SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ सर्ग.६ कुमारपालच. ॥१२०॥ SOCIOCCESSORIES STOG महः। पुरतोऽनेकशः पौरा-नेहिरेयाहिरापरान् ॥ २१३ ॥ यातायातपरं दृष्टे-रग्रतोऽपि पतिं पुरम् । पुण्यसारं न वेत्ति स्म, सम्यक् परिचयं विना ॥ २१४ ॥ नामाकारपरिज्ञानं, विना प्रियमजानती । अदंदह्यत सा काम, वह्निस्पृष्टेव पद्मिनी | 3॥२१५ ॥ पुण्यसारोऽपि तां शृण्वन् , कामदेवस्य नन्दनम् । श्वशुर्यनिश्चयाभावा-न्मन्दाक्षाच्च ददर्श न ॥२१६॥ अन्य दाऽभ्युद्यदामोद-मेदुरैश्चन्दनादिभिः ।सुपर्वपंकजाक्षीवद्, वासयन्ती दिशो दश ॥२१७॥ निजाङ्गसङ्गीपुरुषो-चितशृङ्गारभंगिमिः । मोहयन्ती मनः काम-देववत् पौरसुभ्रुवाम् ॥ २१८ ॥ गच्छन्ती राजसेवार्थ, तां गुणश्रियमैक्षत । वातायनस्था मदन-वती समरसिंहभूः ॥ २१९ ॥ त्रिभिर्विशेषकम् ॥ तद्रूपदर्शनादेव, मकरध्वजमार्गणैः । हृदि विद्धेव सा भूप-पुत्री चिन्तितवत्यदः ॥२२०॥ वन्दिवृन्दस्तवैः पूर्व, ततो गन्धर्वगीतिभिः । तदन्वामोदवातेन, ज्ञापितः कोऽयमुत्तमः ॥२२१॥कामः किमेष ? सोऽनंगः, किं दस्रः? से द्वितीयभृत् । किमैलः? स बभूव प्राक्, किं देवः सोऽनिमेषहकू ॥२२२॥ अनंगश्चेत् तपस्तत्वा, प्रामोत्यनुपमं वपुः । तदेतदुपमामान-पात्रं भवति नाऽन्यथा ॥ २२३ ॥ असौ वीक्षितमात्रोऽपि,18 कापश्यतोहरवन्मम । हरते हृदयं किश्चित् , न वेदयत्र निबन्धनम् ॥ २२४ ॥ जीवितं यौवनं चापि, तदैवैतत् फलेग्रहि[] पुरूरवा इवोर्वश्या, यदाऽयं मे प्रियो भवेत् ॥ २२५ ॥ पञ्चभिः कुलकम् ॥ अथ तस्यां प्रयातायां, दृष्टिमार्गात् गुण|श्रियाम् । शून्येव साऽनुयुंक्त स्म, सखी कोऽयं पुमानिति ? ॥ २२६ ॥ शंसति स्म वयस्या तां, दाक्ष्याल्लक्षिततन्मनाः। गुणश्रियः कुतोऽपि प्राक्, स्थानाद्यं ज्ञातपूर्विणी ॥ २२७ ॥ अयं वरेण्यलावण्यो, गुणचन्द्र इति श्रुतः। श्रेष्ठिनः काम१ गमनागमनक्रियातत्परान्. २ श्वशुरस्यापत्यं पुमान्, ३ लज्जातः. ४ देवांगनावत्, ५ अश्विनीकुमारः सद्वितीयः-द्वौ स्त इत्यर्थः. ६ पुरूरवस् राजा-उर्वशीवल्लभः. ॥१२०॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy