SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥१२॥ ORGARSAMACARE कृता ॥ २४२॥ सा जगाद गवाक्षाग्रे, गच्छन् दृष्टस्तदा मया । यः कुमारः प्रभास्फारः प्रभाकर इवापरः॥२४३ ।। तस्मिन्निध्यानमात्रेऽपि, मुदा स्फारितदृग्दला । पद्मिनीवानुरक्ताऽस्मि, जाताऽस्मीहक् तु तत्कृते ॥२४४॥ सम्प्रति व्योम्नि | दिक्चक्रे, पृष्ठे पायें पुरोऽपि च । तमेवैकं विलोकेऽहं, ब्रह्माद्वैतमिवात्मवित् ॥ २४५॥ स तदा दूरतोऽदार्श, शीतांशुरिव शीतलः। अधुना हृदयस्थास्नुः, कथं दहति वह्निवत् ? ॥ २४६ ॥ दुःखस्यैतन्निदानं ते, न्यवेद्यत मया सखि!। तच्चिन्तय तदाप्तिं मे, यदि मद्धितमिच्छसि ? ॥ २४७ ॥ प्रियंवदोचे वेद्येवं, वयस्येऽहं मनस्तव । विदुष्यऽपि यदप्रारं, केवलं नर्मकर्म तत् ॥२४८॥ श्रेयसे प्रेयसे तस्मै, किं मुधा हृदि खिद्यसे? । यद् योग्ययोर्न योगः स्याद् , दुर्घटः स्वर्णरत्नवत् ॥ २४९ ॥राज्ञः कन्याऽसि धन्या त्वं, गुणचन्द्रः स्फुरद्गुणः। युवयोर्घटनायां हि, किं न्यूनं ननु वल्गति ? ॥२५० ॥ विलोक्यतेऽनुकूलत्वं, केवलं प्रबलं विधेः। अवश्यं यस्य वश्यानि, कार्यानि निखिलान्यपि ॥ २५१॥ दृष्टो विधिरपि प्रायः, सोद्योगो योग्ययोजने । गौरीगिरीशयोः पद्मो-पेन्द्रयोः संगमान्मिथः॥२५२॥ त्वन्मात्रे प्रणिगद्यैतत्, कारयेऽद्य तथोद्यमम् । यथा भवति तेऽभीष्टं, कष्टं मा स्म कृथाः सखि ! ॥२५३ ॥ आश्वास्येति सुतां राज्ञः, सातदैव प्रियंवदा । तजनन्याः पुरः सर्व, तवृत्तांतं न्यवेदयत् ॥ २५४ ॥ ज्ञात्वा मदनवत्यास्तत्, समरश्रीर्मनीषितम् । एकांते निजकांताय, कथयामास सादरम् ॥ २५५ ॥ नृपः समरसिंहस्ता-माह स्म सुचिरं मम । अस्त्येव देवि ! त्वत्पुत्री-पाणिग्रहमहोद्यमः ॥ २५६ ॥ किंतु तादृग्वराभावा-दनुद्यम इवास्म्यहम् । परं भव्यमभूद् रक्ता, गुणचंद्रे यदात्मजा ॥ २५७ ॥ १ दृष्टमाने. २ तमौकम्, प्र.३.प्र. ४ लक्ष्मीकृष्णयोः. ५ वांछितम्. ६ उत्सवप्रयत्नः. CASSORSCORRESS ॥१२॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy