________________
ESSASA ***
किंवदंतीमपि क्वचित् । अविदन्ती विधाप्य द्राग, वेदी द्वारबहिर्भुवि ॥३१७॥ तत्र स्थित्वा स्वयं भृत्यै-वाणिज्याचं व्यदी-18 धपत् । व्यवहारचिकीः प्रेयान, कदाऽप्यत्राऽऽपतेदिति ॥ ३१८॥ युग्मम् ॥ पुण्यसारस्तदा वेद्या-मुपविष्टां गुणश्रियम् । |संगतुं गतवांस्तुंग-चंगरंगतरंगिहृत् ॥ ३१९ ॥ दूरतोऽपि समायांतं, गुणश्रीः प्रेक्ष्य तं पुरः । अजानानाऽपि कांतं स्वं, है प्रमोदाद्वैतमासदत् ॥ ३२०॥ प्रथमं रचयामास, साऽभ्युत्थानं हृदा मुदा । विस्तृताभ्यां ततो दृग्भ्यां, तदन्वङ्गेन तंदू
प्रति ॥ ३२१॥ पदानि कतिचिद् गत्वा, निवेश्य स्वासनेऽद्भुते । वाचा सुधामुचा सा तं, वार्तयामासुषी चिरम् ॥३२२॥ ६ पुण्यसारोऽपि तदृष्टि-तद्गोष्ठीरसमापिबन् । निमग्न इव पीयूष-पयोधौ निदधौ मुदम् ॥ ३२३ ॥ मिथः स्त्रीपुंसभावं
तौ, न यद्यप्यवजग्मतुः । तथापि तन्मनोनेत्रे, निस्तुषं सुखमापतुः ॥ ३२४ ॥ नूनं हङ्मनसी एव, प्रियाप्रिय-1 | विवेचिनी । स्यातां सद्योऽपि तदृष्ट्या, प्रीतिद्वेषभृते हि ते ॥ ३२५ ॥ स्वचित्तमिव तच्चित्तं, प्रीतं प्रेक्ष्य स्वसन्निधेः।। पुण्यसारस्त्वया सार्ध, मैत्री मेऽस्त्वित्ययाचत ॥ ३२६॥ अभाषिष्ट गुणश्रीस्तं, मैत्र्यै मे केयमर्थना । न हि पीयूषपानार्थ, प्रार्थ्यते कोऽपि कुत्रचित् ॥३२७॥ सोऽपि स्याद् धन्यमूर्धन्यो, यस्ते दास्यमपि श्रयेत् । किं वाच्यः स तु यं प्रीत्या, त्वं वयस्यीयसि स्वयम् ॥ ३२८ ॥ इति तजल्पितानल्प-प्रमोदामोदमेदुरः । प्रीति गुणश्रिया साफ, पुण्यसारश्चकार सः | ॥३२९॥ एकत्रावस्थितिक्रीडा-सूक्तसारकथारसैः । तत्प्रेमेन्दुकरर्वार्द्ध-रिवावर्धिष्ट संततम् ॥३३०॥ अजनिष्ट तयोरक्यं, मन्येऽन्योन्यानुवेधतः । अन्यथा कथमापन्नौ, तदात्मानौ सरूपताम् ॥ ३३१॥ एवं प्रियोल्लसत्प्रीति-हृष्टा सा श्रेष्ठिनं१ अविदंती, प्र. अदिती, प्र. २ अन्तर्भूतणिजर्थः पा धातुरत्र, ३ आत्मनः वयस्यमिच्छसि. ४ अतिहर्षरूपगंधेन पुष्टः. ५ संबन्धतः. ६ समान (एक) रूपताम् .
*
*