________________
॥ ११३ ॥ अन्यानपि महंमन्या - नहंमन्यांश्च भूपतीन् । औत्तराहान् विजिग्येऽसौ, सामंतानिव हेलया ॥ ११४ ॥ शकैदेशाद् विनिवृत्य, स धर्मविजयी नृपः । जालंधरजयशल्य - मेरुमुख्यानसाधयत् ॥ ११५ ॥ कुमारपालभूभर्तु-श्चतुर्दिग्विजयेऽप्यदः । प्रोचे प्रमाणं श्रीवीर - चरित्रे हेमसूरिणा ॥ ११६ ॥ आगंगमैन्द्रीमाविंध्यं याम्यामासिंधु पश्चिमाम् । आतु रुष्कं च कौबेरीं, चौलुक्यः साधयिष्यति ॥ ११७ ॥ इत्थमासूत्र्य दिग्जैत्रीं, यात्रां यंत्रितशात्रवः । कुमारपाल क्षितिभृद्, ववले स्वपुरं प्रति ॥ ११८ ॥ अवेत्य पत्तनोपांते, प्राप्तं चौलुक्यनायकम् । राजलोको ययौ द्रष्टुं भूरिप्राभृतशोभितः ॥ ११९ ॥ अथ द्विपेंद्रमारूढो, दिव्यशृंगारभंगिभिः । ऐरावतस्थितं नाकि-नायकं तुलयन्निव ॥ १२० ॥ पूर्णेदुसुंदरो|द्दामाss - तपवारणधारणात् । चतुर्दिग्विजयोद्भूतं, यशोव्यूहं वहन्निव ॥१२१॥ अभितो वीज्यमानोरु - श्वेतचामरयोगतः । दिवाऽपि वक्र चंद्रोद्यज् - ज्योत्स्नौघौ दर्शयन्निव ॥ १२२ ॥ तारहारस्फुर्रत्स्फार - माणिक्यद्युतिदंभतः । जनं प्रति स्वचि - | तोरु - रंगं प्रत्यक्षयन्निव ॥ १२३ ॥ सर्वाङ्गरंगदुत्तुंग - प्रभाप्राग्भारकैतवात् । रज्यज्जयरमारामा -संश्लेषं कलयन्निव ॥ १२४ ॥ | दैवनिर्मितदारिद्र्य – लिपीलोपविधित्सया । भ्रूक्षेपदापितैः स्वर्णै - र्याचकान् श्रीदयन्निव ॥ १२५ ॥ वाद्यमानसदातोद्यध्वानसंतानवर्धिभिः । मागधस्तुतिकल्लोलैः, पुष्करं पूरयन्निव ॥ १२६ ॥ वातवेत्पताकाग्र—च्छलात् स्वामिसमागमे । हर्षेण नृत्यतीवोच्चै— चौलुक्यः पत्तनेऽविशत् ॥ १२७ ॥ अष्टभिः कुलकम् । अथात्तस्फार शृंगार - प्रथितप्रौढविभ्रमाः ।
१ वयं महान्त इति मन्यमानान् २ अभिमानिनः ३ शकः म्लेच्छविशेषः इति शब्दकल्पद्रुमे तस्य देशात् ४ विनिर्ऋत्य-प्र. ५ मेरु, प्र. ६ पूर्वाम्. ७ कृत्वा ॐ उभयतः ८ मौक्तिकहारमध्ये दीव्य दबृहद्रतमणिद्युतिच्छलेन, ९ आकाश १० कंत्र. ११ सप्तम्येकवचनम् १२ विख्यातगाढविभ्रमाः.