SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ कुमार पालच. ॥१२॥ SUCCAAAAA तदीयाप्तिमनोरथः । हिमक्लिष्टेदुमंदश्री-मनसि ध्यातवानदः॥ ३०२॥ युग्मम् ॥ मया मदनवत्यर्थ, प्रार्थिता प्राक् सरस्वती । आह स्म श्लोकमेकं मां, सा तत्प्राप्तिनिबंधनम् ॥३०३॥ स्मरतोऽपि तमन्तमें, मंत्रवत् तत्समीहया । कुमारो गुणचंद्रस्तां, परिणिन्येऽनुरागिणीम् ॥३०४॥ श्लोकेन वंचयामास, वाणी धूर्तेव मां कुतः। ध्यानात् प्रत्यक्षयित्वा तामुपालप्स्येतमामहम् ॥ ३०५॥ पुण्यसारस्ततो ध्यान-प्रकटां वागधीश्वरीम् । महतीभक्तिरानम्य, योजयित्वा करौ जगौ ॥ ३०६॥ देवि ! श्लोकस्त्वयोक्तोऽभू-न्मह्यं नृपसुताप्तये । मयि तक्ष्यायकेऽप्यासीत्, सा परस्य परिग्रहः ॥ ३०७॥ उक्तिर्यदि त्वदीयाऽपि, मृषोद्यत्वेन दूषिता । भानुप्रभा तदा किं न, स्यात् तमिश्रे(ने)ण मिश्रिता ? ॥३०८॥ त्वयाऽपि वंचितोऽहं चेद्, वात्सल्यरसकुल्यया । वंचयित्री ध्रुवं तर्हि, पुत्रं माताऽप्यतः परम् ॥३०९॥ वाणी बभाण मां वत्स!, किमुपालंभसे मृषा ? । दैवीवार मेरुचूलेव, न चलत्येव कर्हिचित् ॥३१०॥ वंचयेऽहं प्रपंचेन, सामान्यमपि नो जनम् । निर्व्याजं भक्तिभाजं च, किं पुनस्त्वां नरोत्तमम् ? ॥३११॥ अद्यापि राजपुत्रीं तां, स्ववधूं चेद् विधित्ससे । निर्मिमीष्व तदा मित्रं, कामदेवतनूरुहम् ॥ ३१२ ॥ देव्यामुक्त्वेति यातायां, पुण्यसारो व्यचारयत् । अधुनाऽपि जगादेयं, |किमेतदसमञ्जसम् ॥ ३१३ ॥ परकीया प्रिया साऽऽसीत्, परस्त्रीविमुखस्त्वहम् । तन्मे कथं भवित्री स्त्री, वंचितोऽस्मि पुनर्बुवम् ॥ ३१४ ॥ तथापि गुणचंद्रेण, सार्धं निर्माय सौहृदम् । श्रुताधिष्ठायिकाऽऽदिष्ट, वितनिष्ये प्रियेप्सया ॥३१५॥ ततः स धिषणासारः, पुण्यसारः स्वमानसे । गुणश्रियं सखीकर्तु, कामयामास तत्क्षणम् ॥ ३१६ ॥ गुणश्रीरपि कांतस्य, १ तुषारकणा रेणुकणा वा हिमम्. २ महती भक्तिर्यस्य सः. ३ मृषावचनत्वेन. ४ विधातुमिच्छसि. ५ प्रियामाप्नु मिच्छया. ॥१२३॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy