________________
इवावृधत् ॥ ५७ ॥ स्तनंधयोऽपि से स्वस्य । जगिवान् राज्ययोग्यतां ॥ तेजोभरैर्जगज्जैत्रै | रविवद्दिनकर्तृतां ॥ ५८ ॥ तस्मिन् वसंतवत्सर्व-गुणद्रुषु विवर्धिषु ॥ रसालवद्विशालत्वं । भृशं सत्त्वमशिश्रियत् ॥ ५९ ॥ यत्नं विनापि तच्चित् । जलाशय इवामले ॥ सकलोऽपि कलाव्यांपः । संक्रांतः शशिबिंबवत् ॥ ६० ॥ जनके ज्वरितेऽन्येद्युस्तदादेशवशंवदः ॥ अजाजं चारयितु-मजापुत्रो बहिर्ययौ ॥ ६१ ॥ निजेच्छया चरंतीषु । छागीषु पुरगोचरे ॥ स वैटच्छायामाश्रित्य । | निषसाद विषादमुक् ॥ ६२ ॥ तदा तत्पुरराट् चंद्रा - पीडश्चंद्रवितंद्ररुक् ॥ प्राप पापर्धितस्ताप - तापितस्तं तरुं गुरुं ॥ ६३ ॥ तरुच्छायां श्रिते तस्मि - नृपतौ सपरिच्छदे || प्रादुर्भूयावदत्काचि - देवी दिव्यत्तमद्युतिः ॥ ६४ ॥ असावजासुतो राजन् ! | लक्षसैन्येशतां श्रितः ॥ हत्वा त्वां द्वादशाव्यंते । भविताऽत्र पुरे नृपः ॥ ६५ ॥ देव्यां गतायां तत्प्रोच्य । शोच्यं वीक्ष्य च तं शिशुं ॥ तृणीकृतजगद्दर्पा - चंद्रापीडो व्यचिंतयत् ॥ ६६ ॥ असंबद्धमिदं देव्या । जगदे मे पुरः किमु ? ॥ यत्तेजसाऽतिसिंहं ही । हंता मामेष मेषरुक् ॥ ६७ ॥ पंगुश्चेन्मेरुमारोहे - तरेच्च कुणिरर्णवं ॥ तर्ह्यसौ कर्हिचिन्नूनं । हंतुमीशीत मां शिशुः ॥ ॥ ६८ ॥ इति तूष्णीस्थितं भूपं । प्रोचे सुमतिमंत्रिराट् ॥ शिशावपि रिपौ स्वामि-नोपेक्षां कर्तुमर्हसि ॥ ६९ ॥ ययाविश्व विरोधी च । द्वावेतौ संमतौ समौ ॥ उपेक्षितौ प्रवृद्धौ च । दुरुच्छेदौ बुधैरपि ॥ ७० ॥ त्वद्गृह्यैवामरी काचिदियं त्वद्धितमूचुषी ॥ दृषल्लेखा स्थिरा नैव । देव्युक्तिश्च भवेन्मृषा ॥ ७१ ॥ अपकर्तुं यदप्येष । द्वेषी नेष्टे शिशुत्वतः ॥ निर्वास्यतां तथाप्यस्मा - देशात्तस्करवत् क्वचित् ॥ ७२ ॥ आलोचितं तदुचितं । मत्वा भूमान् स्वमंत्रिणः ॥ क्वाप्यरण्ये
।
१ सश्वस्य जग्मिवान् प्र. २ विस्तारः ३ वरछायं-प्र. ४ खगृहासका ५ उक्तवती.
৬৬