SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ROGACHOS HUAIGOGOROSBACH नीरधिम् । कुमारः शरणाकांक्षी, हेमाचार्याऽऽश्रयं श्रितः॥१९९॥ ऊचे च सिद्धराड्भृत्याः, पितृवैरादिवोल्बणात् । पश्यंतः संति मां हेतु-मतस्त्वां प्राप्तवानहम् ॥२००॥ तदेतेभ्यः प्रभो ! रक्ष, मां वृकेभ्य इव छगं । कृपया, यदि वाऽऽत्मीय-ज्ञान सत्यापनेच्छया ॥ २०१॥ सूरिस्तद्वाक्यमाकर्ण्य, दध्यौ कारुण्यनीरधिः। एकतो भूपतिद्रोहो, रक्षणीयोऽयमन्यतः॥२०२॥ राजद्रोहे व्ययोऽसूनां, बातेऽस्मिन् पुण्यमुल्बणम् । अनयोः कृत्ययोर्मध्ये, सांप्रतं करवै किमु ? ॥२०३॥ नृपः कुप्यतु, गच्छंतु प्राणा वा ऽहं, तदप्यमुम् । त्रास्ये, यथा भवत्येष, जिनशासनलालसः॥२०४॥ अथ तं वसतावेव, न्यस्य भूमि गृहांतरे । पुस्तकग्रंथिमिस्तस्य, द्वारं सूरिः प्यदीधपत् ॥२०५॥ तावद् भूपभटाः कोपो-त्कटा भ्रांत्वाऽखिलं पुरम् । तत्रैत्य दापोचिरे सूरि, कुमारोऽस्ति ? भवन्मठे ॥ २०६॥ प्राणिनाणं महत्पुण्यं, मिथ्यावादस्त्वषं लघु । विदन्नित्यवदत्सूरिः,18 सोऽत्र नास्त्येव सर्वथा ॥ २०७॥ भटैरूचेऽत्र चेन्नास्ति, राजाज्ञा क्रियतां तदा । प्राणांतं प्रेक्षमाणोऽपि, पुण्यार्थी तां व्यधात्प्रभुः ॥ २०८॥ कस्यापि दुर्जनस्योत्या, मन्वानास्तत्र तं स्थितम् । अभितो मृगायामासु-स्तं मैठं सुभटा हठात् ॥ २०९॥ पुस्तकग्रंथिभिस्ताल-पत्रजालैश्च पूरितम् । दृष्ट्वा भूमिगृहद्वारं, न तैर्देवाद्विलोकितम् ॥ २१॥ गतेषु तेषु निष्काश्य, चौलुक्यं प्रभुरभ्यधात् । गिरो द्विषद्भटोद्गीर्णा-स्त्वया शुश्रुविरे न वा ? ॥२११॥ स योजितकरोऽवादीत्तस्थुषाऽपि मयांतरे । तदीया भवदीयाश्च, गिरः कर्णातिथीकृताः॥२१२॥ जिता पृथ्वी पृथ्वी, दलितमखिलं शात्रवकुलं, कृतः कोशो भूयान् कनकनिकरायजनितैः । मुदा राज्यं भुक्तं सुचिरमधुना बंधुहननाद्, वृथा वृद्धः सिद्धक्षिति १ खप्राणरक्षणोल्बणपुण्ययोर्मध्ये इत्यर्थः, २ माठे. प्र. ३ विस्तृता.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy