SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सर्ग.४ कुमारपालच. SEARCCCCCC कुमारपाल ! मा कापी-चिंतां स्यान्नैव चिंतितम् । येन तुभ्यं ददे राज्यं, चिंता कर्ता स एव ते ॥ ३६०॥ तामेवोपश्रुतिं लात्वा , द्विषजयपटीयसीम् । सहस्रभटयुग् वैरि-प्वपतद् गुजरेश्वरः ॥ ३६१ ॥ आचकर्ष च कोदंडं, सह प्राणैविरोधिनाम् । आरोपयच्च तत्रेषु, समं निजजयाशया ॥ ३६२ ॥ स मुमोच शरश्रेणी-रेणीरिव विदारयन् । संहता अपि दुर्वार-वैरिवीरपरंपराः ॥३६३ ॥ अपश्यतोऽतितूर्णत्वा-त्तस्येषुग्रहणादिकम् । अविद्धमपि विद्धं स्वं, मेनिरे | रिपवो मिया ॥ ३६४ ॥ अमी विरोधिभिः सार्ध, मिलिता इति मा स्म भूत् । सामंतानामिवास्माक-मपि लोके विकत्थ-17 नम् ॥ ३६५ ॥ध्यात्वेतीव निशांतास्याः, सर्वे चौलुक्यायकाः। द्विषतां हृदयं भित्त्वा, बहिरमयासिषुः ॥ ३६६ ॥ युग्मम् ॥ सर्वांगीणैस्तदिषुभिः, पूरिता रेजिरे भटाः । वीरलक्ष्मीपरिरंभाद्, भृशमुत्कर्टका इव ॥ ३६७ ॥ बलोच्छललिभरैः, कल्पिते मेघमंडले । धाराभ्रमं व्यधुस्तस्य, पतंत्यः शरपंक्तयः॥३६८ ॥ निषादिनो यथा चित्तं, संचरन् राजकुंजरः । यथानृपाशयं हस्ति-पकस्तं प्रेरयन् रणे ॥ ३६९॥ यथादृष्टं शरैर्मश्नं-श्चौलुक्यः प्रतिपंथिनः । त्रयोऽप्यमी न कस्यासन् , स्मेरैविस्मयदायिनः॥ ३७० ॥ युग्मम् ॥ सध्वजान् खंडयन् दंडान , मभन् वाहान् ससादिनः । इष्वासान् | सगुणांश्छिदन् , हरन् बाहून् साहुलान् ॥ ३७१ ॥ वान्वितानि वाणि, स्नापयन् भूरिशोणितैः । पातयन्नुत्तमांगानि, शिरस्त्राणयुतान्यपि ॥ ३७२ ॥ बलं निष्काशयन् देहा-जीवं निर्वासयन् हृदः। धानापेषं पिपेष द्विट्-सैन्यांश्चौलु- G १ शकुनम्. २ मीलिताः. निंदा, ३ तेजिताननाः, ४ बाणाः. ५ सर्वाण्यङ्गानि व्याप्नुवन्तीति सर्वाशीणास्तैः. ६ रोमाञ्चिता इव. ७ अतीवाश्चर्यदायिनः, ८ नाशयन. ५ धषि. १. हस्तवर्मसहितान्-स्फुरकसहितान् हस्तान्. ॥७७॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy