SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ S सर्ग.३ कुमारपालच० ॥५१॥ संविध्ययस्तमुवाचैवं घटिता। लेखित्वा मददी सिन्जालोकसन्यास चतु- मार्गशीर्षस्य,श्मिक लोक, भवद्वत्साहन कथा ? ॥ १८२ ॥ जानीषे यदि तद् ब्रूहि, राज्याप्तौ वत्सरादिकम् । अन्यथाऽऽमुष्मिक लोकं, भवद्वत्साधये क्वचित् ॥ १८३ ॥ विमृश्याभिदधे सूरि-नवांकेश्वरवत्सरे (११९९) । चतुर्थ्या मार्गशीर्षस्य, श्यामायां पुष्यगे विधौ ॥ १८४॥ अपराहे तवैश्वर्य, यदि नोर्जस्वि जायते । निमित्तालोकसन्यास-स्तीतः परमस्तु मे ॥ १८५॥ युग्मम् ॥ प्रतिज्ञायेति सूरींद्र-स्तदा तद्दिनपत्रकम् । लेखित्वा प्रददौ तस्मै, सचिवोदयनाय च ॥ १८६॥ तेन तस्य सुरस्येव, ज्ञानेनातिचमत्कृतः। चौलुक्यस्तमुवाचैवं, घटितांजलिमंजुलः॥ १८७॥ यद्येतत्त्वद्वचः सत्यं, त्वमेव क्षितिपस्तदा । अहं तु त्वत्पदांभोज, सेविष्ये राजहंसवत् ॥१८८ ॥ वदंतमिति तं सूरि-जंगौ राज्येन किं ? मम । भानुनेव त्वयोद्भास्यं, शश्वज्जैनमतांबुजम् ॥ १८९॥ रंगादंगीकृते तेन, तस्मिन् वाक्ये स सूरिराट् । अमात्योदयनं प्रोचे, स्वरहस्यं रहस्यदः ॥ १९०॥ यथैवामकुमारःप्रा-कन्यकुब्जनृपात्मजः । अपमानाद् भुवि भ्राम्य-नागान्मोढेरकं पुरम् ॥ १९१॥ श्रीसिद्धसेनसूरिस्तं, ज्ञात्वा सत्कार्य चार्यवत् । अतिष्ठिपत्स्वनेदिष्ठं, रंजयन् गुणगौरवात् ॥१९२॥ स प्राप्तराज्यस्तच्छिष्यं, बप्पभट्टि प्रभु मुदा । गुरुकृत्य कृतज्ञत्वा-दर्हन्मतमदिद्युतत् ॥ १९३ ॥ तथा त्वयाऽप्ययं भावि-राज्यो दुःस्थोऽधुनाऽऽगतः । यद्युपक्रियते स्वीय-स्वामिवद् द्रविणादिना ॥ १९४ ॥ तदाऽयमपि संप्राप्य, स्वाम्यमाममहींद्रवत् । उल्लासयेन्मतं जैनं, भूत्वैव परमाहेतः॥ १९५॥प्रभुणेति समादिष्टः, कुमारं निजमंदिरम् । नीत्वा भोजनवस्त्राद्यैः, सच्चके सचिवाग्रणी ॥ १९६ ॥ चौलुक्यो निवसंस्तत्र, चरैात्वा कथंचन । वृथा वैरायमाणाय, सिद्धेशाय न्यवेद्यत ॥ १९७ ॥ तदानीमेव तन्नुन्ना, भटा द्विघातलंपटाः । स्तंभतीर्थ समागत्य, परितस्तं लुलोकिरे ॥ १९८ ॥ तन्मत्वोदयनावासा-मैनाक इव OCAROSTAS STATISTICS
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy