SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ कुमार सग.२ पालच० ॥२३॥ व सत्यमूषुषी ॥ परं पुत्रमा कृथा वृथा ॥ ४८ ॥ भद्रेऽयं जातमात्रोऽपि । त्यज्यतां बहिरात्मजः॥४२॥ दग्धा वाचा तया दाव-ज्वालयेव समंततः ॥ धर्मोपाध्यायमाचख्यौ । गंगाऽगःपरिवर्जिता ॥४३॥ स्वामिन् ! किमिदमादेशि। तनुजाऽपि न सुत्यजा॥ इंदुवन्नयनानंदी। किं वाच्य स्तनयः पुनः॥४४॥ चिंतामणिश्च पुत्रश्च । द्वयमेतत्सुदुर्लभं ॥ तत्कथं ? त्यज्यते नाथ ! । प्राप्तं सुकृतयोगतः ॥ ४५ ॥ IPIपरः शतान्यौपयिका-न्यहो यस्याप्तयेऽनिशं ॥ बुधैरपि विधीयते । कः कृती तं त्यजेत् सुतं ? ॥ ४६ ॥ प्रियः प्रियामथा-| चष्ट । शिष्टे ! त्वं सत्यमूक्षुषी ॥ परं पुत्रः स पाल्यः स्या-द्वर्धयेद्यः कुलं निजं ॥ ४७ ॥ असौ कुलक्षणत्वेन । कुलक्षयकरः पुनः॥ तस्मादहिस्त्यजैनं द्राग् । विचारं मा कृथा वृथा ॥४८॥ पुत्रादपि कुलस्त्रीणां । श्रेयः प्रेयोवचः खलु॥ध्यात्वेति सा गलदंगा । गंगाऽऽदाय निजं सुतं ॥ ४९ ॥ सिंचंत्यश्रुभरैर्वक्षः । स्तन्यैश्च क्षितिमंडलं ॥ मुहुर्मूर्धनि चुंबित्वाऽत्याक्षीद्रनमिव क्वचित् ॥५०॥ युग्मं ॥ पथि तं पतितं बाल-मजा प्राग्जन्मनेः प्रसूः ॥ तदर्शनात् क्षरत्क्षीरा । निजं स्तन्यमपीप्यत ॥५१॥ अजापृष्ठस्थितो दृष्ट्वाड-जापालो वाग्भटोऽथ तं ॥ दयालुत्वादुपादाय । पुत्रत्वेनार्पयत् स्त्रियै ॥५२॥ निष्पुत्रा प्राप्य तं पुत्र-मजापालप्रियाऽपि च ॥ तृषातुरानीरमिव । संमदाद्वैतमासदत् ॥ ५३॥ सदैव दैवमेवैकं । स्तुमहे महिमोद्धतं ॥ प्रगल्भते यतो नान्यः। संपद्यपि विपद्यपि ॥ ५४॥ त्याजयित्वा पुरा येन । मातापितृकरोदरात् ॥ अजापालगृहे बालः । स तदैव न्यवेश्यत ॥५५॥ अजाविनिर्मितस्तन्य-पानदर्शनहेतुना ॥ अजापुत्राख्ययाऽऽख्यायि । पितृभ्यां सोऽर्भको मुदा ॥५६॥ गुणालयोऽतिश्रीपात्रं । भाव्यपि प्राच्यकर्मणा ॥ अजापालकुले सोऽर्भः । पंके पद्म १ गंगा रंगापवर्जिता-प्र.२ पुत्री. ३ उक्तवती. ४ प्रारजननप्रसूः, प्र. ROGRESSHESHI SASA च क्षितिमंडलं ॥ मुहुमेधानि -CONCERCOASTRUS
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy