SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ कुमारपालघ० ॥ ३९ ॥ जीवंति । चिरं कस्यानिशं सुखम् ॥ रुरुधे कस्य नो राज्यं । मंथिभिः प्रतिपंथिभिः ॥ ५०७ ॥ उदयः पतनाय स्याज्जीवितव्यं च मृत्यवे ॥ विरोधः सुखनाशाय । स्थितिरेषा सनातनी ॥ ५०८ ॥ तावदेवोदयः पुंसां । यावद्भाग्यमभंगुरम् ॥ शुक्लपक्षक्षये जाते । सुधांशुर्वर्धते कियत् ॥ ५०९ ॥ तच्छोकशंकुमुन्मूल्य । धीरतां हृदि धारय ॥ व्यसने सति यो धीरः । स धीर इति मे मतिः ॥ ५१० ॥ अगाधे व्यसनांभोधौ । महतोऽपि निपेतुषः ॥ नवरं धीरतैवैका । तदुत्तारे तरीयते ॥ ५११ ॥ इति संबोधितः सूक्त - महासेनतनूरुहः ॥ अधुना किं करोमीति ? । पृच्छति स्म तमुत्सुकः ॥ ५१२ ॥ अजासुतो बभाषे तं । मा भैषीस्त्वं द्विषद्गणात् ॥ वराका मे पुरः केऽमी ? । मृगेंद्रस्य यथा मृगाः ॥ ५९३ ॥ किंतु यावदहं यामि । तावल्लेखः प्रहीयताम् ॥ शुकेनानेन तेन स्यात् । स्वस्थो मंत्री यथा हृदि ॥ ५१४ ॥ इत्युक्त्वा कीरमाकार्य । प्रोचेSजातनयो मृदु ॥ पश्य त्वं नृपतेः पुत्रः । सोऽयं विमलवाहनः ॥ ५१५॥ यद्येतज्जननीस्नेहा-त्त्वमानृण्यं समीहसे ? ॥ तदेतदुपकाराय । मंत्रिणोलेखमर्पय ॥ ५१६ ॥ इत्यर्थितः शुकस्तेन । लेखं लात्वा तदर्पितम् ॥ तदैव देववद्गत्वा । ददौ बुद्धिबलाय तम् ॥ ५१७ ॥ यस्य तस्यापि कृप्तः स्यादुपकारः फलेग्रहिः ॥ पश्य कस्यां हि वेलायां । शुकः स पत्रमार्पिपत् ॥५१८ ॥ दृष्ट्वाऽपि कृतहृल्लेखं । तं लेखं प्राप्य मित्रवत् ॥ स्वयं बुद्धिबलो मंत्री । वाचयामास तद्यथा ॥ ५१९ ॥ स्वस्तिश्रीमन्महासेनसूनुर्विमलवाहनः ॥ भुजोपपीडमालिंग्य । मंत्रिणं निगदत्यदः ॥ ५२०॥ अस्तीह निस्तुषं स्वस्ति । तत्रत्या निखिला कथा ॥ | मयाऽज्ञायि शुकादस्मात् । स्वस्मादनुचरादिव ॥ ५२१ ॥ वैक्लव्यं न त्वयाऽऽलंब्यं । जातं यज्जातमेव तत् ॥ अहमायात एवास्मि । तावद्रक्ष्यं निजं पुरम् ॥ ५२२ ॥ इति लेखार्थबोधेन । बुद्ध्वा भूपभवागमम् ॥ धीसखः सुखमापेदे । सनायक सर्ग. २ ॥ ३९ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy