SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ कुमार ॥ ५६४ ॥ युग्मम् ॥ अथ सा सहसाऽऽयांती, मंजूषा क्रीडितांभसि । एतन्महापुरेशेन, सुभीमेन न्यभाल्यत ॥ ५६५ ।। पालच. आनाग्य तो समुद्घाट्य, प्रतिकुंचिकया रयात् । स्वःकन्ये इव ते कन्ये, सुभीमस्तत्र दृष्टवान् ॥ ५६६ ॥ किमेते मूल जातत्वाद् , विषकन्यात्वतोऽथवा । त्यक्त गंगाऽर्थनार्थ वा, मुक्के निर्दूषणे भपि ॥ ५६७ ॥ इत्याद्यनल्पसंदेहो, भूपस्तद्रूप॥१०४॥ मोहितः । ते स्त्रियौ जगृहे को हि, स्त्रीरत्नं हस्तगं त्यजेत् ? ॥५६८॥ युग्मम् ॥ तत्रान्यस्त्रीद्वयन्यास-मंत्रमेकस्य मंत्रिणः। मुक्त्वाऽन्याऽमात्यमंत्रेण, वनादानाय्य तत्क्षणम् ॥ ५६९॥ क्षिप्त्वा च मर्कटीयुग्मं, तालयित्वा च पूर्ववत् । सुभीमः प्लावयामास, पुनः पेटां सरिजले ॥ ५७० ॥ युग्मम् ॥ शिष्यास्ते तां समायांती, दृष्ट्वा कृष्ट्वा च वेगतः । मठापवरकेऽमुंचननर्थमिव देहिनम् ॥ ५७१ ॥ सुशर्माऽथ कृतोन्माथः, पृथुमन्मथहेतिभिः। दिनांतं दृष्टवान् स्वस्य, दिनांतमिव भूरिशः ॥ ५७२ ॥ कर्मसाक्ष्यपि सर्वेषां, तदा तत्कर्म पीक्षितुम् । अनीश इव तेत्पुण्य-मिवास्तं तरणिययौ ॥ ५७३ ॥ श्रेष्ठिकन्ये प्रति प्रौढं-स्तद्राग इव मूर्तिमान् ।रंजयन्निखिलं व्योम, संध्यारागोऽस्फुरत्सतः॥५७४॥ परिवाजोऽतिदुर्ध्यान-संजातैदुरितैरिव । तमोभिानशे लोकः, समुद्ग इव कज्जलैः॥ ५७५ ॥ स स्वशिष्यान् जगौ विद्या, साधयिष्याम्यहं निशि । युष्माभिस्तालयित्वोच्चै-रं स्थेयं मठाद्वहिः॥ ५७६ ॥ कोकूयमाना सो दुष्टा, द्वारमुद्घाटयेद् यदि । तथापि न तदुद् १ स्वर्गकन्ये. २ मूलनक्षत्रजाता कन्या कुलनाशिनी भवति अतः. ३ पेटायाम्. ४ आरामात्. ५ उत्पादितोन्मादः. ६ शनैः. ७ आयुषो दिनान्तमिव-भाग्यान्त र ID मिव वा. ८ असमर्थः. तापसपुण्यमिव. १. उत्कट:. ११ तापसराग इव. १२ तापसस्स. ११ जगत. १४ भृशं पुनः पुनः वा कवते इति कोकूयते, इति ||DI कोकूयमाना (कु-शन्दे-यबन्तं). १५ विद्या. SUGGAGASASAASAASAASAASAS ॥१०४॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy