________________
| स्वपुरमासन् ॥ ७१७ ॥ नत्वा च माचार्याय - स्थितं चौलुक्यनायकम् । उपदादानपूर्वं तत्सर्वं वृत्तं न्यवेदयन् ॥ ७१८ ॥ तेनाद्भुतेन कृत्येन नृपतेर्हर्षितो गुरुः । उपश्लोकयति स्मैवं, धर्मोत्साहविधित्सया ॥ ७१९ ॥ भूयांसो भरतादयः क्षितिधवास्ते धार्मिका जज्ञिरे, नाऽभून्नो भविता भवत्यपि न वा चौलुक्य ! तुल्यस्तव । भक्त्या क्वापि घिया क्वचिद् धनधनस्वर्णादिदत्त्यां क्वचिद् देशे स्वस्य परस्य च व्यरचयज्जीवावनं यद् भवान् ॥ ७२० ॥ ( शार्दूलविक्रीडितम् ) ततश्चौलुक्यमालोक्य, करुणारसलालसम् । असूयामासुषी हिंसा, सपलीव स्वचेतसि ॥ ७२१ ॥ नृपस्य हृदये गेहे, पुरे जनपदे भुवि । काप्यनाप्नुवती वासं, तातमोहांतिकं ययौ ॥ ७२२ ॥ तदा सभास्थितो मोह - महींद्रः स्वसुतेति ताम् । अलक्षयन् विलक्षत्व - योगादित्यनुयुक्तवान् ॥ ७२३ ॥ का त्वं ? सुंदरि ! मारिरस्मि तनया ते तात ! मोह ! प्रिया, किं दीनेव १ पराभवेन से कुतः ? किं कथ्यताम् कथ्यताम् । हेमाचार्यगिरा परार्ध्यगुणवान् हृद्वक्रहस्तोदरा-न्मामुत्तार्य कुमारपाल - नृपतिः पृथ्वीतलादाकृषत् ॥ ७२४ ॥ ( शार्दूलविक्रीडितम् ) तन्निशम्य ज्वलत्कोप - ज्वालाजिह्वः स तामवक् । वत्से ! मा मा स्म रोदीस्त्वं, रोदयिष्यामि ते द्विषः ॥ ७२५ ॥ संप्रत्यसौ नृपो वाक्यै - र्विप्रतार कलिंगिनाम् । विरक्तस्त्वय्यभूद् भूमे - स्तेन त्वां निरवासयत् ॥ ७२६॥ ओजायते च नितमां, हेमाचार्य प्रभावतः । ततः स्वशक्त्या संदेहे, पातयिष्ये शनै| रमुम् ॥ ७२७ ॥ अतः परं करिष्यामि तं कंचन वरं तव । यस्त्वदेकातपत्रत्वं पूर्ववत् सूत्रयिष्यति ॥ ७२८ ॥ इत्यादि
१ बहुमानेन. २ दानेन. ३ असूयां गुणेषु दोषारोपणं कृतवती ४ पृष्टवान् ५ हिंसा. * स पराभवः, कुतः कस्मात् पुरुषात्. ६ किमर्थमू. ७ धर्मसंशये.