________________
कु.पा.च. २१
| देवस्य तनयो विनयोत्तमः || २२८ || व्यवसाय चिकीरत्राऽऽ - यातः श्रीवलभीपुरात् । भवत्तातस्य निस्सीम - प्रेमपात्रं प्रवर्तते ॥ २२९ ॥ युग्मम् ॥ अनेन वर्त्मना सैष, त्वत्तातस्योपरोधतः । कलाकेलिकलो राज- कुलं गच्छत्यनाकुलः ॥ २३०॥ अस्मिन् पुरं सुरोद्याने, स्फुरत्तरुणसत्तरौ । अयमेव वपुर्लक्ष्म्या, पारिजातेति सम्प्रति ॥ २३१ ॥ एतदीया गुणाः स्फार - सौरभाः कमला इव । सकर्णैर्वर्णिताः कस्य, न भवन्त्योपकर्णिकाः ॥ २३२ ॥ तामेव कामिनीं धन्यां मन्येऽहं भाग्यवैभवैः । याऽस्य पाणिगृहीती स्यात्, रोहिणीव सितद्युतेः ॥ २३३ ॥ सखीमुखादिति श्रुत्वा, गुणश्रीगुणगौरवम् । तस्यां मदनवत्यासीद्, विशेषेणानुरागिणी ॥ २३४ ॥ यौवनाधिष्ठितानां स्याद्, मनः प्रायो विवेकमुक् । गुणश्रियां स्त्रियां सा स्त्री, रज्यति स्मान्यथा कथम् ? || २३५ || यद्वा न यौवनस्यैष दोषः किन्तु विधेर्ध्रुवम् । अस्थानेऽपि बलात् प्रेम, यः कारयति चेतसा ॥ २३६ ॥ ततः सा तद्गुणौघस्य, स्मारं स्मारं स्मरातुरा । महामोहान्धजम्बाले, मज्जति स्म करेणुवत् ॥ २३७॥ स्नानांगरागतांम्बूल - गीतनृत्योत्सवादिकम् । विषवन्न मुदे तस्या, विरहिण्या व्यजृंभत ॥ २३८ ॥ पुष्पचापप्रतापोत्थस्तस्यास्तापः स कोऽप्यभूत् । यत्राभुवन् घृथोपायाः, प्रतिकूले विधाविव ॥ २३९ ॥ जलजलजजलोद्रचन्दनस्यन्दचन्द्र - प्रभृतिभिरतिशीतैः शान्तिमायाति तापः । वपुषि विरहभाजां त्वेधते तैः स कामं, कथमिति विषमोऽयं शभ्यतां तद्भिषग्भिः ॥ २४० ॥ ( मालिनीवृत्तम् ) वियुक्तचक्रवाकीवद्, विक्लवां बीक्ष्य तां रहः । दक्षा सख्याचचक्षेऽथ, नाम्नोक्त्याऽपि प्रियंवदा ॥ २४१ ॥ बाधते त्वद्वपुर्व्याधि - राधिर्वा कोऽतिदुर्धरः ? । तपर्तुनेव वल्ली त्वं, शोच्या येनेदृशी १ पुरमेव सुरोद्यानं - नन्दनवनं तस्मिन् २ आचारार्थे विपू ३ उपकर्णे भवा औपकर्णिकाः. ४ ऊढास्त्री. ५ जलेनाद्रकृतं व्यजनं-जलार्द्रा ६ तापः,