________________
नमतिष्ठित् ॥ १६६ ॥ इति चिंतापरे तस्मिन् भुक्त्वोत्थाय च बोसरिः । अवशिष्टं करंभं तं, गोपयामास वाससा ॥ १६७॥ उत्थितेऽथ कुमारे स, द्विजश्चेत्त्वं बुभुक्षसे । करंभं तर्हि भुंक्ष्वेति, प्रोच्य तस्मै तमानयत् ॥ १६८ ॥ कुमारोऽभाषताभोजि, प्राक्त्वयैकाकिना कुतः ? । स स्माह भिक्षमाणं मां, जगादैका द्विजप्रिया ॥ १६९ ॥ अयं करंभ कुंभोऽस्ति, रात्रावपिहितः परम् । यदि कार्य तदा ऽऽदत्स्व, मह्यं देयं न दूषणम् ॥ १७० ॥ लप्स्यते वा न वाऽ न्याऽत्र, भिक्षेति ध्यायता मया । अंगीचक्रे स लौल्येन, द्विजप्रकृतिरीदृशी ॥ १७१ ॥ अत्रागत्य मयाऽपाया - द्वीभ्यता तुभ्यमेषकः । नादर्श्यत क्षुधार्तः सन्, भवान् भुंजीत कर्हिचित् ॥ १७२ ॥ वरं मे मरणं भूयात्, पाल्योऽसौ यत्नतो मया । यः कल्येऽपि नृपीभूय, तातवत् त्रास्यते क्षितिम् ॥ १७३ ॥ ध्यात्वेत्थं त्वयि निद्राणे, भुक्त्वा ज्ञात्वा च तं शुभम् । अधुना कथयन्नस्मि, भुंक्ष्व त्वं क्षुधितोऽसि चेत् ॥ १७४ ॥ चौलुक्यो ध्यातवानीह - गस्य स्नेहो ममोपरि । अहं तु नीचवत् किंचिदन्यदेव व्यचिंतयम् ॥ १७५ ॥ धिग्मामिति स्वयं निंद - न्नात्मानं स करंभकम् । अशित्वा प्रस्थितस्तस्मिन् प्रीतो रामेऽच्युतो यथा ॥ १७६ ॥ अन्येद्युः स भ्रमन्नागात्, स्तंभतीर्थाभिधं पुरम् । निमित्तं प्रष्टुकामश्च, हेमाचार्यमठं ययौ ॥ १७७ ॥ तदा तत्र स्थितो हेमसूरिः समुपलक्ष्य तम् । सुचिरं वार्तयामास, संतो ह्युचितवेदिनः ॥ १७८ ॥ कुमारः सूरिमप्राक्षी - न्मुनिवद्विनयांचितः । ममापि भगवन् ! भावि, कर्हिचित्किं ? सुखं न वा ॥ १७९ ॥ किंचिन्निमित्तमालोच्य, स्मृत्वा चांबावचः प्रभुः । यावत्तं | भाषते ताव - त्प्रापोदयनमंत्रिराट् ॥ १८० ॥ तं मंत्रिणं ज्ञापयितुं, कुमारं सूरिरुचिवान् । भविता कियताऽपि त्वं, कालेन क्षितिनायकः ॥ १८१ ॥ स निःश्वस्य प्रोचे, मिथ्यैतत् कथ्यते कुतः ? । निःस्वस्येव न मे भोज्य-मपि राज्यस्य का