SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सर्ग. ४ कुमार टू को मत्तं, द्विपेंद्र विपिनांतरे ? । उत्थापयति कः सिंह, प्रसुप्तं गिरिगह्वरे ? ॥ ७० ॥को वज्रकठिनं शैलं, संचूर्णयति पालच० मुष्टिना ?। कः कूलमुदहजलं, दोभा तरति वारिधिम् ? ॥७१॥ अनिवार्यैः स्वशौंडीय-स्तर्जितोजितशात्रवम् । को साविग्रहीतुमीष्टे मां ?, पटिष्ठोऽप्यवनीपतिः॥७२॥ केयं कथा तवेशो यद्, विग्रहिष्यति मामयम् । सहस्राक्षोऽपि नाघीष्टे, वक्र॥६७॥ दृष्ट्या विलोकितुम् ॥ ७३ ॥ ततः शंस निजेशं त्वं, तव दंडः प्रदास्यते । प्राणप्रयाणकरणो, न पुनः श्रीमयो मया ॥४॥ इति व्याहृत्य तं दूतं, निष्कास्य च सभांतरात् । मूलराजः समुत्तस्थौ, तत्कालं रणकेलये ॥ ७५ ॥ निर्गत्य नगराच्चाभूद्, अभ्यमित्रः ससैनिकः । गंधसिंधुरवन्नान्यं, सहते हि महस्विनः ॥७६॥कोदंडमंडितोइंड-दोर्दडाः प्रौढतेजसः। कटीनिबद्धतूणीराः, स्फुरद्विकटकंकटाः ॥ ७७ ॥ उच्चैरोषारुणीभूत-मुखाः क्रूरविलोचनाः । अनुभावा इवाध्यक्षा, रौद्रस्य रसरूपिणः ॥ ७८ ॥ युगांतक्षुब्धपाथोघे-विश्वद्यश्चः इवोर्मयः । प्रत्यनीकभटव्यूहाः, समदृश्यंत गूर्जरैः ॥ ७९ ॥ त्रिमि विशेषकम् ॥ संरब्धे योद्धमन्योन्यं, तस्मिन् सैन्यद्वये तदा । अश्वेभसुभटध्वानः, सांराविणमजुंभत ॥ ८०॥ अथ ते मूल-18 दराजीया, भटाः प्रधनलंपटाः। हंतुं चौलुक्यशौंडीरा-नुप्रवेशं दधाविरे॥८१॥ कोदंडचंडदोर्दडैः, खंडिताखंडलप्रभैः। अमंडि रणकंडूलैः, कांडीः कांडेतांडवम् ॥ ८२ ॥ विपक्षप्रेरिताः पत्र-वाहा हृदयभेदिनः। गूजेराणां सह प्राणः, स्पर्धेडायव तिरोऽभवन् ॥ ८३॥ चूर्णपेषमपिष्यंत, परैः केचन मष्टिभिः। ॐर्द्धपूरमपूर्यत, केचिद्वाणैररुंतुदैः॥ ८४ ॥ केचि १ कूलम् आपूर्ये वहति इति कूलमदहस्तम. २ गई: अमित्रं अमिगतः इत्यभ्यमित्रः. ४ विशालकवचाः, ५ रूपं यस्यास्यसौ रूपी. रसधासौ रूपी च. तस्य M६ कोलाहलं जातम् , ७ गर्वान्वित. ८ बाणधरैः.९ बागनाट्यं. १० वाणाः, ११ चूर्ण पिनष्टीतिचूर्णपेषं तद्यथास्यात्तथा. १२ कई पूर्यते इति ऊईपूरम्. ACASSACREASSACREAS ॥६७॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy