________________
स्त्री - स्त्रीत्वेन निखिले पुरे, । यच्चक्रेऽहमनिष्टस्य, पुण्यसारस्य वल्लभा ॥ ४३२ ॥ परं दैवकृते कार्ये, किं करोत्यभिमानिता । ध्यात्वेति दधे मदन - वती प्रीतिं परां प्रिये ॥ ४३३ ॥
अथ विज्ञपयामास, गुणश्रीः स्वपतिं प्रति । भग्नीभिर्यत् प्रतिज्ञातं मत्प्रयाणेऽवधेहि तत् ॥ ४३४ ॥ षण्मासांते सकांता चेत्, स्वसस्त्वं न समेष्यसि । दुःखांताय तदा प्राणान्, होप्यामः प्रबलेऽनले ॥ ४३५ ॥ दिवसाः संति पंचैव तन्मृत्य - | वधिमध्यतः । तद् वरिष्ठ ! प्रतिष्ठस्व, त्वं द्रुतं वलभीं प्रति ॥४३६ ॥ नो चेद् भवद्वियोगार्त्ता, भगिन्यः पितरौ च मे । जातवेदसि लप्स्यंते, शलभैः सुलभां गतिम् ॥ ४३७ ॥ पित्रे राज्ञे च विज्ञप्य, तदनुज्ञामवाप्य च । रतिप्रीतियुतः काम, इव स्त्रीद्वयभासुरः ॥ ४३८ ॥ धनसारतनुजन्मा, पवनानिव रूपिणः । वाजिप्रष्ठानधिष्ठाय प्रातिष्ठत पुरात् ततः ॥ ४३९ ॥ | युग्मम् ॥ ग्रामीणानां प्रतिग्रामं, विनोदर्मोदयन् मनः । महीं महीयसीमेष, ययौ व्योम्नेव संचलन् ॥ ४४० ॥ मिथः प्रियाप्रियालाप - कलापामृततर्पितः । प्रस्थास्नुरपि सोऽश्रांतं, न वर्त्मश्रांततामधात् ॥ ४४१ ॥ इत्यविच्छिन्नयानेन, पुण्यसारः समासदत् । पंचमे दिवसे प्रात- वलभीपुरगोचरम् ॥ ४४२ ॥ तस्मिन्नेव दिने तत्र, कामदेवतनूरुहाः । सप्ताऽप्यभ्येत्य वतारं, दुःखतप्ता व्यजिज्ञपन् ॥ ४४३ ॥ षण्मासी परिपूर्णाऽऽसीन्, नायासीद् भगिनी परम् । नूनं सा न प्रियं प्राप, तेन जीवति नैव च ॥ ४४४ ॥ इयच्चिरं स्वकांताशां, द्रविणाशां दरिद्रवत् । कृत्वा वृथाऽसहिष्मोच्चै - दुस्सहं विरहानलम् ॥ ४४५ ॥ तत्प्रसद्य पितः ! सद्यः, सोद्यमीभूय दीयताम् । अस्मभ्यं सर्वदुःखद् - दहनाय धनंजयः ॥ ४४६ ॥ दुहितुणां
१ स्त्रियाः स्त्री स्त्री स्त्री तस्या भावस्तेन २ अग्नौ ३ श्रेष्ठान् ४ प्रस्थानशीलः ५ निरन्तरम्. ६ अभिः.