्वात्. २ तुरंग, प्र. ३ विस्तृतहृदयः. ४ पुष्टपश्चाद्भागः. ५ प्रत्यक्ष इव रेवंतः (सूर्यपुत्रः) प्र.६ अश्वानां तु गतिर्धारा, विभिन्ना सा च पंचधा ७ कपटीव. ८ नेतुं इच्छति.
Page #391
--------------------------------------------------------------------------
________________
पूर्वदृष्टे इव स्निग्धे, ते स्त्रियौ तमवोचताम् । स्वामिश्चिरायितं कस्मात् , पश्यन्त्यौ स्वस्त्वदागमम् ॥ ३०२॥ ततो नृपतिहामुत्पाव्य, मुमुचाते क्षणेन ते।पञ्चवर्णमणिनद्धे, सद्मनः सप्तमे क्षणे ॥३०३॥ तारुण्यपुण्यलावण्य-रसप्रसरसेकतः। स्मरं81
पल्लवयन्तीव, हरहग्वह्निभस्मितम् ॥३०४॥ श्रृंगारस्येव सर्वस्वं, मदनस्येव जीवितम् । तत्र पर्यकिकारूढा, देवी तेनैक्षित | काचन ॥३०५॥ युग्मम् ॥ ततोऽवतीर्य विनयं, नियोजमधिरुह्य च । सौागतिकतां तेने, सा प्रीता नृपतिं प्रति ॥३०॥ संस्त्रप्य निजदेवीभि-दिव्यां रसवती स्वयम् । भोजयित्वा च सच्चके, विक्रम साऽम्बरादिभिः॥३०७॥ निविश्य पुरतस्तस्य, कृत्रिमस्नेहमोहनी । उद्दामकाम मत्तेव, देवी निगदति स्म तम् ॥ ३०८ ॥ मत्पुण्यैरेव कृष्टस्त्वं, देव ! मत्सौधमागमः। चिन्तामणिः किमभ्येति, विना भाग्यैः करोदरम् ॥ ३०९ ॥ ईशानवासिनी देवी, विपिनेऽस्मिन् रिंशया । निजशक्त्या विकृत्यैन-मावासं निवसाम्यहम् ॥३१०॥ तृषातुरे इव चिरं, ममैते नयने यथा । मनोहत्य भवद्रूपात मृतमापीय निवृते ॥३११॥ तथैव मन्मथोन्माथ-व्यथयाऽतिकदर्थितम् । त्वत्संगमागदंकारा-ममांगमपि सजताम् ।
॥३१२ ॥ स्वशीलप्रतिकूलं तन्, मत्वा तद्गदितं नृपः । तां बोधयितुमारेभे, गुरुवद् धर्मदेशनात् ॥ ३१३ ॥ भुक्तवृन्दा रका देवि!, नरं मां किमभीप्ससि । न हि पीतामृतः कश्चित, क्षारं वारि पिपासति ॥ ३१४ ॥ वरं विषभृतां सेवा, विषयाणां न सर्वथा । हरन्ति यत् सकृत् पूर्वे, प्राणानन्त्याः पुनर्मुहुः ॥ ३१५॥ चक्रे विषेण नीलत्व-मानं कंठे महेशितुः। विषयैस्तु तदंगार्द्ध, हृतमेषामहो महः ॥ ३१६ ॥ भवे चतुर्विधेऽप्यस्मिन्, यद् दुःखं दुःसहं नृणाम् । सकलं
१ पलंग, इति लोके. २ खागतताम्. ३ तृप्ति प्राप्ते. ४ सादीनाम्,
Page #392
--------------------------------------------------------------------------
________________
+SALA
कुमार
सग
पालच०
॥१७१॥
CAR
तत् फलं विद्धि, विषयाख्यमहीरुहः ॥ ३१७ ॥ विषवद् विषयांस्तस्मात्, त्यक्त्वा नरकलग्नकान् । पेपीयस्व परब्रह्मामृतं निवृतिमन्दिरम् ॥ ३१८ ॥ विलक्षाऽथावदद् देवी, धिक् त्वां क्लीवशिरोमणिम् । निराकरोषि यत् त्वं मा-मीदृशीं स्नेहलाशयाम् ॥३१९॥ स्वप्नेऽपि खलु या मत्त्य-रनीषल्लभदर्शना ।साऽर्थये स्वयमेव त्वां, किमद्यापि समीहसे? ॥३२०॥ पुनस्तां विक्रमः प्रोचे, भद्रे! त्वं भद्रमभ्यधाः । परमस्ति परस्त्रीणा-माजीवं मम वर्जनम् ॥ ३२१॥ वर्जयित्वा निजान दारान् , परनारीः सुरीरपि । प्राणनाशेऽपि नाऽऽसेवे, स्वव्रतभ्रंशभीलुकः॥ ३२२ ॥ किञ्च कः काचखंडाय, माणिक्यं परिचूर्णयेत् ? । धत्तूरतरवे को वा, कल्पपादपमुत्खनेत् ? ॥३२३॥ लोहकीलाप्तये देव-मन्दिरं को विदारयेत् । क्षणसौख्याय को मुंचे-च्छीलं संसारतारणम् ॥३२४॥ युग्मम् ॥ रेरे मूढ! वृषस्यंती, त्वं मां कामयसे न चेत् । तहि तेऽहं लुनाम्यद्य, शीर्ष खड्नेन नालवत् ॥ ३२५ ॥ सा ब्रुवाणेति गीर्वाणी, राक्षसीव भयंकरा । खड्गमुद्र्य भूजानि-शिरच्छेत्तुमधावत ॥ ३२६ ॥ प्राणव्ययेन स्वं शीलं, पाल्यमित्यात्तनिश्चयः । नमस्कारान् स्मरन् भूप-च्छित्त्यै शीर्षमनीनमत् ॥ ३२७ ॥ सोऽधाकृतशिराः सत्त्वो-द्रेककंटॅकितांगकः । यावन्निशाततद्घात-पातं काक्षेण वीक्षते ॥ ३२८ ॥ अहो शीलमहोशील-मित्युच्चैः स्तवती मुदा। तावत् तां दृष्टवान् देवी, वर्पती कुसुमोत्करम् ॥३२९॥ युग्मम् ॥क सोऽस्या घातसंरंभः, पुष्पवृष्टिरियं क्व च । चित्रीयमाणमित्यन्तः, सा विक्रममवोचत ॥ ३३०॥ अद्येशानसुरेशानः, समासीनः
१ पुनः पुनः पिब. २ 'अश्वक्षीरे'त्यादि सूत्रे "अश्ववृषयोमथुनेच्छायाम्” इति वार्तिकेन क्यचि असुगागमे च मैथुनार्थ वृष(बलीबई)मिच्छति-वृषस्यति गौः अत्र तु अश्वषरूपप्रकृत्यर्थपरित्यागेन मैथुनेच्छेवार्थों प्रायः, शतृप्रत्यये, 'वृषस्यंती तु कामुकी' इतिकोशप्रमाणात, ३ उत्पाव्य. ४ रोमांचितशरीरः. ५ तीक्ष्ण..
१७१॥
-ॐॐ
Page #393
--------------------------------------------------------------------------
________________
*
CALAMAULA
|स्वसंसदि । ज्ञानाद विज्ञाय शीले त्वां, स्थिरं देवानिदं जगी ॥३३॥भो देवा! भैरतक्षेत्रेड-धुना शिवपुरेश्वरः। श्रीविक्रमो। VIयथा स्थेयान , शीले नास्ति तथा परः ॥ ३३२ ॥ चारित्रवानपि प्रायः, शीलाच्चाल्येत कर्हिचित् । न पुनर्विक्रमः क्ष्माभृ-दप्सरोभिरपि स्वयम् ॥ ३३३ ॥ तदेवी रत्नचूलाऽहं, चूला लवणिमस्पृशाम् । त्वत्प्रशंसामिमं श्रुत्वा, चिन्तयांचक्रुषी चिरम् ॥ ३३४ ॥ अहो ईशानशक्रस्य, केयं वाक् चातुरी नवा । यदचाल्योऽस्ति पुंस्कीटः, सुरीभिरपि शीलतः |॥ ३३५ ॥ स्वमेऽपि कामिनी वीक्ष्य, द्रुतं द्रवति मानवः । किं पुनः सुरलोलाक्षीः, साक्षान्मोहनवल्लरीः ॥ ३३६ ॥
ततस्तव परीक्षार्थ, स्वर्गादेत्य मया रयात् । अयं हयापहारादिः, प्रपंचो रचितोऽखिलः ॥ ३३७ ॥ त्वमेव धर्मवीरोऽसि, | कोटीरः शीलशालिनाम् । आइत्यापि शिरच्छेद-मस्खलनियमान्न यः ॥ ३३८ ॥ के शीलं परिशीलयंति न जनाः स्वास्थ्ये व्रतस्थास्तु ते, ये नैव व्यसनेऽपि जीवितमिवोन्मुंचंति तत् कहिंचित् । ग्रीष्मे शैवलिनी तरंति न कति स्युस्ताकास्ते परं, श्रोतःप्रोतँतटावनि, घनऋतौ, ये तां तरीतुं क्षमाः॥ ३३९ ॥ (शार्दुल०) अजिह्मब्रह्मणा देव!, शुभेयं भवतैव भूः। शशिनैव ह्यखंडेन, ज्योत्स्नी रात्रिरु दीर्यते ॥ ३४०॥ ईशानेशेन यादृक्त्व-मशंसिष्ठाः स्वसंसदि । ताहगेवान्वभाविष्ठा, मृषोद्या न सतां हि गीः॥ ३४१ ॥ तद् ब्रूहि किं प्रियाकृत्य, प्रीणये त्वां कदर्थितम् ? । तपनोऽपि समुत्तप्य, तरुं वृष्टीऽभिषिंचति ॥३४२॥ उवाच विक्रमोऽत्यंतं, प्रियं मे शीलपालनम् । तत् त्वं कृतवती देवि!, चिकीर्षसि
*धातकीखण्डभरते. १ मुकुट:-२ अस्खालीत् प्र, लुङ, ३ पा-प्र. ४ कदाचित्-कस्मिंश्चित् काले. ५ नदीम्. ६ तरन्तीति तारकाः, ७ स्रोतोभिः प्रोता-व्याप्ता तटावनिर्यस्यास्तां. ८ वर्षाऋती. ९ निष्कपटशुद्धब्रह्मचारिणा. १० कौमुदीमती. ११ कथ्यते. १२ मृषा उद्य-कथनीयं यत्र. १३ सूर्यः, १४ दृष्ट्वा, प्र.
*OSAAMIAISMAS
Page #394
--------------------------------------------------------------------------
________________
कुमारपालच.
॥१७२॥
PROGRAMACHAPICHUCASCAISURI
| परं किमु ? ॥ ३४३॥ इत्युक्तिभाजं भूजानिं, नीत्वा शिवपुरं सुरी। सिंहासने च विन्यस्या-भूषयद् दिव्यभूषणैः ॥ ३४४ ॥ पौरेभ्यः प्रीतिगौरेभ्यः, मापवृत्तं विवृत्य तत् । कादंबिनीव वृष्ट्वा च, स्वर्णोघं सा दिवं ययौ ॥३४५ ॥ श्रुत्वा तच्चरितं चित्रं, नागरा हर्षसागराः। निकामं धन्यमात्मानं, तेन नाथेन मेनिरे ॥ ३४६ ॥ नृपस्य शीलमाहात्म्यं, तद् भ्राम्यद् भूतलेऽखिले । भवति स्म कुशीलाना-मपि शीलनिवेशकृत् ॥ ३४७ ॥ ___ अथ विक्रमभूपस्य, फलं गार्हस्थ्यशाखिनः। तनूजो रत्नमंजर्या, रत्रसाराहयोऽभवत् ॥३४८॥ स वाङ्मयांबुधेः पारंगमी भूयाभ्यजीवयत् । वैदुष्यं विनयेनैव, यौवनं निजवर्मणा ॥३४९॥ पुत्रं वैर्महरं राजा, यौवराज्ये नियुज्य तम् । दानशीलमयं धर्म, निर्ममे निर्मलाशयः॥ ३५०॥ आरामिकात् परिज्ञाय, तमायातं पुनर्गुरुम् । भूपः सपरिबर्होऽपि, गत्वा तीर्थ| मिवाऽनमत् ॥३५१॥ भवदावाग्निसंतप्ता, जनानुज्जीवयन्निव । रसाब्याभिः स्ववाणीमि-रभ्यधान्मुनिपुंगवः ॥३५२॥
धर्मसैन्ये चतुरंगे, बलिष्ठं दानशीलतः । तपस्तृतीयमंगं स्याद्, दुष्कर्मद्वेषिपेषकम् ॥ ३५३ ॥ चित्तालवाले शमनीरसिक्को, निर्वेदमूलः शुचिशीलशाखः। प्रभावपुष्पः शुभसत्फलीघ-स्तपस्तरुः कस्य भवेन्न सेव्यः॥ ३५४ ॥ (उपजातिः) पाप्मना विविधारंभ-संरंभप्राप्तजन्मनाम् । क्षयाय तप एव स्या-दषबंध इवैधसाम् ॥ ३५५ । लब्धयोऽवधिमुख्यास्ता,
॥१७
॥
प्रेमविशुद्धेभ्यः. २ निवेद्य, प्र. ३ मेघमाला. ४ अत्यन्तम्. ५ तरुणमित्यर्थः. छत्रचामरादिराजचिन्हैः सहितः, ७ पिनष्टीति पेषकम्. ८ अग्निः. 5 अवधिज्ञानादयः.
Page #395
--------------------------------------------------------------------------
________________
द्र सिद्धयश्चाणिमादयः। विलसंति यदादेशात् , तप्तव्यं तत् तपोऽनिशम् ॥ ३५६ ॥ बाह्याभ्यंतरभेदेन, तत् प्रोक्तं द्वादशातात्मकम् । द्वादशारं चक्रमिव, जेतुं कर्मरिपुं मुनेः ॥ ३५७ ॥ अभुक्तिरूनोदरता, वृत्तिसंक्षिप्तताऽपि च । रसत्यागो ।
वपुःक्लेशो, लीनत्वं स्याद् बहिस्तपः॥३५८ ॥ प्रायश्चित्तं वैयोवृत्त्यं, स्वाध्यायविनयावपि । उत्सर्गश्च शुभध्यान-मंतरंग तपो भवेत् ॥ ३५९ ॥ यतेरेवास्तसंगस्य, स्यादिदं सकलं तपः । न तु तत्तन्महारंभ-जूंभिणो गृहमेधिनः ॥ ३६० ॥ संयमश्रीस्तप:श्रीश्च, नूनं प्रीते परस्परम् । यत् पूर्वस्याः समुल्लासे, पराऽप्युल्लासलालसा ॥ ३६१॥ इत्थं गुरुगिरा भानुभासे वोबुद्धबोधदृक् । वितीर्य सूनवे राज्यं । व्रतमादत्त विक्रमः ॥ ३६२ ॥ सामाचारी दशतैयी-मभ्यस्यन् गुरुसनिधौ । स मासक्षपणाधुग्रं, दुस्तपं तप्तवांस्तपः॥३६३॥ तत्तपस्यतिवृद्धत्वं, स्वीकुर्वाणेऽतिकौतुकम् । बलीयांस्तत्पभावोs. भूद्, गीर्वाणाकर्षणक्षमः ॥३६४॥ स कृती विकृतीहेतुं, विकृतीनां विदन् हृदि । तपाकृशोऽप्यसेविष्ट, पारणेऽपि न जातु ताः ॥३६५॥ अन्यदा विक्रममुनि-स्तपोराशिरिवांगवान् । अविक्षल्लक्षणावत्यां, पुरि पारणहेतवे ॥३६६॥ तत्र लक्ष्मणभूपस्य,
१ अणिमा. (१) लघिमा (२) प्राप्तिः, (३) प्राकाम्यं ( ४ ) महिमा (५) तथा । ईशित्वं च (१) वशित्वं (.) च, तथा कामावसायिता ॥१॥ || तत्र अणिमा-अणुभावो यतः शिलामपि प्रविशति (१) लधिमा-लघुभावो यतः सूर्यमरीचिकामालंख्य सूर्यलोकं याति (२) महिमा-महतो भावः यतो महान् संभवति MI ) प्राप्तिः-आल्यप्रेण संस्पृशति चंद्र (४) प्राकाम्य-इच्छाऽनभिघातो यतो भूमौ उन्मजति निमज्जति यथोदके (५) वशित्व-भूतभौतिकं वशीभवत्य| स्यावश्यम् (६) ईशित्वं-भूतभौतिकानां प्रभवस्थितिमीष्टे (७) यच कामावसायित्वं-सत्यसंकल्पता यथाऽस्य संकल्पो भवति भूतेषु तथैव भूतानि भवन्ति (0) इत्यादिविस्तरोऽन्यत्र. २ सर्वव्यविषयक इच्छासंक्षेपः.३ "संख्याया अवयवे तय"-दशावयववतीम्,
Page #396
--------------------------------------------------------------------------
________________
कुमार
सर्ग.८
पालच०
॥१७३॥
चंडसेनाह्वयः सुतः। पापः पापर्द्धये गच्छन् , पुरस्तं मुनिमैक्षत ॥३६७॥ स दुःशकुनबुद्ध्या तं, हेतुं धावञ् शितासिना । मयूरबंधंबद्धः स-निश्चेष्टो भूतलेऽपतत् ॥ ३६८॥ हहा महाशयस्यास्य, जातं किमिति चिंतयन् । उत्कल्लोलेकृपावाधि-स्तत्पार्श्वे तस्थिवान् मुनिः॥३६९॥ हाहारवपरैः पौरैः, शोकसज्जैश्च तजनैः। चैतन्यं लभ्यमानोऽपि, स ग्रावेव न लब्धवान् ॥ ३७॥ श्रुत्वा तत् तत्पिता दुःख-ज्वलितात्मैव तत्क्षणम् । धावित्वा सपरीवारः, सुतोपांतमुपागमत् ॥३७१॥ यति जिघांसतः सूनो-रीदृग्व्यसनमापतत् । मत्वेति निपतन् पाद-पद्मेऽवादीन्मुनि नृपः ॥ ३७२॥ यौव-13 नांद्यतिमत्तेन, मत्तनूजेन यन्मुने! । विराद्धं तत् क्षमस्वोच्चैः, साधवो हि सहिष्णवः ॥ ३७३ ॥ तारुण्यं विभवः शौर्य, वैभवं विटसंगतिः । अविचारज्ञता चेति, विना मद्यं मदोदयः ॥ ३७४ ॥ किंचाज्ञानांधता यस्य, विश्वांधकरणी हृदि । अमार्गगमने तस्या-पराधः कस्तपोनिधे!॥ ३७५ ॥ ततः प्रसद्य सद्यो मे, 'दययोजीषयात्मजम् । वजं विसृज्य मेघो
पि, न प्रीणात्यभृतेन किम् ? ॥ ३७६ ॥ जगाद विक्रममुनि-श्चक्रेऽहं नास्य किंचन । किंतु हंतुमयं धावन , स्वयमेवापतत् क्षितौ ॥ ३७७ ॥ प्राणांतेऽपि न कीटेभ्योऽप्यहो दुह्यंति जातु येते कथं कष्टमीक्षं, सुते बन वितम्वते ? दा॥३७८ ॥ श्रुत्वा तदतिदीनस्त-मूचे लक्ष्मणराट्र पुनः। भवतैवं कृतं नोबे-ज्जज्ञे तयस्य किं मनु १ ॥ ३७९ ॥ यतिर्जगौ ममापि तत्, स्फूर्जत्याश्चर्यमूर्जितम् । नृपस्ततः सबोऽपि, जज्ञे मूढ इवोच्चकैः ॥ ३८॥
१ मयूरबंधेन बद्ध इति मयूरबंधबद्धः. २ कालोलान् उत्क्रान्ता ( अतिक्रान्ता) उत्कल्लोला सा बासौ कृपा च तस्याः बार्डिः ३ आदिशब्देन राज्यावहः. X४ ऐश्वर्यम्. ५ सारासारयोर्विचार-विवेकं न जानातीत्य विचारशस्तस्य भावस्तत्ता. ६ तीव्रतापम् , विद्युतं वा.. जलेन. ८ बईः परिवारः.
AMROSASTRAMSAX
॥१७॥
Page #397
--------------------------------------------------------------------------
________________
I
अथादित्यमपि स्वांग — दीघ्या निस्तेजयन्निव । प्रादुर्भूय पुरः कोऽपि वदति स्म सुरोत्तमः ॥ ३८१ ॥ नृपाधुना सुधमैद्रो, नत्वा नंदीश्वरार्हतः । त्वत्पुरोर्ध्वमनेनैव गच्छन् गगनवर्त्मना ॥ ३८२ ॥ धावंतं यतिघाताय त्वत्सुतं वीक्ष्य रोषणः । प्रहिणोति स्म मां देवं, जिनशासनलालसम् ॥ ३८३ ॥ युग्मम् ॥ तनयो दुर्नयोऽयं ते, मयेदृग् विदधे क्रुधा । सम्यग्दृशः सहते हि, मुनीनां नापमाननाम् ॥ ३८४ ॥ तदयं यदि सूनुस्ते, मुनीन् संमानयिष्यति । भविष्यति तदा सज्जो, नान्यथा त्रिदशैरपि ॥ ३८५ ॥ तदंगीकृत्य भूपेन, तस्य देवस्य शासनात् । मुनिक्रमांभसा सिक्तः, सद्यः सज्जः सुतोऽजनि ॥ ३८६ ॥ चंडसेनं ततः प्रोचे, देवी रे दुष्ट ! यद्ययम् । मुनिस्तवापशकुनी, वद कः शकुनस्तदा १ ॥ ३८७ ॥ अथवा वर्द्धिपापैर्द्धि- पापव्या पपरस्य ते । सुखाय संमुखीनाः स्युः, पापा एव न धार्मिकाः ॥ ३८८ ॥ तीर्थोवास्या तपस्या वा, व्यपास्यति चिरेण याम् । तामहो दुरितश्रेणीं, मुनिर्दर्शनमात्रतः ॥ ३८९ ॥ तपस्तांडवमेतस्य त्वयाऽदर्शि न वा स्वयम् । यन्महिम्ना महेंद्रोऽपि, दासस्त्वं चाऽसि जीवितः ॥ ॥ ३९० ॥ एवमुक्त्वा मुनिं नत्वा देवे त्रिदिवमीर्युषि । चंड सेनो नृपसुतः, क्षमयामास तं भृशम् ॥ ३९१ ॥ ततो लक्ष्मणभूपेन, सतनुजेन साग्रहम् । पृष्टो धर्मस्वरूपार्थ- मूचिवाम् | मुनिविक्रमः ॥ ३९२ ॥ वात्यूर्ध्व पवनो न यद् यदनलस्तिर्यगू न जाज्वल्यते, वर्षत्यंबु यदंबुदो यदवनी तिष्ठत्वनालंबना । सूर्याचंद्रमसौ ध्रुवं यदुदितैः श्रीर्यज्जडानां गृहे, दिव्याच्छुध्यति यज्जनस्तदखिलं त्वं विद्धि धर्मोर्जिर्तम् ॥ ३९६ ॥
1
१ प्राहिणोत् इत्यर्थः २ जिनशासनस्य लालसा - इच्छा यस्य तम्. ३ नम्, प्र. ४ नं, प्र. * पापर्द्धिः मृगया. ५ सेवा. ६ तपस्या-दीक्षा ७ नृत्यं चेष्टा. ८ गते ९ उद् इतः १० गंगाजला दिस्पृशपूर्वकशपथात् ११ विलासः.
Page #398
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ १७४ ॥
( शार्दूल० ) धर्मो विश्वजनीनोऽयं, जिनेंद्रैर्गदितः स्वयम् । निर्भाग्यैरतिदुर्लभः, कामकुंभ इव ध्रुवम् ॥ ३९४ ॥ आते नृपपुत्राभ्यां तस्मिन् धर्मे मुनिस्ततः । पारयित्वा विहृतवान्, स्थितिर्नैकत्र तादृशाम् ॥ ३९५ ॥ रत्नावल्यादिभिस्तैस्तैस्तपोभिरतिदुश्चरैः । चेक्लिश्यमानं तं दृष्ट्वा मुनिचंद्रप्रभुर्जगौ ॥ ३९६ ॥ त्वद्वपुस्तपसाऽनेन, ग्रीष्मार्केण तटाकवत् । शोषितं तदिदं त्यक्त्वा, मुने ! भावय भावनाम् ॥३९७॥ अनया वात्ययेवोच्चैः, कर्मरेणुभरे हृते । भजते विरजीभाव - मात्मा स्फटिकशैलवत् ॥ ३९८ ॥ भावनारसयोगेन, यावन्न क्षाल्यतेतमाम् । पंकिलस्तावदात्माऽयं, कथं नैर्मल्यमश्नुते । ॥ ३९९ ॥ ततो भावनयाऽऽत्मानं, भावयन् स महामनाः । मुक्तिसमैकनिःश्रेणीं, क्षपकश्रेणिमाश्रयत् ॥ ४०० ॥ निर्मूल्य सर्वकर्माणि, कलयन् केवलश्रियम् । स विक्रममुनिः प्राप, महानंदमयं पदम् ॥ ४०१ ॥
कथामिमां विक्रमभूमिभर्तु- र्दानादिकृत्येषु समाकलय्य । कुमारपालक्षितिपाल ! तानि, सेवस्व शश्वत् त्वमपि त्रिशुद्धया ॥ ४०२ ॥ ( उपजातिः ) ततः सत्पात्रदानादौ प्रावर्तिष्ट स शिष्टधीः । वृथोपदेशश्रवणं, यदि नाचर्यते हि तत् ॥ ४०२ ॥ संघे चतुर्विधे जैने, चैत्ये बिंबे च पुस्तके । सप्तक्षेत्र्यां निजं वित्तं, बीजवद् वपति स्म सः ४०४ ॥
अभ्यषिवांसमा स्थानी - मथ चौलुक्यभूधवम् । किंचिन्म्लानमुखोऽभ्येत्य, नमश्चक्रे महाजनः ॥ ४०५ ॥ तं वैलक्ष्यपदं वीक्ष्य, पराभूतमिवोच्चकैः । चिंताचांततमस्वांतः, स जगाद भृशादरात् ॥ ४०६ ॥ कुतोऽप्युपद्रवः कश्चित् ?, किमथ न्यायविप्लवः । महाजनोऽतिविच्छायो, यत् सायंतनपद्मवत् ॥ ४०७ ॥ ततस्तादृक्कृतप्रश्न - प्रीतिपल्लविताशयाः । नृपं
१ विश्वजनेभ्यः हितः २ अत्यंतं क्लिश्यमानम् ३ खगुरुः ४ श्रुत्वा ५ स्वभाववैलक्षण्यास्पदम् ६ व्याप्ततम ० ७ रः. प्र..
सर्ग. ८
H १७४ ॥
Page #399
--------------------------------------------------------------------------
________________
MROASALAAAAAD
विज्ञपयामासु-महाजनपुरस्सराः॥४०८॥ उपद्रवश्चेत् त्वद्राज्ये, रेणुरब्धौ तदा न किम् ? । अन्यायस्तु भवेत् कीदृग, न स्वप्नेऽप्यन्वभूयत ॥ ४०९॥ मंडले तंपनस्यापि, जातु संतमसं लसेत् । न तु त्वदुदये स्वामिन् !, किंचिदप्यसमंजसम् ॥४१०॥ किंतु श्रेष्ठी कुबेराख्यः, श्रिया हसितवासवः। आगच्छंस्तुच्छभाग्यत्वाद्, भग्ने पोते मृतोऽम्बुधौ ॥४११॥ तनोत्यमंदमानंद, निष्पुत्रस्तत्परिच्छदः। तद्धनं ग्राह्यतां कुर्मो, यथा तस्योद्धदेहिकम् ॥४१२॥ कियत् तदिति पृष्टास्ते, वदंति स्मातिपुष्कलम् । कौतुकेन ततो भूप-स्तैः समं तद्गृहं ययौ ॥४१३॥ वीक्ष्य तत्र कुबेरस्य, कुटुंबं शोकसंकुलम् । एवं संबोधयामास, सूक्तैर्वैराग्यनिर्भरैः॥ ४१४ ॥ जीवितव्यं नृणां श्वासो, वायुप्रकृतितश्चलः। निर्गच्छन् प्रविशन्नेव, सोऽपि तिष्ठति संततम् ॥४१५॥ यदैव दैवयोगेन, निर्गत्य प्रविशेन सः। तदैव देहिनां मृत्युः, से किं दूरेऽस्ति कुत्रचित्? ॥४१६॥ नवद्वारे शरीरेऽस्मि , श्वासवायुश्चलोऽप्यलम् । यत् तिष्ठति कियत्काल-मपि तत् किं न कौतुकम् ॥४१७॥ विसूचिका विषं शूलं, शस्त्रानलजलादयः । हरंति जीवितं सद्यो, वाताः पंक्त्रिमपत्रवत् ॥ ४१८ ॥ प्राणिनोऽन्यपथा-14 ध्वन्या, व्याघुटंति यदा तदा । कल्पांतेऽपि पुनर्नैव, कालधर्मपथं गताः॥ ४१९ ॥ कोटिशोऽथ सुवर्णानि, कलधौतानि लक्षशः । सहस्रशो मणीनुष्ट-वाश्चादीनि पूगर्शः॥४२०॥ हस्तिनः कतिचिद् दास-वणिक्पुत्राननेकशः। धान्यपूगांशुकक्षौम-चंदनादीनि राशिशः॥४२१॥ गेहहहप्रवहण-शंतांगादीनि भूरिशः। कुबेरस्य गृहे पश्यन् , विस्मेरः प्रोक्तवान् नृपः॥ ४२२ ॥ त्रिमिर्विशेषकम् ॥ देवः कुबेर एवात्र, कुबेरोऽयमवातरत् । अन्यथा कथमेतस्य, लक्ष्मीरीहा
१ अस्माभिरितिशेषः, २ सूर्यस्य. ३ वैराग्यव्याप्तः श्रेष्ठवचनैः. ४ वातखभावात्. ५ मृत्युः.६ परिपक्क०.७ रजतानि. ८ समूहशः. ९ वन.. १. रथादीनि.
HALKARACTECORRECE%%
कु..च.३०
Page #400
--------------------------------------------------------------------------
________________
कुमारपालच०
सर्ग.८
॥१७५॥
POCHOCHOGYORKOORO
समुल्लसेत् ॥४२३॥ ग्राह्यतां सर्वमप्येत-दित्युक्ते व्यवहारिभिः । किंचिन्म्लानमुखांभोजो, राजर्षिातवानिति ॥४२४॥ यमोऽपि हरति प्राणान्, न धनं तत्तदुज्झितम् । हरंतो भूभृतो नूनं, तस्मादप्यतिनिर्दयाः ॥ ४२५ ॥ नरकांतं भवेद् राज्य-मित्यार्यदुदीर्यते । तन्नूनं रुदतीवित्त-समाकर्षणपाप्मना ॥ ४२६ ॥ अनाथेभ्यो धनं दातुं, राज्ञां प्रत्युत युज्यते । प्रसह्य गृह्यते तेभ्य-स्तत् तैः सेयं नवा स्थितिः॥४२७॥ तत् तृतीयव्रतभ्रंशि, धनं नैतन्ममोचितम् । निर्धार्यति | स धर्मात्मा, महाजनमवोचत ॥ ४२८॥ मृते प्राणप्रियेऽपि स्यात् , स्पष्टं कष्टं तथा न हि । निर्वीराणां यथा भूपैग्राह्यमाणे बलाद् धने ॥ ४२९ ॥ द्रव्यं प्रामोति पुत्रश्चेद् , रुदतीनां नृपास्तदा । तद् गृहंतः कथं नाम, तत्पुत्रा न भवंति हि ॥४३० ॥ मृतप्राया भवंत्येताः, प्रागपि स्वप्रियव्ययात् । यदाभ्यो द्रविणाऽऽदानं, तन्नूनं मृतमारणम् ॥ ४३१॥ विभवेन ततोऽनेन, कुबेरस्य परिच्छदः । सुखं जीव्यादुदीर्येति, नृपस्तस्मै तमार्पयत् ॥ ४३२॥ स विवेकलसच्चित्त-स्तत्रैवाकार्य सेवकैः । ऊचे पंचकुलं स्वीयं, पश्यत्येव महाजने ॥ ४३३ ॥ उत्पद्यते कियद् ब्रूत, प्रत्यब्दं रुदतीधनम् । लक्षद्वासप्ततिं तेऽपि, प्रोचिरे पत्रवाचनात् ॥४३४ ॥ तत्करात् पत्रमादाय, विपाव्य च चिरलवत्। अतः परं धनं नैतद्, ग्राह्यमित्यादिशन्नपः॥ ४३५ ॥ ततः स सकलैलोंक-निवराभिश्च निर्भरैम् । आशास्यमानो राजर्षिर्गत्वा गुरुमवंदत ॥ ४३६ ॥ तत् कर्तव्यं नृपोपेशं, विज्ञाय जनताऽऽननात् । उच्चैश्चमत्कृतश्चित्ते, हेमाचार्यस्तमूचिवान् ॥ ४३७ ॥ लुभ्यंति १ पतिपुत्ररहितानां स्त्रीणाम्. २ नाशात्, ३ कुबेरस्य परिच्छदाय. ४ स्फाटयित्वा. ५ जीर्णवत्. ६ अत्यन्तम्. ७ आशीर्वाद लभ्यमानः. ८ कार्यम् ९ कृतम्.
॥१७५॥
Page #401
--------------------------------------------------------------------------
________________
SHRUGALOUSNESSIONAL
द्रविणं दृष्ट्वा, निर्लोभा अपि तत्क्षणम् । तदेवं तृणवद् देव !, त्वत्तस्त्यजति कः परः ॥४३८॥ द्रव्यं गृहन्नपुत्राणां, नृपः स्यात् तावतां सुतः । त्वं तु विश्रीणयस्तेषां, पिता भवसि निश्चितम् ॥ ४३९ ॥ गुरुणा गौरवेणेत्थं, समुपश्लोकितो नृपः। अमानिव प्रमोदेन, हृदि स्वास्पदमासदत् ॥ ४४०॥ | अथ स्वपरयोः पुण्यं, चैत्यनिर्मापणाद् विदन् । निर्मापयितुमारेभे, तानि भूपतिरादरात्॥४४१॥ पत्तने श्रीत्रिभुवनपालाख्यं चैत्यमद्भुतम् । पंचविंशतिहस्तोच्चं, कारयित्वा विमानवत् ॥ ४४२ ॥ स्वपितृश्रेयसे तत्र, नेमिबिंबमतिष्ठिपत्। पादान्वितं शतं माना-दंगुलानि स पुण्यधीः॥ ४४३ ॥ युग्मम् ॥ प्राक्क्लुप्तपललास्वाद-द्वात्रिंशइंतशुद्धये । एकवेद्यां गतविद्यान, मंडपादिपरिस्कृतान् ॥ ४४४॥ नंदीश्वरस्फुरद्राज-धानीचैत्यानुजानिव । प्रासादान कारयामास, तावत्संख्यान क्षमाधवः॥ ४४५ ॥ युग्मम् ॥ गुरोरादेशतस्तत्र, द्वौ सितौ द्वो शितद्युती। द्वौ रक्तौ हौ च नीलांगौ, पोडश स्वर्णरोचिषः ॥ ४४६ ॥ चतुर्विशतिचैत्येषु, नाभेयप्रमुखाञ् जिनान् । चतुर्यु चतुरः सीम-धरादीनुधृतेष्वथ ॥४४७॥ रोहिणी" समवसृति, स्वगुरोः पादुकास्यीम् । अशोकढुं च विस्तीर्ण, स विधाप्य न्यवीविशत् ॥४४८॥ त्रिमिर्विशेषकम् ॥ दुःस्थत्वे भ्रमता पूर्व, निर्धनेन महीभृता । हृतासु रूप्यमुद्रासु, यो मृतोऽभवदुंदुरः ॥४४९ ॥ तदुत्थाघनिदाघस्य, लाघवार्थमचीलपत् । स धारायंत्रवच्चार, चैत्यमुंदुरसंज्ञकम् ॥ ४५०॥ अविदुष्याऽपि नामाचं,
१ यावतामपुत्राणाम्. २ ददत्. ३ खस्थानम्. “प्रापत्. ५ छात (परथार) इति ख्यातबद्धभूमिभागात. ६ पंचविंशत्यधिकं शतमंगुलानि. ७ निर्दोषान्. ८ अलंकृतान्, ९ द्वात्रिंशत्संख्याकान्. १० श्वेतो. ११ कृष्णौ. १२ रोहिणी-प्रथमा विद्यादेवीम्. १३ "कुंवारो" इति लोके.
Page #402
--------------------------------------------------------------------------
________________
कुमारपालच०
सर्ग.८
॥१७६॥
यया देवश्रिया पुरा । त्र्यहं बुभुक्षितो मार्गे, करंभ भोजितो नृपः॥ ४५१॥ कृतज्ञत्वेन तत्पुण्य-वृद्धये स्वार्थसिद्धये। स करंभवसत्याख्यं, विहारं निरमापयत् ॥ ४५२॥राजर्षिरन्यदा प्राप्त-श्चैत्यं वाग्भटकारितम् । जिनाधीशान् नमस्कर्तु, तिरस्कर्तुं च किल्विषम् ॥ ४५३ ॥ तत्रायाति स्म नेपाल-नृपप्रहितमद्भुतम् । प्राक्तनैः कथितं माना-दंगुलान्येकविंशतिम् ॥ ४५४ ॥ बिंबं श्रीपार्श्वनाथस्य, चंद्रकांतमणिमयम् । बाह्याभ्यंतरसंताप-नाशकं दर्शनादपि ॥ ४५५॥ युग्मम् ॥ तदिवं चंद्रबिंबाभ, पश्यतो नृपतेम॒हुः । अमोदिषातामुचितं, कुमुदे इव लोचने ॥ ४५६ ॥ तां मूर्ति स्वकरे कृत्वा, भूपो वाग्भटमभ्यधात् ॥ देहि मह्यमिदं चैत्यं, यथैतों स्थापयाम्यहम् ॥४५७ ॥ हृष्टो व्यजिज्ञपत् सोऽपि, प्रसादोऽयं महान् मयि । श्रीकुमारविहारोऽस्तु, चैत्यमेतदतःपरम् ॥ ४५८ ॥ उज्ज्वलीकार्य तद् बिंब, पटुवैकटिकवजैः। |स्वचित्त इव तत्रैव, चैत्ये भूभृदतिष्ठिपत् ॥ ४५९ ॥ चैत्यस्य शंकनाशेव, कृते छिद्रेऽतिपुष्कले। तस्य बिंबस्य संपन्नः, पूर्णदुकरसंगमः॥४६०॥श्रवति स्म तेतो बिंबा-चंद्रबिंबादिवोच्चकैः। सुधारसः समस्ताधि-व्याधिध्वंसनिबंधनम् ॥ ४६१ ॥ तेन दिव्यौषधेनेव, दोषाः सर्वेऽपि चाक्षुषाः । तापाश्च विविधाः सद्यः, शांतिं यांति स्म देहिनाम् ॥४६२॥ चिकारयिषितं पूर्व-मोराजपराजये। चतुर्विशतिहस्तोच्चं, चैत्यं तारंगभूधरे ॥४६३ ॥ विधाप्याजितनाथस्य, बिंबमेकशतांगुलम् । नृपो निवेशयामास, मूर्त धर्ममिवात्मनः॥ ४६४॥ युग्मम् ॥ स्तंभतीर्थे प्रभोर्हेम-सूरेयंत्राभवद्
१दिनत्रयम्. २ अकारयत्. ३ पापम्. ४ पूर्वपुरुषैः. ५ मूर्तिम्. ६ झवेरी इति लोके. ७ चालनीय जालिका-शुकनाशा. ८ च-प्र. ९चंद्रकिरणसंगमात्. १० कारयितुम् इष्ट-वांच्छितम्.
॥१७६॥
Page #403
--------------------------------------------------------------------------
________________
व्रतम् । श्रीआलिंगाख्या वसतिः, साऽऽसीजीर्णतमा क्रमात् ॥४६५॥ गुरुस्नेहेन राजर्षि-स्तां नवीकार्य अस्थापयद् रत्नमयं, बिंबमंत्यजिनेशितुः॥४६६ ॥ एषु सर्वेषु चैत्येषु, महामहिमपूर्वकम् । हेमाचार्यः स्वहस्तेन, प्रतिष्ठा विधिवद् व्यधात् ॥ ४६७ ॥ अर्थार्थमेषां चैत्याना-मारामान पुष्पसंकुलान् । आदायानपि भोगाय, भूरिशो भूपतिहै ददौ ॥ ४६८ ॥ ततोऽस्मद्देयदंडेन, युष्माभिर्निजनीति । विहारा बहवः कार्याः, शिवशैलाग्रजा इव ॥ ४६९ ॥ इति है।
प्रधानैरादेश्य, विषयेषु परेष्वपि । स तान् विधापयामास, नृपैराज्ञावशंवदैः ॥ ४७० ॥ युग्मम् ॥ 18 गूर्जरो लाटसौराष्ट्र-भंभेरीकच्छसिंधवः । उच्चा जालंधरः काशी, सपादलक्ष इत्यपि ॥४७१॥ अंतर्वेदिमरुर्मेद-पाटो
मालवकस्तथा । आभीराख्यो महाराष्ट्र,कर्णाटः कोंकणोऽपि च ॥४७२॥ देशेष्वष्टादशस्वेषु, चौलुक्यनृपकारिताः। विहारा है रेजिरे मूर्ता, तत्कीर्तिप्रकरा इव ॥ ४७३ ॥ त्रिभिर्विशेषकम् ॥ समुत्तीर्णाः स्वर्गादिह किमु विमानाः स्वयममी, भुवं
भित्त्वा प्रापन्नुत भवनपव्यंतरगृहाः । अथाभूवन रूप्यस्फटिकहिमशैलागणतिथाः, विहारा राजेरिति कविभिरौदांत जगति ॥४७४॥ (शिखरिणी) P सुराष्ट्रास्वथ दर्पिष्ठो, राणः समरसाभिधः । अंकुशं मत्तहस्तीव, चौलुक्याज्ञाममंस्त न ॥ ४७५ ॥ तन्निग्रहार्थम-2
-मंडलाधीश्वरैः सह । प्रैषीदुदयनामात्यं, सेनानीकृत्य भूमिभुक् ॥ ४७३ ॥ वर्धमानपुरं प्राप्य, तत्र सैन्यं निवेश्य
१ जिनभवनम्. २ नवीम् , प्र. ३ धनानि. ४ खकीयदेशे. ५ कैलास.. ६ वशीभूतैः. ७ प्रथमाबहुवचनम्. ८ कीर इत्यन्यत्र. ९ दीप इत्यन्यत्र ४. गणानां पूरणाः, गण-असंख्यावचाकत्वेऽपि पूरणे डट् तिथुगागमश्च वाचस्पत्ये. ११ अतयन्त.
Page #404
--------------------------------------------------------------------------
________________
कुमार- च । विमलाचलमारुक्ष-मंत्री देवनमश्चिकीः ॥४७७ ॥ तत्र नत्वाऽर्चयित्वा च, श्रीनाभेयं यथाविधि । स पालच० ६ मुनींद्रवदारब्ध, विधातुं चैत्यवंदनाम् ॥ ४७८ ॥ तदा दीप्रां मुखे वत्ति, दीपादादाय मूषकः । काष्ठचैत्यबिले गच्छन् ,
कथंचिन्मोचितोऽर्चकैः ॥ ४७९ ॥ तद् दृष्ट्वा ध्यातवान् मंत्री, ज्वलद्वर्तिप्रसंगतः। काष्ठचैत्ये ज्वलत्यस्मिन् , ध्रुवं तीर्थ॥१७७॥
क्षयो भवेत् ॥ ४८०॥ धिगस्मान् क्षितिपापार-व्यापारकपरायणान् । जीर्णचैत्यमिदं ये न, प्रोद्धरामः क्षमा अपि ॥ ४८१॥ विदेत्य सर्वतो रेणु-पूरं तन्मध्यतः शुभम् । रत्नाद्यमाददानास्ते, विदग्धा धूलिधावकाः॥४८२॥ वयं पुनर्जडास्तत्तत्-प्रमादोरुरजोभरैः । गमयंतो निजं धर्म-रसं हस्तोदरस्थितम् ॥ ४८३ ॥ तया श्रिया च किं क्ष्माप-पापव्यापारजातया । कृतार्थ्यते न तीर्थादौ, या निवेश्याधिकारिभिः॥४८४ ॥ ईगुच्चैः पदं नीतः, श्रिया:हमनया यदि । तदा ममा(या)पि युक्तयं, तेन्नेतुं तीर्थरोपणात् ॥४८५॥ यावत् कार्य प्रभोः कृत्वा, चैत्यं नैवेदमुद्रिये । ब्रह्मवतैकभक्काद्या-स्तावन्मे संत्वभिग्रहाः॥४८६ ॥ सप्तभिः कुलकम् ॥ | उत्तीर्योदयनस्तस्मात्, ससैन्यः प्रास्थित दुतम् । मंदायते न जात्या हि, भृत्याः स्वस्वामिशासने ॥ ४८७ ॥ प्राप्य
चारिपुरोपांतं, तं दूतेनेत्यवीवदत् । मन्यस्वाज्ञां मदीशस्य, युध्यस्वाथ बली यदि ॥४८८॥ दूतवाचा तया क्रुद्धः, है सुप्तोत्थापितसिंहवत् । वैरी समरसस्तस्य, बभूवाभिमुखो युघे(धि) ॥ ४८९॥ राजन्यैर्जन्यसंरब्धैः, स्फूर्त्तिमान् स 8॥१७७॥ रिपुर्बभौ । दर्यादिभिः सहचरै-वीरो रस इवांगवान् ॥ ४९..॥ आद्यं वैरं विवृण्वंतो, वृण्वंतश्च यथोचितम् । सुभटाः
१ प्रारब्धवान्, २ नम्, प्र..३जीर्ण, प्र..४ विस्ताये. ५ उम्पदम्. ६ राजवंशजैः-क्षत्रिय रियर्थः. ७ युद्धोत्साहिभिः. प्रकटयंतः,
NAGAUR
Page #405
--------------------------------------------------------------------------
________________
SA
C REACOCCARCH
प्रकटोत्साहा, योद्धमारेभिरे भृशम् ॥ ४९१॥ शस्त्रघाता लगंतोऽपि, नांगे 'विविदिरे भटैः। निःशेषद्वेषिनिष्पेषध्यानमग्नमनस्तया ॥ ४९२ ॥ कातरत्वेन ये योद्धं, पुरा न प्रजगल्भिरे । हतान् स्वान् वीक्ष्य तेऽप्युच्चै-विक्रम प्रतिपेदिरे ॥ ४९३ ॥ खगाखगि कुंताकुंति, बाणाबाणि गदागदि । केशाकेशि मुष्टामुष्टि, योधा युयुधिरे तदा ॥ ४९४ ॥
अथ भन्ने निजानीके, प्रत्यनीकैः सविक्रमैः । मंत्री योद्धुमढौकिष्ट, रुष्टः काल इव स्वयम् ॥ ४९५॥ प्रविष्टास्तद्धनुध्वीनाः18 |कर्णजाहं विरोधिनाम् । नश्यत द्राग मृता नो चे-दिति वक्तुमिव ध्रुवम् ॥ ४९६ ॥ संधायामात्यवीरेण, बलाच्चिक्षिपिरे ।
शराः। परे पुनः पतंतिस्म, रणक्षेत्रेऽतिकौतुकम् ॥ ४९७ ॥ आहवे प्रहरत्यस्मिन् , सिंहवत् संहतौसि । के न पंचत्वमा|नंचु-बैंरिणो हरिणा इव ॥४९८ ॥ तेनोदयनवीरेण, कृतांतेनेव सर्वतः। मार्यमाणं बलं वीक्ष्य, क्रुद्धः समरसो
भृशम् ॥ ४९९ ॥ ततः कटीस्फुरत्तूणः, पाणौ कार्मुकमावहन् । स्फारवीररसोत्सेका-दूर्णीभूतकचोच्चयः ॥५०॥ ट्र सांयुगीनहयारूढः, प्ररूढप्रौढविक्रमः । सचिवस्य पुरः सोऽभूद्, धनुर्वेद इवांगवान् ॥ ५०१ ॥ युग्मम् ॥ कृतार्थ मन्य
मानौ स्वं, सहक्सुभटसंगमात् । गजाविव च गर्जतो, युयुधाते क्रुधाऽर्थ तौ ॥५०२॥ तौ बाणं प्रतिमुचंतौ, बाणं नंती च तेन तम् (तत्) । कृतप्रतिकृतीचित्यं, लुलुपाते न मित्रवत् ॥५०३ ॥ प्रसरंतोऽतिवेगेन, स्खलंतोऽन्तन सर्वथा । सम्यक् सत्यापयामासु-स्तद्वाणा वौजितां निजाम् ॥ ५०४ ॥ सचिवो बंचयित्वाऽथ, द्विषः कांडविखंडनम् । तद्धृदि
१न ज्ञायतेस्म. २ शब्दाः.३ कर्णजाई-कर्णमूल मित्यर्थः, ४ ताम्-प्र०. पलायध्वम्. ५ शत्रवः. ६ दृढपराक्रमे. ७ युद्धकुशल०.८ कृतार्थ-प्र. कृतार्थे-प्र. DIS कुधोद्यतौ, प्र. १० खबाणमोचनेन परबाणप्रतिघातेन. ११ वयस्यवत्. १२ वाणां-आशुगामित्वम्. १३ शत्रुहृदये.
MAX ASSAGAR
Page #406
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ १७८ ॥
न्यखनद् बाणं, स्वविक्रममिवोच्चकैः ॥ ५०५ ॥ तत्प्रहारक्षरद्रक्तः, सोऽपि राजानको रुषा । मंत्रिणं ताडयामास, भाले तीक्ष्णेन पत्रिणा ॥ ५०६ ॥ रणे तौ रेजतुः शस्त्र-क्षतक्षरदसृग्भरौ । सगैरिकझरोद्गारौ वर्षत पर्वताविव ॥ ५०७ ॥ द्वयोरंतर्जयः कस्येत्येवं चिंतापरे जने । शितेषु गार्द्धपक्षेषु, निपतत्सु निरंतरम् ॥ ५०८ ॥ प्रहारजर्जरांगोऽपि, मंत्रीशो हस्तलाघवात् । मर्मण्याहत्य बाणेन, द्विषं तमवधीद् युधि ॥ ५०९ ॥ युग्मम् ॥ बभूवोदयनानीके, जितं जितमिति ध्वनिः । स्फुरन्नूपुरझंकार, इवायांत्या जयश्रियः ॥ ५१० ॥ कीर्त्त्या सह द्विषलक्ष्मीं समादाय तदंगजम्। तत्पदे न्यस्य मंत्रदुः, स्कंधावारोन्मुखोऽभवत् ॥ ५११ ॥ अरुंतुदप्रहारोद्य-द्वेदनामीलितेक्षणः । अज्ञातुमिव तद्दुःखं, मूर्च्छामानच्र्छ सोऽध्वनि ॥ ५१२ ॥ पवनाद्युपचारेण, कृच्छ्रात् प्रापय्य चेतनाम् । तमुत्पाट्य च तद्भृत्या, निन्यिरे शिबिरांतरम् ॥ ५१३॥ तत्र स्रस्तरविन्यस्त - देहः स्नेहपरैर्जनैः । सभ्यक्शुश्रूष्यमाणोऽपि, चक्रंद सचिवो मुहुः ॥ ५१४ ॥ ततस्तं प्रश्नयामासुर्नेदिष्ठा मंडलाधिपाः । करुणं कारणात् कस्मा- दद्यैवं ऋद्यते प्रभो ! ॥ ५१५ ॥ पुराऽपि चक्रिरेऽनेके, वैरिविद्रावणा रणाः । प्रहारा अपि लग्नास्ते, वीरश्रीमंडनोपमाः ॥ ५१६ ॥ परं नैवाधृतिर्दधे, महीघ्र स्थिर ! कर्हिचित् । तस्माच्छल्यं यदंतस्ते, तत् प्रसद्य निगद्यताम् ? ॥ ५१७ ॥ अधोदयनमंत्री तान्, निजगाद सगद्गदम् । व्यर्थते नैव मामेते, घाता दुर्विषहा अपि ॥ ५१८ ॥ ये स्वामिशासनात् प्राणां स्तृणयंति रणानले । तेषां वीरावतंसानां, प्रहाराः सुखभक्षिकाः ॥ ५१९ ॥ किंतु पूर्व प्रतिज्ञाता, मया नियमपूर्वकम् । शत्रुंजयस्य शकुनी — चैत्यस्य च समुद्धृतिः ॥ ५२० ॥ अद्यैवं मरणे प्राप्ते,
१ बाणे. २ तद्दुःख-प्र. ३ प्राप. ४ नाशकाः ५ त्रया-इति शेषः ६ भरणं प्र.
सर्ग.
॥ १७८ ॥
Page #407
--------------------------------------------------------------------------
________________
। भज्यमाना हृदय, सपना देवर्णमन्यन्मे, संगरोऽपि चितावत् तापिन
१२३ ॥ श्रुत्वा तन मंडलाधीशा, मन्यन्मे, संगरोऽपि च भुंगुरः। चिदखाय जायते । यद् /
उनका वयमेव स्ने, वाग्भटायभटाभ्यातापिनी चिंता, स्वामिनः ।।
ARRRRRRRAGACANKA
श्रेय श्रेणिरिवोच्चकैः । सा भज्यमाना हृदयं, सपत्राकुरुते मम ॥५२१॥ ऋणमन्यदपि प्रायो, नृणां दुःखाय जायते । यद् देवस्य ऋणं तत् तु, महादुःखनिबंधनम् ॥५२२॥ एकं देवर्णमन्यन्मे, संगरोऽपि च भुंगुरः।चिंतयन् द्वयमप्येतत्, कंदनस्म्यद्य मंदवत् ॥ ५२३ ॥ श्रुत्वा तन मंडलाधीशाः, प्रोचिरेऽतिचमु(मोत्कृताः। चितावत् तापिनी चिंता, स्वामिन् ! माऽत्र कृथा वृथा ॥५२४॥ ग्राहयित्वैकभक्तादीन, निखिलांस्त्वदभिग्रहान् । वाग्भटायभटाभ्यां त्व-पुत्राभ्यामचिरादपि |॥५२५॥ तीर्थावुद्धारयिष्यामो, द्वावपि त्वत्प्रतिश्रुतौ । लग्नका वयमेव स्मः, कर्मण्यस्मिंस्त्वदुक्तवत् ॥५२६ ॥ युग्मम् ॥ पितृभक्तिमुचौ तौ चे-च्चैत्ये नैवोद्धरिष्यतः। वयं तदोद्धरिष्यामः, श्रेयः कस्य न हि प्रियम् ॥५२७॥ तद्वाक्यामृतपानेन, सजितात्मेव धीसखः । जगादानीयतां साधुः, कोऽप्यंताराधनाकृते ॥ ५२८ ॥ अनासाद्य ततः क्वापि, मंडलेशा महा-18 ऋषिम् । समाधिभंगोऽमात्यस्य, माभूदिति मनीषया ॥५२९॥ 'वठं कमप्यनुल्लंठं, शिक्षयित्वा मुनिक्रियाम् । तद्वेषं कारयित्वाच, समानेषुस्तदन्तिकम् ॥५३०॥ युग्मम् ॥ तं गौतममिवानम्य, क्षमयित्वा तथांगिनःनिंदित्वा दुरितं पुण्य-मगण्य मनुमोद्य च ॥५३१॥ सम्यक्त्वं पुनरुज्ज्वाल्य, तद्दोपोन्मार्जनाजलैः। भावनाद्भुतसौरभ्यै-रात्मानमधिवास्य च ॥५३२॥ सध्यानरसवेघेन, कल्याणीकृत्य मानसम् । बभूवोदयनामात्यः, स्वर्गलक्ष्मीविशेषकः ॥५३॥ त्रिभिर्विशेषकम् ॥ तस्यांत्यं कृत्यमातत्य, शोकसंकुलमानसाः। ततश्चौलुक्यसामंताः, पत्तनं प्रत्यचालिषुः॥५३४॥ सवंठोऽथ मनिवेष-भृत्या नत्या च मंत्रिणः । वृष्टयेवांकरितोद्दाम-विवेकद्वरचिंतयत् ॥५३५॥ ईदृशं वंदयित्वैनं, १ कल्याणपरंपरा. २ वाणविद्धं कुरुते. ३ प्रतिक्षा. ४ अकृतोद्वाहम्. ५ उज्वलं कृत्वा. ६ अधिवासितं कृत्वा. . रससंबंधेन. ८ तिलक:-शिरोधार्यः. २ कृत्वा.
Page #408
--------------------------------------------------------------------------
________________
कुमारपालच०
सर्ग..
॥१७९॥
NAGAGARAN
मंत्रिणं पुण्यवत्तमम् । यदि स्यां कर्मकृद् भूय-स्तदा मे का विदग्धता?॥५३६॥एवमेव धृते यत्रो-जागरं गुरुंगौरवम् । |साधुवेषे श्रिते तस्मिन् , भावतो भावि किं फलम् ? ॥ ५३७ ॥ तदनेनैव वेषेण, करोम्यामुष्मिक हितम् । धर्मस्येव *ममैतस्य, प्राप्तिः कौतस्कुती पुनः॥५३८॥ध्यात्वेति रैवताख्याद्रि-मधिष्ठाय तथैव सः। शुद्धानशननिःश्रेण्याऽ-ध्यारु-टू
रोह सुरालयम् ॥ ५३९॥ | इतो मांडलिकास्तेऽपि, त्वरया प्राप्य पत्तनम् । प्राभृतीचक्रिरे वैरि-लक्ष्मी चौलुक्यभूभृतः ॥५४॥ व्यजिज्ञपंश्च युगपत् तस्योदयनमंत्रिणः । विक्रमं चावसानं च, चमु(म)त्कारैककारणम् ॥५४१॥ कर्णयोः क्रकचाभं त-निशम्य वचनं नृपः । आस्यानिरस्य तांबूल-मन्वशेत स्वबंधुवत् ॥५४२॥ वाग्भटप्रमुखास्तेऽपि, मंत्रिपुत्राः पितुः कथाम् । मत्वा वज्रानलप्लुष्टा, इव विव्यथिरेतमाम् ॥ ५४३ ॥ भूधवः सौधमभ्येत्य, तत्परिच्छदमादरात् । संबोध्य च महामात्य-पदे न्यास्थत वाग्भटम् ॥ ५४४ ॥ __ अथैत्य मंडलाधीशा,वाग्भटाघभटौ प्रति।आवेद्य मंत्रिणस्तीर्थो-द्धारसंगरमूचिरे॥५४५॥ युवा यदि पितुर्भको,धर्ममर्म-IN विदावपि। उद्रियेथां तदा"तीर्थों,गृहीत्वा तदभिग्रहान्॥५४६॥स्तुत्याः सुतास्त एव स्युः,पितरं मोचयंति योऋणाद् देवऋणात् ॥ तातं, मोचयेथां युवां ततः॥५४७॥ सवितर्यस्तमापन्ने, मनागपि हि तत्पदम् । अनुद्धरंतस्तनया, निंद्यन्ते शनिवजनैः॥५४८॥
भावं विना. २ साधुवेषे. ३ अतिमहत्ता. ४ पारलौकिकम्. ५ कुतः कुतः कारणात् भवति. ६ त्यक्त्वा. ७ पश्चात्तापं करोतिस्म. ८ ज्ञात्वा. ९ दग्धाः १० व्ययतेस्म, विव्यथिरेतराम्, प्र. ११ शत्रुजयशकुनीचैत्यरूपौ.
Page #409
--------------------------------------------------------------------------
________________
A
सुधावत् तद्रिं पीत्वा, हृष्टावुदयनात्मजौ । एकैकं तीर्थमुद्धर्तु, दधतुर्नियमान् पितुः॥५४९॥ तदर्थमथ विज्ञप्तो, भूभृद वाग्भटमचिवान् । कार्ये विश्वजनीनेऽस्मिन्, किं प्रष्टव्योऽस्मि धीनिधे!॥५५०॥ तीर्थः शत्रुजयश्चैत्य-मुद्धत्यं त्रिजगप्रभोः । भवानुद्धारकस्तत् किं, येनैतन्नानुमन्यते ॥५५॥ ततोऽतिसत्कृतो राज्ञा, गुर्वाशीर्भिश्च वर्धितः । महा वाग्भ
टस्तीर्थ, प्रति प्रास्थित भूपवत् ॥५५२॥ क्षिप्रं शत्रुजयं गत्वा,नत्वा चादिजिनेश्वरम् । दत्त्वा गुरूदरावासान, ससैन्योऽपि ४|| स तस्थिवान् ॥ ५५३ ॥ मेलयामास च छेकान,सूत्रधाराननेकशः। विश्वकर्माऽपि विज्ञानं, यत्पार्श्वेऽधिजिगासते ॥२५॥
द तत्र चैत्योद्धति श्रुत्वा,प्राप्ताः साधर्मिका घनाः। स्वश्रीव्ययेन पुण्यश्री-विभागममिलिप्सवः ॥५५५॥ तद्देश्यश्च वणिक् कोIsपि, मीमः षड्द्रम्मनीविकः । वहन् स्वमूर्ध्नि कुतुपं, कटकेऽभ्येत्य मंत्रिणः॥ ५५६ ॥ विक्रीय च घृतं सर्व, व्यवहारवि||शुद्धितः। रूपकेणाधिकं द्रम्म-मेकं छेकतयाऽर्जयत् ॥५५७॥ युग्मम् ॥द्रम्मान् सप्तापिनीव्यर्थ, ग्रंथौ बद्धास धार्मिकः।। कुसुमै रूपकक्रीतैः, श्रीनाभेयं तदाऽर्चयत् ॥५५८ ॥ इतस्ततः परिभ्राम्यन्, कटकालोककौतुकात् । भीमो गुरूदरद्वारमागाद् वाग्भटमंत्रिणः ॥५५९॥ दौवारिकर्मुहुदूरी-क्रियमाणोऽपि रंकवत् । सोऽन्तमत्रिणमद्राक्षीत्, सदस्थं दिव्यवैभवम्
॥५६० ॥ दध्यौ च पार्श्वलोकोऽस्य, शृंगारैर्दिविषद्गणः । मध्यस्थितः पुनरयं, लीलया नानायकः ॥५६१॥ अहो द मर्त्यतया तौल्य-मस्य मेऽपि गुणैः पुनःद्वयोरप्यंतरं रत्नो-पलयोरिव हा कियत् ॥५६२॥ सेव्यतेऽयं गुणवातै-वंशी-18
उद्धारार्थम्. २ तीर्थे, प्र. ३ ये चै० प्र. ४ तत् एतत् किं कार्य. ५स्तुतोऽनुमोदित-उत्साहित इति यावत्. ६ देवानां शिल्पी. ७ अध्येतुमिच्छति, ID वृतं. प्र. ९नीविः-मूलधनम्. १० घृताधारं चर्मपात्रं (कुडली). ११ सेवकैः, १२ ऽति, प्र. १३ खर्गनायकः,
%A9-%AA%ER
Page #410
--------------------------------------------------------------------------
________________
कुमारपालच.
॥१८
॥
SOCIALISTARHA
भूतैरिवाऽनिशम् । स्थानाभावादिवान्यत्र, निषेव्येऽहं तु दूषणैः ॥ ५६३ ॥ श्रीयतेऽयं श्रियाऽश्रांतं, पुरुषोत्तमविभ्रमात् । तदीर्ण्ययेव श्रीयेऽह-मलक्ष्म्या पुरुषाधमः ॥ ५६४ ॥ स्वकीर्तिस्पर्धयेवायं, मंत्री विश्वोदरंभरी । अहं तु हतको नास्मि, स्वनिर्वाहेऽपि शक्तिमान् ॥ ५६५ ॥ महांतोऽपि स्तुवंत्येनं, दानमानवशीकृताः । दारिद्योपद्रवोद्विग्ना, स्तौति मां मत्मि-13 याऽपि न ॥५६६॥ एतादृशं महातीर्थ-मप्युद्धर्तुमयं क्षमः । न कायमानैमप्यस्मि,नवीकर्तुमहं सहः ॥५६७॥ अयमेव ततो मंत्री, मन्ये पुण्ये निदर्शनम् । ईदृग्लीलायितं यस्य, चक्रवर्तिविजित्वरम् ॥५६८ ॥ इति ध्यानपरो भीमो, द्वाःस्थेन गर्लहस्तितः कथंचिन्मंत्रिणा वीक्ष्य,समाकार्यत तत्क्षणम् ॥५६९॥ प्रणिपत्य पुरस्तिष्ठन् , स स्वात्मीय मि(इ)वादरात् । प्रश्नितस्तेन कोऽसीति, स्ववृत्तं प्राक्तनं जगौ ॥५७०॥ धन्यस्त्वं निधनोऽप्येवं, यो जिनेंद्रमपूजयत् । धर्मबंधुस्त्वमसि मे, ततः साधर्मिकत्वतः॥५७१॥ सभाऽध्यक्षमिति स्तुत्वा, भीत्याऽनुपविशन्नपि । स स्वासने बलेनैव, वाग्भटेन न्यवेश्यत ॥५७२॥ स दिव्यवसनामात्य-संगतो मलिनांशुकः। दीप्रमाणिक्यनेदिष्ठ-श्यामाश्मसमतामधात्॥ ५७३ ॥ भीमोऽध्यासीद् दरिद्रोऽपि, मानितोऽहमनेन यत् । तन्नूनं जिननाथार्चा-पुण्यतेजो विज़ुभते ॥५७४॥ स्थूललक्षाः क्षणे तस्मि-नेत्य साधमिका मुदा । इति व्याजहिरे मंत्रि-राजराजंतमंजसा ॥५७५॥ प्रभविष्णुस्त्वमेकोऽपि, तीर्थोद्धारेऽसि धीसख ! बंधूनिव तथाऽप्यस्मान्, पुण्येऽस्मिन् योक्तुमर्हसि ॥ ५७६ ॥ पित्रादयोऽपि बंच्यते, कदाचित् क्वापि धार्मिकैः। न तु साधर्मिका
भरिः, प्र. २ नष्टप्रायः. ३ तीर्थमिति संबध्धते. ४ अपसारणार्थ गले-कंठे अर्पितः-ज्यस्तः हस्तः-लहस्तः स संजातोऽस्य " तदस्य संजातं तारकादिभ्य इतच्" इति गलहस्तितः-जातगलहस्त-इत्यर्थः. ५ घृतविक्रयलाभपूजादि, ६ शीघ्रं. ७ प्रभावशीलः-समर्थः.
MEROLAGANA
॥१८॥
Page #411
--------------------------------------------------------------------------
________________
ECAUSAHASRANAGAR
धर्म-स्नेहपाशनियंत्रणात् ॥५७७॥ ततो यत् किंचन द्रव्यं, वयं भावेन दद्महे । तीर्थे तदस्मिन् विन्यस्य, प्रार्थितं नः कृतार्थय ॥५७८॥ तेषामित्यतिनिबंधा-न्मंत्री दाक्षिण्यनीरधिः । तन्नामानि क्रमेणैव, पत्रे स्वयमलीलिखत् ॥५७९॥ आनीयमाने कनको करे तैर्व्यवहारिभिः। सचिवार्धासनासीनो, भीमश्चित्ते व्यचीचरत् ॥५८०॥ अहो ममोपयुज्येर-श्चैत्यकर्मणि चेदिह। है द्रम्माः सप्तापि नीवीस्थाः, कृतार्थः स्यामहं तदा ॥५८१॥ मंदाक्षमंदस्तद्वक्तु-मक्षमः सोऽतिदाक्ष्यतः। विज्ञाय मंत्रिणाऽभाणि, ब्रूहि त्वं किं विवक्षसि ॥५८२ ॥ स प्राप्तैश्वर्यवत् प्रीतो, निःशंकं तमवोचत । गृह्यतां चैत्यकृत्येऽस्मिन्, ममापि द्रम्मसप्तकम् ॥५८३॥ चित्ते चमत्कृतो मंत्री, तमूचे देहि तद् द्रुतम् । पूर्णा चैत्योद्दिधीर्षा मे, स्वां नीवीं त्वमदा यदि ॥ ५८४ ॥ तेन रोमांचितांगेन, दत्ते तस्मिन् स्वकोशवत् । तन्नाम सर्वनामादौ, पत्रे श्रीवाग्भटोऽलिखत् ॥ ५८५॥ तद् दृष्ट्वांजनवत् कृष्ण-मुखाञ् श्राद्धान् महर्द्धिकान् । मंत्री स्माह कुतो यूय-मेवं विच्छायतामिताः॥५८६॥ ददतो |ऽपि बहुद्रव्यं, समा नैवास्य सर्वथा। शतांशमपि नादिद्, यन्नीव्यास्तामदादयम् ॥५८७॥ अपत्रपिष्णवो वाचा, तया तेऽधो है व्यलोकयन् । मन्यते स्माऽतिधन्यं स्वं, स भीमः सुस्तुतेस्ततः॥५८८॥ अथ पंचशी द्रम्मान, पट्टवस्त्रत्रयं नवम् । अमात्यो बहुमानेन, तस्मै दातुं प्रचक्रमे ॥५८९॥ भीमोऽभ्यधादहं पुण्यं, महन्नैतावता व्यये । कोटिं काणकपर्दैन, का पर्गमयत्यहो॥५९०॥ ततोऽनुज्ञाप्य मंत्रींद्र, स ययौ मंदिरं निजम् । पिशाच्या इव पत्नीतो, बिभ्यत् सर्वधनार्पणात् ॥ ५९१॥ तदा स्त्रियाऽन्ययेवोच्चैः, स्निग्धैाक्यैः स तोषितः । विमृष्टवानहो चित्रं, यदद्येयं प्रियंवदा ॥५९२॥
१ लजालुः. २ उद्धर्तुमिच्छा. ३ यूयमितिशेषः. ४ यस्मात्. ५ नीबीम्. ६ खभावतो लज्जाशीलाः-सज्जालवः.
ACCESCRECADALANGUALLECCX
कु.पा.व.३१
Page #412
--------------------------------------------------------------------------
________________
कुमार पालच०
॥१८१॥
HLARICHOLASOSLARA
| यथा विषे न पीयूषं, यथा वहौ न नीरजम् । तथा लोकंपृणं वाक्यं, न जात्वस्या मुखेऽजनि ॥ ५९३ ॥ यद्येषा राक्षसीकोग्रा, सौम्याऽऽसीत् प्रेयसी मम । ततोऽहं सकलं मन्ये, धन्यमद्यतनं दिनम् ॥ ५९४ ॥ भीमस्तामूचिवान् द्रव्यम्ययाचं चरितं ततः। साऽपि दृष्टा तमाचर, स्वामिन् ! सम्यक् कृतं त्वया ॥५९५॥ द्रव्यं व्ययीभवत्येव, सर्वेषां गृहकर्मणि। प्रासादादौ तु कस्यापि, भविष्यद्भद्रसन्ततेः॥ ५९६ ॥ तच्चाचिंति त्वया साधु, यन्नाऽऽत्तं मंत्रिणो धनम् । परकीयं धनं तीर्थे, स्वीकुर्यादेवमेव कः॥ ५९७॥ | अथ बंधकृत धेनोः, स्थाणुन्यासाय भूतले। खन्यमाने निधि लेभे, भीमो धर्ममिवोत्तमः॥५९८॥ स सुवर्णमयांस्तत्र, चत्वारिच्छितीमितान् । दीनारान् प्राप्य हृष्टोऽभू-दपुत्रस्तनयान् यथा ॥५९९॥ अद्य यद्यन्ममे श्रेष्ठं, तत्तत् तत्पुण्यतोऽस्ति तत्। पुण्यात् प्राप्तो निधिरय, पुण्यमेवोपतिष्ठताम् ॥६००॥ स ध्यात्वेत्थं निजामिच्छां, श्रावयित्वा च वल्लभाम् । तत्प्रेरितो निधि लात्वा, तं वाग्भटमुपागमत् ॥ ६०१॥ युग्मम् ॥ उक्त्वा तत्प्राप्तिवृत्तांतं, यथास्थितमसौ सुधीः । तन्निधिं दचवांस्तस्मै, तीर्थोद्धारार्थमाहेतः॥६०२॥ मंत्री जगौ स्वगेहस्थं, निधिं त्वं व्ययसे कुतः। स स्माहैष न मन्यस्तो, नाहं गृहे परस्य च ४॥६०३॥ इत्युक्तेऽपि न गृह्णाति, मंत्री दत्ते बलाच्च सः। विवादे विस्फुरत्येवं, राज्यागात् कौतुकादिव ॥६०४॥ निशि तं भीममभ्येत्य, स्वपूर्वज इव स्वयम् । तीर्थाधिष्ठायको यक्षः, कपही प्रोक्तवानिति ॥६०५॥ त्वयैकरूपकोपात्तैः, प्रसूनैः प्रथमो
१ कमलम्. २ लोकं पृणातीति लोकपृणम. ३ कर्मणि लुङ, ४ चत्वारिसहस्राणि. ४०००, ५ मयि, प्र. ६ चैत्योद्धारे सप्तद्रम्मदानादिपुण्यतः. ७ श्रेष्ठम्. ८ पुण्याय.प्र. ९ सादरः-कृतादरः.
बESC-
ECRECCC
॥१८१॥
CEM.
Page #413
--------------------------------------------------------------------------
________________
जिनः। यदपूज्यत भावेन, तेनाहं तुष्टवांस्तव ॥६०६॥ प्रियोक्तिस्ते प्रिया चक्रे, दत्तोऽयं च निधिर्मया । तदिम निर्विश
स्वैर-मुक्वेति स तिरोदघे ॥६०७॥ भीमोऽपि प्रातरावेद्य. यक्षो सचिवाय तत् । स्वर्णरत्नमयैः पुष्पै-रान प्रथम हाजिनम् ॥ ६०८ ॥ ततः स निधिमादाय, गृहं प्राप्तो महेभ्यवत् । प्रतीतेः पुण्यमातेने, स्वहिते को हि नोद्यमी ॥६०९॥ द्रा इतः काष्ठमयं चैत्यं, दूरीकार्य शुमेऽहनि । अमात्यः कर्तुमाश्म तत् ,पाररंभददंभधीः ॥ ६१०॥ अँधस्ताद् विधिना|| न्यस्य, वास्तुमूर्ति हिरण्मयीम् । दृढं कर्मशिलान्यासं, सूत्रधारा वितेनिरे ॥ ६११॥ वास्तुविद्योक्तयुक्त्यैव, स्थापयंतेः स्थिरानं सुरान् । उत्कृष्टोत्कृष्टमातेनु-स्ते कर्मस्थायमादृताः॥ ६१२॥ नित्यं नवनवाहारै-वस्त्राद्यैश्च प्रमोदिताः। आसीना इव पल्यंके, शिस्पिनो नैव शश्रमः॥ ६१३॥ नक्तं दिवाऽपि नास्वाप्सी-मंत्री तश्चैत्यचिंतया। आरभ्य तादृशं श्रेयो, निद्रालुत्वं दधाति कः॥१४॥ यथा यथोर्द्धमारोहत् , स प्रासादो दिने दिने । पुण्यराशिरतिस्थेयान् , मंत्रिणोऽपि तथा तथा ॥ ६१५॥ वर्षद्वयेन तचैत्यं, दत्तशैत्यं जगदृशाम् । संपद्यते स्म संपूर्ण, कोटीरमिव तद्रेिः ॥ ६१६ ॥ तत्संपूर्णतयाऽमात्यः, प्रमोदैरुदरंभरिः। कर्तु प्रक्रमते यावत् , स्वयं लोकोत्तरं महम् ॥ ६१७ ॥ तावद् देवार्चकोऽभ्येत्य, म्लानास्यश्रीस्तमूचिवान् । अस्फुटत् सकलं चैत्यं, देव! केनापि हेतुना ॥ ६१८॥ पीयूषे विषषद् दुग्ध-18
१प्रिया उतिर्यस्याः सा. २ भार्या. ३ श्व.४ पूजयामास. ५ हृष्टः. ६ दूरं कृत्वा.७ खातस्थले. ८ यत्र स्थाने मूलनायकः स्थाप्यते ततोऽधस्तात् कूर्माकारयुक्ता शिला न्यस्पते. ९ तं, प्र.१.रांस्त.प्र..११ कर्म-शिल्पादिक्रिया तिष्ठति यत्र स कर्मस्थायः-प्रासादः तं, स्थाधातोरधिकरणे एन युगागमश्च. १२ अस्फटत् , प्र.
Page #414
--------------------------------------------------------------------------
________________
कुमारपालच०
॥१८२॥
मध्ये कांजिकपातवत्।हर्षे विषादवद् वेदो-चारे दुःश्रवगालिवत् ॥६१९॥ तदुःखाकरमप्युच्चै-क्यमापीय वाग्भटः। भृशमुल्लासभागासीद्, भानुपाणिपयोजवत् ॥६२०॥ युग्मम् ॥ तदाकर्ण्य ततो दूना-स्तं तथा वीक्ष्य सेवकाः। पृच्छन्ति स्म कुतः स्वामिन् ! विषादे प्रमदोदयः१ ॥६२१॥ स तानुवाच यद् दीर्ण-मेतन्मयि विजित्वरे । कारयिष्येऽधुनैवाह, पुनस्तदिति मे मुदः॥६२२॥ अन्यथा मयि यातेऽस्त, चेद् विशीर्येत दैवतः। तदाऽन्यः कारयेच्चैत्यं, मत्कीर्तनमपि प्रजेत् ॥६२३॥ अथ द्वेधाऽपि सकलान ,समाहाय्य स शिल्पिनःपप्रच्छ हेतुना केन,प्रासादोऽयं व्यदीर्यत?॥६२४॥ तेऽभ्यधुनिर्धर्म चैत्यं, भवेदन्वयनाशकृत् । ध्यात्वेति वयमेतत् ते, निरमासिष्म संभ्रमम् ॥६२५॥ तदंतरा प्रविष्टः सन्, न निर्याति बहिर्मरुत् । तत्क्षोभात् स्फुटतिस्मैतत् , पक्कालुंकवदू ध्रुवम् ॥६२६॥ श्रुत्वा तवाग्भटोऽध्यासी-दन्वयो यद्यपि प्रियः। तथापि सोऽयं संदिग्धः, को वेद भविता न वा ॥ ६२७ ॥ भूतोऽपि वा स्थिरः कस्य, सुमेरुरिव वा स्थिरः । कर्ता ममोपकारं किं, भवश्रेणिकृतभ्रमः ॥ ६२८ ॥ नरकं प्रति पित्रादीन् , नीयमानान् कुकर्मभिः । संनिकृष्टोऽपि नेष्टेऽसौ, रंकवत् त्रातुमन्वयः ॥ २९ ॥ नैवेह न परत्रापि, विना पुण्येन केनचित् । उपकारक्रिया काऽपि, क्षेत्रज्ञस्य वितन्यते ॥ ३० ॥ धर्मसंतान
॥१८२॥
. विजयशीले-सर्वोत्कर्षवति. २ उत्कर्षांभावं प्राप्ते मरणं प्राप्ते वा. ३ समप्रान् , कलासहितान् , च. ४ प्रदक्षणादानमार्गरहितम् . * चेत्यं तव, ५वयं कृतवन्तः.६ प्रदक्षणादानमार्गसहितम्. ७ स्फ, प्र. ८ पक्वकर्कटीवत्, निकटस्थः. १. जीवस्य, इदं शरीरं कौतेय, क्षेत्रमित्यभिधीयते । एतद् यो वेत्ति तं प्राहुः, क्षेत्रमिति तद्विदः ॥ १॥ . .
Page #415
--------------------------------------------------------------------------
________________
ARUSHICHOCHORAŁAGAOG
एवास्तु, वास्तवं वस्तु तन्मम । अन्वगभूय नयत्यात्म-तातं जीवं शिवं हि यः॥६३१॥ किंच तीर्थसमुद्धार-कारिणां भववारिणाम् । भरतादिमहीपानां, पंक्ती नामास्त्वनेन मे ॥ ६३२ ॥ विमृश्येति स धर्मार्थी, सूत्रधारान् समादिशत् । निर्धमं क्रियतां चैत्यं, पुनरुत्कील्य मूलतः॥ ६३३ ॥ सप्तभिः कुलकम् ॥
तेऽथ निर्धमैतां कृत्वा, हित्वा च स्फुटिताः शिलाः । मूलात् पुनर्नवीचक्रु-स्तच्चैत्यं वत्सरैत्रिभिः॥ ६३४॥ त्रिल:रहितास्तिस्रः, कोव्यो द्रव्याणि मंत्रिणः । कर्मस्थायेऽस्य लग्नानि, वदंत्येवं चिरंतनाः॥ ६३५॥ तुंगं सुधाऽतिशुभ्रं च, प्रासादं प्रेक्ष्य तं जनः । कैलासालोकनोत्कंठां, कुंठयामास मानसे ॥ ६३६ ॥ भ्राजंते मंडपास्तत्र, विस्तीर्णाः साधुचित्तवत् । दानादिपुण्यलक्ष्मीणां, पृथक क्रीडागृहा इव ॥ ६३७ ॥ प्रत्येकं तेषु सैदूपाः, प्रेक्ष्यते शालभंजिकाः। तत्तत्कुतूहलालोक-निश्चला देवता इव ॥ ६३८ ॥ दृष्टं शिल्पमदृष्टं च, तत्र वीक्ष्य निरीक्षिणः । दधानाः सममानंदं, विदंति| न मिदं हृदि ॥६३९॥ विहारः सोऽभितो भाति, क्षुदैर्देवकुलैर्वृतः । पञः पार्थस्थितैः पन्न-इदांतर्गतपद्मवत् ॥ ६४०॥18
अथ तस्य प्रतिष्ठार्थ, विज्ञप्तिं प्रेष्य पत्तने । आजूहवत् संघयुतं, हेमाचार्य स मंत्रिराट् ॥ ६४१॥ श्रीविक्रमाच्छिवाक्षीदु-वत्सरे सेहसः "सिते । सप्तमेऽहि शनौ वारे, निवेश्य प्रथमं जिनम् ॥ ६४२ ॥ श्रीहेमसूरिणा दंडं, ध्वज कुंभ च कांचनम् । विधिवत् स प्रतिष्ठाप्य, चैत्यमूर्ध्नि न्यवेशयत् ॥ ६४३ ॥ युग्मम् ॥ प्रासादोऽनिललोलेन, ध्वजाग्रेण विरे
१ भवनिवारणकर्तृणाम्. २ निभ्रमम्. प्र. ३ निभ्रमताम्. प्र०.४ जीर्णोद्धारे. ५ लेपनद्रव्यम्. (कळिचुनो). ६ स्खलयामास. ७ श्रेष्ठस्वरूपाः. ८ लोकैरिति शेषः. ९ पुत्तलिकाः. १० लघुभिर्देवमंदिरैवेष्टितः. ११ विक्रमसंवत् १२११,१२१३ इति नवनवतिप्रकारायां पूजायाम्. १२ मार्गशीर्षमासस्य. १३ श्वेतपक्षे. १४वायुचपलेन."
Page #416
--------------------------------------------------------------------------
________________
कुमार
पालच०
हूँ भूखा मृघटित्या विनिहिता ततस्तीयों
जिवान् । उत्तंभितेन हस्तेन, तर्जयन्निव दुष्कृतम् ॥ ६४४ ॥ अष्टाह्निकादिकृत्येषु, विहितेष्वतिशायिषु । प्रीणितस्तच्चरि-18 त्रेण, गुरुर्वाग्भटमूचिवान् ॥ ६४५॥ जगद्धर्माधारं स गुरुतरतीर्थाधिकरण-स्तदप्यर्हन्मूलं स पुनरधुना तत्प्रतिनिधिः। तदावासश्चैत्यं सचिव! भवतोद्धृत्य तदिदं, समं स्वेनोद्दभ्रे भुवनमपि मन्येऽहमखिलम् ॥ ६४६॥ (शिखरिणी वृत्तम्)18 भूत्वा मृद्घटिताद् घटाद् यदि पुरा वातापिवैरी मुनिः, सक्षाप्यंबुनिधीन किलैकचुलुना पोशा(यः पा) नकर्मण्यपात् ।। मंत्रिंश्चैत्यमधि त्वया विनिहितात् कल्याणरूपात् तेतः, सूतः पुण्यसुतः कथं तव भवांभोधि न पातैककम् ॥ ६४७॥ (शार्दूलविक्रीडितम्) अवरुह्य ततस्तीर्थात्, तदीयतटभूतले। वाग्भटः स्थापयामास, निज़नाना नवं पुरम् ॥ ६४८॥ कुमारपालराट्तात-संजया तत्र सत्तमम् । चैत्यं विधाप्य च श्रीम-त्पावबिंबमतिष्ठिपत् ॥ ६४९॥ चतुर्विशतिमारा
मान् , निर्माप्य परितःपुरम् । देवार्चनाकृते दत्त्वा, ग्रामानपि च तावतः॥ ६५०॥ गुरुसंघान्वितस्तस्मात्, प्रस्थायोदनयनात्मजः । स्वस्थानं पत्तनं प्राप, धुर्यत्वं च शुभात्मनाम् ॥ ६५१॥ युग्मम् ॥ ___ अथ गूर्जरनाथस्य, मंत्रिणो वाग्भटस्य च । आज्ञयाऽऽयभटो गत्वा, भृगुकच्छपुरांतरेम् ॥ ६५२॥ निजतातप्रतिज्ञात-पूर्तये श्रेयसेऽपि च । मुनिसुव्रतनाथस्य, चैत्यमारंभयन्नवम् ॥ ६५३ ॥ युग्मम् ॥ खन्यमाने जनस्तस्या-धस्तन-18 क्षितिमंडले । मिलति स्म स्वयं गर्ता-मुखं हक्पुटवत् ततः ॥ ६५४ ॥ राक्षस्येव तया प्रस्तान्, गर्तया खनतो जनान् ।
धर्म माधरो यस्य तत्. २ आत्मना. ३ अगस्तिः .४ सुवर्णखरूपात, ५ घटातू-कलशात्. कथं न पास्यति. ७ बाहडपुरम्. ८ त्रिभुवनपालविहार इति नाना.९ मध्यम्. १० नेत्रसंपुटवत, ११ गर्तामुखमिलनात्.
44.CACACCORRECECRUAR
१८३॥
Page #417
--------------------------------------------------------------------------
________________
AGUSTUS
आलोक्य तत्कुटुंबानि, गाढं परिविदेविरे ॥ ६५५॥ तत्रौदयनिरायात-स्तद् दृष्ट्वाऽचिंतयच्चिरम् । अहो नामापि गाया, नास्ति हाहा बभूव किम् ? ॥ ६५६ ॥ पुण्याय प्रेकृते चैत्ये, प्रत्युताऽधं ममाऽभवत् । जीवितायाऽऽदृते पथ्ये, रोगिणो |मरणं यथा ॥६५७॥ इयतां देहिनां भूत्वा, वृथा मृत्युनिबंधनम् कथं दशे यिता हाऽहं, कलंकीव जनान् मुखम् ॥६५८॥
गर्तामृतानामुष्णोष्णैः, स्त्रैणैः स्वासैः प्रसृत्वरैः। भस्मयिष्ये ध्रुवं जीवन् , प्रमीतोऽहं स्वयं वरम् ॥ ६५९ ॥ ततस्तावसाधोत्पन्नं, पंकं माष्टुमना इव । झंपार्थ स समारोह-निकटं नर्मदातटम् ॥ ६६० ॥ पतिवानुगा पत्नी, स्यादिति श्रुतपूर्विणी । तेन पत्या निषिद्धाऽपि, पृष्ठे मर्तु प्रिया स्थिता ॥ १६१॥मा मेति व्याहरत्स्वेव, सबाष्पेष्वनुजीविषु । ददावा
भटो झंपा, निर्विष्ण इव सप्रियः॥ ६६२ ॥ अधस्तात् पतितोऽप्येष, सप्रियोऽप्यक्षतांगकः । अपश्यत् पुरतः कांचिनारी तेजोमयीमिव ॥ १६३ ॥ अन्वयुंक्त च भद्रे! त्वं, वद काऽसि विकाशिरुक् । इहादृष्टचरी कस्मा-दकस्मादागताऽसि च? ॥६६॥ हरभ्यामनुग्रंपश्याभ्यां, पश्यंती सा तमूचुषी।प्रभाब्या वत्स! देव्यस्मि, क्षेत्रस्यैतस्य रक्षिणी ॥६६५॥ कर्मण्यस्मिंस्त्वयाऽऽरब्धे, पुण्योपस्कारकारणे। त्वत्सत्त्वस्य परीक्षार्थ-मेतच्चके मयाऽखिलम्॥६६॥स्तुत्यस्त्वं वीरकोटीर, यस्येदृक् सत्त्वमुत्कटम् ।नो चेजने घनेऽप्येवं, मृते त्वद्वन्नियेत कः ॥६६७॥ स्वेष्टसिद्धेः स एवेष्टे, यस्य सत्त्वं महत्तमम् । पृथिव्याः को हि नाथः स्या-नि:सीम विक्रम विना?॥६६८॥ सत्त्वमेकमपि प्रौढं, कारुण्यानुगतं किमु । एवमेवाधामोग्रं, किं ग्रीष्मोत्तेजितं पुनः? ॥ ६६९ ॥ प्रीताऽस्मि तव मच्छक्या, गर्ताद् गर्भगृहादिव । शुभंयवो जनाः सर्वे, निर्गताः संतित
विलेपुः.२ प्रारब्धे.३ अपृच्छत्,४ अदृष्टा सती चरतीति अदृष्टचरी. ५पुण्यस्य-धर्मस्य उपस्कारः-आभूषण-संस्कारः, संघातो वा तस्य कारणे.६ शुभान्विताः,
ARREARSARAKAR
Page #418
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ १८४ ॥
पश्य तान् ? ॥ ६७० ॥ उक्त्वेत्यस्यामदृश्यायां, निवृत्त्यावभटस्ततः । खनकान् खनतः क्षोणीं, पश्यति स्म तथैव तान् ॥ ६७१ ॥ काऽपि मायाऽद्भुता देवी', विमृशन्निति स स्वयम् । सर्वासामपि देवीनां, भोगं भूयिष्ठमातनोत् ॥ ६७२॥ तत्प्रभावाग्निना दग्धे, प्रत्यूहगर्हेने सति । अष्टादशकरोतुंगं, तचैत्यं समपद्यत ॥ ६७३ ॥ श्रीमत्सुव्रतदेवस्य, राज्ञो राश्या हयस्य च । व्याधक्षताया न्यग्रोध – ग्युतायाः शकुनेरपि ॥ ६७४ || नमस्कृतीर्ददानस्य, मुनेरपि च सत्तमाः । मूर्तीः सोऽचीकरलेप्य - मैयीश्चित्रकरैः परैः ॥ ६७५ ॥ युग्मम् ॥ अथौदयनिविज्ञप्ताः, प्रतिष्ठोत्सवहेतवे । पत्तनात् तत्पुरं प्रापु - गुरुसंघमहीभुजः ॥ ६७६ ॥ विधाय शांतिकं मंत्रः, प्रभावैरिव पिंडितैः । प्रत्यष्ठाद्धेमसूरींदु - जिनेंद्रं कूर्मलांछनम् ॥ ६७७ ॥ मल्लिकार्जुनकोशीयं, श्री चौलुक्यप्रसादितम् । कलशं विलसत्स्वर्ण - द्वात्रिंशद्घटिकामयम् ॥ ६७८ ॥ दंडं च हैमं दीप्रांशु-पट्टांशुकमयं ध्वजम् । यथाविधि प्रतिष्ठाप्य, गुरुश्रीहेमसूरिणा ॥ ६७९ ॥ स्वयमावभटः संघभूपादिपरिवारितः । तानध्यारोपयच्चैत्ये, स्वं च पुण्यवतां हृदि ॥ ६८० ॥ त्रिभिर्विशेषकम् ॥ स्थित्वा च चैत्यमूर्येव, गर्जत्यातोद्यवारिदे । नरिनति स्म केकीव, प्रमोदग्रहिलाशयः ॥ ६८१ ॥ तत्र स्थितोऽसौ वृष्ट्वोच्चैः, स्वर्णरत्नादि देववत् । रौद्र" दारिद्र्य संतापं, शमयामास कस्य न ? ॥ ६८२ ॥ निरीक्षिता पुराऽप्यासीद्, वृष्टिर्जलमयी जनैः । तदा तु ददृशे क्षौम-स्वर्णरत्नमयी पुनः || ६८३ ॥ द्वेधाऽपि भूरिभारत्वाद्, दानमावभटार्पितम् । वाहीकैर्यदि वेश्मानि प्रापयामासु
१ देवसंबंधिनी. २ बने. ३ राज्ञो - प्र. ४ सुधा ( चूना ) मयी. ५ उत्तमैः शिल्पः ६ लांछितम्, प्र० ७ द्वात्रिंशलघुघटप्रमाणम् ८ तेजोयुक्त कौशेयवस्त्रमयम्. ९ कलशदंडध्वजान् १० अतिहर्षित इत्यर्थः ११ द्र - प्र०. १२ भारवाहकै .
सर्ग. ८
॥ १८४ ॥
Page #419
--------------------------------------------------------------------------
________________
SACHCORRECOGNOSAUGAIN
रर्थिनः॥ ६८४ ॥ दानाऽऽयुष्टोम-यज्वानं, तं तथा वीक्ष्य हर्षलाः। इत्युपश्लोकयति स्म, कविवृंदारकास्तदा ॥ ६८५॥ स्रष्टुर्विष्टपसृष्टिनैपुणमयात् पाणेरपि त्वत्करे, शक्तिः काऽप्यतिशायिनी विजयते यद् याचकानां जनौ । भाले तेन निवेशितामतिहढां दारिद्यवर्णावली, दानिन्नामभटैष भूरिविभवैर्निर्मादि मूलादपि ॥ ६८६ ॥ (शार्दूलविक्रीडितम् ) ततोऽवतीर्य राजर्षि-प्रणुनो वाग्भटानुजः। आरात्रिकं समारेमे, कर्तु त्रिभुवनप्रभोः॥ ६८७ ॥ प्रथम पृथिवीभा, भ्रात्रा सामंतमंडलैः। संघाधिपैस्ततः श्राद्ध-मातृभग्नीसुतादिमिः॥६८८॥श्रीखंडमिश्रघुसूणे-नवांगा_पुरस्सरम् । भालस्थले मुहुः क्लुप्त-भाग्यलभ्यविशेषकः ॥ ६८९॥ कंठे च रोपितानेक-स्मेरसूनचतुःसंरः । निरीक्षितमुखांभोजो, निःस्पृहैरपि सस्पृहम् ॥६९०॥ तुरंगान द्वारभट्टेभ्यः, शेषेभ्यः कनकोकरान् । तदभावे परिष्कारा-नर्पयन् निजदेहतः॥६९१॥ धृत्वा कराभ्यां भूपेन, बेलादपि विधापितम् । आरात्रिकविधिं चक्रे, स धार्मिकशिरोमणिः ॥६९२॥ पंचभिः कुलकम् ॥ पृच्छति स्म च भूपाल-मत्युत्तालतया कुतः। एतत्कृत्यं करे धृत्वा, देवेनाहमकारिषि.१ ॥ ६९३ ॥ स्मेरः माह स तं| यच्छं-स्त्वं देहाभरणान्यपि । तद्वारेण निषिद्धोऽसि, दद्यात् सर्वमसाविति ॥ ६९४॥ धारारुढरसत्वेन, विस्मृत्यैव निजं| यतःदाता च द्यूतकारश्च, मूर्धानमपि यच्छतः॥६९५॥ कूर्मःक्षुद्रतमोऽपि लांछनमिषाद् यत्पादपद्मद्वयीं, सेवित्वेवे बभूव* भूमिवलयं पृष्ठे विवोढुं दृढः। अश्वोजीवनया धुरीणपदवीं कारुण्यभाजां श्रितः, स श्रीमान् मुनिसुव्रतो जिनपतिदेती १०.२कविमुख्याः, पक्षे देवाः.३जन्मनि. ४स्रष्टःकरेण. ५एष-तव करः, तिलकः, ञ्चतस्रः सराः येषां ते-हारास्ते. यस्य सः-मंत्री. ८भूषणानि. ९शीघ्रतया. १.उत्क-18 टतया. ११आरूढः-प्राप्तः त्यागरसः द्यूतरसश्च यस्य स आरूढरसः धारायां-उत्कर्षे आरूढरसस्तस्य भावस्तत्त्वं तेन.१२उत्प्रेक्षायां इव. १३निर्धारणे षष्टी. १४दीयताम्.
Page #420
--------------------------------------------------------------------------
________________
कुमारपालच
॥१८५॥
ACANCERABAR
श्रियं श्रा(श्रे)यसीम् ॥ ६९६ ॥ (शार्दूलविक्रीडितम् ) इत्यभिष्टुत्य तीर्थेशं, कृतसच्चैत्यवंदनः । बभाणायभट संघाध्यक्ष श्रीहेमसूरिराट् ॥६९७॥ युग्मम् ।। किं कृतेन न यत्र त्वं?, यत्र त्वं किमसौ कलिः?। कलौ चेद्भवतो जन्म, कलिरस्तु कृतेन किम् ? ॥ ६९८ ॥ दानधर्मोऽतिवृद्धत्वात्, कशिमानमधिश्रितः । तव हस्तावलंबेन, धीमन् ! विहरतां महीम् ॥ ६९९ ॥ गिराऽनया गुरुमुखो-दीर्णयाऽऽयभटं तदा । निरीक्षांचक्रिरे के न, महीयांसोऽपि विस्मिताः॥७००॥ सत्कृतास्तेन ते सर्वे, गुरुभूपादयस्ततः । स्तुवंतस्तद्गुणग्राम, स्वस्थानं पत्तनं ययुः॥ ७०१॥ | अथाकस्मिकदोषेण, भृगुकच्छपुरस्थितः। बभूवायभटो मृत्यु-दशाऽऽपन्न इवोच्चकैः॥ ७०२॥ तं तथा प्रेक्ष्य सर्वस्मिन् , विक्लवे तत्परिच्छदे । सद्यश्चिकित्सयामासु-विदग्धा इत्यनेकधा ॥ ७०३ ॥ सन्निपातादिदोषनान, वैद्याः [प्रददिरे रसान् । मात्रिका मंत्रपूताभि-रद्भिराच्छोटयन् मुहः ॥७०४ ॥ ज्योतिर्विदो विदधिरे, यथोकं ग्रहशांतिकम् । द्विजा निर्ममिरे होम, पठंतो वैदिकीऋचः ॥७०५॥ अवतारविदः पात्रा-वतारांस्तेनिरेतमाम् । उपश्रुतीर्जगृहिरे, बंधवः स्नेहांसिंधवः ॥७०६ ॥ वृद्धाः स्वगोत्रदेवीना-मुपयाचितमादधुः । योगिनीनां चतुःषष्टे-श्चक्रिरे बलिमर्चकाः
SAIRATRACAMANESABSE
१स्तुत्वा.२ कृतयुगेन. ३विशारदाः वैद्यादयः, ददतिम.५अवतरणज्ञाः.६पात्रावतरणानि कुर्वन्ति.तीर्थादी गमनाय प्रतिज्ञाः अकुर्वन्. ८चतुःषधियोगिनीनामानीमानि
ब्रह्माणी २ कौमारी ३ वाराही ४ शंकरी ५ इन्द्राणी ६ कंकाली ७ कराली ८ काली ९ महाकाली १० चामुंडा ११ ज्वालामुखी १२ कामाक्षी १३ कपा-६॥१८५॥ लिणी १४ भद्रकाली १५ दूर्गा १६ अंबिका १७ एलिता १८ गौरी १९ सुमंगला २० रोहिणी २१ कापिला २२ शूलकरा २३ कुंडलिनी २४ त्रिपुरा २५ कुरुकुला G.२६ भैरवी २७ भद्रा २८ चंद्रावती २९ नारसिंही ३. निरंजना ३१ हेमकांती ३२ प्रेतासनी ३३ ईश्वरी ३४ माहेश्वरी ३५ वैधावी३६नायकी ३७ यमघंटा
Page #421
--------------------------------------------------------------------------
________________
॥ ७०७ ॥ परमेतैः प्रतीकारै - गुणस्तस्य न कोऽप्यभूत् । यथा निर्दग्धबीजस्य, धाराधरपयोभरैः ॥ ७०८ ॥ ततो नैराश्यमापन्ना, तस्य पद्मावती प्रसूः । सम्यगाराधयाञ्चक्रे, देवीं पद्मावर्ती निशि ॥ ७०९ ॥ प्रत्यक्षीभूय साऽऽचख्यौ, पुत्रस्ते चैत्यमूर्धनि । नृत्यन् सल्लक्षणत्वेन, जग्रसे योगिनीगणैः ॥ ७१० ॥ द्वात्रिंशलक्षणं पुण्य-परं चेमा दुराशयाः । साँफ्लेयं सपलीव न सहते कदाचन ॥ ७११ ॥ एताश्छन्नाः स्थिता आसन्, हेमाचार्येऽत्र तस्थुषि । तस्मिन् गते पुनर्व्यकी-भूता नैःस्व्ये यथाऽऽपदः ॥ ७१२ ॥ एतद्दोषं च निष्पेष्टुं स शक्नोति गुरुः स्वयम् । खंडीकर्तुं समस्कांडं, चंडो | मार्तड एव हि ॥ ७१३ ॥ आदिश्येति प्रयातायां, देव्यां तत्क्षणमेव सा । पद्मावती जनं प्रैषीत्, पत्तनं गुरुहेतवे ॥७१४|| सायं प्राठाजनात् तस्मात् सर्वे ज्ञात्वा स सूरिराट् । सहादाय महादक्षं, यशश्चंद्राभिधं गणिम् ॥ ७१५ ॥ विद्याधर इव व्योम्ना, तूर्ण भृगुपुरं गतः । विलोक्याबभटं तस्य, ज्ञातवान् देव्युपद्रवम् ॥ ७१६ ॥ युग्मम् ॥ गणिस्तज्जननीं प्रोथे, ३८ हरसिंही ३९ सरखती ४० तोतला ४१ चंडी ४२ शंखिनी ४३ पद्मिनी ४४ चित्रिणी ४५ शाकिनी ४६ नारायणी ४७ पलादिनी ४८ यमभगिनी ४९ सूर्यपुत्री ५० शीतला ५१ कृष्णपासा ५२ रकाक्षी ५३ कालरात्री ५४ आकाशी ५५ सृष्टिनी ५६ जया ५७ विजया ५८ धूम्रवर्णी ५९ वेगेश्वरी ६० काल्यायनी ६१ अशि होत्री १२ चक्रेश्वरी ६३ महांबिका ६४ ईश्वरा इति प्रसंगावू द्वापंचाशवीराणां नामानि
"
१ क्षेत्रपाल २ कपिल ३ बटुक ४ नारसिंह ५ मोपाल ६ भैरव ७ गरुड ८ रक्तसुवर्ण ९ देवसेन १० रुद्र ११ वरुण १२ भद्र १३ वज्र १४ वज्रजंध १५ स्कंद १६ कुरु १७ प्रियंकर १८ प्रियमित्र १९ वहि २० कंदर्प २१ हंस २२ एकजंघ २३ घंटापथ २४ खंजक २५ काल २६ महाकाल २७ मेघनाद २८ भीम २९ महाभीम ३० तुंगभद्र ३१ विद्याधर ३२ वसुमित्र ३३ विश्वसेन ३४ नाग ३५ नागहस्त ३६ प्रद्युम्न ३७ कंपिल ३८ नकुल ३९ आह्नादन ४० त्रिमुख ४१ पिशाच ४२ भूतभैरव ४३ महापिशाच ४४ कालमुख ४५ शुनक ४६ अस्थिमुख ४७ रेतोवेध ४८ स्मशानचर ४९ केलिकल (किल ) ५० मुंग ५१ कंटक ५२ विभीषणा इति * सपत्नीपुत्रम्
Page #422
--------------------------------------------------------------------------
________________
कुमार- नाबलिपुष्पादिसंयुतम् । उपास्मत् प्रेषयेमध्य-रात्रे कंचिनिजं नरम् ॥ ७१७ ॥ वाक्ये तयाऽऽहते तस्मिन् , सूरिः स्वाश्रयपालच. माश्रयत् । निशीथे प्राहिणोत् सापि, प्रोक्तवस्तुयुतं जनम् ॥ ७१८ ॥ तेन सार्ध गणियुत-श्चचाल स्वालयात् प्रभुः।
स्वामिन्याः सर्वदेवीनां, सैंधव्याः सदनं प्रति ॥७१९॥ दुर्गतो निर्गतो बाह्ये, सोऽपश्यञ्चटकब्रजम् । भापयंतमपि क्रूरै-श्चग
चगिति शब्दितैः ॥७२०॥ ज्ञात्वा तद्योगिनीदौष्ट्यं, तन्मुखे गणिना बलिम् । प्रभुयवेशयत् सोऽन्त-दधे चेटकवत् ततः P ७२१॥ तदग्रेऽथ व्रजन सूरिः, कृशानुकपिशाननम् । कपिमंडलमैक्षिष्ट, भक्षणाय प्रसृत्वरम् ॥ ७२२ ॥ कृत्रिमं तदपि
ज्ञात्वा, मूतॆमत्राक्षरैरिव । अक्षतैस्ताडयामास, स तच्च क्वचिदद्रवत् ॥७२३॥ ततोऽपि परतो गच्छन्, स सैंधव्या गृहांतिके। मार्जारवृंदमद्राक्षीत, क्रूर कीनाशदासवत् ॥ ७२४ ॥ शोर्णप्रसूननिक्षेपाद, विद्राव्य तदपि प्रभुः। तस्थिवांस्तोरणे देव्या, विद्यानिधिरिव स्वयम् ॥ ७२५॥ सूरिमंत्रं हृदि ध्यात्वा, समादिष्टोऽथ सूरिणा । यशश्चंद्रगणिः प्रोचे, सैंधवीं देवतां प्रति ॥ ७२६ ॥ जालंधरप्रभृतिभिः, "पीठैरभ्यर्चितक्रमः । स्वयं पद्भ्यां समायातो, हेमाचार्यस्त्वदंतिकम् ॥ ७२७ ॥ आगत्य संमुखं तस्य, भक्तवातिथ्यमाचर । ईदृग्लोकोत्तरं पात्रं, पुण्यरेवातिथीभवेत् ॥७२८॥ तन्निशम्य मितभर-प्रहा जिह्वां
चलं मुखात् । आकृष्य बालवद् देवी, संमुखं दुरचेष्टत ॥७२९॥ स तथा तां विकुर्वाणा-मूचे रेरे दुराशये! । गुरुमप्य: विजानासि, न जानासि च मद्बलम् ॥७३०॥ यदि कारुण्ययोगेन, साम त्वां काममभ्यधाम् । तदा मामपि दुष्टाद्रि-कुलिशं
१ अस्माकम् समीपमित्युपास्मात् अव्ययम्. २ प्राकारात्. ३ गुरुः. ४ अपिः पूर्णार्थः.५ चेटकवत् , प्र. ६ अग्निवत् पित्तरक्कमुखम्. • यमदासवत्, ८ रक्तपुष्प.. ९ दूरं कारयित्वा. १० असुरविशेषः. ११ ईषदहास्यसमूहतत्परा. १२ अवज्ञा करोषि. १३ सांत्वनं-प्रियवाक्यादिना क्रोधाद्युपशमनं शत्रुवशीकरणोपायमेदव.
ACADAKOLOCACANAMA
॥१८६॥
Page #423
--------------------------------------------------------------------------
________________
कु.पा.च. ३२
भाययस्यरे ॥ ७३१ ॥ निर्भत्स्यैवं गणिः क्रुद्धो, हुंकारांस्त्रीनमुचत । अकांडेभग्नब्रह्मांड - स्फारखाट्कारदारुणान् ॥ ७३२|| तेनादिमेन सैंधव्याः, प्रासादः समकंपत । आमूलचूलमुत्ताल - वात्याऽऽन्दोलित शालवत् ॥ ७३३॥ द्वितीयेन च सर्वोऽपि, तदंतःस्थः सुरगणः । भीत्याऽघटिष्ट निश्चेष्ट - श्वित्रन्यस्त इवोच्चकैः ॥ ७३४ ॥ तृतीयेन पुनर्देवी, सैंधवी भीज्वरादिव । कंप्रोत्पत्य निजस्थाना - न्नमश्चक्रे प्रभुक्रमौ ॥७३५॥ किं करोमीति जल्पतीं, गणिस्तां स्माह मद्गुरोः । भक्तिं कुरु सुरीवर्गाद्, | विमोच्याम्रभटं द्रुतम् ॥ ७३६॥ सा जगौ योगिनीवर्गः, क्षुधार्त्तस्तं सहस्रधा । विभज्य खंडशश्चक्रे, द्रुमं तीक्ष्णकुठारवत् ॥ ७३७॥ मोचये तं कथं तस्मान्मोचितोऽपि न जीविता । कृष्टोऽपि सिंहदंष्ट्रायाः, सारंगः क्षेमवान् किमु १ ॥७३८ ॥ अभाषिष्ट गणि र्भूयो भवत्वेवं पुनर्यदि । अस्मात् स्थानान्निजं स्थानं, प्रायातुं त्वं प्रगल्भसे १ ॥७३९ ॥ तेन वाक्येन सा त्रस्ता, निर्घोषमतिभीषणम् । विहँस्ता सिंहनादेन, हस्तिनीव वितेनुषी ॥ ७४० ॥ चकंपे काश्यपी तेन, शैलशृंगाणि तुत्रुदुः । चिक्रीडुश्च नभः क्रोडे, सलिलानि सरस्वताम् ॥ ७४१॥ अपनिद्रश्च सर्वोऽपि भृगुद्रंगगतो जनः । हृदि कल्पांतविभ्रांत - पाथोधिभ्रममानशे ॥७४२ ॥ भीरवस्तेन शब्देन योगिन्योऽपि विमुच्य तम् । तत्रेयुः स्वामिनीपार्श्व, रक्ष रक्षेति जल्पिकाः ॥ ७४३ ॥ स्तंभित्वा मंत्रशक्त्योच्चै - स्ताः समस्ता जगौ गणिः । मुचतास्त्रभटं पापाः ?, नो चेत् प्राणान् विमोक्ष्यथ ॥ ७४४ ॥ शरीरे कीलकेनेव, तेन स्तंभेन पीडिताः । मुखे क्षित्वाऽङ्गुलीः प्रोचु-स्तं मान्त्रिकमणि गणिम् ॥ ७४५ ॥ अस्मकाभिर्भवद्याज्यः, सर्व
१ त्रासय० प्र, भापय० प्र. २ अनवसर० ३ वृक्षवत्. ४ जीविष्यति. ५ समर्था भवसि ६ क्षुब्धा, प्र. ७ व्याकुला ८ समुद्राणाम् ९ क्षुब्ध० १० प्राप. ११ आम्रभटम् १२ भवद्भिः हेतुभूतैः यष्टुम् ( प्रतिष्ठां कर्तुं कारयितुं ) अर्हतीति भवद्याज्यः - भवयजमानः,
Page #424
--------------------------------------------------------------------------
________________
कुमारपालच.
GER-RAMC-
॥१८७॥
थाऽप्येष तत्यजे । अत्रार्थे दक्षिणः पाणिः, प्रतिभूरिव गृह्यताम् ॥ ७४६ ॥ महात्मनोऽस्य नामापि, कदाप्यादद्महे यदि।। चंडेन प्राणदंडेन, त्वया दंड्यास्तदा वयम् ॥ ७४७ ॥ तनुस्तंभेन नः प्राणाः, प्रयाणायोद्यता इव । तत् प्रसद्य गतावद्य!, सद्योऽस्मान् मोचयामुतः ॥७४८॥ रेरे हताशाश्चेत् स्तंभ-मात्रेणेहग व्यथाऽस्ति वः तदा प्राणहाणे सा, परेषां कीदृशी भवेत् । ॥ ७४९॥ प्राणत्राणं महत्पुण्यं, महत्पापंच तद्वधः । इति श्रुतोदितं तत्वं, विज्ञापातःपरं हदि ॥७५०॥ अन्येऽपि जंतवो हत, हंतव्या न कदाचन । विशिष्याहतधर्मस्थाः, सर्वलोकहितावहाः॥ ७५१ ॥ शिक्षयित्वेति गणिना, मोचिताः स्तंभतस्ततः । नत्वा प्रभुपदद्वंद्वं, देव्यः स्वस्थानमासदन ॥ ७५२ ॥ चतुर्भिः कलापकम् । तदैवानभटः सोऽभूत, सर्वक्ले
शविवर्जितः । तादृशोऽस्ति गुरुर्यस्य, तस्य तत् किं नु कौतुकम् ? ॥७५३॥हेमाचार्थोऽपि स प्रात-स्तस्मादुदयनात्मजात् । | विधाप्य सर्वदेवीमां, भोगं साहसिकं शुभम् ॥ ७५४ ॥ नत्वा च मूलचैत्यस्थं, जिनेशं मुनिसुव्रतम् । पद्भ्यां विहरमाणस्वत, पुनः पत्तनमागमत् ॥७५५॥ अकस्माद् विहृतं कुत्रे-त्यनुयोगपरं नृपम् । उक्त्वाऽऽसमटवृत्तांतं, भृशं व्यस्मययत् प्रभुः ॥७५६॥ दानादिकृत्यसुरभीकृतचित्तवृत्ति-निर्मापयन् स्वयमनेकविधान् विहारान् । तत्कारिणां प्रणयंश्च सहायभावं, | चौलुक्यभूभृदिति संचिनुते स्म पुण्यम् ॥७५७॥ (वसंततिलकाबत्तम) इति श्रीकृष्णर्षीयश्रीजयसिंहसूरिविरचिते परमाहेतश्रीकुमारपालभूपालचरित्रे कृपासुंदरीपरिणयदानाद्युपदेशचैत्य निर्माणादिवर्णनो नामाऽष्टमः सर्गः॥अष्टानां मिलने५२३०
१ तनुस्तंभात्. २ नाशे. ३ अनुकंपायाम्. ४ सहस्रव्ययसाध्यम्. ५ प्रश्नतत्परम्. ६ व्यस्मेरयत्, प्र. ७ वासित०. ८ कुर्वन् , कारयन् , वा. महाकाव्ये मोहराजपराजयश्रीधर्मराजसाम्राज्यकरणवर्णनो नामाऽष्टमसर्गः, प्र.
RECER
।।१८७०
Page #425
--------------------------------------------------------------------------
________________
अथ नवमः सर्गः॥ व्याख्यायमाने श्रीवीर-चरित्रेऽथ नृपं प्रति । देवाधिदेवप्रतिमा-वृत्तमित्यूचिवान् प्रभुः॥१॥ विहरन् भगवान् कबीरा, पुरे राजगृहे पुरा । हर्षकृत् समवासार्षीत् , स तीर्य इव जंगमः ॥२॥ तेत्राभयों महामात्यः, पुत्रः श्रेणिकभूपतेः।
सं नत्वाऽप्रश्नयद् भावी, राजर्षिः कोऽन्तिमः प्रभो ! ॥ ३ ॥ उदायननृपे प्रोक्तेऽहतो भूवः स पृष्टवान् । कोऽसौ है तस्मै ततः स्वामी, तच्चरित्रमिदं जगौ ॥ ४ ॥ सिंधुसौवीरमध्येऽस्ति, शस्त वीतभयं पुरम् । यस्याकुतोभयत्वेन, साम्वयं
नाम शोभते ॥५॥रात्री यत्र जिनेंद्रमंदिरशिर:कल्याणकुंभावली, दिक्शाखाविततस्य नीलिमगुणाऽऽविर्भूतपत्रस्थिते। हर्षस्फारकतारकबतिकरप्रीयत्प्रसूनघते-योमद्रीः परिपाकपिंगलफलप्रागल्भ्यमभ्यस्यति ॥६॥ (शार्दल.) आसीददार्यक्षमाप-तलिनुदयनात किल । आकारणव नवरं, तेजसाऽपि चै योऽतिगः॥७॥ सिंधुसीवीरमुख्यर्द्ध-देशपीडशकाधिपः । त्रिषष्टित्रिशती (३६६) वीत मयादिपुरपॉलकः॥९॥ किरीटिमिर्दशनृपै-महासेनमुखैः श्रितः। सेनानीरिव दिक्पाल-रजय्योऽजमि यो द्विषाम् ॥ ९॥ युग्मम् ॥ सुता चेटकभूपस्य, सम्यक्त्वामोदमेदुरा। अभूत् तद्वल्लभा नाम्ना, देहेनापि प्रभावती ॥१०॥ अभिचिस्तत्सुतो जज्ञे, यौवराज्यविराजितः । भ्राजिष्णुर्भानुवद् धाना, केशीच भगिनीसुतः ॥११॥ . १ महामात्यः-अभयकुमारः. २ हर्षवर्धकतारकसमूहरूपत्रोद्यत्पुष्पकान्तेः. ३ परिपाकेन पीतफलप्रौढताम्, ४ वीतभयपुरे, ५ यशोऽधिकः, प्र, च | योऽधिकः, प्र. ६ इद्ध०-दीप्त०, ७ कार्तिकेयः.
Page #426
--------------------------------------------------------------------------
________________
सर्ग.९
कुमार
इतश्चंपापुरीत्यस्ति, तत्र स्त्रीकेलिलोलहृत् । आसीत् कुमारनंदीति, स्वर्णकृद् विभवोद्भटः ॥ १२॥ असौ पंचशती पालच. दहेनो, दायं दायं सुलोचनाः। पणौकृत्य च तत्पंच-शतानि सममेलयत् ॥ १३ ॥ ताभिरुहामकामाभिर्वामाभिः सह
सोऽन्वहम् । विललासानुरक्ताभिः, करिणीभिर्द्विपेंद्रवत् ॥ १४ ॥ अन्यदा पंचशैलाख्य-द्वीपतः शक्रशासनात् । श्रीनं॥१८८॥
दीश्वरयात्रार्थ, चेलतुयंतरस्त्रियौ ॥१५॥ विद्युन्माली तदा पंच-शैलेशस्तत्पतिच्युतः । अद्य नौ कः ? पतिर्भावी-त्येवं ते अपि दध्यतुः॥ १६ ॥ ततो व्योम्ना व्रतीभ्यां, ताभ्यां चंपापुरीस्थितः। पंचपत्नीशतैः क्रीडन् , हेमकृत् स व्यलोक्यत ॥ १७ ॥ चिंतितं च वृथा लोके, कामोऽनंग इति श्रुतः । यतोऽयमेव प्रत्यक्षः, से वपुष्मान् विराजते ॥१८॥ स्वरूपदर्शनेनायं, ध्युग्राह्यः प्रियवांछया । ध्यात्वेत्थमवतीर्णे ते, तूर्ण व्योम्नस्तदंतिके ॥१९॥ अनयोः कोऽपि लावण्य-| रसः स्फुरति वर्मणि । लिह्यते नयनाभ्यां यः, क्षीयते न च सर्वथा ॥२०॥ ध्यात्वेति स्वर्णकारेण, ते पृष्टे के युवामिही। आवां हासाप्रहासाख्ये, देव्यावित्थमवोचताम् ॥ २१॥ युग्मम् ॥ भोगार्थ प्रार्थिते तेन, ते पुनस्तं जजल्पतुः । पंचशैलाभिधं द्वीप-मागच्छेरस्मदिच्छया ॥ २२ ॥ उक्त्वेति गतयोर्देव्योः, स्मरस्मेरोऽथ हेमकृत् । तत्प्राप्त्युपायमध्यासीद्, धनं निर्धनवच्चिरम् ॥ २३ ॥ स्वर्णोधमुपदीकृत्य, स्वाभिप्रायं प्रकाश्य च । चंपानाथाय तेनेत्थं, पटहः समघोष्यत ॥२४॥ नयेद् यः पंचशैलं मां, स्वर्णकोटि लभेत सः । श्रुत्वा तच्च जरन् कोऽपि, पटहं लोलुपोऽस्पृशत् ॥ २५ ॥ तावत् स्वर्ण
१ भवः, प्र. २ कामः. ३ अङ्गवान्, ४ स्वीकरणीयः, ५ पतीच्छया. ६ मुक्ताफलेषु छायाया ( कान्त्या )- स्तरलत्वमिवान्तरा । प्रतिभाति यदंगेषु, तल्लावण्य| मिहोच्यते ॥ लावण्यमेव रसः, ७ संभोगार्थमित्यर्थः,-दर्शनस्पर्शनादीनि, निषेवेते विलासि नौ । यत्रानुरक्तावन्योन्यं, संभोगः स उदाहृतः ॥
SRROREOGRAMMERCORDS
k-OCOCCCCCORE
॥१८८॥
*
Page #427
--------------------------------------------------------------------------
________________
ततो लात्वा, स्वसुतेभ्यः समयै च । श्रुतपूर्वी स तन्मार्ग, यानपानमसज्जयत् ॥ २६ ॥ वार्यमाणोऽपि पत्यायै-वृद्धेन * सह हेमकृत् । यानपात्रमधिष्ठाय, प्रतस्थेऽम्बुधिवर्त्मना ॥२७॥ आनेत्रप्रसरं विष्वग, जलमेव विलोकयन् । तदा विवेद निःशेष, विश्वं तन्मयमेव सः ॥ २८ ॥ कियद्रं गते वृद्ध-स्तमूचे जलघेस्तटे । अद्रिपादसमुत्पन्नं, वटं स्थूलं विलो-16 कय॥ २९ ॥ अस्याधस्ताद् व्रजत्यस्मिन् , वोहित्थे त्वं करद्वयम् । विस्तार्य कपिवत् सद्यो, विलगेरत्र पादपे ॥३०॥ अनायास्यति भोरंडा-स्त्रिपदाः पंचशैलतः। सुप्तेषु तेषु कस्यापि, चरणे मध्यवर्तिनि ॥ ३१॥ विलग्य दृढमुष्ट्या त्वं, तिष्ठेनिश्चेष्टवन्निशि । नेष्यंति पंचशैलं त्वा-मुड्डीनाः प्रातरेव ते ॥ ३२ ॥ युग्मम् ॥ करिष्यसे न चेदेवं, तर्हि मंक्षु विनंक्ष्यसि । महावर्तीतरे यानं, यत्पतिष्यत्यतः परम् ॥ ३३ ॥ चक्रे कुमारनंदी तत्, ते च भारंडपक्षिणः । निन्यिरे पंचशैलं द्रा-हो बुद्धिविजूंभितम् ॥ ३४ ॥ तत्र हासाप्रहासे ते, दृष्ट्वा दिव्यं च वैभवम् । प्रमोदंग्रहिलः सोऽभूत्, स्वः प्रागुत्पन्नदेववत् ॥ ३५ ॥ तत्साहसेन विस्मेरे, प्रीत्या देव्यो तमूचतुः। भद्रानेन तवांगेन, नाऽऽवां भोग्ये घटावहे ॥३६ ॥ चिकामयिषसे नौ चेत्, तदा वह्नयादिमृत्युना । पंचशैलाधिपो भूत्वा, समागच्छ त्वमुत्सुकः ॥ ३७॥ श्रुत्वा | तत् स्वर्णकृत् प्रोचे, जज्ञेऽहं युवयोः कृते । जडात्मेवोभयभ्रष्टो, दैवस्याहो विवलिगतम् ॥ ३८ ॥ ततो हासाग्रहासाभ्यां,13 निमज्य करुणाणेवे । उत्पाख्य बालवच्चंपा-वनेऽमुच्यत हेमकृत् ॥ ३९॥ गतोऽसीति पृष्टः स-नुक्त्वा स्वं चरितंट
१ प्रवहणे. २ भारुडाः-प्र. ३ भारुंड०, प्र, एकोदराः पृथगग्रीवा, अन्योन्यफलभक्षिणः । असंहता ( अमिलिता मनसा ) विनश्यन्ति, भारंडा इव पक्षिणः |॥१॥ पंचतंत्रम्. ४ हर्षोन्मत्तः (हर्षघेलो). ५ खर्ग. ६ कामयितुमिच्छसि. ७ आवाम्.
SHOSHIRISHA RAISISTA
Page #428
--------------------------------------------------------------------------
________________
A
कुमार
जने । स कामातः समारेभे, मर्तु देव्यर्थमग्निना ॥४०॥ तज् ज्ञात्वा नागिलो मित्र-मूचे तं किं तनोष्यदः? । अज्ञापालच. 18 नमरणं नैव-मुचितं सुधियस्तव ॥४१॥ भोगमात्रकृते कस्मात्, त्वं हारयसि मर्त्यताम् । भवे भवेऽपि यद् भोगा, मय
भूयं क्वचित् पुनः॥४२॥ भोगार्थमपि निर्माहि, धर्म स्वर्मणिवैभवम् । अर्थकामौ यथाकाम, दत्त्वा दत्तेऽपि यः शिवम् ॥१८९॥
P॥४३॥ किंच स्त्रियां यथा रागः, स्याच्चेत् पुण्यश्रियां तथा । तदा तव भवेदेव, सा मुक्तिरपि कामुकी ॥ ४४ ॥ एक
एव ध्रुवं रागः, शुभाशुभतयाऽऽश्रितः। सद्यः संपद्यते हेतुः, शिवस्य च भवस्य च ॥४५॥ सुहृदा बोधितोऽप्येवं, हेमकृत् स निदानतः । इंगिनीमरणं कृत्वा, पंचशैलाधिपोऽजनि ॥ ४६॥ विद्युन्मालीति सोऽप्याख्यां, वहस्ताभ्यां सहानिशम् । रेमे हासापहासाभ्या, कृतकृत्य इवोच्चकैः ॥४७॥ मित्रस्य तादृग्मरणा-नामिलोऽपि विरक्तधीः । श्रित्वाऽऽहतं व्रतं कल्पे, द्वादशे त्रिदशोऽभवत् ॥४८॥ । अथ नंदीश्वरे यात्रां, कतु देवाः प्रतस्थिरे । हासाप्रहासे चाभूतां, गातुं तच्छासनात् पुरः॥४९॥ विद्युन्माली पतिस्ताभ्यां, प्रेरितः पर्टहग्रहे । रुपा ममापि किं कश्चि-दाज्ञादायीत्यवोचत ॥५०॥ ततः स रोषहुंकार-भारिणोऽस्यालगद् गले । आभियोगाख्यदुष्कर्मो-दयेन पटहः स्वयम् ॥५१॥ घरट्टमिव तं लग्नं, दूरीकर्तु निजाद् गलात् । स हीणो|ऽप्यशकन्नेव, घिग धिग्दुष्कर्मचेष्टितम् ॥ ५२ ॥ कर्मेदमन्त्र जाताना-मेवं पटहवादने । अपां लुस्वा तदीशेनं, वादयन्
मनुष्यत्वम्. १ धर्मलक्ष्म्याम्. ३ निदानयुक्तम् अग्न्यादिसाधनेन मरणम्. ४ पटहादाने. ५ कोपन. ६ हुंकार:-हुँमित्यव्यक्तस्य प्रतिषेधसूचकशब्दस्योच्चारण रोषात् तं विभर्ति इत्येवं पीलस्तस्य.. देवः ८ लग्नितः कार्यम्. लक्का .
GLASHUSHUSHUSHA
COCCALCCAUCRACC
॥१९॥
Page #429
--------------------------------------------------------------------------
________________
पुरतो भव ॥५६॥ इत्वं प्रबोषितः स्त्रीभ्यां, स सुरश्चकृवांस्तथा । कर्मणां दुर्विपाको हि, दुर्निवारोऽब्धिपूरवत्॥५४॥ युग्मम् ॥ स नागिलात्मा देवोऽपि, व्रजन देवैः सहाध्वनि । दृष्ट्वा तमानकधर, मित्रं ज्ञानेन बुद्धवान् ॥ ५५॥ वक्तुं पार्थस्थिते तस्मि-स्तत्तेजो भानुबिंबवत् । अक्षमो वीक्षितुं हरभ्यां, विद्युन्माली पलायत ॥५६॥ मायामयमिवात्मीयं,
महो हत्वा स निर्जरः। पंचशैलाधिपं प्रोचे, पश्य कोऽहं पुरस्तव ॥ ५७॥ स तं विस्पष्टमाचष्ट, शक्रसामानिको है महान् । कश्चित् त्वं वर्तसे देवः, परं नामादि वेद्मिन ॥ ५८ ॥ स खं नागिलरूपं तद्, विधायोवाच पश्य भोः। अहं Pाते प्राकनं मित्रं, किं मां परिचिनोषि न ? ॥ ५९॥ मया त्वं वारितोऽप्यग्नि-मरणेन निदानतः । ईदृग्विडंबनापात्रं, पंचशैलाधिपोऽभवः॥६०॥ अहं त्वहद्धर्मज्ञ-स्तर्दुपज्ञव्रतं श्रितः। विपद्य त्रिदशोऽभूव-मीदग्विभवभासुरः॥६॥ वरं कृष्णाहिना दष्टो, न तु कामाहिना जनः। पूर्वो हि कर्हिचित् साध्यो, भवेन्नैवापरः पुनः॥१२॥ स्मरोऽपस्मार एवायमसाध्यो भिषजामपि । यो वैकल्यं विधायान्ते, नृणां हरति जीवितम् ॥ ६३ ॥ श्रुत्वा तदनुशय्योच्चै-विद्युन्माली |तमालपत् । सखे ! प्रसद्य मां शाधि, विदधाम्यधुना किमु ॥६४ ॥स स्माह श्रीमहावीरो, गृहिवेपो गृहेऽधुना । भूत्वा | यतीव भावेन, कायोत्सर्गेण तिष्ठति ॥६५॥ दिव्यां तम्मूर्तिमाधाय, श्रद्धालोः कस्यचित् करे । अर्थार्थमर्पयेस्तेन, यथा ते स्यात् पुरःशुभम् ॥ ६६ ॥ (यतः)
१ पटइधरम् २ परा आयत अय् गतौ. ३ तेजः. ४ अर्हत्कथितव्रतम्. ५ रोग विशेषः.६ पश्चात्तापं कृत्वा. ७ तनवान्यधुना किमु !, प्र. ८ गृहीत्वा (कृत्वा).
CRECECARRORE
Page #430
--------------------------------------------------------------------------
________________
कुमारपालच.
॥१९
॥
रत्नाष्टापदरूप्यविद्रुमशिलाश्रीखंडरीयादिभि-मूर्ति स्फूर्तिमयीं विधापयति यः श्रद्धाभरादर्हताम् । तेस्मान्नश्यति भीरुकेव कुगतिः स्निग्धेव संसेवते, शक्रश्रीर्वशितेव मुक्तिरमणी तत्संगमं वांछति ॥ ६७ ॥ (शार्दूलविक्रीडितं वृत्तम् ) विद्युन्माली तदुक्तं तत्, स्वीकृत्य शुभमार्गवत् । यात्रायां परिपूर्णायां, चलितः स्वगृहं प्रति ॥ ६८॥ निरीक्ष्य क्षत्रियकुंड-ग्रामेऽस्मान् प्रतिमांजुषः । लात्वा च हिमवच्छैल-तटाद् गोशीर्षचंदनम् ॥ ६९ ॥ अस्मन्मूर्ति यथादृष्टां, कृत्वा ऽत्यद्भुतभूषणाम् । चिक्षेप संपुटे शेष-श्रीखंडपरिनिर्मिते ॥ ७० ॥ त्रिभिर्विशेषकम् ॥ लात्वा समुत् समुद्नं तं, व्योम्ना गच्छन् ददर्श सः । अब्धी भ्रमंतं षण्मासी, पोतमुत्पातवायुना ॥ ७१॥ इंद्रजालवदुत्पातं, तं संहृत्य स निर्जरः । सांयात्रिककरे दस्वा, समुद्गमिदमूचिवान् ॥७२॥ अत्रास्ति प्रतिमा दिव्या, गृहीत्वनां स्वकोशवत् । सिंधुसौवीरदेशस्थं, गच्छेवीतभयं पुरम् ॥ ७३ ॥ स्थित्वा त्वं श्रीपथे तत्र, कुर्वीथाश्चेति घोषणाम् । गृह्यतां गृह्यतां देवा-धिदेवप्रतिमां जनाः! ॥७४॥ ततस्तस्मिन् गते देवे, स वणिक तत्प्रभावतः । सुखं तत्पुरमासाद्य, तथैव विदधेऽखिलम् ॥७५॥ तत्र तां घोषणां
श्रुत्वा, नृपः स्वयमुदायनः । तस्विभक्तः संप्राप्तो, विप्राद्या अपि भूरिशः॥७६ ॥ स्मारं स्मारं स्मरद्वेषि-पद्मयोनिज४ नार्दनान् । तीब्रधारैः कुठारस्ते, बिभिदुस्तं समुद्गकम् ॥ ७७॥ कठोरा अप्यभज्यंत, वाक् तस्मिन्नश्मनीव ते"।न चासौ बिभिदे किंचित् , क्वचिद् वज्रमिव स्वयम् ॥ ७८ ॥ गर्जतस्तत्र ये प्राप्ताः, सप्रभावा द्विजादयः । प्रदोषां इव ते
१ सुवर्ण०.२ पाषाण०.३ रिर्या प्र, रिरी-धातु विशेषः (पीत्तल या कलाई ). ४ दीप्तिमयीम्. ५ पुरुषात्. ६ वलितः, प्र. ७ कायोत्सर्गभाजः. पेटायाम् ९ सहर्षः. पोतेन वाणिज्य कारकः-सांयात्रिक इत्यमरः १० तापसभक्तः. ११ शंकरब्रह्मविष्णून. १२ कुठाराः. १३ दुष्टा इव-प्रकृष्टदोषयुक्ता इव.
॥१९॥
Page #431
--------------------------------------------------------------------------
________________
भूवन् , गवलश्यामलाननाः॥७९॥ नृपे तथैव तत्रस्थे, जाते च दिनयौवने । दिदृक्षुरिव तच्चित्रं, व्योममध्यं श्रितो रविः ॥ ८॥राज्ञो विज्ञाय वेलाऽति-क्रम भुक्तौ प्रभावती। तदाऽऽहानाय दासी स्वा-मादिदेश प्रियंवदाम् ॥८॥ तत्कौतुकनिरीक्षार्थ, राज्ञाऽऽज्ञप्ता तैया द्रुतम् । प्रभावत्यपि तत्रागात् , सर्वमूचे प्रियश्च तत् ॥८२॥ तच्छ्रुत्वा साऽवदद् II देवा-धिदेवा नेश्वरादयः। किंत्वहन् देवदेवेंद्र-वृंदवंद्यपदत्वतः॥८॥ तदवश्यं भवित्रीह, प्रतिमाहोचिताऽऽहती। अत एव व्यनत्त्येषा, न स्वमीशादिसंस्मृतेः॥ ८४ ॥ तदहं व्यंजयिष्यामि, मूर्ति जैनीमिमामिति । उक्त्वाऽर्चयत् समुद् सा, चंदनप्रसेवादिभिः॥८५॥ उच्चैरूचे च देवेषु, त्वं मुख्योऽसि जगत्पते ! । ग्रहेषु पद्मिनीनाथा-दपरः प्रवरः किमु ॥८६॥ यद्यहं तव धर्मेऽस्मि, सुलसेवानुरागिणी। तदा प्रसद्य मे देहि, निधिवन्निजदर्शनम् ॥ ८७ ॥ एवं तद्ग|दितैर्वाक्य-र्भानवीयैः करैरिव । भवति स्म समद्रोऽसौ. व्याकोशः पद्मकोशवत्॥८॥ अम्लानमाल्ययुग दीपा-लंकारा तत्र साऽऽहंती । प्रतिमा प्रकटा जज्ञे, लक्ष्मीः क्षीरोदधौ यथा ॥८९॥ तदाऽऽर्हतमतस्या सीत्, प्रभावत्या प्रभावना। यथा कुमुदखंडस्य, कौमुद्याऽतिप्रफुल्लता ॥ ९॥ ताहक्प्रभावसौरभ्य, दृष्टा जैनमतांबुजे । उदायनः क्षितिपति-रन्वरज्यद् द्विरेफवत् ॥ ९१ ॥ तं पोतवणिज सम्यक्, सत्कृत्यात्मीयबंधुवत् । उत्सवेन गृहेऽनैषीत्, प्रतिमां तां प्रभावती ॥ ९२॥6
नक्ककक
१ महिष०. २ दास्या, तदा, प्र. ३ देवानां देवेन्द्राणां च वृन्दैवद्यौ पदौ यस्य स तस्य भावस्तस्मात्. * पूजोचिता-पूजनीया इत्यर्थः ४ आत्मानम्. ५ प्रसवः-पुष्पम्. ६ व्यागतः कोशात्-प्रफुल्लः-विकखर-उद्घटित इत्यर्थः- ७ उन्नतिः,
Page #432
--------------------------------------------------------------------------
________________
कुमारपालच०
॥१९१॥
SCADDARSHANIKAMGANGA
समन्वाना हृदि तां साक्षात्, परमात्ममयीमिव । अंतरंतःपुरं न्यस्य, पूजयामास चाऽऽदरात् ॥ ९३ ॥ तस्याः पुरः स्वर- सर्ग.९
ग्राम-मूर्च्छनाद्यतिबंधुरम् । उपवीणयति प्रीत्या, स्वयं पत्यावुदायने ॥९४ ॥ शीर्षादिभावसुभगं, सचतुःषष्टिहस्तकम् । द्वात्रिंशदंगहारं च, शताष्टकरणांचितम् ॥ ९५॥ रेसाद्यनुगुणं लास्य-तांडवाभ्यां विधा कृतम् । देवीव विदघे नृत्यमद्य(माढ्य)भक्तिः प्रभावती ॥९६ ॥ त्रिभिर्विशेषकम् ॥ एवं तत्प्रतिमापूजा-ध्याननाव्यादिकर्मभिः । पुण्यं कोशे न्यधाद् राज्ञी, विवेकस्य फलं ह्यदः ॥ ९७ ॥ कदाचन प्रभावत्यां, नृत्यंत्यां प्रतिमाग्रतः । गायनुदायनो मूढ, इव चस्खाल तालतः॥९८॥ ततो जाते रसच्छेदे, प्रिया प्रेयांसमूचुषी । निद्रालोरिव केयं ते, स्वामिन्ननवधानता ॥९९॥ स प्रोचे|ऽनवधानत्वं, न मे किंतु प्रिये ! तव । नृत्यंत्या वर्म निःशीर्ष, वीक्ष्य शून्य इवाभवम् ॥ १०॥ अतिस्पष्टमरिष्टं तन्मत्वा राज्ञी विशेषतः । धर्मध्यानं व्यधात् तद्धि, शोकापनुदमादिमम् ॥१०१॥ पूजाक्षणेऽन्यदा दास्याऽऽ-नीतं धौताशुकदयम् । दृष्टिधाम्त्याऽरुणं दृष्ट्वा, रुष्टा साऽऽचष्ट तामिति ॥ १०२॥ रेरे दासि ! त्वमानेष्ठा, मांजिष्टे वसने किमु । साऽवोचद् देवि ! पश्यैते, हिमांशुद्युतिनिर्मले ॥१०३ ॥ ततस्ते विशदे वीक्ष्य, पूर्वोत्पन्नेन तेन च । दुनिमित्तेन सा राज्ञी, मेनेऽल्पायुष्वमात्मनः ॥ १०४ ॥ विषानेभ्य इवात्युच्चै-विषयेभ्यो विरज्य च । पार्थिवं प्रार्थवांचक्रे, चारित्रार्थ |
छ खरादीमा लक्षणानि पंचत्रिंशत्तमे पत्रे विलोकनीयानि. १ वीणया उपगायति इति उपवीणवति, उपवीणयतीति उपवीणयन् तस्मिन् सति. २ क्रिया-चेष्टा-4॥१९१॥ P३ अंगविक्षेपम् , अंगुल्यादिविन्यासमैदेन नृत्यम्. ४ नृत्यवादित्रगीतामां, प्रयोगवशभेदिनाम् । संस्थानं ताडनं रोषः, करणानि प्रचक्षते, १॥ राजकंदर्पोक्ततालव्यव
स्थापकनाडनाविशेषाः करणानि. ५ भक्तिरसभेदानुसारि. ६ व्य-प्र. ७ कूर्पासोऽविवक्षितः, ८ राशा निःशीर्षवर्मदर्शनेन. ९ धौताशुकयोः रक्तत्वदर्शनेन.
Page #433
--------------------------------------------------------------------------
________________
पुनः पुनः॥ १०५॥ आगत्य समये स्वर्गाद, धर्म मां प्रतिबोधयेः। इति वाग्बंधातत्य, सोऽनुमेने व्रताय ताम्॥१०६॥
ततः प्रभावती श्रित्वा, श्रामण्यं गुरुसन्निधौ । तपोधनेन सौधर्मे, देवेभूयमुपार्जयत् ॥ १०७ ॥ प्रतिमां तां च शुद्धांत:६ स्थायिनी रानिदेशतः । कुनिका देवदत्ताख्या, दासी नित्यमपूजत् ॥ १०८ ॥ अथ प्रभावतीदेवो, विज्ञातप्राग्भवो दिवः। एत्य क्लेशेन सम्यक्त्वेऽ-स्थापयत् तमुदायनम् ॥ १०९ ॥ आरभ्य तदिनं विश्व-जनीने जिनशासने । मज्जा(महा)जैन इवोद्दाम-भावनोऽजनि भूमिभुक् ॥ ११०॥ | इतश्च कश्चिद् गाम्धार-मामा गान्धारदेशभूः। श्राद्धः शाश्वतचैत्यानि, नंतुं वैताढ्यमभ्यगात् ॥ १११ ॥ तन्मूले Mस स्थितो गंतु-मुपरिष्टादशक्नुवन् । आरराधोपवासैस्तां, घनैः शासनदेवताम् ॥ ११२॥ पूरयित्वेप्सितं तस्य, दत्त्वा
चाष्टोत्तर शतम् । गुलिकाः कामदा देवी, तं तत्रैवामुचत् पुनः॥ ११३ ॥ देवाधिदेवमूर्ति तां, मंतुं बीतभयस्थिताम् । ध्यात्वा तां गुलिकां न्यास्थद्, गान्धारः स्वमुखांबुजे ॥ ११४ ॥ तदैव तत्प्रभावेण, स वीतभयमभ्यगात् । कुनाद्वारेण * तां मूर्ति, नमश्चके च भक्तितः॥११५ ॥ अम्बेधुः कष्टितो गात्रे, गान्धारस्तं च कुजिका । साधर्मिकातिवात्सल्या
दचिकित्सत् स्वयामिषत् ॥ ११६ ॥ स ज्ञात्वा मृत्युमासन्नं, प्रभावोक्तिपुरस्सरम् । वितीर्य गुलिकाः कुना-करे व्रतम शिश्रियत् ॥ ११७ ॥ कुनिकाऽथ कुरूपा सा, ध्यात्वा स्वस्य सुरूपताम् । वकगुलिकाक्षेपाद्, देवीवाऽजनि दिव्यरुक् ॥ ११८॥ तया गुलिकया काये, सुवर्णाभा बभूव यत् । सुवर्णगुलिकेत्युक्ता, ततः सा सकलैजनैः॥११९ ॥ योग्यप्रिय
१ वाचा बंधनं कृत्वा. २ देवत्वम्. ३ दितः, प्र. ४ कई सातं यस्य स कष्टितः-गात्रे कष्टितः संजातः.५ खभगिनीवत् .
CANCY
तो गुलिकां न्यास्थन्, गाना ॥ अन्येयुः कष्टितो गात्र,
सरम् । वितीर्य गुलिकाः जानि दिव्यरुक्
Page #434
--------------------------------------------------------------------------
________________
कुमारपालच.
॥१९२॥
SOSIOS LOSSESSES
तमाभावाद, रूपं मम वृथेति सा । अपरां गुलिकां न्यस्य, मुखे चिंतितवत्यदः ॥ १२० ॥ अयं नृपः पितृप्रायः, परे त्वस्य पदातयः । तद् भूयान्मे प्रियश्चंड-प्रद्योतो मालवेश्वरः ॥ १२१ ॥ इदं तचिंतितं कर्तु, तदा शासनदेवता । पुरस्तान्मालवेशस्य, तद्रूपं सुष्ठु तुष्टुवे ॥ १२२ ॥ तदर्थनार्थ सद्योऽपि, प्रद्योतो दूतमादिशत् । साऽपि प्रार्थयमानं तं, समानमिदमब्रवीत् ॥ १२३ ॥ अदृष्टपूर्व तं नैव, वृणोमीत्यानयात्र तम् । तत् तदुक्तं स्वनाथाय, दूतोऽपि प्रत्येपीपदत् ॥ १२४ ॥ नाम्ना गत्याऽपि चारुह्या-निलवेगं मतंगजैम् । प्रद्योतस्तत्र निश्यागा-दहो मदनशासनम् ॥ १२५ ॥ द्वयोरपि मिथःप्रेम्णि, प्रवृत्ते रूपवीक्षणात् । स तामूचे चकोराक्षि!, समेहि नगरं मम ॥१२६ ॥ साऽब्रवीत् प्रतिमा जैनी, जीवातुर्मम विद्यते । तां विनाऽहं न जीवामि, क्षणं यामि च न क्वचित् ॥ १२७ ॥ तदेतस्याः प्रतिच्छंदं, त्वं विधाप्य समानय । यथा तामत्र विन्यस्य, लात्वा चैनामुपैम्यहम् ॥ १२८ ॥ दृष्ट्वा तत्प्रतिमारूपं, स्थित्वा तां रजनी च सः। प्रातर्ययावुजयिनी, सिद्धवन्मालवाधिपः ॥ १२९ ॥ सच्चंदनेन निर्माप्य, प्रतिमां तादृशीं नवाम् । स प्रतिष्ठापयामास, || कपिलेन महर्षिणा ॥ १३० ॥ अलंकृतार्चितां कृत्वा, करे तां प्रतिमां नृपः । आरुह्यानिलवेगेभं, पुनरूतभयं ययौद
॥ १३१॥ व्यश्रोणयच्च दास्यै तां, साऽप्यादाय पुरातनीम् । प्रतिमां तत्र मुक्त्वा च, नवां प्राप नृपांतिकम् ॥ १३२॥ ततस्तत्सहितां कुब्जा-मारोप्य नृपतिर्द्विपे । स्पंदेनातिसमीरेण, प्रपेदे निजमास्पदम् ॥ १३३ ॥ अथ तौ विषयासक्ती, तामार्थ वितरतुः। भायलस्वामिवणिजे, विदिशानगरीजुषे ॥ १३४ ॥ वणिजस्तस्य सदन१ मानेन सहितं, सत्कारपूर्वम्. २ लुङ्, प्रत्यपादयत् , लङ् . ३ मतंगजं-हस्तिनम्, ४ प्रतिबिंबम्. ५ अदात्. ६ स्पंदेन-गमनेन.
॥१९२॥
Page #435
--------------------------------------------------------------------------
________________
स्थायिनी प्रतिमा च सा । भूरिकालात्यये मिथ्या-दृग्भिर्गुप्ताऽर्चयिष्यते ॥ १३५ ॥ बहिः प्रतिकृतिस्तस्याः, स्थापयित्वा |च तैर्जडैः। भायलस्वामिसंज्ञोऽय-मादित्य इति वक्ष्यते ॥ १३६ ॥ लोकोऽप्यहो तदुक्तं तत्, सत्यमित्यवधारयन् । दि तामार्चिष्यति कस्को हि, धूर्तदंभो न ज॑भते ? ॥ १३७ ॥ । अथ वीतभयस्वामी, कृतस्नानादिकक्रियः। देवताऽऽयतनं प्रात-र्ययौ पूजाचिकीः स्वयम् ॥१३८॥ दृष्ट्वाऽग्रे प्रतिमा म्लान-माल्यां स ध्यातवान् हृदि । नेयं देवमयी सैव, काऽप्यपूर्वेति मे मतिः॥ १३९॥ प्रतिक्षणं नवानीव, यत् तत्पु| पाणि कर्हिचित् । न म्लायति स्म दासी च, साऽत्र नास्ति तदर्चिका ॥ १४० ॥ श्रुतं चाद्य निषादिभ्यो, निर्मदा दंतिनोऽभवन् । आगादनिलवेगोऽत्र, तन्नूनं गंधसिंधुरः॥ १४१॥ जानेऽत्रानिलवेगस्थो, मालवेन्द्रोऽभ्युपेत्य सः। गृहादप्यहरद् रात्री, प्रतिमा कुजिकामपि ॥ १४२॥ ततः स कोपदुष्प्रेक्षो, द्वादशाक्ष इव स्वयम् । प्रतस्थे सह सैन्येन, प्रद्योत|विजिघृक्षया ॥१४३ ॥ किरीटिनो नृपाः सेना-युतास्ते दश तं श्रिताः। यथा ग्रेवापगापूर्णा, गंगावाहाः पयोनिधिम् |॥ १४४ ॥ अथ तत्सैनिकाः प्राप्य, निर्जला जंगलावनिम् । मृगा इवापतन् वारि-भ्रांत्या मॅरुमरीचिकाः॥१४५ ॥
इतस्ततो भ्रमंतस्ते, तृशष्यद्गलतालवः । एक विमुच्य नेत्रांभो. नान्यदंभो न्यभालयन् ॥ १४६ ॥ तदोदायनभूपेन, दप्रभावत्यमरः स्मृतः। त्रिपुष्कराणि पानीये-रेत्य स्वर्गादपूपुरत्॥१४७॥ पायं पायं पयःपूरं, पीयूषमिव सैनिकाः। उज्जीवंति
१मिभ्याग्भिरुक्तम्. २ देवस्वरूपा-देवप्रतिमा. ३ कार्तिकेयः. ४ विग्रहीतुमिच्छया. ५ पर्वतनदीपूर्णा गंगाप्रवाहाः. * विशिष्टवाचकपदानां विशेषणवाचक| पदपृथगुपादाने सति विशेष्यमात्रपरत्वम्.६जांगलावनिम्, प्र. ७ द्वितीयाबहुवचनम्. ८ त्रितटाका.९ पीवा पीत्वा जलसमूहम्.
CACHAR
कु.पा-ब.३३
Page #436
--------------------------------------------------------------------------
________________
कुमार
सगे.
पालच०
॥१९३॥
ALMAGESSANSAR
स्म तत्कालं, कालेनाऽऽकलिता अपि ॥ १४८॥जीविता जलपामेन; जीधनीयं तथाऽमृतम् । नामद्वयं तदा तस्य, सार्थक मेनिरे जनाः ॥१४९॥ अनीके सुस्थिते जाते, ततः प्रस्थाय पार्थिवः । प्रयाणैस्त्वरया क्लृप्त-जंगामोजयिनी पुरीम् ॥ १५०॥ तत्र वीतभयेशस्य, प्रद्योतयः च दूततः। रथमारुह्य योधव्य-मित्यनाथत संगरः॥ १५१ ।। सांया| मिकं रथं श्रित्वाऽ-मिमान इच मूर्तिमान् । उदायनः कराऽऽकृष्ट-पस्तस्थौ रणस्थले ॥ १५२ ॥ रथाजय्यमथाऽs४ ध्याय, तं त्यक्तरथसंगरः। गंधस्तंबेरमारूढः, प्रद्योतोऽप्याययौ युधम् ॥ १५३ । वीक्ष्य वीतभयस्वामी, तं तथा कुपि
तोऽवदत् । रेरे त्वमीहक्प्रौढोऽपि, किमभूर्धष्टसंगरः॥१५४॥ रथमारुह्य योत्खेजन-मित्युदीर्य स्वयं पुरा । इदानीमन्यथाऽऽगच्छन् , स्वजनेऽपि न लजसे ॥१५५॥ यद्वाऽग्यगृहमाविश्य, मूर्ति दासी कचौरषत् । हरन्नालजथास्त्वं चेद्, वाग्लोपालजसे कथम् ? ॥१५६ ॥ जीवितार्थी हिया साधं, संधां यद्यप्यथाः । तथापि मरकरोन्मुक्त-न जीवि-18 ध्यसि मार्गणैः॥ १५७ ॥ ततोऽतिभ्रमयन् वेगात्, कुंभकृच्चक्रवद् रथम् । उदायमोऽभ्यधाविष्ट, वधाय स्वविरोधिनः ॥ १५८॥ योगपद्येन हंतुं तं, सरध्यरथसारथिम् । प्रद्योतोऽपि निजं गंध-सिंधुरं क्रुधमैरिरत् ॥१५९॥ रथस्य धमतस्तस्य, ग्रहणार्थ यथा यथा । बंभ्रमीति स्म पृष्ठस्था, सरोषो वैरिवारणः ॥ १६०॥ तथा तथा तीक्ष्णमुखैः, गार्द्धपक्षरुदायनः। तस्य पादतलाम्युच्चै-विव्याध व्याधवन्मुहुः॥१६१॥ तच्छाँयकक्षतैः पादै-श्चतुर्भिरपि स द्विपः । ऊर्दू स्थातुमनीशः स-नपतत् पंगुवद् रणे ॥ १६२ ॥ पातयित्वा ततः कुंभि-कुंभाद् वीतभयप्रभुः । प्रद्योतं जगृहे बट्टा, मूर्त जयमिवा
१ मृत्युना. * जलपानेन-जीविताः जनाः. २ प्रतिज्ञा. ३ गंधहस्तिनम्. ४ प्रेरयत्. ५ वैरिहस्ती. ६ शरैः. ७ तत्सायक. प्र.
Page #437
--------------------------------------------------------------------------
________________
CCTRICAR
त्मनः॥ १६३ ॥ दासीपतिरिति व्यक्तै-वणेस्तस्यालिकस्थले । अंक च रचयामास, स्वीयकीर्तिप्रशस्तिवत् ॥ १६४॥ प्रद्योतोक्क्या परिज्ञाय, प्रतिमां विदिशास्थिताम् । तां पुरी जग्मिवान् भूभृ-मालवेंद्रसमन्वितः॥ १६५॥ तेन तत्रा-15 मित्वोच्चैः, प्रतिमा चालिताऽपि सा । न चचाल निजस्थाना-दचलेवाचलस्थितिः ॥ १६६ ॥ विशेषात् पुनरभ्यर्च्य, जगादैवमुदायनः। प्रभो ! किं मेऽभवद् भाग्यं, भंगुरं नैषि यद् गृहम् ॥१६७॥ जगौ तन्मूर्त्यधिष्ठाता, मा शोचीस्त्वं पुरं तव । भविष्यति स्थलं धूली-वृध्या नैष्याम्यहं ततः॥ १६८॥ तदादेशेन तेनासौ, नृपतिः स्वपुरं प्रति । न्यवर्तिष्ट | करभ्रष्ट-चिंतामणिरिव व्यथी॥१६९॥ अमुष्य गच्छतो मार्गे, पुस्फोर जलदागमः। उज्जीवयन जगल्लोकं, स्वोदयेन महानिव ॥१७॥एते घटीप्रहरऋक्षरवींदुचारैः, सर्वेऽपि यद्यपि समाऋतवःस्फुरंति। भूयांस्तथापि महिमाऽस्य घनागमस्य, येनोच्छुसं-|
त्यखिलविष्टपजीवितानि ॥ १७१॥ (वसंततिलका) सौदामिनी मुहुर्तीप्रां, स्फारयन् शुशुभे घनः। हंतुं स्ववैरिणं ग्रीष्म, ६ कृपाणी नर्तयन्निव ॥ १७२ ॥ स्पर्धयेव तदा मेघ-माला निष्पतिको अपि । नीरैरनैश्च सिषिचुः, क्षोणीपीठमुरोऽपि चढ़
॥१७३॥ ततो विश्वक्समालोक्य, पयःपूरमयीं महीम् । स्कंधावारं निवेश्याऽस्था-नृपस्तत्रैव कुत्रचित् ॥ १७४॥जलात् त्रातुं रजोवप्रान् , कृत्वा दश नृपाः स्थिताः । पुरं दर्शपुरं नाम्नाऽ-भवत् तच्छिबिरं ततः॥ १७५ ॥ प्रद्योतं भोजना-18 | यैस्तं, नृपः सम्यगमोदयत् । अहितेऽपि हि नौचित्यं, संतो मुंचंति जातुचित् ॥ १७६ ॥ प्रभावतीदिविषदा, ज्ञापितः १भालस्थले. २चिह्नम्. ३विदिशानगरीस्थिताम्. पृथ्वीव. ५(प्रादुर्बभूव चिचेष्टे वा). पुस्फेरे. प्र.६महापुरुष इव. शरद्धेमन्तशिशिरवसन्तप्रीष्मवर्षाः आश्विनादिमासक्रमेण द्विद्विमासप्रमाणाः. ८जीवनानि. ९विस्तारयन् १० मेघः.११लघुखनम्. १२पति रहिता स्त्री-विरहिणी. १३अश्रुभिः. १४ मंदसोर' इति नामनगरं मालवदेशस्थम्
RECECA
CHORSCIENCE
Page #438
--------------------------------------------------------------------------
________________
..
कुमार
.+4
पालच०
॥१९४॥
% A
CONGRESCOCONUAROO
शापर्व वार्षिकम् । उदायनोऽतिश्रद्धालु-रुपवासं वितेनिवान् ॥१७७॥ तदा प्रद्योतमप्राक्षीत् , सूपकृद् भोक्ष्यसेऽद्य किम् ।
तन्निशम्य भयाऽऽक्रांत-स्वांतः सोऽपि विमृष्टवान् ॥ १७८ ॥ अपृष्टपूर्वी यदयं, मामेतत् परिपृच्छति । गिराऽनयोपहासिन्या, तन्नूनं नाऽद्य मे शिवम् ॥१७९॥ को हेतुरद्य प्रश्नेऽस्मिन् !, पृष्टस्तेनाथ सूपकृत् । ऊचे पयूषणापर्व–ण्यस्मिनाथोऽस्त्युपोषितः॥१८०॥ नृपयोग्यां रसवती, त्वत्कृते करवाणि काम् । इति त्वां पृष्टवानेत-छ्रुत्वा सोऽपि शठोऽवदत् ॥ १८१ त्वयाऽहं साधु पर्वेद, ज्ञापितः पितरौ यतः। श्राद्धौ ममाऽपि तेनाऽऽस्ता-मुपवासोऽद्य पुण्यकृत् ॥१८२॥ |भक्तकृत् तदभाषिष्ट, निजनाथाय तत्क्षणम् । सोऽप्याख्यद् धूर्तराजोऽयं, सम्यग् जानाति मायिताम् ॥ १८३ ॥ मायी जवाऽस्त्वपमायो वा, नास्मिन् वंदिस्थिते मम । पर्वेदं जायते धम्य-मिति तं मुक्तवान्नपः॥१८४ ॥ क्षमयित्वा च तं
सम्यक्, तस्य भालांकगुप्तये । पट्टबंधनमाधत्त, विवेकः कोऽप्यहो सताम् ॥ १८५ ।। तत्मभृत्यभवत् पट्ट-बंधो मौलौ महीभृताम् । तत्पूर्व ते दधुस्तत्र, मंडनं मुकुट पुनः॥ १८६॥ याते घनऋतौ तस्मि-नैश्वर्यापणपूर्वकम् । प्रेष्य प्रद्योका तमात्मीयं, स्थानमापदुदायनः॥१८७ ॥ पुरं दशपुरं तच्च, लोकराढ्यं भविष्णुभिः । तथैव पप्रथे पृथ्व्यां, स्थानं हि स्या
न्महत्कृतम् ॥ १८८॥ __ अथोदायनभूजानि-महद् दुःखं दधौ हृदि । देवाधिदेवप्रतिमां, विना लक्ष्मीमिवाधनः ॥ १८९ ॥ दध्यो च हा ममाभाग्य-मुदज़ुर्भत कीदृशम् । येन वेश्मांतरस्थापि, गतेयं कामधेनुवत् ॥१९॥ तं तथा दु:खिन
१सूपकृत्. २ धूर्तशिरोमणिः. ३ कारास्थिते. ४ धर्मयुक्तं धर्मप्राप्यं वा. ५ गोपनाय. ६ अकरोत. . मस्तके. ८ प्रसिद्धि प्राप. ९ अचेष्टत.
C
१९४॥
+Talk
Page #439
--------------------------------------------------------------------------
________________
AAAAAICROSOS
प्रेक्ष्य, स्नेहादेत्य त्रिविष्टपात् । स्वस्थयामासिवानेवं, प्रभावत्यमरस्तदा ॥ १९१॥ नृप! चेक्लिश्यसे कस्मा-दित्थं तत्प्रतिमाकृते । कल्पवल्लीव नाल्पिष्ठ-र्भाग्यैः सा लभ्यते यतः॥ १९२॥ जीवंतस्वामिनो याऽस्ति, प्रतिमा त्वद्गृहे नवा। साऽपि निस्सीममाहात्म्यात् , तीर्थप्रायैव बुध्यताम् ॥ १९३ ॥ यत् प्रतिष्ठाविशेषेण, प्रतिमा स्यात् प्रभावभूः । प्रत्यष्ठाच्च स्वयमिमां, केवली कपिलो मुनिः॥ १९४ ॥ तेवदेवेयमप्या , प्रतिमा भवताऽनिशम् । चारित्रमपि च ग्राह्य-मात्मः
नीनं यथाक्षणम् ॥ १९५॥ उदीयेति गते तस्मिन् , देवे वीतभयप्रभुः । तामप्याराधयामास, वासनावासिताशय४॥ १९६ ॥ पुण्यलक्ष्मीलताकंद, सध्यानमिदमादधे । स्तुत्यास्ते विषया यस्मिन् , श्रीवीरस्तिष्ठति स्वयम् ॥१९७॥ विवि
कास्ते नमस्यंति, ये तं तीर्थमिवान्वहम् । कृतार्थास्ते नृपास्तस्माद, ये श्रयंति व्रतश्रियम् ॥ १९८ ॥ पृथिवीं पावयन् |पादै-भंगवान् भानुमानिव । यद्यति तदा ध्वस्त-तमाः साधुपथं श्रये ॥ १९९ ॥ इमं तदाशयं मत्वा, तत्प्रव्राजनकाम्यया । चंपानगयोः प्रस्थाय, वयमायाम तत्पुरम् ॥ २०॥ उदायनो मुदा भुंगी-भूयाऽस्मत्पदपंकजे । कणेहत्य पपावेव-मुपदेशमयं रसम् ॥ २०१॥ ययाऽयं क्षेत्रज्ञः परिहतपथं वाड्मनसयो-श्चिदानंदं विंदत्यनुपमसुखाऽऽश्लेषसुभगम् । विरक्ते रक्तां ताममिलषसि चेन्मुक्तिरमणी?, तदा त्वं ततीमिव कुरु करे सर्वविरतिम् ॥ २०२॥ (शिखरिणी) संति दानादयो धर्माः, परं भोगादिहेतवः । मुक्तिदाने त्वलंभूष्णु-व्रतश्रीरेव केवलम् ॥ २०३ ॥ ततः स
अतिशयेन खिद्यसे. २ त्वया-इतिशेषः. ३ यस्मात्. ४ पूर्वप्रतिमामिव. ५ यथावसरं-योग्यावसरे इत्यर्थः, ६ संध्यान प्र. ७ देशाः. ८ विवेकिनः | श्रद्धाप्रतिघातं कृत्वा-तृप्तिं यावदित्यर्थः. १० मुक्त्या. ११ जीवः. १२ निपातनाद वाचनसशब्दोऽकारान्तो द्विवचनान्तः. १३ आदिना खर्गादिग्रहः,
CLARK
Page #440
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ १९५ ॥
श्रुतंचारित्र - कल्पद्रुमफलो नृपः । तस्मिन्नत्युत्सुको जज्ञे, बुभुक्षुरिव भोजने ॥ २०४ ॥ दातुं न युक्तं पुत्रस्य, राज्यं तत्पापभारतः । यदयं भवपाथोधौ, पोतवन्मंक्षु मक्ष्यति ॥ २०५ ॥ राज्यं दत्त्वा मयाऽयं चेत्, क्षिप्यते नरकावनौ । तदा मैड्रंकरत्वं मे पितुः स्वात् कीदृशं सुते ॥ २०६ ॥ इति ध्यात्वा निजे राज्ये, यॉमेयं न्यस्य केशिनम् । दत्त्वा च शासनेऽनल्पान् ग्रामांस्तत्प्रतिमाऽर्चने ॥ २०७ ॥ उदायनः सपुत्रोऽपि नृपकेशिकृतोत्सवः । अस्मत्तो व्रतमादद्रे, बीजं मोक्षतरोरिव ॥ २०८ ॥ चतुर्भिः कलापकम् ॥ षष्ठमुख्यैस्तपः कष्टे - व्रताहादपि स व्रती । लग्नः शोषयितुं कर्म -- पंकं रविरिवांशुभिः ॥ २०९ ॥ सोऽयमीदृक्चरित्र श्री - लीलापात्रमुदायनः । राजर्षिश्वरमोऽस्माभिः श्रीश्रेणिकसुसौच्यत ॥ २१० ॥ श्रुत्वेति दृष्टः पप्रच्छ, पुनः श्रेणिकनंदनः । राजर्षेरस्य किं भावि १, पुरस्ताद् भगवन् ! वद ॥ २११ ॥ जिनेंद्रस्तं जगौ तस्य, मुनेः पालयतो व्रतम् । भविता व्याधितस्येव, व्याधिः कदशनैर्महान् ॥ २१२ ॥ स्वदेहेऽपि निरी हत्वा - चिकित्सितमनिच्छतः । तस्याग्रे वक्ष्यते वैद्य - दधि भुंक्ष्व गदापहम् ॥ २९३ ॥ अतिव्याधिक्षतं वीक्ष्य, निजकायमुदायनः । गंता गोष्ठास्पदं कांक्षन्, दधि प्रासुकमात्मनः ॥ २१४ ॥ ततोऽपि विहरन् याता, स वीतभयपत्तनम् । ज्ञात्वा तदागमं केशी, वक्ष्यते च कुमंत्रिभिः ॥ २१५ ॥ एष त्वन्मातुलोऽत्रागा - नूनं राज्यजिघृक्षया । दुश्वरेण व्रतेनाति - निर्विण्णो यदसौ हृदि ॥ २१६ ॥ पुराऽयं व्रतमादत्त, वैराग्याद् दृढचित्तवत् । ततोऽधुना परिभ्रष्टः, क्लीववत् सुखमिच्छति ॥ २१७ ॥ वदिष्यति ततः केशी, संप्रत्येवैष किं न हि । राज्यं न्यासवदादत्ते ?, को लोभो मेऽन्यवस्तुनि ।
१ कृतश्रवण०. २ चारित्रे. ३ महं-मंगलम् ४ भागिनेयम् ५ आज्ञापत्रे ६ ग्रहीतुमिच्छया ७ व्रततः. ८ कातरवत्.
.
९
॥ १९५ ॥
Page #441
--------------------------------------------------------------------------
________________
॥ २९८ ॥ मंत्रिणस्ते भणिष्यंति, परवस्त्विति माऽभ्यधाः । राज्यमेतत् तवैवेश!, दत्तं त्वद्भाग्यसंपदा ॥ २१९ ॥ क्रियंते यत्कृते भूषै- रक्षत्राणि धनान्यपि । तद्राज्यं निजहस्तस्थं, कः कर्करमिवोज्झति १ ॥ २२० ॥ विदन् सत्यं तदुक्तं तत्, केशी प्रक्ष्यति तर्ह्यहम् । किं तन्वे ? तेऽपि वक्ष्यंति, विषमस्मै वितारय ॥ २२१ ॥ युक्तं | दंदश्यते लोका-नकर्णः पद्मगः खलु । कुतूहलं सकर्णोऽपि खलः साधून् दुनोत्यलम् ॥ २२२ ॥ खलात् किं कालकूटोऽभूत्, कालकूटात् खलोऽथवा । परप्राणप्रहाणार्थं, यदि मौ समविक्रमौ ॥ २२३ ॥ कथं खलः खलसमो ?, निःस्नेहो मलिनोऽपि च । स हितो हि पशूनामप्ययं न विदुषामपि ॥ २२४ ॥ कयाचित् पशुपाल्याऽथ विषसंपर्कितं दधि । बितारयिष्यते तस्मै, राज्यलुब्धेन केशिना ॥ २२५ ॥ प्रभावतीसुरो हृत्वा तद्विषं वक्ष्यते मुनिम् । सविषं दधि लब्ध्वा त्वं, मा प्लोसीस्तदतः परम् ॥ २२६ ॥ दनि त्यक्ते ततस्तस्य, व्याधिना व्याप्स्यते वपुः । छलं लब्ध्वा प्रकुप्यंति, यव् भूतगढ़| विद्विषः ॥ २२७ ॥ केशिना दापितं भूयो, विषं सा देवताऽपि न । हश्र प्रमादतः सोऽथ, भोक्ष्यते सविषं दधि ॥ २२८ ॥ | ततो विषोर्मिभिर्विष्वक्- सर्पन्निर्व्याप्तविग्रहः । प्रायोपवेशनं ज्ञात-प्रांतः स स्वीकरिष्यति ॥ २२९ ॥ पालितानशनो मासं, शमां स्नान नीरजः । लब्ध्वाऽन्ते केवलं मोक्ष - लक्ष्मीमाप्स्यत्युदायनः ॥ २३०॥ ज्ञात्वा प्रभावतीदेव - स्तद्वृत्तं कोर्पविह्वलः । स्थगयिष्यति धूलीभिः, सर्व वीतभयं पुरम् ॥ २३१ ॥ प्रतिमा साऽपि जीवंत - स्वामिनो धूलिमंडलैः ।
१ अस्मै-मुनये विषं वितारय-विषदानं कारय. भृशं पुनः पुनः वा दशति. २ कर्णहीनः - चक्षुःश्रवाः - अज्ञानी. ३ आर्यम्. ४ नाशाय. ५ लोडर्थे लुङ् मा भक्षेत्यर्थः ६ राजर्षिः ७ अनशनम्. ८ निष्कर्मा. ९ कोपि० प्र.
Page #442
--------------------------------------------------------------------------
________________
-कुमार
स्थगिता स्थास्यति क्षोणी-मध्ये निधिगतर्द्धिवत् ॥ २३२॥ एकं शय्यातरं कुंभ-कारं तस्य मुनेः सुरः। नीत्वा पालच. |वीतभयस्थानात् , सिणपल्लीं महापुरीम् ॥ २३३ ॥ तन्नाम्ना नगरं नव्यं, कुंभकारेतिसंज्ञितम् । करिष्यत्यहह स्नेहो,
निस्सीमो धुसदामपि ॥ २३४ ॥ युग्मम् ॥ पुनरप्यभयामात्यः, पृष्टवान् परमेश्वरम् । प्रतिमा साऽऽहती कर्हि, ॥१९६॥
भाविनी प्रकटाऽऽदिश? ॥ २३५ ॥ वाण्या योजनसर्पिण्या, प्रोचे द्वैमातुरो जिनः । अस्मन्निर्वाणतो वर्षे, द्विमुनि
द्वींदुसंमिते ॥२३६ ॥ लाटगूर्जरसौराष्ट्र-सीमनि स्वर्गखंडवत् । भविष्यति पुरं नव्यं, नाम्नाऽणहिल्लवाटतकम् ॥ २३७ ॥ युग्मम् ॥ आसतामपरे लोकाः, पंजरस्थाः शुकादयः। नमस्कारं पठिष्यंति, तस्मिन्नार्हतवेश्मसु ॥ २३८॥
पूरयिष्यति तत्राह-प्रतिमा रत्तनिर्मिताः । शाश्वतप्रतिमाऽऽलोक-प्रीतिं धार्मिकचेतसि ॥२३९ ॥ आढ्या विदग्धा धर्मज्ञाः, पुरुषर्षांयुषजीविताः । लोकास्तत्र निवत्स्यंति, सुषमाकालजा इव ॥ २४०॥ प्रतिवेईम सपत्नी स्वां, वीक्ष्य लक्ष्मी विजृमिणीम् । असूययेव लोकेभ्य-स्तेभ्यो यास्यति निःस्वता ॥२४१॥ ततोऽस्मन्मुक्तितो वर्षे, नँवषड्रसभूमिते। चौलुक्यवंशसद्रन-मूलराजनृपान्वयी ॥ २४२ ॥ दयादाक्षिण्यनैपुण्य-शौंडीर्यादिगुणकभूः । श्रीमान् कुमारपालाख्यो, भविता तत्र भूपतिः ॥ २४३ ॥ युग्मम् ॥ स दानधर्मयुद्धक-वीरभावविभावनैः । कर्णधर्मसुतश्वेत-हयाननुकरिष्यति 51
॥१९६॥ M॥२४४ ॥ आस्वधुनीविंध्यशैल-पयोधिशकमंडलम् । पूर्वाद्यासु चतुर्दिक्ष, क्रमात् क्षोणी स जेष्यति ॥ २४५ ॥ त्रयाणां
१ द्वयोः-मात्रोरपत्यं पुमान् द्वैमातुरः. २ वीरसं० १२७२,-विक्रमसं० ८.१. ३ अणहिल्लपत्तने. ४ दीर्घायुष्मंतः. ५ चतुर्थारकजा इव. ६ प्रतिगृहम्. ७ वीरसं० १६६९-विक्रमसं. ११९९. ८ नं, प्र. ९ अनुकूलता-दाक्षिण्यम्. १० कर्णयुधिष्ठिरार्जुनान् अनुसरिष्यति. ११ तुरुस्क (तुर्कस्तान ) पर्यन्तम्.
AASASARAS*
Page #443
--------------------------------------------------------------------------
________________
RECARRIGANGANAGAR
पुरुषार्थानां, साधकत्वात् स भूपतिः। असुभ्योऽपि वसुभ्योऽपि, सुकृतं बहु मंस्यते ॥ २४६ ॥ सोऽन्यदा वज्रशाखायां, चंचच्चंद्रकुलोद्भवम् । हेमचंद्राभिधं सूरिं, दृष्ट्वा प्रीतिमुपे(पै)ष्यति ॥ २४७ ॥ नमस्कृत्य च तं तस्य, वक्रवाग्देवतोदितम् । संश्रोष्यत्याहतं धर्म, केकीव घनगर्जितम् ॥ २४८ ॥ तत्त्वं ज्ञात्वा स चौलुक्यः, श्रि(श्रे)योराशिमिवात्मनः । सम्यक्त्वपूर्वकं श्राद्ध-धर्ममूरीकरिष्यति ॥ २४९॥ मद्यादिव्यसनध्वंसात् , स निवेश्य दयां भुवि । मुक्त्वा च रुदतीवित्तं, विहारान् कारयिष्यति ॥ २५० ॥ एकदा वाच्यमानेऽस्म-चरित्रे स्वगुरोर्मुखात् । प्रतिमां धूलिगुप्तां तां, चौलुक्यो निशमिष्यति ॥२५१॥ ततः स खानयित्वाऽऽप्तः, स्थलं वीतभयस्य तत् । आनाय्य च स्वसदने, चिरं तामर्चयिष्यति || ॥ २५२ ॥ इति श्रीवीरचरितादु, विनिशम्य गुरूत्तमात् । हर्षोदंचितरोमांच-श्चौलुक्यो हृद्यचिंतयत् ॥ २५३ ॥ अहमेवेह धन्योऽस्मि, श्लाघ्यजन्माऽहमेव च । अहमेवास्म्यगण्यानां, पुण्यानामेकमास्पदम् ॥ २५४ ॥ भविष्यतोऽपि मे यस्य, वृत्तमित्यभयाग्रतः। सुरासुरनराध्यक्ष, श्रीवीरः स्वयमूचिवान् ॥ २५५ ॥ ततस्तत्प्रतिमांकृष्टौ, विज्ञप्तो भूभृता प्रभुः। ध्यात्वाऽवदत् कुरूद्योगं, तत्प्राप्तिस्ते भविष्यति ॥ २५६॥ अपि रत्नाकरः शुष्येत , समीरोऽपि स्थिरो भवेत् । ज्वलेद| भोऽपि नाऽसत्या, विस्फुरेद् भगवद्गवी ॥ २५७ ॥ ईदृग्गुरुगिरा भव्यैः, शकुनैरपरैरपि । धर्मात्मा वर्धितोत्साहो, मेने| तां हस्तवर्तिनीम् ॥ २५८ ॥ दत्त्वा तत्प्रतिमाकल्पं, भूभृता प्रहिता जनाः । ज्ञात्वा वीतभयस्थानं, लग्नाः खनितुमादरात्
प्राणेभ्यः. २ धनेभ्यः. ३ धर्मः. * वक्त्रं-मुखं तदुत्पन्ना वाक्-वाणी सैव देवता तया उदित-कथितम्. ४ संस्थाप्य. ५ श्रोष्यति. ६ मयूरव्यंसकादित्वात् परनिपातो विशेषणस्य. ७ आकर्षणाय. ८ गधी-वाणी. ९ कर्तव्यतायुक्तविधानम्. १० कुमारपालदेवेन.
Page #444
--------------------------------------------------------------------------
________________
सर्ग.९
कुमार
॥२५९॥ परमाहतभावेन, राज्ञः शासनदेवता । विदधे तत्र सांनिध्यं, तस्यास्तदुचितं खलु ॥ २६० ॥ खन्यमाने स्थले पालच० तत्र, धात्रीसूत्रामपुण्यतः । प्रतिमा प्रकटा जज्ञे, स्थापितेव स्वयं पुरा ॥ २६१॥ उदायनेन यद् दत्तं, प्रतिमाऽर्चनहेतवे ।
ग्रामाणां शासनमयं, पत्रं तदपि निर्गतम् ॥ २६२ ॥ तद्दर्शनात् प्रमुदिता, नृपाऽऽयुक्ता यथाविधि । तामर्चित्वा रथो॥१९७॥
|त्संग-मुत्सवेनाध्यरोपैयन् ॥ २६३ ॥ उद्दामसहजामोद-वनाकृष्टशिलीमुखाम् । वीज्यमानां च पूर्णेदु-सुंदरैश्चामरोहत्करैः॥२६४ ॥ पूज्यमानां प्रतिग्राम, भविकैः पुण्यलोलुपैः । प्रतिमां तां समानिन्यु-र्जनास्ते पत्तनांतिकम् ॥ २६५॥
युग्मम् ॥ ततो गुरुं पुरस्कृत्य, प्रमोदमिव देहिनम् । तत्संमुखं ययौ भूपः, सर्वसंघसमन्वितः ॥२६६ ॥ प्रीतस्तद्वीक्षणात् साक्षात्, श्रीवीरप्रेक्षणादिव । अभ्यर्च्य कुसुमैहेमै–श्चैत्यवंदनमादधे ॥२६७ ॥ रथात् तां स्वयमुत्तार्य, करींद्रमधिरोप्य च । पुण्यलक्ष्मीमिवात्मीयां, मध्येसौधं समानयत् ॥ २६८ ॥ अंतःक्रीडालयं चैत्यं, विधाप्य स्फाटिकं नवम् । तत्र तां पूजयामास, त्रिसंध्यं भूमिवासवः॥२६९ ॥ तत्प्रभावेण तस्यर्द्धि-रवर्धिष्ट दिने दिने। चंद्रोदयेन वेलाऽब्धे-वर्धते किं कुतूहलम् ॥ २७ ॥ प्रतिमां तां नमस्कर्तु, पुंडरीकादितीर्थवत् । समापतन् परोलक्षा, दवीयांसोऽपि धार्मिकाः ॥२७॥ तस्याः शासनपत्रं तद्, दृष्ट्वा गृजेरनायकः । उदायनप्रदत्तांस्तान , ग्रामान् भोगकृते ददौ ॥ २७२॥
हेमसूरिरुपादिक्षत् , तस्मै धर्मात्मनेऽन्यदा। शत्रुजयादितीर्थानां, यात्राफलमिति स्फुटम् ॥ २७३ ॥ ध्याने पल्यसहस्रसंभवमघं प्रक्षीयतेऽभिग्रहे, तल्लक्षोत्थमनेकसागरकृतं मार्गे समुल्लंघिते। तीर्थस्याश्रयणेऽभ्युपैति सुगतिर्देवाऽऽनना| १ शासनदेवतायाः. २ सान्निध्यकरणम्. ३ भूवासव० कुमारपाल०. ४ आज्ञामयम्. ५ अध्यारूरुपत्, प्र. ६ शान्तिगृहमध्ये. ७ पूजाये. ८ तीर्थस्य यात्राया ध्याने.
Page #445
--------------------------------------------------------------------------
________________
ssलोकने, श्रीसौख्यादि तदर्थने सुरपदं ते तीव्रभावे शिवम् ॥ २७४ ॥ ( शार्दूलवि० ) अग्रणीः शुभकृत्यानां तीर्थया - त्रैव निश्चितम् । दानादिधर्मः सर्वोऽपि, यस्मिन् सीमानमनुते ॥ २७५ ॥ किंच श्रेयस्करं द्रव्यं भवेत् तीर्थनिवेशनात् । किं माधुर्यकरं नीरं, न ही क्षुक्षेत्रवर्षणात् १ ॥ २७६ ॥ एकाक्यपि नम॑स्तीर्थ, श्रेयः संचिनुते सुधीः । यदि संघपतीभूय, नमस्येत् तर्हि वच्मि किम् ? ॥ २७७॥ अत एव चिरत्नास्ते, भरताद्या महीश्वराः । सप्ततीर्थी नमस्कृत्य, श्रीसंघपतयोऽभवन् ॥ २७८ ॥ तवापि युज्यते राजन् ! पथा तेन प्रवर्तितुम् । गर्जेन्द्रक्षुण्णमध्वानं, कलभो ह्यधितिष्ठर्ति ॥ २७९ ॥ ततस्तदैव निर्णाय्य, शुद्धं लग्नं महीधवः । देवालयस्य प्रस्थानं, महेन महता व्यधात् ॥ २८० ॥ अमारिपटहोद्घोषः, कारागारविशोधनम् । साधर्मिकादिसत्कार - श्चै त्यस्नपननिर्मितिः ॥ २८९ ॥ क्लेशेन कारयत्येत - दन्यः संघपतिः सकृत् । स तु धार्मिक कोटीरः, प्रतिपस्रमचीकरत् ॥ २८२ ॥ युग्मम् ॥
श्रीमसूरिप्रमुखाः, सूरयः श्रुतभूरयः । मंत्रिणो वाग्भटप्रष्ठा, राणाः प्रह्लादनादयः ॥ २८३ ॥ नृपनागसुतः श्रेष्ठी निबिडस्फूर्तिराभडः । वणिक् छाडाभिधो हेम - लक्षानवति (९०) नायकः ॥ २८४ ॥ एते परेऽपि पुण्यश्री- हारिणो व्यवहारिणः । यात्रार्थमुद्यताः सत्यं सतां श्रेयस्यतृप्तता ॥ २८५ ॥ त्रिभिर्विशेषकम् ॥ नृपाह्वानाञ्चतुर्दिग्भ्य - स्तीर्थार्थ प्रस्थितैर्जनैः । प्रथीयांसोऽपि पंथानो, जाताः पाणिर्धमास्तदा ॥ २८६ ॥ सर्वस्मिन् मिलिते संघे, नृपो यावत् प्रतिष्ठते ।
१ देवार्चने. २ तीर्थस्थ देवाचन विषयक तीव्रभावे. ३ तीर्थे ४ आश्रयति ५ नृपमान्यः नागश्रेष्ठित आभडः ६पाणयो ध्यायन्ते एध्विति पाणिधमा अध्वानः अन्धकारायावृता इत्यर्थः तत्र हि सर्पाद्यपनोदाय पाणयः शच्यन्ते इति सिद्धान्तकौमुरी अतिसंकीर्णा इत्यर्थः.
Page #446
--------------------------------------------------------------------------
________________
कुमारपालच.
सर्ग. ९
॥१९॥
तावत् कातरितस्वांत-श्चरैरेत्य न्यवेद्यत ॥ २८७ ॥ देव! डाहलदेशेंद्रः, कर्णः प्रौढवलार्णवः । अत्रागमिष्यति द्वित्रदिनैर्विग्रहकाम्यया ॥ २८८ ॥ तदाकर्णनमात्रेण, भाले प्रस्वेदबिंदवः । चिंतांभोधेरिवोद्भूता, भूभुजः प्रोजंजूंभिरे 8॥ २८९ ॥ वाग्भटेन समं गत्वा, तदैव गुरवे रहः । कर्णयोः क्रकचाभं तद्, विज्ञप्येति नृपोऽवदत् ॥ २९० ॥यदि प्रस्थी
यते तीर्थे, पश्चादेत्य तदा रिपुः । विलोडयति मद्देशं, कासारमिव कासरः ॥ २९१ ॥ अथ तत्संमुखीभूय, विगृहे तर्हि विग्रहे । द्वयोरतिबलत्वेन, कालो लगति पुष्कलः ॥ २९२ ॥ तावंतं च कथं कालं, लोकोऽयं पारदेशिकः । तिष्ठत्यत्रेति ४) विमृशन् , यादश्चिंतार्णवेऽस्म्यहम् ॥ २९३ ॥ धिर धिग् मामधमानण्यं, यस्य पुण्यमनोरथः । स्खलित्वा रथवद् विघ्न-15
शैलेऽभज्यत तत्क्षणम् ॥ २९४ ॥ वणिजोऽमी वरं संघ-पतयः स्युः सुखेन येन त्वहं सांघपत्याप्ति-भाग्यहीनः सुपर्ववत् ॥ २९५ ॥ अहो ममोद्भवन्नेव, धर्मकर्माकुरः कथम् । दग्धो दावानलेनेव, देवेन हतकेन हा ॥२९६ ॥ ततो ध्यात्वा नृपस्वांत-चिंतासंतापशांतये । सुधावृष्टिमिवोवाच, वाचं वाचंयमाग्रणीः ॥ २९७ ॥ मा विषीद नरेंद्र ! त्वं, सुरेंद्रेणेव यत् त्वया । श्रेयस्कृत्यं समारंभि, भज्यते तन्न कर्हिचित् ॥२९८॥ स्वास्थ्यं द्वादशभिर्याम- वीति गुरुणा स्वयम् । धीरितोऽपि रति चित्ते, नाऽऽप क्षमापः सतांपवत् ॥ २९९ ॥ किं भावीत्यामृशन् कामं, सौधे तिष्ठन् महीधवः । प्रभुप्रोक्तक्षणेऽभ्येत्य, व्यज्ञप्यत चरैरिति ॥ ३०॥ पत्तनं प्रातरेवाह, रोत्स्ये निजबलैरिति । स्वामिन् ! भवद्रिपुः कर्णो, निशि प्रास्थित सत्वरम् ॥३०शाहस्तिपृष्ठमधिष्ठाय, स निशीथे समापतन् । अपुण्यप्रेरित इव, क्षणं निद्रामुपासदत्॥३०२॥ १ व्यसनाकुलितखान्तैः. २ चिचेष्टिरे. ३ युध्ये. ४ बहुत्वयुक्तो-महानित्यर्थः. ५ जलजंतुः, ६ नष्ट पायेण-दुष्टेनेत्यर्थः. ७ धैर्यान्वितकृतोऽपि. ८ ज्वरान्वितवत:
1॥१९८॥
Page #447
--------------------------------------------------------------------------
________________
CACARE
| तस्याविद्राणनिद्रस्य, कंठस्था स्वर्णशृंखला । मार्गे न्यग्रोधशाखाग्रे, विलग्ना पाशवत् क्वचित् ॥३०३ ॥ अधस्तात प्रस्थिते नांगे, तयोलंबितविग्रहः । गलरोधेन सद्योऽपि, रिपुरानञ्च पंचताम् ॥ ३०४॥ तस्यौद्धदेहिक कृत्यं, सर्व वीक्ष्य निजेक्षणैः । देवस्य पुरतो वक्तुं, वयमत्र समैयुम ॥ ३०५॥ हहा किमस्य संजात-मिति शोकाकुलः क्षणम् । तदूचे गुरवे भूप-रतज्ज्ञानाऽतिचमत्कृतः ॥ ३०६ ॥ ततो महोत्सवं कृत्वा, यात्रार्थ प्रस्थितो नृपः । स्वयं भरतचक्रीव, |लोकोत्तरविभूतिभृत् ॥ ३०७ ॥ भूयिष्ठत्वेन संघोऽयं, मा स्म दूयिष्ट वर्त्मनि । इति चके प्रयाणानि, पंचक्रोशानि सोऽन्वहम् ॥ ३०८ ॥ पदाभ्यां निरुपानद्भ्यां , दृष्ट्वा यांतं निजं गुरुम् । नृपोऽपि महतीभक्ति-रनुपानत्पदोऽभवत् ॥ ३०९॥ ततोऽवोचद् गुरुमार्गे, मुनीनां क्रमचंक्रमः । प्राणभृद्रक्षणाद् युक्त-स्तव तु क्लेशकारकः ॥ ३१॥ एवं ते स्यात् प्रमादोऽपि, तेनाऽवाच्यं महत् पुनः । आद्रियस्व तदश्वादि, धत्स्व वोपानही पदे ॥ ३११॥ ततो व्यजिज्ञपत् क्ष्मापो, दौस्थ्ये प्राक् पारवश्यतः । क्रमाभ्यां न कियद भ्रांतं, परं तद् व्यर्थताऽऽस्पदम् ॥३१२॥ अयं तु तीर्थहेतुत्वात् , पादचा
रोऽतिसार्थकः । येनाऽनंता भवधांति-मम प्रभ्रंशतेऽभितः॥३१३॥ एवं युक्या गुरोर्भक्त्वा, वाहनग्राहणाग्रहम् । अभि४ ग्रहीव राजर्षि-स्तथैव प्रास्थिताऽध्वनि ॥ ३१४ ॥ दृष्ट्वा राजगुरुं राज-राजं च पदचारिणम् । तयोभक्तिकृतेऽन्येऽपि,
पद्भ्यां चेलुर्मुनींद्रवत् ॥ ३१५ ॥ चित्रमंगे लगतीभिः, संघप्रस्थानधूलिभिः । यात्रिकाः कलयामासु-नर्मल्यं धौतवस्त्रवत् ॥ ३१६ ॥ प्रतिस्थानं स्फुरञ्चैत्य-परिपाट्यर्चनादिभिः। गृहस्थित इवाऽज्ञास्त, न कोऽपि प्रस्थितिश्रमम् ॥ ३१७ ॥
१ भनष्टनिदस्य. २ हस्तिनि. ३ शरीरः. ४ बहुतमत्वेन. ५ पादचारः. ६ नश्यति.. प्रचलनपरिश्रमम्..
CACHECCESCORCESCESCOCCAS
कु.पा.च.३४
Page #448
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ १९९ ॥
धंधूकपुरमासाद्य, तद्वासिजनदर्शिताम् । नृपोऽनमद् गुरोर्जन्म-भूमिं तीर्थमिवोत्तमांम् ॥ ११८ ॥ झोलिकायां स्थितो बाल्ये, प्रभुरत्रेति भूपतिः । चैत्यं विधाप्य तन्नाम्ना, तत्र श्रीवीरमासिसत् ॥ ३१९ ॥ ततः प्रस्थाय सर्वत्र, भासयन्नार्हतं मतम् । स प्राप वलभीद्रंगं, पुण्यरंगतरंगितः ॥ ३२० ॥ स्थाप ईर्ष्यालुरित्यद्री, विद्येते तस्य गोचरे । गुरुस्तदंतरे स्थित्वा, प्रातरावश्यकं व्यधात् ॥ ३२१ ॥ धर्मध्यानपरं तत्र, वीक्ष्य तं सूरिशेखरम्। महीशः श्रेयसी भक्ति - स्तगिरिद्वयमूर्धनि ॥ ३२२ ॥ कारयित्वा विहारौ द्वौ, ताविवोच्चैः समुन्नतौ । श्रीमन्नाभेयवामेय - प्रतिमे समतिष्ठिपत् ॥ ३२३ ॥ युग्मम् ॥ ततोऽपि प्रस्थितो भूप-स्तीर्थदृष्टौ कृतोत्सवः । साक्षान्मोक्षमिवारुक्षत् पुंडरीकगिरीश्वरम् ॥ ३२४ ॥ दृष्ट्वा तत्र निजा मात्य- कारितं चैत्यमुज्ज्वलम् । स मूर्त्तमिव तत्कीर्त्ति स्तोमं मेने स्वमानसे ॥ ३२५ ॥ तस्मिन् रोमोद्गमच्छद्ममुदङ्करकरम्बितः । राजर्षिर्गुरुणा सार्धं, ववंदे नाभिनंदनम् ॥ ३२६ ॥ तीर्थे लोकोत्तरां प्रौढिं, जिनधर्मस्य वीक्ष्य सः । मन्यते स्म भृशं धन्य-मात्मानं तदवाप्तितः ॥ ३२७ ॥ अर्चित्वा कुसुमैर्हेमै मरुदेवेयमीश्वरम् । राट्र चक्रे शक्रवच्चैत्य| परिपाटिमहामहम् ॥ ३२८ ॥ या बभूवुर्बताऽसूर्य - पश्याः क्षोणीशवेल्लभाः । प्रतिचैत्यं भ्रमंति स्म, ता अप्यर्चनकाम्यया ॥ ३२९ ॥ मधूकपुरवास्तव्यः, प्राग्वाट कुलमंडनम् । हंसमंत्रीशतनयो, मारुँकुक्षिसरोंबुजम् ॥ ३३० ॥ जगडः सपादकोटि- मूल्य माणिक्यदानतः । आद्यां मालां ललौ तत्र, दुष्प्रापेंद्रपदाप्तये ॥३३१॥ युग्मम् ॥ लक्ष्मीवंतः परेऽप्येवं, बद्ध| स्पर्धाः शुभश्रियः । स्वयंवरणमालाव - न्माला जगृहुराग्रहात् ॥ ३३२ ॥ सर्वस्वेनापि को मालां, न गृह्णीयाज्जिनौ
१ मः, प्र. २ झोलिकानाम्ना झोलिकाविहार इतिनाम्ना ३ तीर्थदर्शने. ४ महत्ताम् ५ राज्यः ६ महुवा ०.७६, प्र.
सर्ग. ९
॥ १९९ ॥
Page #449
--------------------------------------------------------------------------
________________
Pो ध्यात्वेति वेधा धूर्व, विहिताष्टाहिकास्वर्ण-ध्वजाप
KAMALSOGANSARDAMOM
इह लोकेऽपि यत्पुण्यैः, स्फुरेनिंद्रपदं नृणाम् ॥ ३३३ ॥राश्यो भोपलव्याद्या, लीला नृपसुताऽपि च । उद्यापनाद्यैः सत्कत्यैः, स्वश्रियं तीर्थगां व्यधुः॥ ३३४ ॥ क्षीमस्वर्णमणीहेम-हस्त्याद्यैर्याचकत्रजम् । जीवयंतं नृपं प्रेक्ष्य, विपश्चित कश्चिदूचिवान् ॥ ३३५ ॥
नष्टास्तेऽर्थिभियेव कल्पतरवो नायांति पार्श्व नृणां, मानेनेव सुरा रुषेव न वशाः स्वर्णादिसंसिद्धयः । लोकः सैष कथं से भविष्यति कलौ ध्यात्वेति वेधा ध्रुवं, तत्स्थाने विदधे भवंतमधुना चौलुक्यभूमीधव! ॥ ३३६ ॥ (शार्दूल.) विहिताष्टाह्निकास्वर्ण-ध्वजारोपादिसक्रियः । वंदित्वाऽऽदीश्वरं भूपो, जगादैवं कृतांजलिः ॥३३७॥ स्वामिन् ! ये व्यंगलन् घना-स्त्वदुपास्तिविनाकृताः। सपाकुर्वते ते मां, करच्युतसुवर्णवत् ॥३३८॥ विषार्त इव पीयूषं, गदात इव चौषधम् । भवार्तस्त्वामहं प्राप्य, प्रीति प्राप्तोऽस्मि संप्रति ॥३३९॥ सार्वभौमोऽपि मा भूवं, त्वदर्शनपराङ्मुखः । त्वदर्शनपरः स्यां तु, त्वच्चैत्ये विहगोऽप्यहम् ॥ ३४०॥ देवोऽहन गुरुरग्रणीतभृतां धर्मः कृपांभोनिधि-लोकान्यकरणी रमा परहितव्यापारपारीणता । उच्चैः सज्जनसंगमो गुणरतिश्चाध्यात्मनिष्णातता, स्वामिन् ! मे त्वदनुग्रहात् प्रतिभवं भूयासुरेतेऽनिशम् |॥ ३४१॥ (शार्दूल०) इत्याद्यर्थयमानं तं, पार्थिव प्रेक्ष्य देवतः। नेदिष्ठश्चारणः कश्चि-दुचितं प्रोचिवानिति ॥३४२॥ यो ददात्येकपुष्पेण, नरामरशिवश्रियः। तस्य श्रीआदिदेवस्य, कटरे किंचिदार्जवम् ॥ ३४३ ॥ पुनः पुनः पठेत्युक्ते, श्लोकेऽस्मिन् पठिते सति । वारान् नव ददौ तस्मै, नवलक्षी मुदा नृपः॥३४४॥ पंचशक्रस्तवैर्देवान् , वंदित्वाऽऽनंदमं | १ इति नान्नी. २ खर्ण-धनम्. ३ लोकोऽयं स, प्र०.४ अगमन्. ५ “सुपूसुपा" इतिसमासः. ६ अत्यन्तव्यथनं कुर्वन्तीत्यर्थः. ७ संसारात् पीडितः. ८ धूर्यता.
विदित्वाऽऽदीश्वरं भूपो, जगा ॥ विषार्त इव पीयूषं, गदान कुर्वते ते मां, करच्युतभामोऽपि मा भूवं, त्वदर्श
Page #450
--------------------------------------------------------------------------
________________
कुमारपालच०
CG %A4
दिरम् । हेमाचार्योऽपि तीर्थेशं, प्रार्थयामासिवानिति ॥ ३४५ ॥ त्वमीशस्त्वं तातस्त्वमतिसदयस्त्वं हितकर-स्त्वमर्थ्यस्त्वं सेव्यस्त्वमखिलजगद्रक्षणचणः । अतस्त्वत्प्रेष्योऽहं भवपरिभवत्रस्तहृदयः, प्रेपन्नस्त्वामस्मि त्वरितमवे मां नामितनय! ॥३४६॥ (शिखरिणी) अवतीर्य ततस्तीर्था-न्न तद् ध्यानान्महीधवः । कतिभिर्दिवसैः प्राप-दुजयंतगिरीश्वरम् ॥ ३४७॥ समारोहति सूरींद्रे, नरेंद्रे च समं तदा । स चकंपे गिरिर्लका-पत्युत्पाटितशैलवत् ॥ ३४८॥ तत्कंपकारणं पृष्टः, सूरिराचष्ट तं प्रति । देवास्मिन् विद्यते मार्गे, शिला छत्रशिलाह्वया ॥ ३४९ ॥ अधस्ताद् गच्छतोः पुण्य-शालिनोयुगपद् द्वयोः । निपतिष्यत्यसौ मूर्ध्नि, श्रुतिरित्यस्ति वृद्धभूः ॥ ३५० ॥ आवां वर्तावहे पुण्य-वंतौ तद्गच्छतोरिह । रैवताचलकंपेन, कदाचन पतेदियम् ॥ ३५१॥ तदारुह्य भवान् पूर्व, तीर्थ स्वार्थ व्यवस्यतु । अहं तु पश्चाद्वं दिष्ये, सामुद्रविजयं जिनम् ॥ ३५२॥ नृपोऽवोचन्न मे युक्त-मेवं विनयलोपतः। आरोहतु प्रभुः पूर्व, पश्चादेष्याम्यहं पुनः ॥ ३५३ ॥ तथा कृत्वा स सूरींद्रो, गूर्जरेंद्रोऽपि संघयुक् । क्रमात् प्रणेमतुर्देवं, स्मरापस्मारघस्मरम् ॥ ३५४ ॥ जिनस्य स्नात्रपूजांग-रागाद्यैस्तत्र भूरिभिः । संचिन्वते स्म पुण्यानि, राजर्षिरपरेऽपि च ॥ ३५५ ॥ स एव जगडः प्राग्वत्, ताहग्माणिक्यमद्भुतम् । मालाक्षणे पुनर्दत्त्वा, जग्राहेंद्रपदं सुधीः ॥३५६ ॥ तीर्थोचितानि कृत्यानि, विरचय्याखिलान्यपि । एवं विज्ञपयामास, राजा राजीमतीप्रियम् ॥ ३५७ ॥ध्रुवं त्वक्ष्यानवात्याभि-विलीना मेऽघमंडली । यन्मया
१रक्षणेन प्रसिद्धः. २ तव दासः. ३ भवः-संसारः. ४ प्राप्तः, ५ अव-रक्ष. ६ सप्तम्येकवचनम्. ७ अष्टापदवत् , (कैलाशवत् दर्शनान्तरीयमते). ८ भवान्..2 |९ कामरोगनाशकम्.
%A4ACK
॥२०
॥
Page #451
--------------------------------------------------------------------------
________________
भगवलूँ लेभे, भास्वतस्तव दर्शनम् || ३५८ || घनाघनोद के स्वामिंश्चित्तवर्त्तिन्यपि त्वयि । व्यथते मां कथं सोऽयं, दबंधुभवदावभूः ॥ ३५९ ॥ तथा प्रसीद विश्वेश ! त्वदेकशरणे मयि । यथा त्वद्ध्यानयोगेन मन्मनस्त्वन्मयं भवेत् ॥ ३६० ॥ अथोपास्य चिरं स्तोत्रैः, कुसुमैरिव कोमलैः । तीर्थनाथं ययाचैवं, हेमाचार्योऽपि हर्षुलः ॥ ३६१ ॥ मया प्राप्तो न त्वं क्वचिदपि भवे प्रांचि नियतं, भवनौन्तिर्नो चेत् कथमियत्ताविरहिता । इदानीं प्राप्तोऽसि त्रिभुवनविभो ! पुण्यवशत- स्ततो भक्त्वा क्लेशं रचय रुचिरं मे शिवसुखम् ॥ ३६२ ॥ ( शिखरिणी) ततो मत्वा दुरारोहं, गिरिं शृंखलपद्यया । सुराष्ट्रदंडनाथेन, श्रीमालज्ञातिमौलिना ॥ ३६३ ॥ राणश्री आंबदेवेन, जीर्णदुर्गदिगाश्रिताम् । पद्यां सुखावहां नव्यां, श्रीचौलुक्यो व्यदीधपत् ॥ ३६४ ॥ युग्मम् ॥ ततः प्रयाणमासूत्र्य, धात्रीशो देवपत्तने । चंद्रवैहासिक श्रीकं, श्रीचंद्रप्रभमानमत् || ३६५ ॥ अत्रापि तादृग्माणिक्य - दानेन जगडः पुनः । प्रथमेन्द्रोऽभवत् पुण्ये, तृष्णा हि महती सताम् ॥ ३६६ ॥ तस्य तेन चरित्रेण, सर्वलोकातिशायिना । विस्मितात्मा स राजर्षिः, संघाध्यक्षं तमभ्यधात् ॥ ३६७ ॥ सपादकोटिमूल्यानि, दुरापाणि नृपैरपि । एतानि त्रीणि रत्नानि, कुतस्त्वमुपलब्धवान् ॥ ३६८ ॥ लब्धवांश्चेत् कथं पुण्य कर्मण्येवं वितीर्णवान् ? । स्थाने स्थाने हि तद्रलं, त्वद्वद् दत्ते न कश्चन ॥ ३६९ ॥ जगौ स जगडो राजन् !, मधूक इति विश्रुतम् । पुरमत्रास्ति तत्रासम्, म पूर्वेऽतिनृपाः श्रिया ॥ ३७० ॥ मत्पूर्वजार्जितमभू – देतन्माणिक्यपंचकम् । करांबुजे मम
१ तापः २ पूर्वस्मिन् ३ प्रभो ! नो चेज्जज्ञे कथ० प्र. प्रमाणरहिता ४ जुनागढ इति लोके प्रसिद्धस्य नगरस्य दिगाश्रिताम् ५ चंद्रमुकंध्य शोभा यस्य तं. ६ मम पूर्वजाः ७ नृपानतिक्रम्य वर्तमानाः.
Page #452
--------------------------------------------------------------------------
________________
सर्ग..
कुमारपालच०
॥२०१॥
पितु-हंससंज्ञस्य मंत्रिणः ॥ ३७१ ॥ तन्मध्ये त्रयमेतेषु, त्रिषु तीर्थेषु मत्पिता । आचकांक्ष व्ययीकर्तु, करे धर्तुं च है निर्वृतिम् ॥ ३७२ ॥ परं चिकीर्षितोऽप्यासीत् , तस्य यात्रोत्सवो न हि । ततो मृत्युक्षणे तातः, स मामूचेऽन्तिकस्थितम् ॥ ३७३ ॥ इमानि पंचरत्नानि, स्वीक्रियतां त्वयाऽङ्गज!। शत्रुजयादितीर्थेषु, देयं चैकैकमात्मना ॥ ३७४ ॥ द्वितयं च व्ययीकृत्य, निर्वाह्यं स्वकुटुंबकम् । इत्युक्त्वा तानि दत्त्वा च, मह्यं तातः परासिवान् ॥ ३७५ ॥ युग्मम् ॥ तदुक्तं तन्मया चक्रेड-धुना शेषं मणिद्वयम् । दृश्यतामिदमुक्त्वा त-जगडः स्वामिने ददौ ॥ ३७६ ॥ मार्तडमिव चंडार्चि-* मंडितं तत् करोदरे । धृत्वा नृपोऽपि संघोऽपि, पश्यतः स्म पुनः पुनः॥ ३७७ ॥ नाऽहं शस्यो महीशोऽपि, शस्योऽयं वणिगप्यलम् । यो माणिक्यमयीं पूजा, तनोति त्रिजगद्गुरोः॥ ३७८ ॥ध्यात्वेति दापयित्वा च, सार्धकोटीद्वयं धनम् । तस्मान्माणिक्ययुग्मं तत्, स नृमाणिक्यमग्रहीत् ॥ ३७९ ॥ युग्मम् ॥ तन्मध्यनायकी कृत्य, हारयुग्मं विधाप्य च । स प्रैषीद् रैवते शत्रु-जयेऽपि च तदहतोः॥ ३८॥ चौलुक्यः प्रस्थितस्तस्मात् , प्राप पत्तनमुत्सवैः। सत्कृत्य यात्रिकान् सर्वान् , विससर्ज च सादरम् ॥ ३८१॥ ___ अथ जिज्ञासमानाय, चौलुक्यपृथिवीभृते । स्वरूपं सप्ततत्त्वानां, हेमसूरिरदोऽवदत् ॥ ३८२ ॥ जैनेश्वरे मते जीवा-| जीवावाश्रवसंवरौ । निर्जराबंधमोक्षाश्च, सप्ततत्त्वीति कीर्त्यते ॥ ३८३॥ तत्र जीवा जिनः प्रोक्ता, ज्ञानदर्शनलक्षणाः। अनाद्यनंताः कर्तारो, भोक्तारः परिणामिनः ॥ ३८४ ॥ संसारिमुक्तभेदेन, ते जीवा द्विविधा मताः । तेष्वादिमाः पुन
* लिटि-रूपम्. १ मोक्षं. २ माणिक्ययुग्मं. ३ हारयुग्मम्, रैवतशत्रुञ्जयसत्काहतो.
-%95%AL-54-56.
Page #453
--------------------------------------------------------------------------
________________
धा. स्थावरत्रसभावतः ॥ ३८५ ॥ एकांक्षाः स्थावराः पृथ्वी-जलवयनिलद्रुमाः। चत्वारः प्रथमे तेषां, सूक्ष्माः स्युबादरा अपि ॥ ३८६ ॥ महीरुहास्तु प्रत्येक साधारणतया द्विधा । तेष्वाद्या बादरा एव, पश्चिमाः सूक्ष्मबादराः ॥३८७॥ प्रसाश्चतुर्विधा द्वित्रि-चतुःपंचेन्द्रियत्वतः। तत्र शंखजलालोका-क्रम्याद्या द्वींद्रिया मताः॥ ३८८ ॥ लिक्षापिपीलिकायूका-कुंथ्वाद्यास्त्रींद्रियास्तथा। द्विरेफमक्षिकादंश-प्रमुखाश्चतुरिन्द्रियाः॥ ३८९ ॥ शेषास्तिर्यग्नैरयिक-मानवत्रिदिवौकसः। ज्ञेयाः पंचेंद्रियास्तेऽपि, संझ्यसंज्ञितया द्विधा ॥३९॥ समनस्कतया शिक्षो-पदेशाधं विदंति ये । ते संज्ञिनो मतास्तेभ्यो, विपर्यस्ता असंज्ञिनः ॥ ३९१॥ आयुरुच्छासपंचाक्ष-हृद्भाषांगबलत्रयम् । प्राणा दशैषां संबंधाजीवाः प्राणभृतः स्मृताः ॥३९२॥ एकद्वित्रिचतुरक्षाऽ-संज्ञिसंज्ञिषु देहिषु । ते स्युश्चतुःषट्सप्ताष्ट-नवदिप्रमिताः क्रमात् ॥ ३९३ ॥ जीवाः पूर्वोदिता द्वेधा, पर्याप्तेतरभावतः । पर्याप्ताः प्राप्य पर्याप्तीः, जायंतेऽन्तर्मुहूर्ततः ॥ ३९४ ॥ सामस्त्येनोदितास्तास्तु, षड् जैनागमपारगैः । आहारकायकरणो-छासवाङ्मनसाख्यया ॥ ३९५ ॥ पर्याप्तिकर्मणा ताः स्यु-श्चतस्रः पंच षट् तथा । एकाक्षाणां विकलानां पंचाक्षाणामपि क्रमात् ॥ ३९६ ॥ व्यवहार्यऽव्यवहारि-तया जीवाः पुनर्द्विधा । आद्याः सर्वेऽपि ते, सूक्ष्मा, निगोदा एव चांतिमाः ॥३९७ ॥ भवस्था एव जीवाः स्युर्मुक्ताः कर्मपरिक्षयात् । कांतलोकांतविश्रांताः, सिद्धानंतचतुष्टयाः॥ ३९८ ॥ चिदानंदमयं शश्वद्, यत् सुखं निर्वृतात्मनाम् । वाग्मिनामपि तन्न स्यात् , कदाचिद् वाक्यगोचरः ॥३९९॥ धर्माधर्मनभःकाल-पुद्गलाः पंच कीर्तिताः । अजीवाः सह
१ एकेन्द्रियाः, २ पंच इन्द्रियाणि. ३ प्राणाः. ४ दिक्-दश. ५ पर्याप्तयः. ६ गर्भजानाम्, संमूर्छजानां (असंज्ञीनां) तु पंचैव.
Page #454
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ २०२ ॥
जीवेन, द्रव्याण्येते मतेऽर्हतः ॥ ४०० ॥ जीवानां पुद्गलानां च, स्वयं विष्वक् प्रसर्पताम् । सहायः कीर्त्तितो धर्मो, यथाSम्भो जलचारिणाम् ॥ ४०१ ॥ स्वेनैव जीवाजीवानां तिष्ठतां स्थितिकारणम् । अधर्मोऽभिमतो वृ-च्छाया मार्गजुषां यथा ॥ ४०२ ॥ एकात्मप्रमितासंख्य - प्रदेशप्रचयात्मकौ । धर्माधर्मावभिव्याप्य, लोकाकाशं किल स्थितौ ॥ ४०३ ॥ अवकाशदमैन्येषा - माकाशं स्वप्रतिष्ठितम् । लोकालोको स्थितं व्याप्य, प्रदेशाऽऽनंत्ययोगतः ॥ ४०४ ॥ लोकाकाशस्थिताः कालाs - णवः कालोऽग्रिमैः स्मृतः । ज्योतिषे यः क्षणाद्यात्मः, स तु स्याद् व्यावहारिकः ॥ ४०५ ॥ भवद्भूत भविष्यत्ता, भावानां या विभाव्यते । सा कालक्रीडितेनैव, ज्ञेया सर्वज्ञभाषितात् ॥ ४०६ ॥ स्पर्शरसगंधवर्ण - कलिताः | पुद्गला मता: । अबद्धा अणवस्ते स्युर्वद्धाः स्कंधा इति श्रुते ॥ ४०७ ॥ तें च ध्वांताऽऽतपोद्योत-रूपाः सूक्ष्माश्च बादराः । कर्मशब्दादिजनकाः, सुखदुःखादिहेतवः ॥ ४०८ ॥ चित्तवाक्कायकर्म स्या- दानवः स शुभः पुनः । निबंधनं शुभेस्याप्ती - वशुभस्त्वितरस्य च ॥ ४०९ ॥ सद्ध्यानसंगतं चेतः, शुभं कर्म प्रसूयते । दुर्ध्यानवासितं तत् तु, विपर्यस्तमसंशयम् ॥ ४१० ॥ मिथ्योज्झितं श्रुतज्ञाना - श्चितं च वचनं भवेत् । शुभार्जकं ततस्त्वन्य- दशुभार्जकमं गिनाम्॥ ४११॥ गुप्तेन वपुषा देही, कर्म बनाति सत्तमम् । अगुप्तेन महारंभ - कारिणा चेतरत् पुनः ॥ ४१२ ॥ आश्रवस्य निरोधः स्यात्, संवरः स तु सूरिभिः । द्रव्यभावविभागेन, द्विविधः परिकीर्त्यते ॥ ४१३ ॥ तत्रादिमो नैवकर्म - पुद्गलादानवर्जनम् ।
१ एकजीव प्रदेशप्रमाणासंख्य प्रदेशसमूहखरूपौ २ जीवपुद्गलानाम् ३ मुख्यः ४ गौणः ५ श्रुते कथिताः ६ स्कंधाः ७ क्रिया व्यापारः ८ शुभाश्रवः - शुभव्यापारः ९ पुण्यस्य, सुखस्य वा १० प्राप्तौ ११ नवीन ०
सर्ग. ९
॥ २०२ ॥
Page #455
--------------------------------------------------------------------------
________________
द्वैतीयीकस्तु संसार- हेतुकृत्यनिबर्हणम् ॥ ४१४ ॥ कर्मणां प्रागुपात्तानां जरणं निर्जरा स्मृता । सा सकामां यतीनां स्या - दकामाऽन्यशरीरिणाम् ॥ ४१५ ॥ आदानं कर्मयोग्यानां, पुद्गलानां यदंगिनः । मिथ्यात्वादिसहायस्य, स बंधः पारतंत्र्यकृत् ॥ ४१६ ॥ प्रकृतिस्थित्यनुभाव- प्रदेशैः स चतुर्विधः । तत्र स्वभावः प्रकृति-र्ज्ञानावृत्त्यादिकर्मणाम् ॥ ४१७ ॥ जघन्योत्कर्षतः काल - नैयत्यं कर्मणां स्थितिः । तेषां रसोऽनुभावः स्यात्, प्रदेशो दलसंहतिः ॥ ४१८ ॥ मिथ्यात्वमविर - तिश्च, कषाया योगसंयुताः । एते भवंति चत्वारः, कर्मणां बंधहेतवः ॥ ४१९ ॥ निःशेषकर्मनिर्मोक्षो, मोक्षः प्रोक्तो जिनेश्वरैः । स भवत्यात्मनां नूनं, केवलज्ञानशालिनाम् ॥ ४२० ॥ अत्यंतदुःखनाशेन यदस्मिन् शाश्वतं सुखम् । आत्मनां भवतीत्येष, मोक्षः सर्वप्रियंकरः ॥ ४२१॥ सप्ततत्त्वीमिमां राजञ् !, श्रुत्वा यः श्रद्दधात्यलम् । सम्यग्दृष्टिः स भूत्वाऽन्ते, लभते तत् परं पदम् ॥ ४२२ ॥
अथ तीर्थंकरादीनां चरितं श्रोतुमिच्छता । चौलुक्येनार्थयांचक्रे, हेमाचार्योऽतिगौरवात् ॥ ४२३ ॥ ततो रसाढ्यं षट्त्रिंशत्सहस्रमितिमाँगतम् । स्थविराली चरित्रांतं, दशपवमनोरमम् ॥ ४२४ ॥ त्रिशष्टिशलाकामर्य-चरित्रं सर्वसंस्कृतम् । द्राक्षापाककवित्वेन कृत्वा स तमशिश्रवत् ॥ ४२५ ॥ युग्मम् ॥ अन्यानपि प्रभुर्योग - शास्त्रादीञ् ज्ञानदीपकान् । ग्रंथांस्तदर्थितश्चक्रे, वीतरागस्तवानपि ॥ ४२६ ॥ योगशास्त्रं यतिश्राद्ध-जनाचारातिमेदुरम् । पठित्वा गुरुणा तेन, सम्यग् व्याख्यापयन्नृपः ॥४२७॥ एवं सैद्धांतिकं सारं, शृण्वानः स प्रपन्नवान् । बिरुदं चारु विचार- चतुर्मुख इति क्षितौ ॥ ४२८ ॥ १ नाशनम्. २ योगशास्त्रापेक्षयेदम्, विशेषतः सकामाकाम निर्जरायाः खरूपं उ० यशोविजय विरचितध में परीक्षा ( पृष्ठ. १२२) तो शेयम्. ३ मानं प्राप्तम् ४ पुरुष ०.
Page #456
--------------------------------------------------------------------------
________________
कुमार
आदद्रे नियमं भूभृत् , तदा भूयिष्ठभक्तितः। लेखनीया मया सर्वे, ग्रंथाः स्वगुरुकर्तृकाः॥ ४२९॥ तेषु लेलिख्यमानेषु, पालच० लेखकैर्बहुभिः सदा । तालपत्रत्रुटिः कोशे, सर्वथा समपद्यत ॥ ४३० ॥ लेखनाधिकृतेनैत्य, ततो व्यज्ञापि भूपतिः ।
संप्रत्यभावात् पत्राणां, लेखनं निखिलं स्थितम् ॥ ४३१॥ तन्निपीय नृपोऽध्यासी-नवग्रंथविनिर्मितौ । गुरोरस्खलिता ॥२०३॥
शक्ति-मम तल्लेखनेऽपि न ॥ ४३२ ॥ इति लज्जाभृतो राजा, सायमल्पपरिच्छदः। जगाम बहिराराम, स्वश्रीहसितनंददनम् ॥ ४३३ ॥ खरतालद्रुमांस्तस्मि-नभ्यर्च्य घुसणादिभिः। स एवं कथयामास, मंत्रसिद्ध इव स्वयम् ॥ ४३४ ॥
स्वात्मनीव मते जैने, यदि मे सादरं मनः । यूयं व्रजत सर्वेपि, श्रीताल दुमतां तदा ॥४३५॥ कथयित्वेति गांगेयमयं ग्रैवेयकं नृपः । कस्याप्येकस्य तालस्य, स्कंधदेशे न्यवीविशत् ॥ ४३६ ॥ युग्मम् ॥ तस्थौ च सौधमागत्य, धर्मध्यानपरो नृपः । श्रीतालदुमतां तांश्च, निन्ये शासनदेवता ॥ ४३७ ॥ प्रातरारामिकाः प्रेक्ष्य, श्रीतालांस्तान् महीरुहान् । गुर्वन्तिकस्थमुर्वीदें, तन्निवेद्याभ्यवीवृधन् ॥ ४३८ ॥ पारितोषिकदानेन, समानंद्य स तानवक् । पत्राण्यानीय दीयंतां, लेखकेभ्यो यदृच्छया ॥ ४३९ ॥ किमेतदिति पृष्टः सन् , गुरवे राडू व्यजिज्ञपत् । तं वृत्तांतं चमत्कार-कारणं(क) सर्व-| पर्षदः ॥४४०॥ हेमाचार्यस्तदाकर्ण्य-कर्णयोरमृतोपमम् । नृपेण पारिषद्यैश्च, सहारामं तमागमत् ॥४४१॥ कर्णजाहं गते 8 तस्मिन् , वृत्तांते जनताऽऽननात् । मिथ्यात्विनोऽपि तत्राऽऽप्ता, द्विजाद्यास्तद्दिदृक्षया ॥४४२ ॥ आलोक्य खरतालेषु,
x श्रीतालत्वं तातनम् । सूरिप्रभृतयः सर्वे, ते विसिष्मियिरेतमाम् ॥४४३॥ अथ मिथ्यात्विनः सर्वाञ् श्रावयन् भास्व
१ पुनः पुनः अतिशयेन वा लिख्यमानेषु ग्रन्थेषु. २ हीनता-हानिः, ३ लेख्यानहतालवृक्षान्, ४ खर्णम यम्. ५ कर्णजाहं-कर्णमूलं. ६ तदा भवम्.
ASSAGERSRISAIAS
SAMACHCOOLGAORAMMELCOME
॥२०३॥
Page #457
--------------------------------------------------------------------------
________________
रस्वरः। उपश्लोकयितुं जैन-मतं प्रभुरिदं जगौ॥४४४॥अस्त्येवातिशयो महान् भुवनविद्धर्मस्य धर्मान्तराद्, यच्छत्याऽत्र यगेऽपि तालतरवाश्रीतालतामागता:श्रीखंडस्य न सौरभं यदि भवेदन्यद्रुतः पुष्कलं, तद्योगेन तदा कथं सुरमितां दुर्गन्धयः प्रामुयुः॥४४५॥(शार्दूल०) तदुद्भूतैःप्रभूतैस्तै-विशालैः कोमलैर्दलैः। लिलिखुर्लेखकाग्रण्यो, ग्रंथान् प्रभुकृतान सुखम्॥४४६॥
राजर्षिरेकदाऽश्रौषीद्, देशनायां गुरोरिति । विवेकिना न वर्षासु, निष्क्रम्यं स्वगृहाद् बहिः॥ ४४७॥ वर्षों हि जलौघैः स्या-दिला जीवाकुलाऽखिला। तत्र देही भ्रमन् हंति, तानुन्मत्तलुलापवत् ॥ ४४८॥ मिथ्वात्विनोऽपि जल्पति, जीवरक्षाकृते कृती । क्रोशमात्रीं भ्रमन् धात्री, वर्षास्वेकत्र संवसेत् ॥ ४४९ ॥ अत एव पुरा श्रीम-न्नेमिनाथोपदेशतः। कृष्णो नियमयामास, वर्षाराने बहिभ्रमम् ॥ ४५० ॥ चतुर्भिः कलापम् ॥ तदाकर्ण्य स चौलुक्यो, विवेकी नियम ललौ । वर्षासु न मया चर्या, कार्या कुत्राऽप्यतः परम् ॥ ४५१॥ दर्शनं सर्वचैत्यानां, गुरोरपि च वंदनम् । मुक्त्वा पुरेऽपि न प्रायो, भ्रमिष्यामि धनागमे ॥ ४५२ ॥ अंतर्बहिरपि प्रौढ-पंकाऽऽतंकाऽपनूतये । बभंज तद्वतं नैव, राजकार्ये महत्यपि ॥ ४५३ ॥ स तस्य नियमस्तादृक्, पृथिव्यां पप्रथे ततः। किं पुण्यकेतकस्य स्यात्, प्रच्छन्नं कीर्तिसौरभम् ॥ ४५४ ॥ श्रुत्वाऽभिग्रहवार्ता तां, विष्वद्यक्स्वचराननात् । मत्वा च गूर्जरं देश, स्वर्गदेशीयमृ|द्धिभिः॥ ४५५ ॥ तं भक्तुं दुर्धरानीका, शैकेंद्रो गर्जनात् तदा । प्रतिष्ठते स्म पृथिवीं, कृतांत इव कंपयन् ॥ ४५६ ॥ युग्मम् ॥ दृष्ट्वा तदीयं प्रस्थान-मुत्तराशाचराश्चराः । विजने गूर्जरेंद्राय, तदुक्त्वेति व्यजिज्ञपन् ॥ ४५७ ॥ स्वामिन् !
१ महिषवत्. २ अंतरंग.. * राजा, प्र. ३ देशविशेषाधिपः-तुरष्काधिपः (तुर्कस्तान बादशाह). ४ नगरविशेषात् (गिजनी शहेरथी),
ARRCESCAMAR
CH
Page #458
--------------------------------------------------------------------------
________________
कुमारपालच
॥ २०४ ॥
परंतपं तस्य, प्रतापांहिमदीधितिम् ॥ विषोदुमक्षमाः केन, कौशिकंति महीश्वराः १ ॥ ४५८ ॥ आप्लावयन् सकटकॉन् | महतोऽपि महीभृतः । तदीयः प्रसरन् सैन्य-वार्धिः केन निरोत्स्यते ॥ ४५९ ॥ आस्तां तत्सादिभिः सार्धं, स्पर्धा युद्धकथाऽपि च । तत्संमुखमपि द्रष्टुं, कोऽपि नैशिष्यते भटः ॥ ४६० ॥ श्रुत्वैतां चरविज्ञप्तिं, चिंताऽऽक्रांतो मनागू नृपः । अमात्य सहितोऽभ्येत्य, वसतिं गुरुमब्रवीत् ॥ ४६१ ॥ चरैरद्य प्रभो ! प्रोक्तं, तुरुष्काधिपतिः स्वयम् । प्रस्थाय गर्जना - | दत्रा - गच्छन्नस्ति महाबली ॥ ४६२ ॥ सहिष्णुरपि तं भंक्त-मसहिष्णुरिवास्म्यहम् । वर्षारात्रे गृहान्नैव, बहिर्यामीत्य - भिग्रहात् ॥ ४६३ ॥ मयि सौधस्थिते सैन्यै— रुद्वेलां भोधिविभ्रमैः । एत्य ध्वंसेत चेद् देशं, तदाऽहं विदधामि किम् ? ॥ ४६४ ॥ एकतो नियमोऽयं मे, रिपुरायाति चान्यतः। इतस्तटमितो व्याघ्र, इति सत्यमुपस्थितम् ॥ ४६५ ॥ व्याजहार गुरुर्धर्मे, निश्छद्माऽस्ति मतिस्तव । अतस्त्वद्विषयं नाऽयं, प्रतिपंथी मथिष्यति ॥ ४६६ ॥ त्वदाराधित सर्वज्ञ - धर्म - माहात्म्य कुंभभूः । अगाधमपि चिंतान्धि, निपास्यति च निश्चितम् ॥ ४६७ ॥ इत्याश्वास्य नृपं सूरिः, पद्मासनमधिश्रितः । परमं दैवतं किंचि - दंतयतुं प्रचक्रमे ॥ ४६८ ॥ अतिक्रांते मुहूर्तेऽथ, समायतं नभोऽध्वना । पल्यंकमेकमद्राक्षीद्, दिव्यक्षौमास्तृतं नृपः ॥ ४६९ ॥ अंबरेऽसौ निरालंबो, विद्याधरविमानवत् । कथमेतीति विस्मेरः, स तं मुहुरवैक्षत ॥ ४७० ॥ गगनात् तावदुत्तीर्य, स पल्यंकः क्षणादपि । गुरोः पुरः स्थिरस्तस्थौ, सुप्तैकपुरुषाश्रितः ॥ ४७१ ॥
१ परान् शत्रून् तापयतीति परंतपः- शत्रुतापकस्तम् २ प्रतापसूर्यम् ३ समन्ताद् द्रावयन्. ४ ससैन्यान् पक्षे सपर्वतमध्यभागान् ५ राज्ञः पक्षे पर्वतानू. ६ म्लेच्छजातिविशेषः ७ वेलां - उत्क्रान्तः उद्वेलः स चासौ अंभोधिश्च तस्य विभ्रमाः-तरंगा इव विभ्रमाः येषां सैन्यानां ते तैः * नि-प्र. ८ श्रि-प्र. ९ मैतीति, प्र.
स. ९
॥ २०४ ॥
Page #459
--------------------------------------------------------------------------
________________
|पल्यंकः कोऽयमत्रायं, कः पुमाने निति वेह किम् ? । इतिप्रश्नपरं भूपं, बभाषे गुरुपुंगवः ॥ ४७२ ॥ तवोपर्यापतन् | योऽस्ति, शकाधीशो महाबली । पल्यंकशयितः सोऽयं, मयाऽऽनीतोऽत्र सैन्यतः॥४७॥ श्रुत्वा तत् संभ्रमाद् भूभृत् , यावत् तन्मुखमीक्षते । तावत् सुप्तोत्थितः सोऽपि, शकाधीशो विमृष्टवान् ॥ ४७४ ॥ व तत् स्थानं व तत् सैन्यं,* क्वाऽहं कथमिहागमम् । केऽमी मे पुरतः सर्व, किमिदं स्वप्नसंनिभम् ॥ ४७५ ॥ | अथ सूरिरभाषिष्ट, चतुर्दिक्षु क्षिपन् दृशौ । किं ध्यायसि शकाधीश!, शाखापतितकीशंवत् १ ॥४७६ ॥ एकातपत्र-16 मैश्वर्य, स्वस्य धर्मस्य च क्षितौ । कुर्वतो यस्य साहाय्यं, कुवैति त्रिदशा अपि ॥४७७॥ गृहमध्याच्च भूमध्या-दपि यो रिपुभूपतीन् । स्वशक्त्या दासवद् बद्धा, समानाययति क्षणात् ॥ ४७८ ॥ सोऽयं कुमारपालो राइ, दृप्तदर्परजोमरुत् । त्वामनानाययद् बद्धा, श्रुत्वाऽऽयांतं स्वनीवृति ॥ ४७९ ॥ शक्तिमेतादृशीमस्य, विमृश्य स्वहितेप्सया। शरण्यमेनं | शरणी-कुरुष्व शकनायक! ॥४८॥ पंचभिः कुलकम् ॥ ततोऽदभुतभयोद्वेग-चिंतालज्जादिभावभृत् । दर्पण सह |पल्यंकं, त्यक्तवान् गर्जनप्रभुः ॥ ४८१॥ विद्योद्योतमिवाध्यक्ष, हेमसूरिं प्रणम्य तम् । स चौलुक्यं नमश्चक्रे, धिग् नृणां प(पा)रवश्यताम् ॥ ४८२ ॥ उचे च हस्तावायोज्य, राजा ज्ञातं मया न ते। ईदृग् दैवतसाहाय्य-मन्यराजकदुर्लभम् ॥ ४८३ ॥ अतःपरं मया चके, यावज्जीवं त्वया सह । सत्यसंध ! ध्रुवं संधि-रत्रार्थे शपथो मम ॥ ४८४ ॥ तमवोचत चौलुक्यो, मच्छोंडीर्य द्विषतपम् । शृण्वन्नपि किमित्येवं, त्वमागच्छन्नभूर्वद ॥ ४८५॥ स माह नियमस्थस्त्वं,
१ सर्वे, प्र. २ वानरपत्. ३ कि कर्तव्यमिति चिंता. ४ राज्ञां समूहः राजकम्. ५मानाधितता-अभिमानः-पराक्रमः ६ शत्रुतापर्क.
SCIENCRORESCORECECOREX---
फु.पा.च. ३५
Page #460
--------------------------------------------------------------------------
________________
कुमारपालच०
॥२०५॥
CHUSSACRACK
न पुराद् बहिरेष्यसि । इति छलेन त्वद्देशं, भक्तुं प्रस्थितवानहम् ॥ ४८६ ॥ परं त्वं छल्यसे राजन् !, कथमीदृग्गुरी सति । मांत्रिके हि समीपस्थे, मुद्गलाः प्रभवंति न ॥ ४८७ ॥ पूर्व श्रुतोऽपि ते वीर !, विक्रमो विस्मृतोऽभवत् । विस्म|रिष्यत्यसौ जातु, न संप्रति पुनः पुनः ॥४८८॥ तुभ्यं स्वस्त्यस्तु मां देव!, प्रेषय स्वालयं प्रति । आकुला कलयिष्यति, दैन्यं सैन्या ममान्यथा ॥ ४८९ ॥ राजर्षिस्तं पुनः प्रोचे, षण्मासी स्वपुरे यदि । अमारिं कारयेस्तर्हि, त्वां विमुंचेय नाऽ. न्यथा ॥ ४९०॥ ममेदमेव सर्वस्व-मेतदेव च वांछितम् । यद् बलेन छलेनापि, प्राणत्राणं शरीरिणाम् ॥ ४९१॥ ममाज्ञाकरणं सम्यक्,सुकृतं तव चोर्जितम् । प्राणिनां प्राणरक्षा च, किममानं शुभं न हि ? ॥ ४९२॥ एतावत् त्वं प्रपद्यस्व, गृहं गंतुं यदीप्ससि । अन्यथा त्वमिह स्थाता, गुप्ताविव मदोकसि ॥ ४९३ ॥ इतो मे नान्यथा मुक्ति-रिति ध्यात्वा शकप्रभुः । चौलुक्यवचनं मेने, बलिष्ठे का विचारणा ॥४९४॥ ततः स्वसौधं तं नीत्वा, सत्कृत्य च सहस्रधा । अतिष्ठेपत् व्यहं भूपो, लोकज्ञापनकाम्यया ॥ ४९५ जीवरक्षाकृते शिक्षा, दत्त्वाऽऽप्तांस्तत्समं निजान्।आदिश्य च शकेंद्र |तं, स्वस्थान प्रापयन्नृपः॥ ४९६ ॥ तत्र गत्वा नृपाऽऽप्तास्ते, षण्मासी गर्जनांतरे । शकाधीशनिदेशेन, प्राणित्राणमचीक्लपन् ॥ ४९७ ॥ समर्ण्य प्राभृतं भूरि, हयाद्यं क्षितिपोचितम् । विसृष्टा यवनेशेन, पत्तनं ते प्रपेदिरे ॥ ४९८ ॥ तत्प्राभृतं पुरो मुक्त्वा, ते नियुक्ताः स्वनायकम् । भृशमानंदयामासु-रमारिकरणोक्तिभिः॥४९९ ॥ अथ स्वयं स राजर्षि रित्यभिग्रहमादधे। यादृशस्तादृशो वाऽपि, वंद्यो जैनमुनिर्मया ॥५००॥ अपरेयुः ससैन्योऽपि, १ असौ विक्रमः. २ संप्रतितनः, प्र. ३ वाञ्छसीत्यर्थः. ४ अतिष्ठिपत्,-प्र. ५ जिनमुनिः, प्र.
६॥ तत्र गत्वा
चितम् । विसृष्टा म
भिः ॥ ४९९ ॥
२०५॥
यः ससैन्यो
Page #461
--------------------------------------------------------------------------
________________
श्रीपथं सोऽतिहस्तयन् । नागवल्लीदलव्यग्र-करं चंचदुपानहम् ॥ ५०१॥पण्यस्त्रीस्कंधविन्यस्त-हस्तं मन्मथविभ्रमैः।। दुश्चेष्टमानं विटव-मुनि कंचिन् निरक्षत ॥५०२॥ युग्मम् ॥ दृष्ट्वाऽपि तं तथा भ्रष्टं, नृपः श्रेणिकभूपवत् । कुंभिकुंभस्थलन्यस्त-मस्तकः प्राणमन्मुदा ॥ ५०३ ॥ दध्यौ च न मुनेरस्य, मनागप्यस्ति दूषणम् । निर्माप्यते कुकर्मोच्चैर्यद् धर्मज्ञोऽपि कर्मभिः॥५०४॥ कर्हिचिज्जायते जीवो, बली कर्म च कहिंचित् । अत एवानयो?षः, शाश्वतोऽस्ति महान् मिथः ॥ ५०५॥ तस्यावकीणिनः साधु-प्रष्ठस्येवाऽऽनतं नृपम् । दृष्ट्वा जहास नड्डूल-नृपतिः पृष्ठतः स्थितः॥५०६॥ तं वीक्ष्य वाग्भटामात्यो, लजितो व्यथितोऽपि च । श्रीहेमचंद्राचार्याय, तत्स्वरूपं न्यवेदयत् ॥ ५०७॥ नमस्याहाऽनमस्याह-विचारज्ञापनाकृते । उपादिशत् ततः सूरि-चौलुक्यपृथिवीभुजे ॥५०८॥ ज्ञानदर्शनसंपन्नो, निष्कपायो जितें|द्रियः। सामायिकपरः साधु-वन्दनीयः सतां मतः॥ ५०९ ॥ एते पुनरवंद्याः स्युः, पार्श्वस्थश्चावषण्णकः । तथा कुशीलसंसक्त-यथाछंदाः श्रुतोदिताः॥५१०॥ पार्श्वस्थः सर्वदेशाभ्यां द्विविधस्तत्र सर्वतः । सज्ज्ञानदर्शनादीनां, पार्वे तिष्ठन्निवेदितः॥५११॥ शय्यातराद्युपजीवी, पार्श्वस्थो देशतः स्मृतः। द्विधा स्यादवषण्णोऽपि, सर्वदेशप्रभेदतः॥५१२॥ तत्राद्यो बहुशय्यादि-ग्राही स्थापितभोज्यपि । परस्त्वावश्यकादीनां, न्यूनाधिक्यादिकारकः॥ ५१३ ॥ कुशीलस्त्रि-18 |विधो ज्ञाने, दर्शने चरणेऽपि च । तत्र ज्ञानकुशीलः स्या-दकालेऽध्ययनादिकृत् ॥ ५१४॥ सद्दर्शनकुशील: स्या|च्छंकाद्यासेवनापरः । व्रतकुशीलो निमित्त-भूतिकर्मादियोजकः ॥ ५१५ ॥ पंचाश्रवपरः प्रौढ-गौरवत्रयगर्षितः।।
१ हस्तिनाऽतिकामयन्. २ कामचेष्टाभिः. ३ क्षतव्रतस्य. ४ साधुपुंगवस्येव. ५ अनमस्यनमस्याई, प्र. ६ संमतः. ७ द्रव्यप्राप्युपायदर्शनादि.
RECAUSAGACASSAARECHARSA
Page #462
--------------------------------------------------------------------------
________________
-
कुमारपालच०
॥२०६॥
योषिद्नेहादिसंक्लिष्टः, संसक्तः प्रणिगद्यते ॥५१६ ॥ उत्सूत्रमाचरल लोके, दिशत्युत्सूत्रमेव यः। यथाछंदः स विज्ञेयः, स्वच्छंदविहितस्थितिः ॥ ५१७ ॥ अमीषां वंदनाद् देव !, न कीर्तिर्नापि निर्जरा । कायक्लेशस्तथा कर्म-बंधः प्रत्युत वल्गतः ॥ ५१८ ॥ श्रुत्वा तद् ध्यातवान् भूमान् , मम तन्मुनिवंदनम् । नूनं न्यवेदयत् कोऽपि, व्याचष्टे यदिदं प्रभुः ॥५१९ ॥ ततः स्मित्वा जगादासौ, सम्यगरम्यद्य शिक्षितः । अतः परं विधास्यामि, भवदुक्तमिदं सदा ॥ ५२०॥ । अथ भूपनमस्काराद्, यतिपांशः स लज्जितः। एवं ध्यातुं समारेभे,भव्यात्मकतया हृदि ॥५२॥ घिग् मामधममूर्धन्यं, यो लब्ध्वाऽप्यतिदुर्लभम् । व्रतचिंतामणिं मोहात्, प्रमादाब्धौ न्यमज्जयम् ॥ ५२२ ॥ सतोऽपि प्रैथमे भोगान् , विमुच्य । व्रतमादधुः । अहं पुनव्रतस्थोऽपि, स्पृहयाम्यसतोऽपि तान् ॥ ५२३ ॥ स वरं शक्तिहीनत्वाद् यो नांगीकुरुते व्रतम् । तदूरीकृत्य मुंचंस्तु, न स्तुतेर्भाजनं जनः ॥ ५२४ ॥ धन्योऽयं भूधवो येन, नतोऽहमकीर्ण्यपि । अहं पुनरधन्यो यो, वंदये तादृशं नृपम् ॥ ५२५ ॥ यः स्वयं स्खलिताचारः, सदाचारान् प्रणामयेत् । तस्य स्वात्माऽनभिज्ञस्य, नरकेऽपि गतिन हि ॥ ५२६ ॥ ततः सर्व परित्यज्य, तत् किंचिद् विदधेऽधुना। येनाहं सोऽपि राजर्षि नैव लज्जावहे कचित् |॥५२७॥ सप्तभिः कुलकम् ॥अथ बंधनवत् त्यक्त्वा, धनाद्यं स महाशयः। गुरोरालोचनापूर्व, पुनर्वतमशिश्रियत्॥५२८॥ |विनाऽनशननीरेण, पापतापमहापदः । संशमिष्यति मे नेति, स तदैव तदादधे ॥ ५२९ ॥ दुस्त्यजोऽपि महामोहः, सुत्य-IPREE जस्त्यागतोऽनयोः । इतीव साधुरत्याक्षीद रागद्वेषौ शुभद्विषौ ॥ ५३०॥ भवदावाग्निदग्धस्य, शांतिर्जीवस्य जायते ।
१ निंद्यो यतिः यति'पाशः. २ पूर्वमुनयः. ३ व्रतं खीकृत्य. ४ धस्तव्रतोऽपि. ५ रागद्वेषयोः.
SCRECACANC+KR
Page #463
--------------------------------------------------------------------------
________________
६ अनेनेति मुनिर्मत्वा, स पपौ समतामृतम् ॥ ५३१ ॥ तस्य प्रत्यहमभ्येत्य, नानापाटकवासिनः । चक्रिरे पत्तनजना, भाव
नाभिः प्रभावनाः॥५३२॥ तं निशम्यानशनिनं, राजर्षिरपि हर्षतः । प्रभावनार्थ तत्रागात्, पुण्यांशं को हि नेप्सति ? ॥५३३ ॥ गुरुं नत्वा मुनींद्रं तं, यावन्नमति भूपतिः। नमस्कारानिषिध्यैव, स तावत् तमभाषत ॥ ५३४ ॥ देव ! त्वं मे गुरुः साक्षा-दसि त्वां वंदये कथम् ? । यतोऽस्मि त्वन्नतेर्बुद्धो, व्रतानशनभागहम् ॥ ५३५ ॥ तदा तादृगवस्थोऽपि, न वन्द्येय यदि त्वया । तदा शिवंकरे स्यातां, क व्रतानशने मम ॥५३६ ॥ मजतो मे भवांभोधौ, नमस्कारस्तवाभवत् । करावलंबनकरो, महापोत इव स्वयम् ॥ ५३७ ॥ असौ भवत्प्रसादो मे, सर्वोऽप्यस्ति पचेलिमः। प्रभावनां वितन्वंति, यदमी धार्मिका मुदा ॥ ५३८ ॥ ज्ञात्वा राज्ञाऽपि स प्रोचे, भवान् भध्याशयो भृशम् । अत एव नमस्कार-मात्राद् द्रागप्यबुध्यत ॥ ५३९ ॥ अभव्यास्तु स्वयं विश्व-विदाऽपि प्रतिबोधिताः। न कहिंचित् प्रबुध्यते, स्थूलोपलमया इव ॥५४०॥ सुखासुखातिवद् धर्मा-धर्माप्तावपि देहिनाम् । हेतुर्भवेत् स्वकर्मैव, परः सान्निध्यमात्रकृत् ॥ ५४१॥ त्वमे वास्यधुना धन्यो, येनेदृग् दुष्करं कृतम् । सुखमल्पमपि त्यक्त्वा, कश्चरेद् दुश्चरं यतः॥ ५४२ ॥ पंकमग्नो यथा दंती, कश्चिदेव स्वमुद्धरेत्। मोहमग्नस्तथा देही, कोऽपि भ्रष्टं व्रतं खलु ॥५४३ ॥ भूयास्त्वं सुकृते स्थेया-ननुभूयाः परं महः। प्रभूया भवनिर्भदे, विभूयाः शिवशर्मणि ॥ ५४४ ॥ इति स्तुत्वा बलान्नत्वा, तं मुनींद्रं महीपतिः । चक्रे प्रभावनां पुण्य
REACOCALSACCESCAMERA
१ समतामृतेन. २ मुनेः. ३ उन्नतीः. ४ न आतुमिच्छति ? ५ वन्देय, प्र. ६ समर्थो भव. ७ व्याप्तो भव..
Page #464
--------------------------------------------------------------------------
________________
कुमारपालच०
काननामृतसारणिम् ॥५४५॥ शुभध्यानसमीरेण, विरजीभूतमानसः। कतिमिदिवसैः स्वर्ग, श्रितः सोऽनशनी मुनिः॥५४६॥ शत्रुजयाद्युत्तमतीर्थयात्रा-सिद्धांतसारश्रवणादिकृत्यैः । एवं शुभश्रीसुभगंभविष्णून, घनान् स चौलुक्यनृपस्ततान है (इन्द्रवज्रा)॥५४७॥
॥२०७॥
ASANSAR
इति श्रीकृष्णर्षीयश्रीजयसिंहसूरिविरचिते परमाहतश्रीकुमारपालभूपालचरित्रे महाकाव्ये देवाधिदेवप्रतिमाऽऽनयनतीर्थयात्रादिवर्णनो नाम नवमः सर्गः
नवानां सर्गाणां मिलने ग्रंथानं ५७७७
SCHACHOSSOS%*
॥२०७॥
१ पुण्यधिया प्रियं भवनशीलान्, २ घनान्-दिवसान्. ३ विस्तारयामास-निर्गमयामास.
Page #465
--------------------------------------------------------------------------
________________
अथ दशमः सर्गः ॥ नृपः कुमारपालोऽथ, प्रश्नयामास तं गुरुम् । कोऽहं पूर्वभवेऽभूवं ?, भविता कश्च भाविनि ? ॥१॥ सिद्धराजः कुतो टू मह्यं, प्रसह्य द्रुह्यति स्म च । कस्मादुदयनामात्यो, यूयं च मयि वत्सलाः ? ॥२॥ न हि प्राग्जन्मसंबंध, विना कस्यापि कुत्रचित् । वैरं च सौहृदय्यं च, स्यातामात्यंतिके ध्रुवम् ॥३॥ कथ्यतां तथ्यमेतन्मे, ज्ञात्वा ज्ञानेन केनचित् । प्रभु विना न कोऽप्यन्यः, संदेहं भक्तुमीश्वरः॥४॥ स व्याजहार नेदानी, ज्ञानं यद्यपि किंचन । तथापि देव्याद्यादेशात् , सर्व ते कथयिष्यते ॥ ५॥ ततो विसृज्य भूजानि, गत्वा सिद्धपुरं च तत् । सरस्वतीसरित्तीरं, पवित्रं सूरिराश्रयत् ॥६॥ तत्र मंत्रमयस्नान-पवित्रीकृतविग्रहः । ध्यानोदारः स सस्मार, सूरिमंत्रं दिनत्रयम् ॥७॥ ततस्तस्याद्यपीठाधि-ष्ठात्री स्फूर्ति-18 |रिवांगिनी । देवी त्रिभुवनस्वामि-न्याविरासीत् तदग्रतः ॥८॥ ध्याताऽस्मि केन कार्येण, शंस सूर्यवतंस! मे ? । देव्यै
वमुदितः कामं, मुदितः स जगाद ताम् ॥ ९॥ देवि ! दिव्येन नेत्रेण, सम्यग् विज्ञाय मां वद । चौलुक्यभूपतेर्भूतान् । |भाविनोऽप्यखिलान् भवान् ॥ १०॥ हस्तस्थमुक्ताफलवत् , कलयंती किलाखिलम् । सूरिपृष्टं तदावे, सा देवी स्वपदं
ययौ ॥ ११॥ प्रातः स्वस्थानमागत्य, गुरुर्विहितपारणः। वक्तुं प्रचक्रमे पूर्व-भववृत्तं नृपाग्रतः॥१२॥ | देशे श्रीमेदपाटाख्ये, क्वचिदभ्रंकशे गिरौ । परमारान्वयी जज्ञे, पल्लीशो जयताह्वयः ॥ १३ ॥ द्विषतां रणकंडूतिचंडदोर्दडशालिनाम् । दर्पज्वरं शमयितुं, यद्भुजोऽभेषजायत ॥१४॥ भंजं भंजं परग्रामान , स चक्रे वीरकुंजरः । निज
* मंत्रत्रयस्नानपूर्व, प्र. १ सूरिमंत्रस्य. २ आद्या-प्रधाना सूरिमंत्रपीठपंचकाधिष्टायिनी देवी. ३ विकाशः-प्रभावः ४ कथयित्वा. ५ तिम् , प्र.
स्वामि-न्याविरासी समार, सूरिम दिनववीसरित्तीरं, पवित्रा देल्या
Page #466
--------------------------------------------------------------------------
________________
सर्ग. १०
कुमारपालच.
॥२०८॥
ACCORECASCORECAUGHLOCALOG
मैश्वर्यमूर्जस्वि, किं शौर्येण हि दुष्करम् ? ॥१५॥ अन्येधुर्धनदत्ताख्यः, सार्थवाहो महार्थभृत् । स्वपल्ली समया गच्छन्मार्गे तेन व्यलोवयत ॥ १६ ॥ तस्मिन्निपत्य सार्थेऽसौ, लुंटाकः स्वभटैः सह । जग्राह सकलं सार्थ-पतिस्तु क्वापि नेशिवान् ॥ १७ ॥ ततः सर्वस्वनाशेन, निराकाराग्निनापि च । दंदह्यमानहृदयो, धनदत्तो विमृष्टवान् ॥ १८॥ वृतो मलिम्लुचैः क्रूरैः, पिशाचैरिव राक्षसः। उन्मदिष्णुरयं लोका-नुपदोद्यते कथम् ॥ १९ ॥ इदानीं चेत् प्रतीकारं, न विधास्येऽस्य दुर्धियः। पौनःपुन्येन मे सार्थ, ग्रहीष्यति तदैषकः॥ २०॥ ततोऽन्यदपि कोशस्थं, व्ययीकृत्य स्वकांच|नम् । एनमुन्मूलयिष्यामि, नृपसैन्येन कंदवत् ॥ २१॥ है। अथ प्राभृतमादाय, महीयः सार्थनायकः। दृष्ट्वा च मालवाधीशं, तत्पराभवमूचिवान् ॥ २२ ॥ बभाषे मालवेंद्रस्तं,
त्वं निजाश्रयमाश्रय । तं पल्लीतः समुन्मूल्य, प्रहेष्यामि धनं तव ॥२३॥ धनदत्तः पुनःप्रोचे, नार्थो मेऽर्थेन पार्थिव। प्रतिज्ञातं मया किंतु, तदुन्मूलनमात्मना ॥ २४ ॥ तद् देहि निजसैन्यं मे, पूरयामि यथेप्सितम् । वैरनिर्यातनेनाऽस्तु, सुखं भवदनुग्रहात् ॥ २५ ॥ तद्वाक्यमुररीकृत्य, प्रसन्नोऽवंतिनायकः । तस्य व्यश्राणयद् दृप्तं, सेनान्यं सैन्यसंगतम् ॥ २६ ॥ धनदत्तः पुरस्कृत्य, तत्सैन्यमुपगम्य च । रुरोध परितः पल्ली, वल्लीमिव मतंगजः ॥ २७ ॥ दैत्यसैन्यमिवामृश्य, तत्सैन्यमतिदुर्धरम् । सांयुगीनोऽप्यदीनोऽपि, जयताकः पलायत ॥ २८ ॥ योधान् युद्धोद्धतान् हत्वा, पल्ली प्रज्वाल्य चाखिलाम् । नश्यंती पल्लीराट्पत्नी-मंतर्वनीं दधार सः॥२९॥ स्वकरेणोदरं तस्या, दारयित्वा च दारु* मैश्वर्य साम्राज्यम्. प्र. १ पालीशेन. २ सु-प्र. ३ तिरस्काररूपाग्निना. ४ भृशं दह्यमानहृदयः. ५ वैरप्रतीकारेण. ६ भवदुपकारेण-भवत्साहाय्यात्, ७ यितः प्र.
॥२०८॥
Page #467
--------------------------------------------------------------------------
________________
वत् । बालमास्फालयामास, शिलायां निष्कृपाशयः ॥ ३० ॥ ततः स्वश्रियमादाय, सकलां सकलांतराम् । धनदत्तः कृतार्थः स- न्नपश्यन्मालवाधिपम् ॥ ३१ ॥ कुकृत्यमिव तत्कृत्यं श्रुत्वा तत् कुपितः स राट् । विकटभृकुटीकोटि - स्पृष्टभालतमालपत् ॥ ३२ ॥ त्वं वाणिजोऽपि जात्या रे, कर्मणाऽसि जनंगमः । निर्घृणो यत् स्वहस्तेन, स्त्रियं बालं च जघ्निवान् ॥ ३३ ॥ अथैतत् कर्म निर्माति, चांडालोऽपि न कर्हिचित् । यत् त्वया निर्मितं रेरे, लोकद्वयविरोधकम् ॥ ३४॥ अद्रष्टव्यमुखस्तस्माद् दूरीभव मदग्रतः । पाप ! त्वद्दर्शनेनापि, लिप्येऽहं पातकैर्हहा ॥ ३५ ॥ इत्थं निर्भर्त्य सर्वस्वं, तस्यो - हॉल्य च भूपतिः । तं निर्वासितवांस्तीत्रं, पापं हि द्राक् फलेग्रहि ॥ ३६ ॥ तेन नार्थनिकारेण - भृशं म्लास्नुः स सार्थ - राट् । विपिने तापसीभूय, तपस्तेपेऽतिदुस्तपम् ॥ ३७ ॥ स मृत्वा तपसा तेन, जयसिंह इति श्रुतः । गूर्जराधिपतिर्जज्ञे, मंडिताखंडलद्युतिः ॥ ३८ ॥
इतश्च क्वाप्यरण्यान्यां, निःशरण्यस्य नश्यतः । संजग्मे जयताकस्य, श्रीयशोभद्रसूरिराट् ॥ ३९ ॥ भाविभद्वैतया भक्ति - नम्रं सूरिर्जगाद तम् । किं न्यर्धृतोऽसि केनापि, यद् दीन इव दृश्यसे १ ॥ ४० ॥ सोऽपि चैर्येण सार्थेशात्, पराभवपदं निजम् । निगद्य शंबलं किंचि - दयाचीत् सूरिकुञ्जरम् ॥ ४१ ॥ ततो गुरुर्बभाषे तं, त्वं श्रितोऽपि परां
१ कलान्तरेण ( व्याज ) सहिताम्. २ निर्घणः, प्र, निष्कृपः ३ चं, प्र. ४ लुंटयित्वा ५ फलं कर्मण आधारविवक्षया फले गृहाति धारयति खीकरोति | वेति अलुक् समासः शीघ्रफ स्वीकारि. ६ राजतिरस्कारेण ७ भूषितेन्द्रद्युतिः ८ पूर्ववर्णितो यशोभद्रसूरिः पूर्णतलागच्छीयः ( चंद्रगच्छीयोऽत्रोतः ) अयं तु खंडेरगच्छनायकः इति राजशेखरसूरिरचित चतुर्विंशतिप्रबंधे. ९ भावि - भविष्यत् भद्रं यस्य तद्भावस्तया. १० तिरस्कृतः
Page #468
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ २०९ ॥
श्रियम् । चौर्य मुधा व्यधाः कस्माद्, येनास्येवं विडंबितः ॥ ४२ ॥ निःस्वस्यापि न यत् कर्तु न्याय्यं राज्याधिपोऽपि सन् । तत् त्वं चौर्य वितन्वानः, स्थाने तेनाभ्यभूयथाः ॥ ४३ ॥ स्थानभ्रंशं कुलध्वंसं निःशेषविभवक्षयम् । तत्कालं कलयन् स्तेयात्, कः सुधीर्विदधीत तत् ? ॥ ४४ ॥ वरमाजन्म दारिद्र्यं वरं दास्यं परौकसि । न तु प्राणहरस्तेय - संभवो विभवो महान् ॥ ४५ ॥ यावज्जीवं ततश्चौर्य, वर्जयित्वाऽऽर्यतर्जितम् । यशस्यं कर्म निर्माहि, निर्मायः सन् महाशय ! ॥ ४६ ॥ गुरुवाक्येन तेनोरु- प्रदीपेनेव तत्क्षणम् । स परिज्ञातसन्मार्ग-स्तंममार्गममुंचत ॥४७॥ सूरिणा भूरिवा - त्सल्यात्, श्राद्धेभ्योऽर्पितशंबलः । जयताको ययौ भ्राम्यन्, पुरीमेकशिलाह्वयाम् ॥ ४८ ॥ प्रौढश्रीरोढैरस्तत्र, वणिगासन्निधिः श्रियाम् । कर्मकारतय तस्य, गेहे दुःस्थः स तस्थिवान् ॥४९॥ क्रमेण सोऽपि सूरींद्रो यशोभद्रोऽतिभद्रकृत् । विहरन्नागतस्तत्र, जयताकस्य संगतः ॥ ५०॥ हितोपदेशं दुःस्थत्वे, तच्च पाथेयदापनम् । स्मरन् कृतज्ञमानी स, शुश्रूषामास तं गुरुम् ॥ ५१ ॥ पृष्टवानोढरोऽन्येद्यु-स्तं भृत्यं जयताह्वयम् । अद्य कल्ये दिनं सर्वं भवान् कुत्रावतिष्ठते १ ॥ ५२ ॥ स जगाद ममात्रास्ति, यशोभद्राभिधो गुरुः । तन्नेदिष्ठोऽवतिष्ठेऽहं पिबंस्तद्वचनामृतम् ॥ ५३ ॥
ओढरोऽथ समुत्पन्न - गुरुदर्शनवासनः । तं विवेकं च कृत्वाऽग्रे, ववंदे सूरिपुंगवम् ॥ ५४ ॥ तस्य भद्रकतां दृष्ट्वा, गुरुर्विश्वैकवत्सलः । किंचिदार्हतधर्मस्य, स्वरूपमुपदिष्टवान् ॥ ५५ ॥ शय्योत्थायं समागत्य शृण्वतौ तौ गुरुदितम् । शुद्धया श्रद्धया श्राद्ध - धर्मं जगृहतुस्ततः ॥ ५६ ॥ ओढरो मुदितोऽवोचत् प्रभो ! मे त्वदनुग्रहात् । बभूव जिनध १ स्तेन०. प्र. २ तिलंगदेशस्थं तुरंगलनामकं नगरम् . ३ ओढर इतिनामा. ४ बिना वेतनेन स्वल्पवेतनेन भोजनमात्रेण वा गृहकार्य कारकतया. ५ मृत्यं जयताकम्
सर्ग. १०
॥ २०९ ॥
Page #469
--------------------------------------------------------------------------
________________
ESSAGARLS
माप्तिः, कां ददे गुरुदक्षिणाम् ? ॥५७॥ महाऋषिस्तमाचष्ट, निःसंग दर्शनं हि नः । अतो ब्राह्मणवन्नव, स्वीकुर्वे दक्षिणामहम् ॥ ५८॥ कुर्वे तथाऽपि कां भक्ति-मिति जल्पंतमोढरम् । आदिदेश गुरुस्तर्हि, चैत्यं चारु विधापय ॥ ५९॥ ततः स सुकृती श्रीम-द्वीरचैत्यमचीकरत् । व्योमगंगायितोद्दाम-पताकास्थगितांबरम् ॥ ६०॥ हस्तेन श्रीयशोभद्रसुरेरीकृतांहसा । तत् प्रतिष्ठापयामास, वितत्य च महामहम् ॥ ६१॥ प्रतिष्ठासुरपि स्थानान्तरं तत्रैव सूरिराट् । ओढराभ्यर्थितोऽत्यर्थ, वर्षा रात्रमवास्थित ॥ ६२॥ तदा मेघश्च सूरिश्च, गर्जन्तौ मधुरध्वनि । क्षेत्रेषु भूरिभाग्यानां, पुण्यांकुरान वितेनतुः॥ ६३ ॥ गुरौ घने च धारालं, सद्धर्मामृतमुज्झति । अंतर्बहिश्च पंकौघं, क्षालयंति स्म केचन॥६४॥ प्राप्तेपर्युषणापर्व-ण्योढरेण सहार्चयत् । जयताको जिनं पंच-वराटकमणीवकैः॥६५॥ उपोष्य तद्दिने धर्मकर्मकर्मठैमानसः। प्रतिलाभ्य च भत्त्याऽन्नं, मुनीन् सोऽपारयत् ततः॥६६॥ ओढरः स विपद्यांते, बभूवोदयनाह्वयः। मंत्रिराजः पुरोपात्त-पुण्यप्रारंभारभासुरः॥ ६७॥ कालधर्ममुपागत्य, जयताकः स जातवान् । कुमारपालनामा त्वं, राजन् ! गूर्जरनायकः॥६८॥ यशोभद्रप्रभुरपि, प्रमीतः स्फीतपुण्यतः। हेमचंद्राभिधानोऽहं, बभूवांस्तावको गुरुः॥६९॥ प्राग्वैरात् सार्थवाहस्य, जीवः सिद्धमहीपतिः। जिघांसोमास कामं त्वां, वैरं न हि चिरंतनम् ॥७० ॥ अमात्योदयनोऽहं च, प्राग्भवस्नेहमोहितौ । त्वयि स्निग्धतमावास्व, स्नेहोऽपि हि भवानुगः ॥ ७१ ॥ दिनानि कतिचित् पूर्व, यच्चौर्यादिर
१ मत-साधुधर्मः. २ विस्तार्य. ३ प्रस्थातुमिच्छुरपि. ४ यथास्यात्तथा. ५ निम्, प्र. ६ शरीरेषु. ७ मणीवकैः-पुष्पैः. ८ कुशल०. ९ समूह ०. १० दत्तसूरे:शिष्यादन्योऽयमाचार्यः यशोभद्रः. ११ मृतः, १२ हेतुमियेष. १३ जीर्ण न भवति. १४ अस्धातोः लङ्.
G*XXIGOGOSTEGGE
Page #470
--------------------------------------------------------------------------
________________
कुमारपाव
SISAKS S
॥२१
॥
तोऽभवः। तत्पापेन तव क्लेशः, कियत्कालमभूदिह ॥७२॥ यच्च पूजितवान् पंच-वराटकुसुमैर्जिनम् । यतिभ्यो ज्यायसीभक्ति-दर्दानं त्वं यच्च दत्तवान् ॥ ७३ ॥ सुकृतैस्तत्समुत्पन्न-निधानैरिव संपदाम् । अजनिष्ठा महिष्ठश्री-स्त्वं राजा परमार्हतः॥७४॥व तावती जिनेंद्रार्चा, मुनिदानं सकृत् व तत् । क्व चेदृशं तवैश्वर्य-महो महिम धर्मजम् ॥७५॥ उक्तः पूर्वभवस्तेऽसौ, प्रतीतिश्चेन्न मदिरा । प्रहित्यकशिलापुर्या, त्वदाप्तेनानुयोज्यताम् ॥ ७६ ॥ वेश्मन्योढरपुत्राणां, स्थिरदेवीति काचन । वृद्धा दास्यस्ति सा सर्व-मिदं वक्ष्यति मूलतः ॥ ७ ॥
इतैश्च परिपूर्याऽऽयुः, प्रांते पंडितमृत्युना । त्वं गतौ व्यंतरीयायां, राजन् !, भावी सुरोत्तमः॥ ७८ ॥ श्रेयस्कामी से तत्रापि, वृंदारकपरिष्कृतः। भ्रम भ्रमं महीपीठे, नित्य चैत्यानि नस्यति ॥७९॥ नंदीश्वरादिद्वीपेषु, स्पष्टमष्टाहिकोत्सवम् ।। स करिष्यति भावेन, सौधर्मसुरनाथवत् ॥ ८०॥ क्षेत्रे महाविदेहादौ, नाम नाम स सन्मुनीन् । पास्यति श्रोत्रपेयं त|देशनारसमाहतः॥८१॥ अनेकाभिरिव श्रीर्भि-रमरीभिः परिष्कृतः। विलसिष्यति च स्वैरं, नंदनादिवनांतरे ॥२॥ व्यंतरेंद्रस्ततश्युत्वा, क्षेत्रेऽस्मिन्नेव भारते । श्रीभदिलपुरे राज्ञः, शतानंदस्य मंदिरे ॥ ८३ ॥ धारिणीकुक्षिसंभूतः, प्रभूततरवैभवः । भविष्यति तनूजन्मा, ख्यातः शतबलाख्यया ॥८४ ॥ युग्मम् ॥ स्थित्वोपविदुषं शश्वत्, कलास्वविकलास्वसौ । छेकिलो भविताऽत्यर्थ, शैशवेऽपि सुरेज्यवत् ॥ ८५॥ वृषस्यंतीरपि पर-प्रमदाः परिवर्जयन् । सुश्राद्धवद्
१ लुङि थासि रूपं. २ आपृच्छयताम्, ३ आराध्य सम्यग जिनधर्ममत्र, धर्मोन्नति भूरितरां विधाय । विषप्रयोगात् समवाप्य मृत्यु, खर्धाम याताऽसि समाधिलीनः॥ | चारित्रसु. ४ सुरोत्तमः, ५ देवेरलंकृता. ६ शाश्वत०.७ श्रीभी-रमणीभिः प्र०.८ निपुणः. ९ वृहस्पतिवत्.
॥२१०॥
AUSAIGHSG
Page #471
--------------------------------------------------------------------------
________________
कु.पा. १६
युवत्वेऽपि स शीलं शीलयिष्यति ॥ ८६ ॥ ततः शतबलो राज्यं, लब्ध्वा शिक्षां विनाऽपि हि । प्राच्यकारुण्ययोगेन, न हिंसाद्यं तनिष्यति ॥ ८७ ॥ अगेहेनर्दिभिः सैन्यै - श्चाक्षुषैरिव विक्रमैः । लीलयैव स भूपीठं, चक्रवतींव जेष्यति ॥ ८८ ॥
तदा च निरयादाद्या - च्छ्रेणिकात्मा विनिर्गतः । जिनेंद्रः पद्मनाभाख्यो, भविताऽत्रैव भारते ॥ ८९ ॥ स प्रव्रज्य तपःक्षीण - कर्मा संजात केवलः । सेवितः साधुकोटीरें - दनशौंड इवार्थिभिः ॥ ९० ॥ विहरन् पृथिवीपीठे, श्रीभहिलपुरेSम्यदा । आगमिष्यति पुण्येन, कल्पदुरिव जंगमः ॥ ९१ ॥ युग्मम् ॥ सज्जनो धार्मिकस्येव, श्रुत्वा तस्यागमं जनात् । हर्षुल श्रीशतबल - स्तमुपेत्य प्रणस्यति ॥ ९२ ॥ निपास्यति च संसार - तापतप्त इवोच्चकैः । विश्वातिशायिमाधुर्य, भगदेशनामृतम् ॥ ९३ ॥ प्रबुद्धः स ततो राज्यं, संक्रमय्य तनूरुहे । जिनाद् ग्रहीष्यते दीक्षां, पुण्यश्रीसहचारिणीम् ॥९४॥ एकादशी गणधरः, स भूत्वा द्वादशांगवित् । तपोभिर्बहुभिः क्षिष्ठ-कर्मा केवलमाप्स्यति ॥ ९५ ॥ प्रबोध्य पद्मवद् बिश्वं, केवलज्ञानभानुना । महाशयः शतबलो, भाषी मुक्तिरमावरः ॥ ९६ ॥ एवं राजन् ! भवादस्मात्, ताँतियीके भवे तव । जिनधर्मप्रभावेण मुक्तिश्रीर्भविता ध्रुवम् ॥ ९७ ॥ इति श्रीसूरिमंत्राषि- ष्ठातृदेवी गिरा मया । कथयामासिरे सम्यग् भवास्ते भूतभाविनः ॥ ९८ ॥ आसन्नसिद्धिश्रवणात्, तल्लाभादिव निर्वृतः । अथ विज्ञपयामास, प्रांजलिर्गुर्ज
१ शब्दकारकैः २ कोटिरैः, प्र. ३ शतबलः ४ तृतीये - इत्यर्थः ५ वयमपि चिरकालं संयमं पालयित्वा खनशनविधिना च प्राप्य मृत्युं सुखेन । निखिलसुखमनोशं देवलोकं तुरीयं निहतसकलशोकं संगमिष्याम आर्य ! ॥ भरतभुवि नरत्वं प्राप्य भूयोऽपि भव्यं कृतसुकृतमनस्कौ त्यक्तभोगाभिलाषौ । चरमवयसि शुद्धं संयमं पालयित्वा शिवपदमपसादं भूप । यास्याव भवाम् ॥ इति श्रीचारित्रसुन्दरगणयः ॥ ६ सुस्थः सुखी.
Page #472
--------------------------------------------------------------------------
________________
कुमारपालच०
वन्न व्यभिचारिष्य, यद्यादिशा १०३ ॥ स गत्ववयमोढरकारित
सर्ग. १०
॥२१
॥
CACASSASAESCALCOM
रप्रभुः॥ ९९ ॥ ज्ञानंगिले कलावस्मिन् , सर्वज्ञ इव संप्रति । अतीतानागतं ब्रूते, कः पूज्यादपो ननु? ॥१०॥ यथा भागवती भाषा, भवेन्न व्यभिचारिणी । प्रोभव्यपि तथैवेयं, तेद्ध्यानातिशयादिव ॥ १०१॥ परं कौतुकमात्रेण, दासी तां प्रच्छयाम्यहम् । आप्तमेकशिलां प्रेष्य, यद्यादिशति मां प्रभुः॥१०२॥ विशिष्य पृच्छ्यतामेवं, जल्पिते गुरुणा नृपः। प्रैषीदाप्तजनं तत्र, कौतुकी नालसः क्वचित् ॥१०३ ॥ स गत्वैकशिलास्थान-मोढरांगजसद्मनि । तां दासी स्थिरदेव्याख्यां, पृष्ट्वा तवृत्तमादितः॥१०४ ॥ दृष्ट्वा श्रीवीरचैत्यं च, स्वयमोढरकारितम् । आगत्य च महीभत्रे, जगौ सर्व यथास्थितम्॥१०५॥युग्मम् ॥ प्रतीतोऽथ नृपः संघ-प्रत्यक्षं गुरवे मुदा । विरुदं कलिकालश्री-सर्वज्ञ इति दत्तवान्॥१०॥
अथ वार्धकमालोक्य, चौलुक्यः पृथिवीपतिः। स्थित्वा रहसं रात्री, गुरुं प्रत्येवमूचिवान् ॥ १०७॥ सत्यपि त्वादृशे सर्व विद्यांभोधी गुरौ मम । फलं गार्हस्थ्यवृक्षस्य, नाभाग्यैस्तनयोऽजनि ॥ १०८॥ दिने दिने जरा चैपा, जनयंती कृशांगताम् । ओजायते समं राज्य लक्ष्मीदानाहचिंतया ॥ १०९॥राज्यसूत्रमतः किंचि-दासूत्र्य भगवन्नहम् । हंसायितुमभीप्सामि, समतामृतवारिधौ ॥ ११०॥ ददाम्यजयपालाय, स्वराज्यं भ्रातृसूनवे ? । उत प्रतापमल्लाय, दौहित्राय ? निवेद्यताम् ॥१११॥ विमृश्य सूरिणाऽभाणि, भ्रातृव्यस्ते दुराशयः। अतो राज्ये न योग्योऽसौ, दासेय इव सर्वथा ॥ ११२ ॥ किंचैश्वर्यमवाप्तोऽयं, मत्तेभ इव भक्ष्यति । वैरायमाण इव ते, धर्मस्थानावली वनीम् ॥११३ ॥ अयं प्रतापमल्लस्तु, न तथा दुष्टधीरिति । अस्मै स्ववैभवं दत्तं, परिणामे हितावहम् ॥ ११४ ॥ न्यस्यते श्रीगुणिन्येव, न संबं
१ प्राग्भव्यपि, प्र. २ भगवद्ध्यान०.३ वार्द्धक्यं-वृद्धत्वमित्यर्थः ४ तु, प्र. ५ धर्मस्य प्रबंधे. ६ राज्यव्यवस्थाम.
Page #473
--------------------------------------------------------------------------
________________
खे, दीपे न्यास्थत् प्रकाशित दवायें, गुरावपि दुराशयासिवानेतत्, खलानामुचित
COMSANSAAMSANOCROST
धिनि यद रविः शनी सत्यपि पुत्रे स्वे, दीपे न्यास्थत् प्रकाशिताम् ॥ ११५॥ करिष्ये पूज्यपादोक्तं, समये समुपागते ।। उदित्वेति समुत्तस्थौ, गूर्जरक्षितिवासवः ॥ ११६ ॥ गोशाल इव देवार्ये, गुरावपि दुराशयः । बालचंद्राभिधः शिष्यः श्रुत्वा तं मंत्रमंतिकात् ॥ ११७ ॥ आबालकालसुहृदेऽ-जयपालाय तत्क्षणम् । कथयामासिवानेतत्, खलानामुचितं खलु ॥ ११८॥ युग्मम् ॥ तमूचेऽजयपालोऽपि, विकसन्मुखपंकजः। एष मंत्रोऽतिगुप्तोऽपि, साधु ज्ञातस्त्वया मुने ! |॥ ११९ ॥ इयं मैत्रीलता चक्रे, त्वयैव फलशालिनी । नृपाशयस्थितो मंत्रो, यदूचेऽयं ममाग्रतः॥ १२०॥ यदि जायेत राज्य मे, भवानेव तदा गुरुः । यथा कुमारपालस्य, हेमाचार्योऽधुनाऽस्त्ययम् ॥ १२१ ॥ निवेद्यैवं पुरस्तस्य, तद्दिनादजयः कुधीः । श्रेणिके कोणिक इव, द्वेषं निहितवान्नृपे ॥ १२२॥ ___ अथ नूतनशब्दानु-शासनप्रमुखैः शुभैः । विद्याधिष्ठितैपॅथै-र्ज्ञानसत्रं प्रवर्तयन् ॥ १२३ ॥ स्वयं तिष्ठन् क्रियामार्गे, स्थापयन्नपरानपि । षष्ठाष्टमप्रभृतिभि-स्तपोभिर्धर्ममेधयन् ॥ १२४ ॥ उल्लासयन् मतं जैनं, शशीव कुमुदाकरम् । आयुश्चतुरशीत्यब्दान् , हेमाचार्यः समापयत् ॥ १२५॥ त्रिभिर्विशेषकम् ॥ सम्यग्ज्ञानेन केनापि, ज्ञात्वा पर्यतमात्मनः। गच्छशिक्षां च विश्राण्य, भ्रातृप्रद्युम्नसूरये ॥ १२६ ॥ आहूय संघ भूपं च, तत्प्रत्यक्षं यथाविधि । वैरंगिकः स्वगात्रेऽपि, शिश्रियेऽनशनं गुरुः ॥ १२७ ॥ युग्मम् ॥ अवीक्षितमिवाजन्म, वीक्षितुं तन्मुखांबुजम् ॥ अहंपूर्विकया लोका, मिमिलुः |
अभिप्राय चित्तः. २ ऋग्वेदयजुर्वेदसामवेदरूपास्तिस्रो विद्या ज्ञानदर्शनचारित्राणां वा संबंधिन्यस्तिस्रो विद्या व्याकरणकाव्यकोशरूपा वा तिस्रो विद्याः | समाहतानिविद्यं ततः खार्थेऽण. ३ दानम्.
CRECECASTARAMICROREACTES
Page #474
--------------------------------------------------------------------------
________________
कुमारपालच०
सर्ग.१०
॥२१२॥
१४॥ कथंचिनिपेत्य च । जीवाशतपशुना ॥१
ACACACAAAAAAAAEE
सकलास्तदा ॥ १२८ ॥ ततोऽत्यवहिते राज्ञि, संघे च सकले प्रभुः । वैराग्यैकमयीं चक्रे, देशनामन्तिमामिमाम् ॥१२९॥ संसारेऽत्र गलत्सारे, भविनां कर्मयोगतः। चतुर्ध्वपि भवेष्वस्ति, न मनागपि निर्वृतिः ॥१३०॥ __तथाहि प्रथमं जीवा, निगोदेषु वसंत्यमी। कायस्थिति समाश्रित्य, संख्यातीतमनेहसम् ॥ १३१॥ एकोच्छासांतरे सप्त-दशभिर्मृत्युभिः किल । भुंजते तेऽनिशं तत्र, दुःखं किमपि दुस्सहम् ॥ १३२ ॥ नरके नारकाणां य-जायते कष्टमुत्कटम् । ततो निगोदजीवानां, तदनंतगुणं मतम् ॥ १३ ॥ ततः कृच्छ्रेण निर्गत्य, पृथ्वीनीराग्निवायुषु । उत्सर्पिणीरसंख्याता-स्तिष्ठंति ननु देहिनः॥१३४ ॥ कथंचिनिर्गतास्तेभ्यो, विकलाक्षेषु जंतवः । वसंत्यब्दसहस्राणि, संख्यातान्यतिष्टिताः ॥ १३५॥ ततो नानाभवान् भ्रांत्वा, पंचाक्षत्वमुपेत्य च । जीवास्तिर्यक्षु जायंते, जलस्थलखचारिषु
॥१३६ ॥ तत्र जालैर्जलात् कृष्ट्वा, मत्स्याद्याः स्थूलविग्रहाः। दार्यते दारुवत् क्रूरैः, कैवतैः शितपशुना ॥१३७ ॥ क्षुत्तहष्णांगच्छविच्छेद-डंभवाहादिकर्मभिः । गवादयो यथाऽत्यार्त्ताः, प्रत्यक्षा एव ते तथा ॥१३८॥ वांगुरादिप्रयोगेण, बट्टा
वातमादयः । तैलादिषु विपच्यते, व्याधैर्मास्पाककोविदः ॥१३९॥ विविधैश्छद्मभिधृत्वा, चटकाद्याः पतत्रिणः । शूली-४ क्रियतेऽस्तकृपः, कथं जीवांतकैहहा ॥१४०॥ तत्र क्रूरतयाऽधौनि, कारं कारं सहस्रधा।लभंते नारकी योनि, निःशरण्याः शरीरिणः॥१४१॥ उत्पन्ना एव ते तत्र, सहते यातना घनाः । प्रत्यंगच्छेदवज्राग्निदाहवर्षणादिभिः ॥ १४२॥
व्यवहिते, प्र०. १ अतिसावधाने. ३ गतिपु. ४ मुखम्. ५ अनंतशब्दपरकः संख्यातीतशब्दः. ६ कालम्. ७ कष्टम् , ८ अतिकष्ट संजातं येषां ते, ९ जाल.. १० बातमनुलक्ष्य अजति-गच्छवीति वातमजः-मृगविशेषः, ११ पक्षिणः. १२ लोहादिकीलकेन विद्धा मांसस्य पचन-शूलाकरणम्. १३ पापानि.
॥२१२॥
Page #475
--------------------------------------------------------------------------
________________
Annan
स्मृत्वा च प्राक्तनं वैरं, शस्त्रघातैः परस्परम् । भवंति मुशलक्षुण्ण-कणवल्लवशः स्वयम् ॥ १४३ ॥ नरके पच्यमानानां, नारकाणां दिवानिशम् । यदुःखमस्ति तद् वक्तुं, लक्षजिह्वोऽपि न क्षमः॥१४४ ॥ ततः कथंचिदद्धताः, किंचित्सुकृतयोगतः। जायंते जंतवो गर्भ, नारीणां नरकोपमे ॥ १४५॥ प्रतिरोमोष्णसूचीभि-र्भिद्यमानस्य देहिनः। यत् कष्टं गर्भमध्ये तद्भवत्यष्टगुणं ततः ॥॥१४६॥ उत्कर्षाद् द्वादशाब्दानि, स्थित्वा तस्मिन्नधोमुखाः। भवंति जन्म
वेलायां, व्यथया ते मृता इव ॥१४७ ॥ अशुचित्ववियोगाग्नि-वैकल्योग्रगदादिभिः । बाल्याद्यवस्थात्रितये, मां भदौःस्थ्यविसंस्थुलाः ॥ १४८ ॥ नैव्यस्त्रीतनयाऽभाव-दास्यवैररणादिभिः । जनकादिनिकारैश्च, नराः सौख्यविवर्जिताः 8
॥ १४९ ॥ ततोऽपि सुकृतं कृत्वा, दानाद्युत्तमकर्मभिः।लभंते त्रिदशीभावं, केऽपि भद्राशया नराः॥१५०॥ तत्रापि * केऽपि दुष्कर्मो-दयात् किल्विषिकादयः । किंकरा इव खिद्यतेऽ-तितमा स्वामिसेवया ॥ १५१॥ श्रियः स्त्रियोऽपि
चोत्कृष्टा, हाऽम्येषां दिवौकसाम् । दाते केऽपि वनाग्नि-कीलाकवलिता इव ॥ १५२ ॥ परदेवीः शुभा हुत्वा, कामांधाः कतिचित् सुराः । कृष्णराजीविमानेषु, लीयंते तस्करा इव ॥ १५३ ॥ तज्ज्ञात्वा ते तदिंद्रेण, मूर्ध्नि दंभोलिना हताः । क्रंदत्यमदं षण्मासी, पीडया मूच्छिता इव ॥१५४॥ भाविनीं दुर्गतिं मत्वा, ताहग्दृष्ट्वा च वैभवम् । अरति यां श्रयंते ते, सुवचाः सा न कैश्चन ॥ १५५ ॥ इत्यस्यामानमाया-लोभोद्वेगभयादिभिः। भृशमाकुलितात्मानो, देवाः
प्राकृतम्, प्र. १ कष्टम्. ३ उत्कृष्टात्, प्र. सिद्धराजो द्वादशवर्षाणि मयणलाकी अस्थादिति ऋषभदासकृतकुमारपालरासके. ४ प्रस्ता. ५ परिभवैः. नितमाम् , प्र-सतरामित्यर्थः. . शीखा०, ८ तेषामिन्द्रेण. ९ यावदिति शेषः, १० असूया -परगुणेषु दोषाविस्करण, क्रोधजो दोषो वा
904444CCACANCE
Page #476
--------------------------------------------------------------------------
________________
कुमार
हास्युः सुखिनः कुतः ? ॥१५६॥ एवं विमृश्य निःशेष, दुःखैकांतमयं भवम् । सुखैकांतमयी मुक्तिः, साधनीया विवेकिभिः सर्ग.१० पालच० ॥ १५७॥ तत्साधनं भवेदात्म-ज्ञानमेवादिमं सताम् । न हि बीजात् परं किंचि-दंकुरोत्पत्तिकारणम् ॥ १५८॥
तच्छास्त्रं तद् विवेकित्वं, तच्चारित्रं तपोऽपि तत् । तद् ध्यानं स समाधिश्च, येन स्वात्मैष वेधते ॥ १५९ ॥ ये स्वं वाच॥२१३॥
स्पतीयंति, ज्ञातुं सकलमप्यदः। क्षेत्रज्ञं वेदितुं तेऽपि, कुठीयंति जडा इव ॥ १६०॥ स्फुरन्मोहमहानिद्रा-मुंद्रिते जगतीत्रये । नूनमात्मज्ञ एवैको, जागर्ति ज्ञानलोचनः॥१६॥ तावच्छुध्यति नात्माऽयं, लीनकश्मलकालिकः। यावत् सङ्ख्यानपीयूष-पूरैः प्रक्षाल्यते न हि ॥ १६२॥ वशंवदेंद्रियग्रामो, निष्कषायो विरक्तहत् । मैत्र्यादिवासितस्वांतः, सुधीर्ध्या
नोचितो भवेत् ॥ १६३ ॥ पिंडस्थं च पदस्थं च, रूपस्थं रूपवर्जितम् । चतुर्धा ध्यानमांदध्या-दात्मजिज्ञासया बुधः दि॥ १६४ ॥ कायस्थः कर्मनिर्मुक्तो, ज्ञानवान् परमेश्वरः । जिनेंद्रः स्मर्यते यत्र, तत् पिंडस्थं प्रकीर्तितम् ॥ १६५ ॥ अर्ह
न्मयानि यन्मंत्र-पदानि हृदयांबुजे । चिंत्यंते शशिशुभ्राणि, तत् पदस्थमिहोदितम् ॥ १६६ ॥ सप्रातिहार्यसमव-सरणस्थो जिनेश्वरः । यद् ध्यायतेऽथ तद्धिंबं, तद् रूपस्थं निरूपितम् ॥१६७ ॥ अमूर्त्तश्चिन्मयः सिद्धो, ज्योतीरूपो निरंजनः। परमात्मा स्मर्यते यत्र, रूपातीतं हि तन्मतम् ॥ १६८॥ एतच्चतुर्विधंध्यानं, कुर्वस्तद्भावभावितः । ध्याता तन्म
IN॥२१॥ यतामेति, भ्रमरीभूतकीटवत्॥१६९॥ निलीयतेऽन्तरात्माऽयं, परात्मनि तदा तथा । यथा भजति तेनैक्यं, ध्यातृध्यान-
१संसारम्. २ ज्ञायते. ३ आत्मानम्. ४ भात्मानम्. ५ ज्ञातुम्. ६ कुंठ-मन्दमिव आचरंतीति कुंठीयंति. ७ व्याप्ते. ८ मैत्रीप्रमोदकारुण्यमाध्यस्थ्य०. ५ कुर्यात् | १० तटुिंबं च यद् ध्यायते ११ भावनाबासितः.
Page #477
--------------------------------------------------------------------------
________________
CAUSAHARSAKASG
द्वयच्छिदा ॥ १७०॥ ततो घातीनि कर्माणि, निर्मथ्यावाप्तकेवलः । कलयत्यखिलं विश्वं, पुरोवर्तिष्णुवस्तुवत् ॥ १७१॥ विलीनसकलक्केशो, जीवन्मुक्तत्वमाश्रितः । इहाप्यात्मा परानंद, विदेते परमात्मवत् ॥ १७२ ॥ अंते शैलेश्यविक्षिप्त
कर्मशेषस्तनूज्झनात् । आत्मा भूत्वा परात्मैव, मुक्तिशर्मणि मैजति ॥ १७३ ॥ सर्वेषामपि देवानां, यत् सुखं सार्वकालि*कम् । अनंतेनापि भागेन, न स्यान्मुक्तिसुखस्य तत् ॥ १७४ ॥ तत् प्रमादं परित्यज्य, भो भव्या! यत्यतां तथा । यथा
करप्रचेयं स्याद् , भवतां शिवशर्म तत् ॥ १७५ ॥ कालानुभावतो मुक्ति-र्नेह यद्यपि विद्यते । तथाऽप्यात्मरतत्वेन, है भवेत् साऽन्यभवेऽपि हि ॥१७६॥ एवमुक्त्वा स्थिते सूरौ, तं मत्वा दुर्लभं पुनः । केचिदादद्रिरे भव्याः, सम्यक्त्वामिग्रहादिकम् ॥ १७७॥ । पतित्वाऽथ पदांभोजे, राजर्षिःक्षामणाक्षणे । बाष्पायमाणो नेत्राभ्यां, प्रभुमूचे सगद्गदम् ॥ १७८॥ ईषल्लभं प्रतिभवं, स्त्रैणराज्यसुखादिकम् । कल्पगुरिव दुष्पाप-स्त्वाग्भद्रंकरो गुरुः॥ १७९ ॥ न केवलमभूस्त्वं मे, भगवन् ! धर्म
मात्रदः । जीवितव्यप्रदः किंतु, ततस्त्वत्तोऽनृणः कथम्? ॥ १८०॥ त्वयि स्वर्गोन्मुखे स्वामिन् !, कोऽधुना शिक्षयिजष्यति । मामखंडतमं पुण्य-प्रक्रियाकांडतांडवम् ॥१८१॥ अगाधे मोहपाथोधौ, पर्यते मजतो मम । निर्यामणाकरा
लंब, त्वां विना कः करिष्यति ॥ १८२॥ यदि मे त्वत्पदोपास्ति-रस्ति कामितदायिनी । जनिषीष्ठास्तया तर्हि, त्वमेव गुरुराशिवम् ॥ १८३ ॥ इति भूभृद्विलापेन, विभिन्नहदयः प्रभुः। नेत्रफूलंकषान् बाष्पान , सन्निरुध्य कथंचन
१ विनष्ट ० २ लभते. ३ लीनो भवति. ४ डा-प्र, धर्म क्रियासमूहनृत्यम्. ५ आयुरन्ते. ६ भूया. ७ नेत्रान्तब्यापकान्.
RAMERASACSCCUSALL
Page #478
--------------------------------------------------------------------------
________________
96406*
-
PA
कुमारपालच०
*
॥२१४॥
॥ १८४ ॥ उत्थाप्य चातिकष्टेन, पादलग्नं तमात्मनः। ऊचे वाचं शुची सौर-सैंधवीं लहरीमिव ॥ १८५॥ युग्मम् ॥ आजन्म राजन् ! नियाज-भक्तेऽहं हृदि तावके । समुत्कीर्ण इव स्वर्ग, गतोऽपि स्यां पृथग् न हि ॥ १८६ ॥ मनः शुझ्या समाराद्ध-जिनधर्मस्य ते पुरः। मोक्षोऽपि नातिदुर्लभः, सद्गुरुस्तु किमुच्यते ॥१८७ ॥ अस्मदुत्त्याऽऽहतं धर्म, द प्रपद्य क्षितिमंडले। कृत्वा च तस्य साम्राज्यं, नापर्णस्त्वमभूः कथम् ॥१८८॥ कुर्वाणस्य क्रियामार्गे क्रियाधष्टान् परांस्तव।। सस्क्रियास्थापनाचार्य, का शिक्षा युज्यतेऽधुना ॥ १८९ ॥ जगजनसमक्षं यः, पराजिग्ये पुरा त्वया । पर्यतेऽपि कथं मोहः, स त्वामभिभविष्यति ॥१९० ॥ ततः सहजधैर्येण, संवर्मय निजं मनः । यतोऽस्मन्मृत्युतो मृत्यु-न दूरे तव
वर्तते ॥ १९१॥ तदा सम्यग् वितन्वीथाः, क्षामणाऽनशनादिकम् । यद् भस्मनि हुतमिव, तद्विना प्राक्तनं शुभम् ol॥ १९२ ॥ स्वयमेव च कुर्वीथाः, सर्वाममुाष्मिकी क्रियाम् । निरपत्यतया कर्ता, न पश्चात् कश्चनापि ताम् ॥ १९३॥
ऊरीकृत्य गुरूकं तत्, सूक्तवत् क्षितिनायकः । उदतिष्ठत भूयिष्ठ-भक्तिः कर्तुं प्रभावनाम् ॥ १९४॥ कुमारा ननृतुः स्वैरं, श्रावका रासकान् ददुः । भट्टा भोगावली: पेटु-र्जगुर्गीतानि गायनाः ॥१९५॥ धर्मव्ययेऽभिदधिरे, भूपाद्याः पारि
पाश्चिकाः । परोलक्षान्नमस्कारान्, पुष्पाणि (पुण्यानि) च सहस्रशः ॥ १९६ ॥ अत्यासन्नं व्ययं ज्ञात्वा, सूरियानविधिव त्सया। कोलाहलं प्रसमरं, समंतात् प्रत्यपीषिधत् ॥ १९७ ॥ निवृत्तिवल्गयाऽत्युच्चै, रुवाऽक्षाण्युत्कटाश्ववत् । बट्वा चत
१ गंगासंबंधिनीम्. २ धर्मस्य. ३ मरणावसरे, ४ उन्नतिम्. ५ स्तुती:-विरुदावलीः. परिपाच वर्तते ते “परिमुखश्च" इति चात् ठक पार्श्वस्थायिन इत्यर्थः. . नमस्कारमहामंत्रान्. ८ प्रात्यभावरूपा वल्गा (लगाम) तया.
* HOROS***
॥२१४॥
*****
Page #479
--------------------------------------------------------------------------
________________
ध्यानपाशेन, चित्तं लोल प्लवंगवत् ॥ १९८॥चिंतयन् सुचिरं किंचित्, परमात्ममयं महः । ब्रह्मरंध्राध्वना प्राणान् , हेमाचार्यो विमुक्तवान् ॥ १९९ ॥ युग्मम् ॥ दृष्ट्वा तस्य व्ययं जज्ञे, चौलुक्यश्चेतनोज्झितः । गुरुजीवं स्वजीवेनाsनुयात इव तत्क्षणम् ॥ २०॥ क्षणोद्ध चेतनां प्राप्य, शून्यं पश्यन्निवाखिलम् । इष्टानां घटयन कष्टं, स जगादेति गद्गदम् ॥ २०१॥ इयत्कालं प्रभो! धृत्वा, धर्मस्नेहं मयीदृशम् । इदानीं निर्ममः कस्मा-मामहासीरिहैव यत् ॥ २०२॥ यद्वा त्वयि स्वदेहेऽपि, निःस्नेहे स्नेहमुच्चकैः । अपश्यं भ्रांत एवाहं, संप्रत्यस्ति यतो न संः ॥ २०३ ॥ बोधयित्वा नरान् देव-बुबोधयिषया दिवम् । त्वं प्राप्तोऽस्यधुना नूनं, संतः सर्वहिता यतः॥२०४ ॥ एतदेवानुशाशय्ये, | निष्पुण्योऽहं पुनः पुनः । राजपिंडतया यन्मे, किंचिन्नोपकृतं तव ॥ २०५॥ शिष्याश्च रामचंद्राद्या-स्तदानीमेवमूचिरे । स्वगुरुव्ययदूनांत:-करणाः करुणस्वरम् ॥ २०६॥ अद्य शुष्का प्रभावाब्धि-मुद्रित: सद्गुणाकरः । ज्ञानसत्रं परिक्षीणं, प्रभो! त्वयि गते दिवम् ॥ २०७॥ उदरंभरयःसंति, भूरयः सूरयः परम् । नृपं प्रबोध्य कस्त्वद-जगदुजीवयिष्यति ॥२०८॥ ज्ञानप्रदीपे भगवं-स्त्वयि निर्वाणमाश्रिते । प्लावयिष्यति पृथिवी-मज्ञानध्वांतवीचयः|| ॥ २०९ ॥ मूलादपि समुन्मूल्य, मिथ्यात्वं विषवृक्षवत् । सम्यक्त्वं कल्पतरुवत्, तत्पदे कः करिष्यति ॥२१॥ ततःक्ष्मामोऽपि संघोऽपि, कृतशोकाश्रुपल्वलौ। शिविकां दिव्यविच्छित्तिं, निरमीमपतां रयात् ॥२११॥ स्वातानु
१ मृगवद् वानरबद्वा. २ उत्तमांगस्थितेन ब्रह्मप्राप्तिहेतुकेन छिद्रस्थानेन. ३ अत्याक्षीः. ४ मेहः. ५ अनुपूर्वक शीङ् इत्यस्य यडन्तरूपम, अतिशयेन पश्चात्तापं करोमीत्यर्थः. ६ ब्रूडयिष्यति. ७ मनोहररचनायुक्ताम्.
Page #480
--------------------------------------------------------------------------
________________
कुमार
पालच
॥२१५॥
समिते ( ११४५
लिप्तां सत्क्षौम-संवृतां मालभारिणीम् । तत्र न्यवीविशन् सूरे-स्तनूं वृद्धानगारिणः ॥ २१२ ॥ उत्सवेन बहिनीत्वा, शिबिकां श्रावकोत्तमैः । संचस्करे गुरुवपुः, कर्पूरागु(ग)रुचंदनैः ॥ २१३ ॥ तदाऽर्कः परिवेष्यासीद्, दिशः सर्वा रजस्वलाः। दिनं च धूसरं तादृग्-व्ययः केषां न दुःखदः? ॥२१४ ॥ विध्यापितायां चित्यायां, गुरौ निर्भरभक्तितः। तद्भस्म स्वयमादाय, नृपो मूर्ध्नि न्यवेशयत् ॥ २१५ ॥ ततो देशाधिपः श्राद्धैः, सर्वैः पौरैश्च लेशशः । आत्ते भस्मनि | गर्ताऽसी-जानुदनी चिताक्षितौ ॥ २१६ ॥ साऽद्यापि पत्तनांतेऽस्ति, हेमगर्तेति विश्रुता । ख्यातिमेति गरिष्ठाना-महो संस्कारभूम्यपि ॥ २१७ ॥ ततश्चौलुक्यभूमीभृत्, पत्तनेऽन्यपुरेष्वपि । विस्तरात् कारयामास, गुरोर-| ष्टाहिकामहम् ॥ २१८ ॥ श्रीविक्रमनृपाद् वर्षे, शराब्धिशिवसंमिते (११४५)। आसीत् कार्तिकराकायां, हेमसूरिगुरोजनिः॥२१९ ॥ तस्य दीक्षा च पाथोधि-बाणरुद्रेष्वजायत (११५४)। षट्षशिवेषु (१९६६) सूरित्वं, नवळ्यर्केषु (१२२९) च व्ययः ॥२२०॥ हेमाचार्यवियोगेन, शून्यात्मेव समंततः।विदांचकार चौलुक्यो, न किंचित् कृत्यमात्मनः ॥ २२१॥ ततः स रामचंद्राद्यै-बुधैः संबोध्य नित्यशः। दिनैः कतिपयैश्चक्रे, स्तोकशोकः कथंचन ॥ २२२॥ __ अथ चौलुक्यराड् दध्यौ, गैणयित्वाऽग्रिम दिनम् । प्रतापमल्लं दौहित्रं, निजैश्वर्ये निवेशये ॥ २२३ ॥ तावद् विस्ता-15 रयस्तापं, ज्वालाजिह्वालवह्निवत् । आकस्मिको ज्वरस्तस्य, शरीरे समजुंभत ॥ २२४ ॥ नृपं ज्वरातुरं दृष्ट्वाऽ-गदंकाराः
१ संस्करोति स्म, परोक्षे आत्मनेपदम् २ सूर्यचंद्रयोर्वेष्टनाकारोऽशुभादिसूचकः प्रभाविशेषः परिवेषस्तद्वान्, ३ धूलियुक्तम्. ४ तस्य दीक्षा तथाऽन्देषु, वार्द्धि बाणेश्वरेष्वभूत. (११५४) प्र. ५ मृगयित्वा-दृष्ट्वा. ६ श्रेष्ठम्.
शिवेषु ( ११६६ च कृत्यमात्मनः
Page #481
--------------------------------------------------------------------------
________________
WAARHUS CHRISTUS
समुत्सुकाः। विधातुं तत्पतीकारं, सारमारेभिरेऽभितः॥ २२५ ॥ तदैव छलमासाद्या-जयपालः स दुष्टधीः । कथंचन पयोमध्ये, भूभृते दत्तवान् विषम् ॥ २२६ ॥ कोशस्य कुंचिकां लात्वा, बलात् सैन्यं च किंचन । विरचय्यात्मसात तस्थौ, स राज्यग्रहणोत्सुकः॥ २२७ ॥ - इतो राज्ञा परिज्ञाय, स्वकाये विषसंक्रमम् । कोशादानाययामासे, शिप्रा (शुक्तिः) क्षिप्रं विषापहा॥ २२८ ॥कोशाधिपतिराचष्ट, कुंचिकामजयः स्वयम् । आदाय मत्करात् कोशं, रुष्ट्वा च परितः स्थितः ॥२२९॥ तदाकर्ण्य विविक्तात्मा, स चुकोप न तं प्रति । केवलं ध्यातवान् नून-मीदृशी भवितव्यता ॥ २३०॥ आनायितां नृपेणापि, प्रेक्ष्य शिप्रामनागताम् । पारिपार्थिकतामाप्त-श्चारणः प्रोचिवांस्तदा ॥२३१॥ एतावंतस्त्वया राजन्!, प्रासादाः कारिताः कुतः। कस्ता शुश्रूषिता? नाऽगा-च्छिप्रा ते स्वामिनोऽपि यत् ॥ २३२॥ अनेन सत्यमेवोक्त-मिति राट् स चमत्कृतः। दारिद्यद्रावकं तस्मै, ददिवान् पारितोषिकम् ॥ २३३ ॥ तदैव सर्वचैत्येषु, पूजाः साधर्मिकार्चनम् । अन्नादिदानं दीनेभ्यो, नृपश्चक्रे निरंतरम् ॥ २३४॥ | अथ राजर्षिराकार्य, रामचंद्र मुनीश्वरम् । पर्यंताराधनां कर्तु, विधिनैवं प्रचक्रमे ॥ २३५ ॥ पुरतः स्थापयित्वाऽर्हद्विंबं तपनबिंबरुक । अर्चयित्वा स विधिव-नमस्यामासिवान मुहुः॥२३६ ॥ साक्षीकृत्य जिनाधीश, मनःशुझ्या मुनेः पुरः। भूभृदेवमभाषिष्ट, पापप्रक्षालनाचिकीः ॥ २३७ ॥ स्थावराणां त्रसानां च, प्राणिनामाभवं मया । वधो व्यधायि
• उचितम्. १ कृत्वैव खात्मसात् , प्र. २ ततो. प्र. ३ भाभव-जन्मन आरभ्य.
Page #482
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ २१६ ॥
यः कोऽपि तं गर्हेऽहं मुहुर्मुहुः ॥ २३८ ॥ स्वार्थेनाथ परार्थेन, स्थूलं तदितरच्च यत् । कथयामास मिथ्याऽहं तज्जुगु|प्सेऽतियत्नतः ॥ २३९ ॥ नयेन दुर्नयेनापि, परकीयं धनादिकम् ॥ अदत्तं यन्मयोपात्तं, तत् त्यजामि निरीहधीः ॥ २४०॥ स्वपरस्त्रैणयोगेन, यदसेव्यत मैथुनम् । अचिंत्यत च यद् दिव्यं तन्निंदामि पुनः पुनः ॥ २४१ ॥ धनधान्यक्षेत्रवास्तु| स्वर्णदासहयादिषु । अधिकां वर्द्धितां तृष्णां, वर्जयामि समाहितः ॥ २४२ ॥ आजन्म यन्मयाऽभोजि, निशायामशना|दिकम् ॥ अभक्ष्यमपि चाभक्षि, तद् गर्हे सर्वगर्हितम् || २४३ || एवं च दिग्विरत्यादौ, तथा सामायिकादिषु । यदतीचारयाञ्चक्रे, तन्मुंचाम्यपुनः कृते ॥ २४४ ॥ पृथ्वीकायादिरूपेण, स्थावरेषु वसन्नहम् । पीडयामास याञ् जीवान्, समस्तान् क्षमयामि तान् ॥ २४५ ॥ त्रसत्वे तिर्यग्नरक - नरदेवभवेष्वहम् । वसत्र् यान् दूनवानस्मि, क्षाम्यंतु मयि तेऽङ्गिनः ॥ २४६ ॥ | दुर्वाक्याद्यभिधानेन, संघे ये केऽपि पीडिताः । तानहं क्षमयन्नस्मि, त्रिशुद्ध्या रचिताऽञ्जलिः ॥ २४७ ॥ जीवजातिषु सर्वासु, भ्रमञ् यत् कृतवानहम् । कायवाङ्मानसैस्तन्मे, मिथ्या भवतु दुष्कृतम् ॥ २४८ ॥ दाक्षिण्येनाथ लोभेन, परस्मै जातु यन्मया । मिथ्यात्वमुपदिष्टं तन्मृषाऽऽस्तामखिलं मम || २४९ || अलसत्वादियोगेन, यदहं धर्मकर्मणि । बलं गोपितवान् व्यर्थ, धर्मखलितमस्तु तत् ॥ २५० ॥ प्रतिभापुस्तकादीनां चरणादिविघट्टनैः । आशातना व्यरचि या, सा सर्वाऽपि विलीयताम् ॥ २५१ ॥ निष्पापीकरणेनैवं, सवनेनेव सर्वतः । विशुद्धात्मा स राजर्षिः, शिश्रियेऽनशनं ॥ २१६ ॥ ततः ॥ २५२ ॥ ऊचे च यन्मया वित्त-मर्जित्वा न्यायवर्त्मना । सप्तक्षेत्र्यां किमप्युप्तं, तत्पुण्यमनुमोदये ॥ २५३ ॥
१ अनृतम् २ आदिना रूप्यं कुप्यं च प्राह्मम्. ३ एकाग्रचेताः सन् ४ मृषा खादखिकम् प्र० - मिथ्या भवतु. ५ मिथ्या ( भवतु ). ६ दुष्कृतम् ७ सवनं - ज्ञानम्.
सर्ग. १०
Page #483
--------------------------------------------------------------------------
________________
सद्देवगुरुपूजाभि-रमारिकरणेन च । निर्वीरा वित्तमुक्त्याऽपि, यत् पुण्यं तत् स्मराम्यहम् ॥२५४॥ शत्रुजयादितीर्थानां, यात्राः क्षपितपातकाः । निर्माय यन्मया चक्रे, श्रेयस्तत् परिभावये ॥२५५ ॥ शरणं तीर्थकृत्सिद्ध-साधुधर्मा भवंतुटू मे । एत एव जगत्पूज्या-श्चत्वारः संतु मंगलम् ॥ २५६ ॥ मामकोऽयं ममात्मैव, चैतन्यमयविग्रहः । देहाद्याः सर्व एवैते, भावाः सांयोगिकाः पृथक् ॥२५७ ॥ जीवानामिह यद् दुःखं, तद् देहाचैरसंशयम् । तस्मादवश्यहातव्यां-विधा तान् व्युत्सृजाम्यहम् ॥२५८॥ ततश्चित्तमुपस्कृत्य, शुभध्यानेन भूधवःनिष्प्रपंचोऽस्मरत् पंच-परमेष्ठिनमस्क्रियाः॥२५९॥ सर्वज्ञं हृदि संस्मरन् गुरुमपि श्रीहेमचंद्रप्रभु, धर्म तद्गदितं च कल्मषमषीप्रक्षालनापुष्करम् । व्योमाग्ययेमवत्सरे (१२३०)। विषलहयुत्सर्पिमूछोभरो, मृत्वाऽवाप कुमारपालनृपतिः स व्यंतराधीशताम् ॥ २६॥ (शार्दूलविक्रीडितम् ) तस्मिन् परासी क्षितिपे तदीया, परिच्छदो म्लानिपदं बभूव । अस्तं समाजग्मुषि धामधानि, विकस्वरः किं कमलाकरः स्यात् ? ॥ २६१।। (उपजातिः) विधाय संस्कारविधि महा.चौलक्यभूमीपतिपुंगवस्य । अंत्याः क्रियास्ता विदधुः समस्तास्तदातपुत्राजयपालमुख्याः ॥ २६२॥ (उपजातिः) अथ तथाविधधार्मिकगूजरा-धिपविपत्तिविषादितचेतसः। कविवरा स्मृततद्गुणगौरवा, व्यरचयन्निति काव्यपरंपराम ॥२६३॥(दूतविलंबितम् ) क्षीणो धर्ममहोदयोऽद्य करुणा प्राप्ता कथाशेषतां, शुष्का नीतिलता विचारसरणिःशीर्णा गता साधता। औचित्यं च परिच्युतं जिनमतोल्लासः क्रशीयानभूच्छ्रीचालुक्यमहीपतो क्षितितलात् स्वर्लोकमासेदपि ॥२६४॥ (शार्दलविक्रीडितम् ) निदेग्धस्त्रिदशद्रुमः सुरगवी प्रच्या
१क्षिपित.प्र. २ संयोगिकाः, प्र.३ देहादीन. ४संस्कृय. ५ जलम्. ६ पंक्तिः, ७ प्राप्ते.
कु.पा.च. ३७
Page #484
--------------------------------------------------------------------------
________________
सर्ग.१०
कुमारपालच०
॥२१७॥
विता प्राणतो, नीतः कामघटः कपालघटनां चिंतामणिश्चूर्णितः । एकैकोचितदत्तलक्षकनकप्रोज्जीवितार्थिवजं, देवेनाद्य | कुमारपालनृपति नीत्वा यशःशेषताम् ॥ २६५ ॥ (शार्दूल०) भूयांसोऽपि भवंतु भूमिपतयो निःसीमदोर्विक्रमा-स्तन्मध्ये दधते न कोऽपि समतां चौलुक्यधात्रीभृतः । द्यूतादिव्यसनं निवार्य रुदतीवित्तं च मुक्त्वैव यो, मारिं वारितवांश्चतुर्दशसमा विष्वक्षमामंडले ॥ २६६ ॥ (शार्दूल०) लोको मूढतया प्रजल्पतु दिवं राजर्षिरध्यूषिवान्, ब्रूमो विज्ञतया वयं पुनरिहैवास्ते चिरायुष्कवत् । स्वांते सच्चरितैर्नभोऽब्धिमनुभिः (१४४० )कैलासवैहासिकैः, प्रासादैश्च बहिर्यदेष सुकृती प्रत्यक्ष एवेक्ष्यते ॥ २६७ ॥ (शार्दूल.) | अथ भुजविभवेन राज्यलक्ष्मी, स्वयमपि तां कलयंतमाकलय्य । महमहिम विधाय राज्यधुर्या-स्तमजयपालमतिष्ठि
पन्नृपत्वे ॥२६८॥ (पादाकुलकम् ) निरीक्ष्य राजानमुदित्वरं तं, विलोचनाऽऽसेचनकं स्वकांत्या । उल्लासमासाद्य | हमहांतमंतः, पौरास्तदानीं कुमुदांबभूवुः ॥२६९ ॥ ( उपजातिः) एवं चैतदनेकधार्मिककथासारं विचारांचितं, संक्षेपेण|
कुमारपालनृपतेः पूर्ति चरित्रं ययौ । विस्तारेण तु तस्य पुण्यपुरुषस्यामूलचूलं न तद्, वक्तुं सोऽपि सहः सहस्ररसनो यः स्यात् स्वयं वाक्पतिः ॥ २७० ॥ (शार्दूल०) प्रपंचिताः संति यथोचितं ते, धर्मादयोऽस्मिन् सकलाः पुमर्थाः । तदर्थिना भव्यजनेन सम्यग, निशम्यमेतच्चरितं सदैव ॥ २७१ ॥ (उपजातिः) न प्राचीनकवीनलीनयशसे नैदंयुगीनस्फुर-द्विद्वत्साम्यकृते न चात्मधिषणाज्ञप्त्यै ममायं श्रमः । किंतु स्याच्चरितं सतां विरचितं निस्सीमपुण्यर्द्धये, ध्यात्वैवं
१ वर्षान् यावत्. २ गतवान्. ३ हिमालयहास्यकर्तृभिः. ४ राज्य कार्यवाहकाः पुरुषाः. ५ पक्षे चंद्रम्. ६ समर्थः. ७ चरित्रे.
REGACASSADOSECSECRECCC
(उपजातिः ) एवं चतनत, वक्तुं सोऽपिता पुमर्थाः । तदः
॥ २१७॥
Page #485
--------------------------------------------------------------------------
________________
ACCORECARRORSCRICA%
दहमे मया किमपि तच्चौलुक्यपृथ्वीपतेः ॥ २७२ ॥ ( शार्दूल. ) नेदृग् राजऋषेश्चिरंतनमनुस्यूतं चरित्रं क्वचि-नानाकारतया चकासति सतां वक्र प्रबंधाः पुनः । यादृग्दृष्टमिदं प्रभावकचरित्रादौ मया तादृशं, दृब्धं तेन न मे बुधैरधिकता वाच्या न च न्यूनता ॥२७३॥ (शार्दूल०) न पदैपदवी नव्या भव्या न वाच्या(स्य) विचित्रता, न च शुचिरलंकारः स्फारश्चकास्ति रसोऽत्र न । तदपि चरितं विज्ञायैतत् कुमारमहीभृतः, सुकृततृषया दृश्यं शुद्धं विधाय विशारदैः ॥२७४॥ (हरिणी) श्रीविक्रमनृपाद् द्विद्वि-मन्वन्देऽ (१४२२) यमजायत । ग्रंथः ससप्तत्रिशती-पट्सहस्राण्यनुष्टुभाम् (१३०७) ॥ २७५ ॥ यावद् द्योतयतः स्वदीधितिभरैर्यावापृथिव्यंतरं, सूर्याचंद्रमसौ निरस्ततमसो नित्यप्रदीपाविव । तावत् तर्पयतादिदं नवसुधानिस्पंदवत् सुंदरं, पृथ्वीपालकुमारपालचरितं चेतांसि पुण्यात्मनाम् ॥ २७६ ॥ (शार्दूल०)
१ विहितम्. प्र. २ प्रथितम्. ३ पदशोभा-पदरचना-पदपांडित्यमितियावत् ४ अपूर्वा. ५ सुन्दरा.
इति श्रीकृष्णषीयश्रीजयसिंहसूरिविरचिते महाकाव्ये परमाईतश्रीकुमारपालभूपालचरित्रे श्रीकुमारपालस्वर्गगमनवर्णनो नाम दशमः सर्गः॥ दशानां मिलने वृत्तसंख्या ६०५३॥
NAM
Page #486
--------------------------------------------------------------------------
________________
:
कुमार
पालच.
ग्रन्थकर्तृ प्रशस्तिः
॥२१८॥
अथ ग्रन्थकर्तुः प्रशस्तिः॥ वंशे वीरजिनाधिराजगणभृच्छ्रीमत्सुधर्मप्रभो-रासीदार्यसुहस्तिशिष्यमुकुटः श्रीगुप्तसूरिप्रभुः । तस्माच्चारणलब्धिकेलिशरणाच्छ्रीचारणाख्यो गणः, ख्यातः स्वस्तरुवत् सदैव सुमनःस्तोमेन संसेवितः॥१॥ (शार्दूल०) शाखा तस्य तुरीयका ततककुपश्रीवज्रनागर्यलं, वर्या श्रीस्थितिधर्मनाम विटॅपप्रख्यं द्वितीयं कुलम् । तत्रासीदपसीमलब्धिवसतिर्वदारुवृंदारक-बातरूयाततपाः कृपाजलनिधिः श्रीकृष्णनामा मुनिः ॥२॥ (शार्दूल०) यो मित्रव्ययदुःखतो व्रतमधाद् योऽभिग्रहान् दुर्ग्रहान, दधे व्यालविषाकुलान् पदजलैरुज्जीवयामास यः। प्रत्यब्दं चतुरुत्तरां व्यरचयद् यः पारणात्रिंशतं (३४), स मापालविबोधनः शमधनः कृष्णपिरास्तां मुदे ॥३॥ (शार्दूल०) श्रीमन्नागपुरे पुरा निजगिरा नारायणश्रे|
CER
%
१थेरे मजरोहणे १, भद्दजसे २ मेह ३ गणि य कामिवि ४, सुष्ठिय ५ सुप्पडिबुद्धे ६, रक्खिय ७ तह रोहगुत्ते य ८ ॥१॥ इसिगुत्ते ९ सिरिगुत्ते १०, गणी य वंभे ११ गणी य तह सोमे १२ । दश दो य गणधरा खल, एए सीसा सुहत्यिस्स ॥२॥ | [स्थविरः आयरोहणः १, भद्रयशाः २ मेघः ३ गणिश्च कामर्द्धिः । सुस्थितः ५ सुप्रतिबुद्धः ६, रक्षितः ७ तथा रोहगुप्तश्च ८॥१॥ ऋषिगुप्तः ९ श्रीगुप्तः || १०गणी च ब्रह्मा ११ गणी च तथा सोमः १२ । दश द्वौ च गणधराः खलु, एते शिष्याः सुहस्तिनः ॥२॥]
इति कल्पसूत्रेऽष्टमक्षणे २ थेरेहितो णं सिरिगुत्तेहितो हारियसगुत्तेहिंतो इत्थ णं चारणगणे नामं गणे निग्गए तस्सणं इमाओ चत्तारि साहाओ सत्त य कुलाइ एवमाहिज्जन्ति, से किं तं साहाओ ? साहाओ एवमाहिज्जति तंजहा हारियमालागारी १ संकासिया २ गवेधुया ३ वजनागरी ४ से तं साहाओ से किं तं कुलाई ? कुलाई एवमाहिचंति तं जहा पढमित्य वत्थलिज्ज बीयं पुण पी(टी)इधम्मियं होइ इत्यादि श्रीकल्पसूत्रेऽष्टमक्षणे. प्रसिद्धिं गतः । ४ पल्लवसदृशम्,
॥२१
॥
Page #487
--------------------------------------------------------------------------
________________
ष्ठितो, निर्माप्योत्तमचैत्यमंतिमजिनं तत्र प्रतिष्ठाय च । श्रीवीरान्नवचंद्रसप्तशरदि (७१९) श्वेते तिथ्यां शुचौ, वंभाद्यान्| समतिष्ठेपत् स मुनिराड् द्वासप्ततिं गोष्ठिकान् ॥ ४॥ (शार्दूल०) तस्माद् विस्मयनीयचारुचरिते श्रीसूरिचक्रे क्रमाजाते श्रीजयसिंहसूरिरुदभून्निर्गथचूडामणिः । संवद्विक्रमतस्त्रयोदशशतेष्वेकोत्तरेष्व (१३०१) करुक्, क्लान्तं संघमजीजिवजलभरैर्यो मंन्त्रकृष्टैमरौ ॥५॥ (शार्दूल०) प्रभावकशिरोमणिः प्रणतलोकचिंतामणिः, प्रसन्नशशभृत्मभुस्तदनु दिद्युते दीप्रधीः। यदीयचरणांबुजं निजशिरःकिरीटार्कर-भरेण धरणीभुजो विकसितत्वमानिन्यिरे ॥ ६॥ (पृथ्वी) प्रत्यब्द दीनदुःस्थोद्धृतिसुकृतकृते दीयमानं समानं, साक्षाद् दीनारलक्षं तृणमिव कटेति प्रोज्झ्य निर्लोभभावात् । एकः सोऽयं महात्मा न पर इति नृपश्रीमहम्मदसाहेः, स्तोत्रं प्रापत् स तापं क्षपयतु भगवाञ् श्रीमहेंद्रप्रभुनः ॥७॥ (मगधरा )। तत्पट्टपूर्वाचलमंडनैक-चंडद्युतिः श्रीजयसिंहसूरिः । कुमारपालक्षितिभृच्चरित्र-मिदं व्यवत्त स्वगुरुप्रसादात् ॥८॥ ( उपजातिः) अवधानसावधानः, प्रमाणनिष्णः कवित्वनिष्णातः। अलिखन्मुनिनयचंद्रो, गुरुभक्त्याऽस्याऽऽधमादर्शम् C॥९॥ (आर्या) उच्चैहारिविसारिवारिधिजले दिक्पत्रमालाकुले, पातालस्थितशेषनालकलिते लक्ष्मीविलासोचिते। यावत् पुष्यति मेदिनीसरसिजे स्वर्णाचलः कर्णिका-भावं तावदिदं चरित्रममलं प्रीणातु विद्वज्जनम् ॥१०॥ (शार्दूल०) इति
इति श्रीकुमारपालभूपालचरित्रं संपूर्णम् ॥
१ शुक्लपंचमीतिथी. ३ ष्ठि.प्र.३ समूहे. ४ द्या. प्र. ५ झटिति.प्र.६स्तुतिम्. ४-८-९ कुशलः,
Page #488
--------------------------------------------------------------------------
________________
CAUCAS
कुमारपालच०
टिप्पणकतृप्रशस्तिः
॥२१९॥
U SLARASI
परिशिष्टम् , नं०१
अथ टिप्पणकारप्रशस्तिः॥ वीरो वीरशिरोमणिर्जिनपतिवीरं स्तुवेऽहं सदा, वीरेणापि विनाशिता भवततिवीराय तन्वे नमः। वीराच्छासनमेतदेव चलितं वीरस्य तीव्र व्रतं, वीरेऽनन्तगुणाः शुभाः प्रकटिताः श्रीवीर ! सिद्धिं कुरु ॥१॥शार्दूल०॥ श्रीमद्वीरजिनस्य मुख्यगणभृत् पट्टे सुधर्मा ततः, संजाता अतिराजमानचरणा देवेन्द्रसेवाभृतः। . तेषां पट्टपरंपरासुविदिते श्रीसूरिचक्रे क्रमा-जातो भूमिविभूषको जनगुरुः साम्राट्सुबोधप्रदः ॥२॥ शार्दूल०॥ लोके लब्धजयः स हीरविजयः सूरीशचिन्तामणि-स्तच्छिष्यो विदितागमो विजयसेनः सर्वलोकैर्नतः। श्रीदेवो विजयैर्युतोऽभिरमते स्मास्यास्पदे सूरिराट्, सूरीणां प्रमुखो बभौ विजयसिंहस्तत्पदे शर्मदः॥३॥शार्दूल०॥ भेजे तस्य पदं स सत्यविजयः पन्यासचूडामणिः, कर्पूरोऽपि गणिर्बभौ च सततं संवेगपूर्णः सदा । धर्मोद्योतकरः क्षमाविजय आसीत्तस्य पट्टे गणि-योगीन्द्रो विजयैर्युतो जिनगणिोनी सतामग्रणीः॥४॥ शार्दूल. पूज्योऽसौ विजयामृतोऽपि च गणिर्जातो गुमानस्ततसू-तेजस्को गणिकस्ततोऽपि धनको भूतो गणीशो गुणी।। मान्योऽयं मुनिपुंगवोऽपि विनयः श्रेयस्करः सर्वदा, ज्ञातो बुद्धिमताम् उमेदविजयः पंन्यासभूषाधरः॥५॥शार्दूल०॥ तच्छिष्यो मुनिराट् शुभो विजयते प्रज्ञालचूडामणिः, श्रीमान् क्षान्तिगणी च शोभनतरो विख्यातसिद्धान्तवित्।। पुष्पो नाम मुनिः प्रसिद्धचमरेन्द्रो यस्य शिष्योच द्वौ, राजेते विनयान्वितौ मुनिवरौज्ञानस्य चाभ्यासिनौ ॥६॥ शार्दूल०॥
॥२१९॥
Page #489
--------------------------------------------------------------------------
________________
**
स्लि, क्षमादिगुणधारकः । शवनाकारि च वाचनतगणी मुदं ददनु वा २ ॥ अनुष्टुप् ॥
तृतीयो यस्य शिष्योऽस्ति, क्षमादिगुणधारकः । श्रीक्षमाविजयो नाम्ना, मासक्षपणकारकः ॥७॥ युग्मम् ॥ अनुष्टुप् ॥ लूनारे विहिता सुसूत्रकथिता मूर्तिप्रशंसा घना । येनाकारि च वाचना भगवतीसूत्रस्य मुम्बापुरे यज्ज्ञानामृतपानतो भुवि तले भव्याः सुबोधं गताः । सोऽयं क्षान्तिगणी मुदं ददतु वः संसारपारंगमी ॥८॥शार्दूल०॥ टीप्पणं शोधनं चास्य, वाचनं भगवत्यनु । मुम्बापुर्या कृतं यैश्च, मुद्रणस्योपदेशनम् ॥९॥ अनुष्टुप् ॥ उपर्बुधज्वलद्विद्या-प्रतापा मोहनाशकाः । श्रीक्षान्तिविजयास्ते च, जयन्ति गणिसत्तमाः॥ १०॥" मुम्बापूरे कृता येषां, प्रशस्तिरतिशोभना । तेभ्योऽनुयोगसूरिभ्यो, नमोऽस्तु 'शिव' कारणम् ॥ ११॥"
परिशिष्टम्, नं०२ पं० श्रीक्षान्तिविजयगणिकृता संखेश्वरमण्डनश्रीपार्श्वनाथस्तुतिः ॥ शार्दूलविक्रीडितम् ॥ .. .
........ श्रीसंखेश्वरमंडनं जिनवरं पार्श्व स्तुवे कामदं, श्रीमन्तोऽन्यजिनेश्वरा जगति ये तान् नौम्यहं सर्वदान् । निःश्रेयस्पददायकं नतसुरं वंदे तथा चागम, श्रीपद्मावति ! देवते ! भव सदैवोमेदशिष्ये शुभा ॥१॥
पं० श्रीक्षान्तिविजयगणिकृता लोद्रवापत्तन (जेसलमेर) मण्डनश्रीचिंतामणिपार्श्वनाथस्तुतिः ॥ अनुष्टुप् ॥ वामाकुक्षिसरो हंसं, श्रीचिन्तामणिसंज्ञितम् । श्रीमत्पार्श्वजिनं नौमि, लोद्रवापत्तनस्थितम् ॥१॥ देवेन्द्रवन्दिताः सार्वा-स्तीर्थेशाः सर्वदर्शिनः । विश्वोपकारकारो, जिनाः सर्वे जयन्तु ते ॥२॥ मुक्तिमार्गोपदेष्टारं, मिथ्याध्वान्तविनाशकम् । सर्वज्ञदेशितं वन्दे, सिद्धान्तार्क सुभावतः ॥३॥
*HIRISHISHILA
R G
Page #490
--------------------------------------------------------------------------
________________
कुमार
सूरिस्तति
पालच०
॥२२०॥
पार्श्वयक्षाश्चतुर्हस्ताः, पद्मावत्या समन्विताः । विभुवन्द्यस्य संघस्य, भवन्तु क्षान्तिदाः सदा ॥४॥
पं० श्रीक्षान्तिविजयगणिकृता सूरिस्तुतिः ॥ अनुष्टुप् ॥ नमस्कृत्य महावीरं, स्तुवे वीर मुनीश्वरम् । चन्द्रात् को लभ्यते लोकैः १, साहित्यवाचनेन किम् ॥१॥ 'लण्' सूत्रस्थेन का साध्य-श्चावर्णेत्संज्ञकेन वै । केषां संगः शुभो लोके, सजनैः परिकीर्तितः ॥२॥ साधुलोकैश्च के सेव्यः ? कामुकानां च कः प्रियः । प्राणार्पणप्रयोगेण, सैनिकैः को हि प्राप्यते ॥३॥ आशीर्वादे च किं वाच्यं ?, कस्य धर्मः शिवप्रदः । प्रश्नोत्तराद्यवर्णेन, भव क्षान्तेर्वरप्रदः॥४॥
चतुर्भिः कलापकम् । पंन्यासश्रीवीरविजयगणि (जैनाचार्यविजयवीरसूरि ) स्तुत्यष्टकम् पं० श्रीक्षान्तिविजयनिर्मितम् ॥ अनुष्टुप् ॥ नत्वा विश्वेश्वरं देवं, वर्द्धमानं जिनेश्वरम् । धृत्वा श्रीस्वगुरुं चित्त, उमेदविजयं गणिम् ॥१॥ स्मृत्वा सरस्वती देवी, सर्वदा ज्ञानदायिनीम् । क्षान्त्यादिविजयेनेद-मष्टकं सुविरच्यते ॥२॥ युग्मम् ॥ सर्वशान्तिप्रदं नित्यं, सर्वशास्त्रविशारदम् । सूर्यवत् सर्वजीवाना-मज्ञानान्धनिशापहम् ॥३॥ निशेशवच्छुभाकारं, प्रत्यूहव्यूहवारकम् । संसारभयभीतानां, मोक्षाभयप्रदायकम् ॥४॥
आहादा, २ चातुर्यम्. । प्रत्याहारः, ४ यतीनाम्. ५ वीरप्रभुः. ६ रतिपति. - विजयः. ८ जय इति. १ यतेः.१.(हे) भाचार्यवीरविजय । क्षान्ते:क्षान्तिविजयस्य वरप्रदो भव इति प्रार्थना ॥
KUSHIASA
*॥२२०॥
Page #491
--------------------------------------------------------------------------
________________
सदाचाररतैरद्य-तनैमुनिवरभूषितम् । मुक्तं चाशेषपापियाय, तं वन्दे पूज्यशासनम् ।।
गुर्जरस्य शिरोरत्नं, राजते राधिकापुरी । रसद्वि (२६) संख्यकैः श्रेष्ठ-जिनगेहैविभूषिता ॥५॥ यस्यां श्राद्धा धनैर्युक्ता, वसन्ति च प्रमोदगाः। जिनभक्तौ रताः श्रेष्ठाः, सद्गुरूपासिनः सदा ॥६॥ तत्रस्थं स्वगृहं त्यक्त्वा, योषिद्रविणसंयुतम् । गृहीतः संयमो येन, सम्यग् मोक्षप्रदायकः ॥७॥ सदाचाररतैरद्य-तनैर्मुनिवरैस्तु यः । उमेदविजयो वंद्य-स्तस्मादहत्पदानुगात् ॥८॥ पंन्यासपदवीप्राप्तं, गणीतिपदभूषितम् । मुक्तं चाशेषपापेभ्यो, ज्ञानरत्नसमन्वितम् ॥९॥ परोपकारकर्तारं, जिनाज्ञाप्रतिपालकम् । गुरुं(सूरि)विजयवीराख्यं, तं वन्दे पूज्यशासनम् ॥१०॥ अष्टभिः कुलकम्॥ गुर्वष्टकमिदं पुण्यं, ये पठन्ति दिने दिने । भुक्त्वेह सकलान् भोगान, मोक्षं यास्यन्ति शाश्वतम् ॥११॥ अष्टषण्णवभू (१९६८) वर्षे, द्वादश्यां रविवासरे।नभः शुक्लस्य चैतद्धि, स्तोत्रं संपूर्णतामगात् ॥१२॥ युग्मम् इति ॥
परिशिष्टम् , नं. ३ | सुमेरुशिखरं दृष्ट्वा, गौरी पृच्छति शंकरम् । कोऽयं पर्वत इत्येष?, कस्येदं मंदिरं? प्रभो! ॥१॥ कोऽयं मध्ये पुनर्देवः, है पादान्ता का च नायिका। किमिदं चक्रमित्यत्र , तदन्ते को मृगो मृगी? ॥२॥ के वा सिंहा? गजाः के वा!, Pके चामी पुरुषानव ? । यक्षो वा यक्षिणी केयं ?, के वा चामरधारकाः?॥३॥ के वा मालाधरा एते?, गजारूढाश्च के नराः।
॥४॥ एतावपि महादेव !, को वीणावंशवादको ?॥४॥ दुन्दुभेर्वादकः को वा?, को वाऽयं शंखवादकः? । छत्रहै त्रयमिदं किंवा?, किंवा भामण्डलं प्रभो॥५॥ ईश्वरो (र अ) वाच
Page #492
--------------------------------------------------------------------------
________________
कुमारपालच०
॥ २२१ ॥
1
शृणु देवि ! महागौरि !, यत्त्वया पृष्टमुत्तमम् । कोऽयं पर्वत इत्येषः, कस्येदं मन्दिरं ? प्रभो ! ॥ ६ ॥ पर्वतो मेरुरित्येष, स्वर्णरत्नविभूषितः । सर्वज्ञमन्दिरं चैतद्, रलतोरणमण्डितम् ॥ ७ ॥ अयं मध्ये पुनः साक्षात्, सर्वज्ञो जगदीश्वरः । त्रयस्त्रिंशत्कोटिसंख्या, यं सेवन्ते सुरा अपि ॥ ८ ॥ इन्द्रियैर्न जितो नित्यं केवलज्ञाननिर्मलः । पारंगतो भवांभो धे-र्यो लोकान्ते वसत्यलम् ॥ ॥ अनन्तरूपो यस्तत्र, कषायैः परिवर्जितः । यस्य चित्ते कृतस्थाना, दोषा अष्टादशापि न ॥ १० ॥ लिङ्गरूपेण यस्तत्र, पुंरूपेणात्र वर्तते । रागद्वेषव्यतिक्रान्तः, स एष परमेश्वरः ॥ ११ ॥ आदिशक्तिजिनेन्द्रस्य, ओसने गर्भसंस्थिता । सर्हेजा कुलेजा ध्याने, पद्महस्ता वरप्रदा ॥ १२ ॥ धर्मचक्रमिदं देवि !, धर्ममार्गप्रवर्त कम् । सत्त्वं नाम मृगस्सोऽयं, मृगी च करुणा मता ॥ १३ ॥ अष्टौ च दिग्गजा एते, गजसिंहस्वरूपतः । आदित्याद्या ग्रहा एते, नचैव पुरुषाः स्मृताः ॥ १४ ॥ यक्षोऽयं गोमुखो नाम, आदिनाथस्य सेवकः । यक्षिणी रुचिराकारा, नाम्ना चक्रेश्वरी मता ॥ १५ ॥ इन्द्रोपेन्द्राः स्वयं भर्तु-जताश्चामरधारकाः । पारिजातो वसन्तश्च, मालाधरतया स्थितौ ॥ १६ ॥ अन्येऽपि ऋतुराजा ये, तेऽपि मालाधराः प्रभोः । भ्रष्टेन्द्रा गजमारूढाः, कराग्रे कुंभधारिणः ॥ १७ ॥ स्नात्रं कर्तुं समायाताः, सर्व संतापनाशनम् । कर्पूरकुङ्कुमादीनां धारयन्तो जलं बहु ॥ १८ ॥ यथा लक्ष्मीसमाक्रान्तं, याचमाना निजं पदम् । तथा मुक्तिपदं कान्त - मनन्तसुखकारणम् ॥ १९ ॥ इहतुम्बरुनामानौ तौ वीणावंशवादकौ । अनन्तगुणसंघातं, गायन्तौ जगतां प्रभोः ॥ २० ॥ वाद्यमेकोनपञ्चाशद्भेदभिन्नमनेकधा । चतुर्विधा अमी देवा, वादयन्ति
१ देवीमूर्तिः २ पद्मासने ( पवासणमां ). ३ मध्यस्था. ४ सहजाता. ५ उत्तमशिल्पिविनिर्मिता. ६ ध्यानविषया ध्यानस्था. ७ वरदमुद्रायुक्ता.
जिनमूर्तिवर्णनं.
॥ २२१ ॥
Page #493
--------------------------------------------------------------------------
________________
अयं देवो महादे अभी च द्वादशायकः ॥ २४ोते,यं नमस्कमा धात्रा, आ
श्रेष्ठो श्या वर्षाकालोणकालार्मतम् । रोहणे सरसावतः ॥ २९॥ एवं सामन्यं परम् । अस्य प्रेरका॥ ३२ ॥
स्वभक्तितः॥ २१॥ सोऽयं देवो महादेवि !, दैत्यारिः शङ्खवादकः । नानारूपाणि बिभ्राण-रेककोऽपि सुरेश्वरः ॥२२॥ जगत्रयाधिपत्यस्य, हेतुर्छत्रत्रयं प्रभोः। अमी च द्वादशादित्या, जाता भामण्डलं प्रभोः॥ २३ ॥ पृष्ठलग्ना अमी देवा, याचन्ते मोक्षमुत्तमम् । एवं सर्वगुणोपेतः, सर्वसिद्धिप्रदायकः॥ २४ ॥ एष एव महादेवि !, सर्वदेवनमस्कृतः। गोप्याद्गोप्यतरः श्रेष्ठो, व्यक्ताव्यक्ततया स्थितः॥२५॥ आदित्याद्या भ्रमन्त्येते, यं नमस्कर्तुमुद्यताः।कालो दिवसरात्रिभ्यां, यस्य सेवाविधायकः ॥२६॥ वर्षाकालोष्णकालादि-शीतकालादिवेषभृत् । यत्पूजार्थ कृता धात्रा, आकरा मलयादयः ॥२७॥ काश्मीरे कुङ्कुम देवि !, यत्पूजार्थ विनिर्मितम् । रोहणे सर्वरत्नानि, यद्भूषणकृते व्यधात् ॥ २८॥ रत्नाकरोऽपि रत्नानि, यत्पूजार्थं च धारयेत् । तारकाः कुसुमायन्ते, भ्रमन्तो यस्य सर्वतः ॥ २९ ॥ एवं सामर्थ्यमस्यैव, नापरस्य प्रकीर्तितम् । अनेन सर्वकार्याणि, सिध्यन्तीत्यवधारय ॥३०॥ परात्परमिदं रूपं, ध्येयाद् ध्येयमिदं परम् । अस्य प्रेरकता दृष्टा, चराचरजगत्रये ॥३१॥ दिग्पालेष्वपि सर्वेषु, ग्रहेषु निखिलेष्वपि । ख्यातः सर्वेषु देवेषु, इन्द्रोपेन्द्रेषु सर्वदा ॥ ३२॥ इति श्रुत्वा शिवाद् गौरी, पूजयामास सादरम् । स्मरन्ती लिंगरूपेण, लोकान्ते वासिनं जिनम् ॥ ३३ ॥ ब्रह्मा विष्णुस्तथा शक्रो, लोकपालास्सदेवताः । जिनार्चनरता एते, मानुषेषु च का कथा? ॥ ३४ ॥ जानुद्वयं शिरश्चैव, यस्य घृष्टं नमस्यतः । जिनस्य पुरतो देवि !, स याति परमं पदम् ॥ ३५॥
इति श्रीविश्वकर्माविरचिताऽपराजितवास्तुशास्त्रमध्ये श्रीजिनमूर्तिश्लोकाः॥ एतावानेव ग्रन्थः प्राप्तः॥
Page #494
--------------------------------------------------------------------------
________________ सार60 प्रकार ho // इति श्रीकमारपालभूपालचरित्रम् // hore