________________
यवेष्टयन् ॥४९०॥ महासेनोऽपि सेनाभिः । समं तान् युध्ययोधयत् ॥ पराभवं सहते हि । सिंहवन्न महस्विनः ॥४९॥ सैन्यभंगे सति स्वेन । युध्यमानोऽप्यनेकधा ॥ बलिभिश्छलिभिर्द्विद्धिः। महासेनो न्यहन्यत ॥ ४९२ ॥ भास्वतीव गते तस्मि-नृपेऽस्तं दैवयोगतः॥ लोकेऽन्धकरणः शोक-तमःस्तोमस्तदाऽस्फुरत् ॥ ४९३॥ ततो बुद्धिबलो नाम । मंत्री बुद्धिबलोद्धरः॥ पिधाप्य विशिखाः सर्वाः । पौररक्षामचीक्लपत् ॥४९४॥ कृपां मनसि कृत्वोच्चैः । कारागार निवासिनः॥ जनान् सोऽमूमुचत् सर्वान् । प्रस्तावज्ञा हि तादृशाः ॥ ४९५ ॥ राज्ञीमृत्या समायासी-न्ममापि मरणं हहा ॥ इत्युदीयॆकया दास्या । मुक्तोऽहं पंजरात्प्रिये! ॥४९६॥ विना तमेकं भूपाल-पुत्रं विमलवाहनम् ॥ मृतप्रायमभूत्सर्व । भोज्यहीनं यथा वपुः ॥४९७॥ कीदृशं राज्यमासीत्तत् । प्रथमं सांप्रतं पुनः॥ कीदृगस्ति हहा दैवा-दनित्याऽहो ? भवस्थितिः ॥४९८ ॥ अंतर्मत्रचणो मंत्री । लक्षसैन्या द्विषो बहिः॥ किं किं भावि पुरो वेद । भगवान् कोऽपि नापरः॥ ४९९ ॥ अधुनैव समायान्तं । विद्धि मां तत्पुरादिह ॥ शुकीमिति शुकः प्रोच्य । मुनिवन्मौनमातनोत् ॥५००॥ श्रुत्वा तद्दुःश्रवं तात-वृत्तं विमलवाहनः॥ शस्त्राहत इवोद्दीप्त-मूर्छश्चैत्यादधश्च्युतः॥ ५०१॥ तत्पातजातनिर्घाता-दजापुत्रोऽपनिद्रितः ॥ अपश्यन् संनिधौ भूभृत्-पुत्रं तं द्रष्टुमुत्थितः॥ ५०२॥ इतस्ततो भ्रमंश्चैत्य-पश्चाद्भागेऽतिमूर्छितम् ॥ दृष्ट्वा राजसुतं सोऽभू-दवालीढ इवाकुलः ॥५०३॥ शीतैरौपयिकैराशु । स्वस्थयित्वा कथंचन ॥ तव जज्ञे किमेतत्त-मित्यप्राक्षीदजासुतः॥ ५०४॥ परिसृताश्रुमिश्राक्षः। कथंचिद्वाचमुच्चरन् ॥ वृत्तं शुकोदितं तस्मै । जगौ विमलवाहनः॥५०५॥ अजासुतस्तमूचेऽथ । स्नेहलो निजबंधुवत् ॥ मा रोदीर्मास्म शोचीश्च । विभाव्य भवचेष्टितम् ॥ ५०६ ॥ पितरः कस्य