SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ घाट्यं, न भेतव्यं च चेतसि ॥ ५७७ ॥ शिष्यैस्तथा कृते रात्रौ परिव्राड् दूरितर्व्रतः । मंजूषाभ्यास॒मध्यास्य, वक्तुमेवं प्रचक्रमे ॥ ५७८ | आजन्माप्यप्रपंचेन, प्रपंचोऽयं मयाऽखिलः । भवन्निमित्तं विदघे, 'विधेयेन मनोभुवः ॥ ५७९ ॥ पूज्य| तादेवताऽवाप्ते - रिहामुत्र च यद्धितम् । युष्मत्कृते मयाऽमोचि, तृणवत् तदपि व्रतम् ॥ ५८० ॥ तत्प्रसद्यानवद्यांग्यौ ?, युवाभ्यां स्मरतापितम् । निजांगसंगमरसै - निर्वाप्यं मामकांगकम् ॥ ५८१ ॥ इत्याद्यालप्य पेटायाः, स द्वारमुदजीघटत् । रुषोत्कटे मर्कटिके, विकेटे निर्गते ततः ॥ ५८२ ॥ चतुर्भिः कलापकम् ॥ क्षुधिते ते तृषार्त्ते च, संकोचात् प्रच्युते चिरात् । तमसा द्वारमप्राप्य तमेवात्तुं विलेगतुः ॥ ५८३ ॥ आभ्यां निभाव्य स्त्रीरूपं, कर्मैतन्निर्ममेऽमुना । इतीव तस्य वानयप्राग्व्यदारयतां दृशौ ॥ ५८४ ॥ इदं दुष्कर्मलग्नस्य, परित्राजोऽस्य नोचितम् । ते तन्नक्रमतो नूनं, त्रोटयांचक्रतुः क्रुधा ॥ ५८५ ॥ अनेनैव सुशर्माऽयं दध्यौ दुष्टमिति ध्रुवम् । मर्कट्यौ खंडशस्तस्य, हृदयं परितेनतुः ॥ ५८६ ॥ परींगनापरिध्वंग - रंगोऽनेनाऽयमैहत । तस्येतीवाखिलं गात्रं, मुहुर्भक्षयतः स्म ते ॥ ५८७ ॥ इत्थं शाखामृगीभ्यां स भक्ष्यमाणाखिलांगकः । व्याकुलात्मा सपूत्कारं, स्वशिष्यानिदमूचिवान् ॥ ५८८ ॥ रेरे केनापि पापेन, मद्विषा मर्कटीर्जुषा । मंजूषा प्रेषिता ताभ्यां दार्यमाणोऽस्मि मेषवत् ॥ ५८९ ॥ द्वारमुद्घाट्यतां तूर्णं, गुरुणा कार्यमस्ति चेत् | नो चेदहं प्रेमीतो, ऽस्मि, युष्माकं तिष्ठतामपि ॥ ५९० ॥ गुरौ बुंबापरेऽप्येवं, शिष्यास्तद्वारिताः पुरा । तद्विद्याविकृतं मत्वा, द्वारं नैवोदजी 1 १ दूरितं दूरं गतं व्रतं यस्य सः २ वशंगतेन. ३ व्रतम्. ४ तस्मात् ५ महत्यौ ६ बन्धनात् छुटिते. ७ दृग्भ्याम् ८ नक्रं नासिका ९ हृदयेन. १० परख्यालिंगनानन्दः ११ गात्रेण. १२ युता, प्र. १३ मृतः.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy